व्यास उवाच-
विश्वास-प्रस्तुतिः
मार्गशीर्षे द्विजश्रेष्ठ महालक्ष्म्या समन्वितम्
पूजयेदव्ययं विष्णुं भक्तिभावेन वैष्णवः ॥ १ ॥
मूलम्

म्लेच्छदेशे च विप्रेन्द्र तथैव पतितालये
दुर्गन्धैश्च परिव्याप्ते स्थाने विष्णुं न पूज्येत् ॥ २ ॥

पाखण्डानां समीपे च महापातकिनां तथा
असत्यभाषिणां चैव न कुर्याद्विष्णुपूजनम् ॥ ३ ॥

क्रन्दतां सन्निधौ चापि कलहानपि कुर्वताम्
तथोपहसतां स्थाने न कुर्यात्पूजनं हरेः ॥ ४ ॥

प्रतिग्रहरतानां च स्थाने विष्णुं न पूजयेत्
कृपणानां गृहे चैव परवित्ताभिलाषिणाम् ॥ ५ ॥

तथा कपटवृत्तीनां न कुर्याद्विष्णुपूजनम्
नारायणार्चने विप्र परं भक्तिपरायणः ॥ ६ ॥

अन्यचित्तं परित्यज्य हरिध्यानपरो भवेत्
हाहाकारं च निश्वासं विस्मयं स द्विजोत्तम ॥ ७ ॥

पाखण्डजनसम्भाषं न कुर्याद्धरिपूजनम्
अनन्यमानसो भूत्वा देवदेवं जगद्गुरुम् ॥ ८ ॥

भस्मन्यपि च यत्पुष्पं दीयते लभते हरौ
चिन्तागमशतश्रान्तः शिलाचक्रेष्वपि द्विज ॥ ९ ॥

पुष्पं ददाति यन्मर्त्यो न लभेदथ तत्प्रभुः
अनन्यमानसो भूत्वा भक्त्या विष्णुं यजेद्बुधः ॥ १० ॥

भ्रान्तचित्तेन यत्कर्म क्रियते तच्च निष्फलम्
सर्वकर्म मनोधीनं मनोधीनं जगत्त्रयम् ॥ ११ ॥

तस्मान्मनो दृढीकृत्य पूजयेत्कमलापतिम्
पूजान्यत्र मनोऽन्यत्र भवेद्यस्य द्विजोत्तम ॥ १२ ॥

न च तस्य फलेत्कार्यं कल्पकोटिशतैरपि
यत्नाद्विहितशौचोऽपि विष्णुपूजापरोऽपि च ॥ १३ ॥

मनःशुद्धिविहीनश्चेच्चाण्डाल इव गम्यते
अभक्त्या यत्तपस्तप्तं सुचिरं विधिना द्विज ॥ १४ ॥

भवेन्निरर्थकं सर्वं केवलं कायशोधनम्
मेरुप्रमाणकं स्वर्णं ब्राह्मणाय कुटुम्बिने ॥ १५ ॥

दत्तमभ्यर्थनाशाय अभक्त्या श्रेयसेऽपि च
तस्मादेकमना भूत्वा भक्तिश्रद्धासमन्वितः ॥ १६ ॥

सवास्तुकादि शाकं च दद्यात्सदसि वैष्णवे
नारङ्गस्य फलं दिव्यं सुपक्वं यस्तु यच्छति ॥ १७ ॥

केशवाय द्विजश्रेष्ठ सोऽस्माभिरभिपूज्यते
यत्नेन नूतनं वस्तु प्रियं भगवतो हरेः ॥ १८ ॥

तदेवाग्रयणे मासि भक्त्या दद्यान्मुरारये
पौषे मासि समायाते श्रीकृष्णं वरदं प्रभुम् ॥ १९ ॥

देवमिक्षुरसैर्दिव्यैः स्नापयेद्वैष्णवो जनः
यः स्नापयति विप्रेन्द्र विष्णुमिक्षुरसैः प्रभुम् ॥ २० ॥

इह भुङ्क्ते सुखं सर्वं मृतो यातीक्षुसागरम्
यो दद्यादिक्षुनैवेद्यं देवदेवाय विष्णवे ॥ २१ ॥

सोऽपि तत्फलमाप्नोति किमन्यैर्बहुभाषितैः
सुदुग्धपृथुकं पौषे दधिभिर्वा समन्वितम् ॥ २२ ॥

दत्वा मुरारये मर्त्यः सर्वान्कामानवाप्नुयात्
सर्वैः पुरातनं वस्त्रं दूरीकृत्य मुरारये ॥ २३ ॥

शीतस्य वारणार्थाय दद्याद्वस्त्रं च नूतनम्
पौषसङ्क्रमणे विप्र सलक्ष्मीकाय विष्णवे ॥ २४ ॥

दद्यान्मुमुक्षुर्मनुजो दशवर्णं च पीठकम्
यस्तु शङ्खध्वनिं कुर्यात्सम्पूज्य कमलापतिम् ॥ २५ ॥

तस्य पुण्यफलं वच्मि शृणु वत्स समाहितः
अगम्यागमनाद्यैश्च विमुक्तः सर्वपातकैः ॥ २६ ॥

अन्ते विष्णुपुरं गत्वा विष्णुना सह मोदते
वैनतेयाङ्कितां घण्ण्टां यस्तु वादयते हरेः ॥ २७ ॥

पूजाकाले द्विजश्रेष्ठ तस्य पुण्यं वदाम्यहम्
अभक्ष्यभक्षणाद्यैश्च विमुक्तः सर्वपातकैः ॥ २८ ॥

प्रयाति मन्दिरं विष्णो रथमारुह्य शोभनम्
तत्र भुक्त्वाखिलान्कामान्कल्पकोटिशतावधि ॥ २९ ॥

पुनरागत्य धरणीं चतुर्वेदी द्विजोत्तमः
तत्र भुक्त्वाखिलान्कामान्कल्पकोटिशतावधि ॥ ३० ॥

पुनर्विष्णुपुरं गत्वा मोक्षं प्राप्नोत्यनुत्तमम्
वीणां वादयते यस्तु पूजाकाले जगत्पतेः ॥ ३१ ॥

पण्डितानामग्रणीः स्यात्स मर्त्यः प्रतिजन्मनि
मृदङ्गवाद्यकृद्यस्तु पूजायां कैटभद्विषः ॥ ३२ ॥

तस्य प्रसन्नो भगवान्ददात्यभिमतं फलम्
डमरुं डिडिमं चैव झर्झरीं मधुरीं तथा ॥ ३३ ॥

पटहं दुन्दुभिं चैव काहलं सिन्धुवारकम्
कांस्यं च करतालं च वेणुं वादयते तु यः ॥ ३४ ॥

पूजाकाले महाविष्णोस्तस्य पुण्यं निशामय
स्तेयार्थैः पातकैर्मुक्तो मन्दिरं याति चक्रिणः ॥ ३५ ॥

परमं ज्ञानमासाद्य तत्रैव परिमुच्यते
कलशब्दं च यः कुर्यात्पूजाकाले जगद्गुरोः ॥ ३६ ॥

मुखवाद्यं च विप्रेन्द्र तस्य पुण्यं मयोच्यते
कोटिकोटिकुलैर्युक्तः प्रयाति मन्दिरं हरेः ॥ ३७ ॥

ज्ञानमासाद्य तत्रैव मोक्षमक्षय्यमाप्नुयात्
विष्णोरायतने यस्तु भक्तियुक्तः प्रनृत्यति ॥ ३८ ॥

स याति ब्राह्मणश्रेष्ठ तद्विष्णोः परमं पदम्
यस्तु गायति गीतानि भक्त्या नारायणाग्रतः ॥ ३९ ॥

स नृपत्वमवाप्नोति गन्धर्वाणां पुरेषु च
स्तौति स्तोत्रैर्जगन्नाथं भक्त्या च वैष्णवो जनः ॥ ४० ॥

तस्य प्रसन्नो भगवान्सर्वान्कामान्प्रयच्छति
मासेमासे हरिं यस्तु विधिनानेन पूजयेत् ॥ ४१ ॥

अचिरेणैव विप्रर्षे प्रसादयति सोऽच्युतः ॥ ४२ ॥

जगदुदधिमिमं ये तर्तुमिच्छन्ति मर्त्याः प्रचुरतरगभीरं सर्वदुःखप्रदं च
परमपुरुषपादाम्भोजयुग्मं मनोज्ञं त्रिदशनिवह सेव्यन्ते च सर्वे यजन्तु ॥ ४३ ॥

इति श्रीपद्मपुराणे क्रियायोगसारे भगवत्पूजामाहात्म्यन्नाम चतुर्दशोऽध्यायः १४