०११

व्यास उवाच-

विश्वास-प्रस्तुतिः

जैमिने विधिना येन पूजितव्यो हरिः सदा
तमहं वच्मि विप्रर्षे शृणु वत्स समाहितः ॥ १ ॥

मूलम्

जैमिने विधिना येन पूजितव्यो हरिः सदा
तमहं वच्मि विप्रर्षे शृणु वत्स समाहितः ॥ १ ॥

विश्वास-प्रस्तुतिः

कल्य उत्थाय पर्यङ्काद्गृहीत्वा पात्रमम्भसाम्
बहिर्देशं व्रजेत्प्राज्ञः शीर्षमाच्छाद्य वाससा ॥ २ ॥

मूलम्

कल्य उत्थाय पर्यङ्काद्गृहीत्वा पात्रमम्भसाम्
बहिर्देशं व्रजेत्प्राज्ञः शीर्षमाच्छाद्य वाससा ॥ २ ॥

विश्वास-प्रस्तुतिः

तत्रोदीच्यां दिशि मौनी यज्ञसूत्राणि कर्णयोः
कृत्वोपविष्टः प्राज्ञस्तु मलमूत्रं विसर्जयेत् ॥ ३ ॥

मूलम्

तत्रोदीच्यां दिशि मौनी यज्ञसूत्राणि कर्णयोः
कृत्वोपविष्टः प्राज्ञस्तु मलमूत्रं विसर्जयेत् ॥ ३ ॥

विश्वास-प्रस्तुतिः

देवतायतने मार्गे गोष्ठेषु चत्वरेषु च
रथ्यायां कृष्टभूमौ च दर्भमूले तथाङ्गणे ॥ ४ ॥

मूलम्

देवतायतने मार्गे गोष्ठेषु चत्वरेषु च
रथ्यायां कृष्टभूमौ च दर्भमूले तथाङ्गणे ॥ ४ ॥

विश्वास-प्रस्तुतिः

तटिनी पुलिने चैत्त्यवृक्षमूले तथा वने
तडागवापीगर्भेषु मलमूत्रं च न त्यजेत् ॥ ५ ॥

मूलम्

तटिनी पुलिने चैत्त्यवृक्षमूले तथा वने
तडागवापीगर्भेषु मलमूत्रं च न त्यजेत् ॥ ५ ॥

विश्वास-प्रस्तुतिः

रविं चन्द्रमसं चैव द्विजान्गाश्च दिशो दश
मलमूत्रं त्यजेद्यावत्तावत्प्राज्ञो न पश्यति ॥ ६ ॥

मूलम्

रविं चन्द्रमसं चैव द्विजान्गाश्च दिशो दश
मलमूत्रं त्यजेद्यावत्तावत्प्राज्ञो न पश्यति ॥ ६ ॥

विश्वास-प्रस्तुतिः

खनितां मूषिकाद्यैश्च बिलाभ्यन्तरवर्तिनीम्
फालकृष्टां मृदं चैव न गृह्णीयाच्छौचहेतवे ॥ ७ ॥

मूलम्

खनितां मूषिकाद्यैश्च बिलाभ्यन्तरवर्तिनीम्
फालकृष्टां मृदं चैव न गृह्णीयाच्छौचहेतवे ॥ ७ ॥

विश्वास-प्रस्तुतिः

जलाज्जलं समानीय शौचं कुर्याद्विचक्षणः
पादं जलेषु वै दत्वा न शौचं कुरुते बुधः ॥ ८ ॥

मूलम्

जलाज्जलं समानीय शौचं कुर्याद्विचक्षणः
पादं जलेषु वै दत्वा न शौचं कुरुते बुधः ॥ ८ ॥

विश्वास-प्रस्तुतिः

दक्षिणाभिमुखो रात्रौ कुर्यात्प्राज्ञो बहिःक्रियाम्
शिरः प्रावृत्य वस्त्रेण ततः शौचं समाचरेत् ॥ ९ ॥

मूलम्

दक्षिणाभिमुखो रात्रौ कुर्यात्प्राज्ञो बहिःक्रियाम्
शिरः प्रावृत्य वस्त्रेण ततः शौचं समाचरेत् ॥ ९ ॥

विश्वास-प्रस्तुतिः

मृत्तिकैका प्रदातव्या लिङ्गे तिस्रस्तु वै गुदे
सप्त सव्ये करे प्राज्ञैर्हस्तयोरुभयोर्दश ॥ १० ॥

मूलम्

मृत्तिकैका प्रदातव्या लिङ्गे तिस्रस्तु वै गुदे
सप्त सव्ये करे प्राज्ञैर्हस्तयोरुभयोर्दश ॥ १० ॥

विश्वास-प्रस्तुतिः

पादयोः षट्प्रदातव्या मृत्तिका च विचक्षणैः
कृतशौचक्रियः प्राज्ञः कुर्याद्दन्तस्य धावनम् ॥ ११ ॥

मूलम्

पादयोः षट्प्रदातव्या मृत्तिका च विचक्षणैः
कृतशौचक्रियः प्राज्ञः कुर्याद्दन्तस्य धावनम् ॥ ११ ॥

विश्वास-प्रस्तुतिः

जिह्वपामार्जनं चैव दशनाच्छादनादिभिः
दक्षिणाभिमुखो भूत्वा पश्चिमाभिमुखस्तथा ॥ १२ ॥

मूलम्

जिह्वपामार्जनं चैव दशनाच्छादनादिभिः
दक्षिणाभिमुखो भूत्वा पश्चिमाभिमुखस्तथा ॥ १२ ॥

विश्वास-प्रस्तुतिः

न दन्तधावनं कुर्यात्कुर्याच्चेन्नारकी भवेत्
मध्यमानामिकाभ्यां च वृद्धाङ्गुष्ठेन च द्विज ॥ १३ ॥

मूलम्

न दन्तधावनं कुर्यात्कुर्याच्चेन्नारकी भवेत्
मध्यमानामिकाभ्यां च वृद्धाङ्गुष्ठेन च द्विज ॥ १३ ॥

विश्वास-प्रस्तुतिः

दन्तस्य धावनं कुर्यान्न तर्जन्या कदाचन
अश्वत्थवटवृक्षाणां धात्र्या कैथिकया बुधः ॥ १४ ॥

मूलम्

दन्तस्य धावनं कुर्यान्न तर्जन्या कदाचन
अश्वत्थवटवृक्षाणां धात्र्या कैथिकया बुधः ॥ १४ ॥

विश्वास-प्रस्तुतिः

न दन्तधावनं कुर्यात्तथेन्द्रस्यसुरस्य च
नित्यं क्रियाफलं तस्य सर्वमेव विनश्यति ॥ १५ ॥

मूलम्

न दन्तधावनं कुर्यात्तथेन्द्रस्यसुरस्य च
नित्यं क्रियाफलं तस्य सर्वमेव विनश्यति ॥ १५ ॥

विश्वास-प्रस्तुतिः

यः स्नानसमये कुर्याज्जैमिने दन्तधावनम्
निराशाः पितरो यान्ति तस्य देवाः सुरर्षयः ॥ १६ ॥

मूलम्

यः स्नानसमये कुर्याज्जैमिने दन्तधावनम्
निराशाः पितरो यान्ति तस्य देवाः सुरर्षयः ॥ १६ ॥

विश्वास-प्रस्तुतिः

दन्तस्य धावनं कुर्याद्यो मध्याह्नापराह्णयोः
तस्य पूजां न गृह्णन्ति देवताः पितरो जलम् ॥ १७ ॥

मूलम्

दन्तस्य धावनं कुर्याद्यो मध्याह्नापराह्णयोः
तस्य पूजां न गृह्णन्ति देवताः पितरो जलम् ॥ १७ ॥

विश्वास-प्रस्तुतिः

स्नानकाले पुष्करिण्यां यः कुर्याद्दन्तधावनम्
ततो ज्ञेयः स चाण्डालो यावद्गङ्गां न पश्यति ॥ १८ ॥

मूलम्

स्नानकाले पुष्करिण्यां यः कुर्याद्दन्तधावनम्
ततो ज्ञेयः स चाण्डालो यावद्गङ्गां न पश्यति ॥ १८ ॥

विश्वास-प्रस्तुतिः

भगवत्युदिते सूर्ये यः कुर्याद्दन्तधावनम्
तद्दन्तकाष्ठं पितरो भुक्त्वा गच्छन्ति दुःखिनः ॥ १९ ॥

मूलम्

भगवत्युदिते सूर्ये यः कुर्याद्दन्तधावनम्
तद्दन्तकाष्ठं पितरो भुक्त्वा गच्छन्ति दुःखिनः ॥ १९ ॥

विश्वास-प्रस्तुतिः

उपवासदिने विप्र पितृश्राद्धदिने तथा
न तत्फलमवाप्नोति दन्तधावनकृन्नरः ॥ २० ॥

मूलम्

उपवासदिने विप्र पितृश्राद्धदिने तथा
न तत्फलमवाप्नोति दन्तधावनकृन्नरः ॥ २० ॥

विश्वास-प्रस्तुतिः

प्रभाते मार्जयेद्दन्तान्वाससा रसनां तथा
कुर्याद्द्वादश विप्रेन्द्र कल्लोलानि जलैर्बुधः ॥ २१ ॥

मूलम्

प्रभाते मार्जयेद्दन्तान्वाससा रसनां तथा
कुर्याद्द्वादश विप्रेन्द्र कल्लोलानि जलैर्बुधः ॥ २१ ॥

विश्वास-प्रस्तुतिः

उपवासे पितृश्राद्धे विधिनाऽनेन जैमिने
दन्तधावनकृन्मर्त्यः सम्पूर्णं लभते फलम् ॥ २२ ॥

मूलम्

उपवासे पितृश्राद्धे विधिनाऽनेन जैमिने
दन्तधावनकृन्मर्त्यः सम्पूर्णं लभते फलम् ॥ २२ ॥

विश्वास-प्रस्तुतिः

अनेन विधिना कृत्वा दीर्घदर्शी बहिः क्रियाम्
ततो निजगृहं गत्वा रात्रिवस्त्रं परित्यजेत् ॥ २३ ॥

मूलम्

अनेन विधिना कृत्वा दीर्घदर्शी बहिः क्रियाम्
ततो निजगृहं गत्वा रात्रिवस्त्रं परित्यजेत् ॥ २३ ॥

विश्वास-प्रस्तुतिः

ततो देवगृहद्वारे चोपविष्टो बुधः शुचिः
स्मरेन्नारायणं देवमनन्तं परमेश्वरम् ॥ २४ ॥

मूलम्

ततो देवगृहद्वारे चोपविष्टो बुधः शुचिः
स्मरेन्नारायणं देवमनन्तं परमेश्वरम् ॥ २४ ॥

विश्वास-प्रस्तुतिः

रामश्यामतनो विष्णो नारायण दयामय
जनार्दन जगद्धाम पापं मे हर केशव ॥ २५ ॥

मूलम्

रामश्यामतनो विष्णो नारायण दयामय
जनार्दन जगद्धाम पापं मे हर केशव ॥ २५ ॥

विश्वास-प्रस्तुतिः

पीताम्बरधरानन्त पद्मनाभ जगन्मय
वामन प्रणतस्येश विभो त्वं शरणं भव ॥ २६ ॥

मूलम्

पीताम्बरधरानन्त पद्मनाभ जगन्मय
वामन प्रणतस्येश विभो त्वं शरणं भव ॥ २६ ॥

विश्वास-प्रस्तुतिः

दामोदर यदुश्रेष्ठ श्रीकृष्ण करुणार्णव
कमलेक्षण देवेन्द्र वासुदेव कृपां कुरु ॥ २७ ॥

मूलम्

दामोदर यदुश्रेष्ठ श्रीकृष्ण करुणार्णव
कमलेक्षण देवेन्द्र वासुदेव कृपां कुरु ॥ २७ ॥

विश्वास-प्रस्तुतिः

गरुडध्वज गोविन्द विश्वम्भर गदाधर
शङ्खपाणे चक्रपाणे पद्महस्त हरापदः ॥ २८ ॥

मूलम्

गरुडध्वज गोविन्द विश्वम्भर गदाधर
शङ्खपाणे चक्रपाणे पद्महस्त हरापदः ॥ २८ ॥

विश्वास-प्रस्तुतिः

लक्ष्मीविलास वैकुण्ठ हृषीकेश सुरोत्तम
पुरुषोत्तम कंसारे कैटभारे भयं हर ॥ २९ ॥

मूलम्

लक्ष्मीविलास वैकुण्ठ हृषीकेश सुरोत्तम
पुरुषोत्तम कंसारे कैटभारे भयं हर ॥ २९ ॥

विश्वास-प्रस्तुतिः

श्रीपते श्रीधर विभो श्रीद श्रीकर माधव
परम्ब्रह्म परन्धाम शरणं मे भवाव्यय ॥ ३० ॥

मूलम्

श्रीपते श्रीधर विभो श्रीद श्रीकर माधव
परम्ब्रह्म परन्धाम शरणं मे भवाव्यय ॥ ३० ॥

विश्वास-प्रस्तुतिः

इत्थं कृत्वा द्विजश्रेष्ठ श्रीविष्णुस्मरणं बुधः
बद्धाञ्जलिरिति ब्रूते प्रविश्य निलयं गतः ॥ ३१ ॥

मूलम्

इत्थं कृत्वा द्विजश्रेष्ठ श्रीविष्णुस्मरणं बुधः
बद्धाञ्जलिरिति ब्रूते प्रविश्य निलयं गतः ॥ ३१ ॥

विश्वास-प्रस्तुतिः

ईश्वर श्रीपते कृष्ण देवकीनन्दन प्रभो
निद्रां मुञ्च जगन्नाथ प्रभातसमयोऽभवत् ॥ ३२ ॥

मूलम्

ईश्वर श्रीपते कृष्ण देवकीनन्दन प्रभो
निद्रां मुञ्च जगन्नाथ प्रभातसमयोऽभवत् ॥ ३२ ॥

विश्वास-प्रस्तुतिः

अथोस्थितमिव प्राज्ञः पर्यङ्के देवकीसुतम्
निद्रां त्यक्त्वा सलक्ष्मीकं चिन्तयेन्निज चेतसा ॥ ३३ ॥

मूलम्

अथोस्थितमिव प्राज्ञः पर्यङ्के देवकीसुतम्
निद्रां त्यक्त्वा सलक्ष्मीकं चिन्तयेन्निज चेतसा ॥ ३३ ॥

विश्वास-प्रस्तुतिः

ततः कृतच्छदं दिव्यं पात्रं च जलपूरितम्
मुखप्रक्षालनार्थाय दद्यात्कृष्णाय वैष्णवः ॥ ३४ ॥

मूलम्

ततः कृतच्छदं दिव्यं पात्रं च जलपूरितम्
मुखप्रक्षालनार्थाय दद्यात्कृष्णाय वैष्णवः ॥ ३४ ॥

विश्वास-प्रस्तुतिः

ईश्वरं वर्तनार्थाय सेवन्ते सेवका यथा
तथैव मतिमन्तोपि सेवन्ते परमेश्वरम् ॥ ३५ ॥

मूलम्

ईश्वरं वर्तनार्थाय सेवन्ते सेवका यथा
तथैव मतिमन्तोपि सेवन्ते परमेश्वरम् ॥ ३५ ॥

विश्वास-प्रस्तुतिः

यस्तु सेवकरूपेण सेवते जगदीश्वरम्
अचिरेणैव विप्रर्षे तस्य सिध्यति वाञ्छितम् ॥ ३६ ॥

मूलम्

यस्तु सेवकरूपेण सेवते जगदीश्वरम्
अचिरेणैव विप्रर्षे तस्य सिध्यति वाञ्छितम् ॥ ३६ ॥

विश्वास-प्रस्तुतिः

यथेश्वरस्य सभयाः सेवां कुर्वन्ति चेटकाः
प्राज्ञास्तथैव सेवन्ते सर्वदैव हरिं प्रभुम् ॥ ३७ ॥

मूलम्

यथेश्वरस्य सभयाः सेवां कुर्वन्ति चेटकाः
प्राज्ञास्तथैव सेवन्ते सर्वदैव हरिं प्रभुम् ॥ ३७ ॥

विश्वास-प्रस्तुतिः

निजेच्छयानया विष्णुं निर्भयः पूजयेन्नरः
कुसेवकः स एवास्ति तदा नहि भवेद्द्विज ॥ ३८ ॥

मूलम्

निजेच्छयानया विष्णुं निर्भयः पूजयेन्नरः
कुसेवकः स एवास्ति तदा नहि भवेद्द्विज ॥ ३८ ॥

विश्वास-प्रस्तुतिः

अतएव द्विजश्रेष्ठ त्वरया कमलापतेः
कर्त्तव्या सर्वदा सेवा पुंसा कैवल्यमिच्छुना ॥ ३९ ॥

मूलम्

अतएव द्विजश्रेष्ठ त्वरया कमलापतेः
कर्त्तव्या सर्वदा सेवा पुंसा कैवल्यमिच्छुना ॥ ३९ ॥

विश्वास-प्रस्तुतिः

निर्माल्यं रात्रिवस्त्रं च गन्धं पर्युषितं तथा
हरेरुत्तारयेदङ्गात्प्रभाते वैष्णवो जनः ॥ ४० ॥

मूलम्

निर्माल्यं रात्रिवस्त्रं च गन्धं पर्युषितं तथा
हरेरुत्तारयेदङ्गात्प्रभाते वैष्णवो जनः ॥ ४० ॥

विश्वास-प्रस्तुतिः

ततो देवालये तस्मिन्स्वयमेव हि मार्जयेत्
कुर्याच्छनैःशनैः प्राज्ञः सम्मार्जन्या परिष्क्रियाम् ॥ ४१ ॥

मूलम्

ततो देवालये तस्मिन्स्वयमेव हि मार्जयेत्
कुर्याच्छनैःशनैः प्राज्ञः सम्मार्जन्या परिष्क्रियाम् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

यावन्तो निलयात्तस्माद्गच्छन्ति रेणवो बहिः
तावन्मन्वन्तरशतं तिष्ठेद्विष्णुगृहे नरः ॥ ४२ ॥

मूलम्

यावन्तो निलयात्तस्माद्गच्छन्ति रेणवो बहिः
तावन्मन्वन्तरशतं तिष्ठेद्विष्णुगृहे नरः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

यस्तु सम्मार्जनं कुर्याद्ब्रह्महापि हरेर्गृहे
सोपि याति परं धाम किमन्यैर्बहुभाषितैः ॥ ४३ ॥

मूलम्

यस्तु सम्मार्जनं कुर्याद्ब्रह्महापि हरेर्गृहे
सोपि याति परं धाम किमन्यैर्बहुभाषितैः ॥ ४३ ॥

विश्वास-प्रस्तुतिः

तथोपलेपनं कुर्यादूर्णकैर्गोमयैर्द्विज
तस्मिन्विष्णुगृहे प्राज्ञः स्मरेन्नारायणं प्रभुम् ॥ ४४ ॥

मूलम्

तथोपलेपनं कुर्यादूर्णकैर्गोमयैर्द्विज
तस्मिन्विष्णुगृहे प्राज्ञः स्मरेन्नारायणं प्रभुम् ॥ ४४ ॥

विश्वास-प्रस्तुतिः

यस्तूपलेपनं कुर्यात्केशवस्य च मन्दिरे
तस्य पुण्यमहं वच्मि सङ्क्षेपाच्छृणु जैमिने ॥ ४५ ॥

मूलम्

यस्तूपलेपनं कुर्यात्केशवस्य च मन्दिरे
तस्य पुण्यमहं वच्मि सङ्क्षेपाच्छृणु जैमिने ॥ ४५ ॥

विश्वास-प्रस्तुतिः

रजांसि तत्र यावन्ति विनश्यन्ति द्विजोत्तम
तावत्कल्पसहस्राणि तिष्ठेद्विष्णुगृहे सुखी ॥ ४६ ॥

मूलम्

रजांसि तत्र यावन्ति विनश्यन्ति द्विजोत्तम
तावत्कल्पसहस्राणि तिष्ठेद्विष्णुगृहे सुखी ॥ ४६ ॥

विश्वास-प्रस्तुतिः

सम्मार्जनं विष्णुगृहे जनः कृत्वोपलेपनम्
लभते परमं धाम किं पूजाफलवित्प्रभोः ॥ ४७ ॥

मूलम्

सम्मार्जनं विष्णुगृहे जनः कृत्वोपलेपनम्
लभते परमं धाम किं पूजाफलवित्प्रभोः ॥ ४७ ॥

विश्वास-प्रस्तुतिः

देव राज विरोधेन न शक्नोति यदा स्वयम्
तदा विष्णुगृहे चापि धर्मपत्नीं नियोजयेत् ॥ ४८ ॥

मूलम्

देव राज विरोधेन न शक्नोति यदा स्वयम्
तदा विष्णुगृहे चापि धर्मपत्नीं नियोजयेत् ॥ ४८ ॥

विश्वास-प्रस्तुतिः

अथवा तनयं भक्तं सुचरित्रं तथात्मनः
भ्रातरं भगिनीं वापि देवागारे नियोजयेत् ॥ ४९ ॥

मूलम्

अथवा तनयं भक्तं सुचरित्रं तथात्मनः
भ्रातरं भगिनीं वापि देवागारे नियोजयेत् ॥ ४९ ॥

विश्वास-प्रस्तुतिः

हरेः सपर्यावस्तूनि सप्तधा शुद्धवारिभिः
प्रक्षालयेत्त्रिधा वापि स्वयमेवातियत्नतः ५० 7.11.50
अम्लेन ताम्रपात्राणि कांस्यपात्राणि भस्मना
वह्निना लोहपात्राणि शुध्यन्ति नात्र संशयः ॥ ५१ ॥

धनाढ्यो लोहपात्रस्थैर्यः स्नापयति वारिभिः
नारायणं जगन्नाथं तस्य तुष्टो न केशवः ॥ ५२ ॥

मूलम्

धनाढ्यो लोहपात्रस्थैर्यः स्नापयति वारिभिः
नारायणं जगन्नाथं तस्य तुष्टो न केशवः ॥ ५२ ॥

विश्वास-प्रस्तुतिः

अज्ञानाद्वापि चेत्तर्हि गङ्गास्नानेन शुद्ध्यति
सम्पदि ब्राह्मणश्रेष्ठ कर्त्तव्यो नियमः सदा ॥ ५३ ॥

मूलम्

अज्ञानाद्वापि चेत्तर्हि गङ्गास्नानेन शुद्ध्यति
सम्पदि ब्राह्मणश्रेष्ठ कर्त्तव्यो नियमः सदा ॥ ५३ ॥

विश्वास-प्रस्तुतिः

विपत्त्यां नियमो नास्ति शास्त्रेष्विति विनिश्चयः
यत्नात्प्रक्षालितः शङ्खो यदा भूमिं स्पृशेत्पुनः ॥ ५४ ॥

मूलम्

विपत्त्यां नियमो नास्ति शास्त्रेष्विति विनिश्चयः
यत्नात्प्रक्षालितः शङ्खो यदा भूमिं स्पृशेत्पुनः ॥ ५४ ॥

विश्वास-प्रस्तुतिः

तदा स शङ्खो विप्रेन्द्र शतधौतेन शुध्यति
इत्थं प्रक्षाल्य यत्नेन पूजाद्रव्याणि चक्रिणः ॥ ५५ ॥

मूलम्

तदा स शङ्खो विप्रेन्द्र शतधौतेन शुध्यति
इत्थं प्रक्षाल्य यत्नेन पूजाद्रव्याणि चक्रिणः ॥ ५५ ॥

विश्वास-प्रस्तुतिः

गृहीत्वा स्नानवस्तूनि स्नानार्थं सरसीं व्रजेत्
अकृत्वा स्नानकर्माणि गृहमायाति यः पुनः ॥ ५६ ॥

मूलम्

गृहीत्वा स्नानवस्तूनि स्नानार्थं सरसीं व्रजेत्
अकृत्वा स्नानकर्माणि गृहमायाति यः पुनः ॥ ५६ ॥

विश्वास-प्रस्तुतिः

तस्मिन्दिने पितृगणस्तस्य नाप्नोति तर्पणम्
स्नानार्थं भोजनार्थं वा गच्छतो विघ्नकृद्भवेत् ॥ ५७ ॥

मूलम्

तस्मिन्दिने पितृगणस्तस्य नाप्नोति तर्पणम्
स्नानार्थं भोजनार्थं वा गच्छतो विघ्नकृद्भवेत् ॥ ५७ ॥

विश्वास-प्रस्तुतिः

यस्तु मोहाद्द्विजश्रेष्ठ स नूनं नारकी भवेत्
स्नानार्थं सरसीं गत्वा मलमूत्रं करोति यः ॥ ५८ ॥

मूलम्

यस्तु मोहाद्द्विजश्रेष्ठ स नूनं नारकी भवेत्
स्नानार्थं सरसीं गत्वा मलमूत्रं करोति यः ॥ ५८ ॥

विश्वास-प्रस्तुतिः

पितरस्तस्य विण्वमूत्रभोजिनः स्युर्न संशयः
ततः कृत्वा विधानेन स्नानं च तर्पणादिकम् ॥ ५९ ॥

मूलम्

पितरस्तस्य विण्वमूत्रभोजिनः स्युर्न संशयः
ततः कृत्वा विधानेन स्नानं च तर्पणादिकम् ॥ ५९ ॥

विश्वास-प्रस्तुतिः

स्वकीयं गृहमागच्छेत्स्मरेन्नारायणं बुधः
ततश्च प्राङ्गणे विप्र प्रक्षाल्य चरणद्वयम् ॥ ६० ॥

मूलम्

स्वकीयं गृहमागच्छेत्स्मरेन्नारायणं बुधः
ततश्च प्राङ्गणे विप्र प्रक्षाल्य चरणद्वयम् ॥ ६० ॥

विश्वास-प्रस्तुतिः

प्रविशेद्देवतागारं शुचिर्ब्राह्मणसत्तमः
अप्रक्षालितपादो यः प्रविशेन्निलयं जनः ॥ ६१ ॥

मूलम्

प्रविशेद्देवतागारं शुचिर्ब्राह्मणसत्तमः
अप्रक्षालितपादो यः प्रविशेन्निलयं जनः ॥ ६१ ॥

विश्वास-प्रस्तुतिः

संवत्सरकृतं पुण्यं तस्य नश्यति तत्क्षणात्
स्नानं कृत्वा समागत्य प्राङ्गणेषु विचक्षणः ॥ ६२ ॥

मूलम्

संवत्सरकृतं पुण्यं तस्य नश्यति तत्क्षणात्
स्नानं कृत्वा समागत्य प्राङ्गणेषु विचक्षणः ॥ ६२ ॥

विश्वास-प्रस्तुतिः

तस्मात्प्रक्षाल्य चरणौ प्रविशेद्देवतागृहम्
उपविश्य पादयुग्मं बुधः सव्येन पाणिना ॥ ६३ ॥

मूलम्

तस्मात्प्रक्षाल्य चरणौ प्रविशेद्देवतागृहम्
उपविश्य पादयुग्मं बुधः सव्येन पाणिना ॥ ६३ ॥

विश्वास-प्रस्तुतिः

यत्नात्प्रक्षालयेद्विप्र तथा पाणिद्वयं पुनः
पादेन पादं विप्रेन्द्र तथा दक्षिणपाणिना ॥ ६४ ॥

मूलम्

यत्नात्प्रक्षालयेद्विप्र तथा पाणिद्वयं पुनः
पादेन पादं विप्रेन्द्र तथा दक्षिणपाणिना ॥ ६४ ॥

विश्वास-प्रस्तुतिः

यश्च प्रक्षालयेन्मूढस्तं लक्ष्मीस्त्यजति ध्रुवम्
अथोपविष्टो मतिमान्केशवार्चनमारभेत् ॥ ६५ ॥

मूलम्

यश्च प्रक्षालयेन्मूढस्तं लक्ष्मीस्त्यजति ध्रुवम्
अथोपविष्टो मतिमान्केशवार्चनमारभेत् ॥ ६५ ॥

विश्वास-प्रस्तुतिः

अनन्यमानसो भूत्वा सर्वकामफलप्रदम्
मृगचर्मासने शुद्ध व्याघ्रचर्मासनेऽपि वा ॥ ६६ ॥

मूलम्

अनन्यमानसो भूत्वा सर्वकामफलप्रदम्
मृगचर्मासने शुद्ध व्याघ्रचर्मासनेऽपि वा ॥ ६६ ॥

विश्वास-प्रस्तुतिः

वस्त्रासने केवले च तथा कुशमयासने
पुष्पासने चोपविष्टः पूजयेत्कमलापतिम् ॥ ६७ ॥

मूलम्

वस्त्रासने केवले च तथा कुशमयासने
पुष्पासने चोपविष्टः पूजयेत्कमलापतिम् ॥ ६७ ॥

विश्वास-प्रस्तुतिः

काष्ठासने द्विजो विद्वान्न कुर्य्याद्विष्णुपूजनम्
विष्णुना त्वं धृता पृथ्वि सर्वेलोकास्त्वया धृताः ॥ ६८ ॥

मूलम्

काष्ठासने द्विजो विद्वान्न कुर्य्याद्विष्णुपूजनम्
विष्णुना त्वं धृता पृथ्वि सर्वेलोकास्त्वया धृताः ॥ ६८ ॥

विश्वास-प्रस्तुतिः

अतः सर्वसहे देहि वस्तुं मे स्थानमुत्तमम्
इत्युक्त्वासनमास्तीर्य वसेन्नारायणार्चकः ॥ ६९ ॥

मूलम्

अतः सर्वसहे देहि वस्तुं मे स्थानमुत्तमम्
इत्युक्त्वासनमास्तीर्य वसेन्नारायणार्चकः ॥ ६९ ॥

विश्वास-प्रस्तुतिः

दक्षिणाभिमुखो भूत्वा न कुर्याद्विष्णुपूजनम्
शङ्खे कृत्वा तु पानीयं मन्त्रपूतं सुवासितम् ॥ ७० ॥

मूलम्

दक्षिणाभिमुखो भूत्वा न कुर्याद्विष्णुपूजनम्
शङ्खे कृत्वा तु पानीयं मन्त्रपूतं सुवासितम् ॥ ७० ॥

विश्वास-प्रस्तुतिः

स्नापयेत्कमलाकान्तं कमलासहितं प्रभुम्
शङ्खेन स्नापयेद्यस्तु भगवन्तं जनार्दनम् ॥ ७१ ॥

मूलम्

स्नापयेत्कमलाकान्तं कमलासहितं प्रभुम्
शङ्खेन स्नापयेद्यस्तु भगवन्तं जनार्दनम् ॥ ७१ ॥

विश्वास-प्रस्तुतिः

तत्फलं तस्य वक्ष्यामि शृणु विप्रेन्द्र जैमिने
विप्र गो स्त्री भ्रूणहत्या सुरापानादिपातकैः ॥ ७२ ॥

मूलम्

तत्फलं तस्य वक्ष्यामि शृणु विप्रेन्द्र जैमिने
विप्र गो स्त्री भ्रूणहत्या सुरापानादिपातकैः ॥ ७२ ॥

विश्वास-प्रस्तुतिः

विमुक्तो याति वैकुण्ठं भुङ्क्ते हि सकलं सुखम्
यदि दृष्ट्वा हृषीकेशं पूजयेन्मानवो द्विज ॥ ७३ ॥

मूलम्

विमुक्तो याति वैकुण्ठं भुङ्क्ते हि सकलं सुखम्
यदि दृष्ट्वा हृषीकेशं पूजयेन्मानवो द्विज ॥ ७३ ॥

विश्वास-प्रस्तुतिः

लभते तत्तदेवाशु प्रसादात्कमलापतेः
शङ्खाभावे तु विप्रेन्द्र सुगन्धितोयकं बुधः ॥ ७४ ॥

मूलम्

लभते तत्तदेवाशु प्रसादात्कमलापतेः
शङ्खाभावे तु विप्रेन्द्र सुगन्धितोयकं बुधः ॥ ७४ ॥

विश्वास-प्रस्तुतिः

कृत्वा च तुलसीं पात्रे स्नापयेत्केशवं बुधः
ततो देवं स्नापयित्वा संस्थाप्य च वरासने ॥ ७५ ॥

मूलम्

कृत्वा च तुलसीं पात्रे स्नापयेत्केशवं बुधः
ततो देवं स्नापयित्वा संस्थाप्य च वरासने ॥ ७५ ॥

विश्वास-प्रस्तुतिः

सुगन्धैश्चन्दनैस्तस्य कुर्यात्सर्वाङ्गलेपनम्
तुलसीकाष्ठपङ्के च चक्रिणो देहपालनम् ॥ ७६ ॥

मूलम्

सुगन्धैश्चन्दनैस्तस्य कुर्यात्सर्वाङ्गलेपनम्
तुलसीकाष्ठपङ्के च चक्रिणो देहपालनम् ॥ ७६ ॥

विश्वास-प्रस्तुतिः

यः करोति जनस्तस्य प्रसन्नः सततं हरिः
तुलसीपत्रमालेयं निजगन्धसुखप्रदा ॥ ७७ ॥

मूलम्

यः करोति जनस्तस्य प्रसन्नः सततं हरिः
तुलसीपत्रमालेयं निजगन्धसुखप्रदा ॥ ७७ ॥

विश्वास-प्रस्तुतिः

दीयते ते जगन्नाथ सुप्रीतो भव सर्वदा
मन्त्रेणानेन विप्रेन्द्र तुलसीपत्रमालया ॥ ७८ ॥

मूलम्

दीयते ते जगन्नाथ सुप्रीतो भव सर्वदा
मन्त्रेणानेन विप्रेन्द्र तुलसीपत्रमालया ॥ ७८ ॥

विश्वास-प्रस्तुतिः

अलङ्कृतो महाविष्णुः प्रसन्नो न ददाति किम्
ततस्तु वैदिकैर्मन्त्रैः कर्तव्यं स्वस्तिवाचनम् ॥ ७९ ॥

मूलम्

अलङ्कृतो महाविष्णुः प्रसन्नो न ददाति किम्
ततस्तु वैदिकैर्मन्त्रैः कर्तव्यं स्वस्तिवाचनम् ॥ ७९ ॥

विश्वास-प्रस्तुतिः

दिग्बन्धनं च कर्तव्यं मन्त्रैः पौराणिकैर्बुधैः
कृष्णो रक्षतु पूर्वस्यामाग्नेय्यां देवकीसुतः ॥ ८० ॥

मूलम्

दिग्बन्धनं च कर्तव्यं मन्त्रैः पौराणिकैर्बुधैः
कृष्णो रक्षतु पूर्वस्यामाग्नेय्यां देवकीसुतः ॥ ८० ॥

विश्वास-प्रस्तुतिः

याम्यां रक्षतु दैत्यारिर्नैरृत्यां मधुसूदनः
विदिक्षु रक्षतु श्रीमानूर्ध्वं च श्रीधरः प्रभुः ॥ ८१ ॥

मूलम्

याम्यां रक्षतु दैत्यारिर्नैरृत्यां मधुसूदनः
विदिक्षु रक्षतु श्रीमानूर्ध्वं च श्रीधरः प्रभुः ॥ ८१ ॥

विश्वास-प्रस्तुतिः

अधो रक्षतु विश्वात्मा कूर्ममूर्तिः कृपामयः
ये विघ्नकारकाः सर्वे पूजाकाले भवन्ति ह ॥ ८२ ॥

मूलम्

अधो रक्षतु विश्वात्मा कूर्ममूर्तिः कृपामयः
ये विघ्नकारकाः सर्वे पूजाकाले भवन्ति ह ॥ ८२ ॥

विश्वास-प्रस्तुतिः

दूरं गच्छन्तु ते सर्वे हरिनामास्त्रताडिताः
इत्थं दिग्बन्धनं कृत्वा ततः प्रह्वः कृताञ्जलि ॥ ८३ ॥

मूलम्

दूरं गच्छन्तु ते सर्वे हरिनामास्त्रताडिताः
इत्थं दिग्बन्धनं कृत्वा ततः प्रह्वः कृताञ्जलि ॥ ८३ ॥

विश्वास-प्रस्तुतिः

वक्ष्यमाणेन मन्त्रेण सङ्कल्पं कुरुते दृढम्
मयारब्धामिमां पूजां देवदेव जनार्दन ॥ ८४ ॥

मूलम्

वक्ष्यमाणेन मन्त्रेण सङ्कल्पं कुरुते दृढम्
मयारब्धामिमां पूजां देवदेव जनार्दन ॥ ८४ ॥

विश्वास-प्रस्तुतिः

सिन्द्धिं प्रापय निर्विघ्नां प्रसीद परमेश्वर
ततस्तु कृतसङ्कल्पो वैष्णवः सर्वतत्ववित् ॥ ८५ ॥

मूलम्

सिन्द्धिं प्रापय निर्विघ्नां प्रसीद परमेश्वर
ततस्तु कृतसङ्कल्पो वैष्णवः सर्वतत्ववित् ॥ ८५ ॥

विश्वास-प्रस्तुतिः

अङ्गन्यासादिकं कृत्वा ध्यायेन्नारयणं हृदा
नवीनमेघसङ्काशं पुण्डरीकनिभेक्षणम् ॥ ८६ ॥

मूलम्

अङ्गन्यासादिकं कृत्वा ध्यायेन्नारयणं हृदा
नवीनमेघसङ्काशं पुण्डरीकनिभेक्षणम् ॥ ८६ ॥

विश्वास-प्रस्तुतिः

पीताम्बरधरं देवं स्मितचारुतराननम्
कदम्बपुष्पमालाभिर्भूषितं सुमहाभुजम् ॥ ८७ ॥

मूलम्

पीताम्बरधरं देवं स्मितचारुतराननम्
कदम्बपुष्पमालाभिर्भूषितं सुमहाभुजम् ॥ ८७ ॥

विश्वास-प्रस्तुतिः

बर्हिबर्ह(?)श्रेणिबद्धशिखण्डधृतकुण्डलम्
वंशी मधुरनादेन मोहयन्तं दिशो दश ॥ ८८ ॥

मूलम्

बर्हिबर्ह(?)श्रेणिबद्धशिखण्डधृतकुण्डलम्
वंशी मधुरनादेन मोहयन्तं दिशो दश ॥ ८८ ॥

विश्वास-प्रस्तुतिः

आवृतं गोपनारीभिश्चारुवृन्दावने स्थितम्
एवं सञ्चिन्त्य देवेशं गोविन्दं सर्वकामदम् ॥ ८९ ॥

मूलम्

आवृतं गोपनारीभिश्चारुवृन्दावने स्थितम्
एवं सञ्चिन्त्य देवेशं गोविन्दं सर्वकामदम् ॥ ८९ ॥

विश्वास-प्रस्तुतिः

ततश्चावाहनं कुर्याद्भक्तिभावेन वैष्णवः
आवाहिताय कृष्णाय चतुर्वर्गप्रदायिने ॥ ९० ॥

मूलम्

ततश्चावाहनं कुर्याद्भक्तिभावेन वैष्णवः
आवाहिताय कृष्णाय चतुर्वर्गप्रदायिने ॥ ९० ॥

विश्वास-प्रस्तुतिः

पाद्यार्घ्याचमनीयानि तत्र दद्याद्विचक्षणः
कोमलैस्तुलसीपत्रै रम्यैर्वा कुसुमैर्बुधः ॥ ९१ ॥

मूलम्

पाद्यार्घ्याचमनीयानि तत्र दद्याद्विचक्षणः
कोमलैस्तुलसीपत्रै रम्यैर्वा कुसुमैर्बुधः ॥ ९१ ॥

विश्वास-प्रस्तुतिः

पूजयेत्सर्वदेवेशं श्रीकृष्णं देवकीसुतम्
नमो मत्स्याय कूर्माय वराहाय नमोनमः ॥ ९२ ॥

मूलम्

पूजयेत्सर्वदेवेशं श्रीकृष्णं देवकीसुतम्
नमो मत्स्याय कूर्माय वराहाय नमोनमः ॥ ९२ ॥

विश्वास-प्रस्तुतिः

नमोऽस्तु हरये तुभ्यं वामनाय नमोनमः
नमो रामाय रामाय रामाय बलिने नमः ॥ ९३ ॥

मूलम्

नमोऽस्तु हरये तुभ्यं वामनाय नमोनमः
नमो रामाय रामाय रामाय बलिने नमः ॥ ९३ ॥

विश्वास-प्रस्तुतिः

नमो बुद्धाय शुद्धाय सकृपाय नमोनमः
नमोस्तु कल्किने तुभ्यं नमस्ते बहुमूर्त्तये ॥ ९४ ॥

मूलम्

नमो बुद्धाय शुद्धाय सकृपाय नमोनमः
नमोस्तु कल्किने तुभ्यं नमस्ते बहुमूर्त्तये ॥ ९४ ॥

विश्वास-प्रस्तुतिः

नारायणाय कृष्णाय गोविन्दाय च शार्ङ्गिणे
दामोदराय देवाय देवदेवाय ते नमः ॥ ९५ ॥

मूलम्

नारायणाय कृष्णाय गोविन्दाय च शार्ङ्गिणे
दामोदराय देवाय देवदेवाय ते नमः ॥ ९५ ॥

विश्वास-प्रस्तुतिः

हृषीकेशाय शान्ताय व्योमपादाय वै नमः
नमोस्तु पद्मापतये नमस्ते पद्मचक्षुषे ॥ ९६ ॥

मूलम्

हृषीकेशाय शान्ताय व्योमपादाय वै नमः
नमोस्तु पद्मापतये नमस्ते पद्मचक्षुषे ॥ ९६ ॥

विश्वास-प्रस्तुतिः

अनन्ताय नमस्तुभ्यं गदाहस्ताय वै नमः
तार्क्ष्यध्वजाय वै तुभ्यं नमस्ते चक्रपाणये ॥ ९७ ॥

मूलम्

अनन्ताय नमस्तुभ्यं गदाहस्ताय वै नमः
तार्क्ष्यध्वजाय वै तुभ्यं नमस्ते चक्रपाणये ॥ ९७ ॥

विश्वास-प्रस्तुतिः

पद्महस्ताय वै तुभ्यमच्युताय नमो नमः
नमो दैत्यारये तुभ्यं सर्वकामप्रदायिने ॥ ९८ ॥

मूलम्

पद्महस्ताय वै तुभ्यमच्युताय नमो नमः
नमो दैत्यारये तुभ्यं सर्वकामप्रदायिने ॥ ९८ ॥

विश्वास-प्रस्तुतिः

माधवाय सुरेशाय विष्णवे परमात्मने
किरीटिने कुण्डलिने नमोऽस्तु हरये सदा ॥ ९९ ॥

मूलम्

माधवाय सुरेशाय विष्णवे परमात्मने
किरीटिने कुण्डलिने नमोऽस्तु हरये सदा ॥ ९९ ॥

नमो भगवते तुभ्यं वाहनं गरुडाह्वयम्
ॐनमो गरुडायेति मन्त्रेणैव विचक्षणः १०० 7.11.100
नमः शङ्खाय चक्राय गदायै च नमोनमः
नमः पद्माय खड्गाय नन्दकाय नमोनमः १०१
इति सम्पूज्य देवेशं सदारं च सवाहनम्
सायुधं च ततो मन्त्रं जपेदष्टाक्षरं बुधः १०२
निजभक्त्या ततो जप्त्वा मन्त्रमष्टाक्षरं बुधः
गोविन्दाय ततो दद्यान्नानानैवेद्यमुत्तमम् १०३
धूपं दीपं च ताम्बूलं देवदेवाय विष्णवे
अन्यान्यप्युपहाराणि प्रदद्याद्वैष्णवो जनः १०४
यस्तु धूपं द्विजश्रेष्ठ चन्दनागरुवासितम्
दद्यान्मुरारये तस्य द्रुतं सिध्यति वाञ्छितम् १०५
धूपं यच्छति यो विप्र हरये घृतवासितम्
स गच्छेद्विष्णुभवनं विमुक्तः पापकोटिभिः १०६
नारायणाय यो धूपं दद्याद्गुग्गुलुवासितम्
स याति परमं धाम दुर्ल्लभं यत्सुरैरपि १०७
घृतेन दीपं यो दद्यात्तिलतैलेन वा पुनः
निमेषात्सकलं तस्य पापं हरति केशवः १०८
कर्पूरवासितं यस्तु ताम्बूलं चक्रपाणये
दद्यात्तस्य द्विजश्रेष्ठ मुक्तिर्भवति जैमिने १०९
यस्तु यच्छति ताम्बूलं खदिरेण समन्वितम्
इह भुक्त्वाखिलान्भोगानन्ते याति हरेः पदम् ११०
षष्ठी मधुरिकायुक्तं तथा जातिफलादिभिः
ताम्बूलं हरये दत्वा स्वर्गमाप्नोति मानवः १११
शङ्खे कृत्वा तु पानीयं कुर्याद्विष्णुप्रदक्षिणाम्
वक्ष्यमाणेन मन्त्रेण जैमिने वैष्णवो जनः ११२
जनार्दन जगद्बन्धो शरणागतपालक
त्वद्दासदासदासत्वं दासस्य देहि मे प्रभो ११३
मन्त्रेणानेन यः कुर्यान्नारायणप्रक्षिणाम्
तस्य पुण्यफलं वच्मि सङ्क्षेपाच्छृणु जैमिने ११४
ब्रह्महत्यादिपापानि यानि यानि महान्ति च
तानि तानि प्रणश्यन्ति प्रदक्षिणपदे पदे ११५
यावत्पादं नरो भक्त्या गच्छेद्विष्णुप्रदक्षिणे
तावत्कल्पसहस्राणि विष्णुना सह मोदते ११६
हरिप्रदक्षिणे यावत्पदं गच्छेच्छनैः शनैः
पदेपदेऽश्वमेधस्य फलं प्राप्नोति मानवः ११७
प्रदक्षिणीकृत्य सर्वं संसारे यत्फलं भवेत्
हरिं प्रदक्षिणीकृत्य तस्मात्कोटिगुणं फलम् ११८
अङ्गं प्रदक्षिणीकृत्य यस्तु नारायणाग्रतः
सोऽपि तत्फलमाप्नोति किमन्यैर्बहुभाषितैः ११९
न लङ्घयेत्सोमसूत्रं धीमाञ्शम्भुप्रदक्षिणे
लङ्घयित्वा यदा विप्र सा पूजा निष्फला भवेत् १२०
प्रदक्षिणा कारतया वारैकं यो हरिं व्रजेत्
जन्मजन्मनि विप्रेन्द्र सार्वभौमो भवेद्ध्रुवम् १२१
यस्तु वारद्वयं विप्र कुर्याद्विष्णुप्रदक्षिणाम्
ऐन्द्रं पदमवाप्नोति त्रिदिनेनात्र संशयः १२२
विष्णुप्रदक्षिणं यस्तु कुर्याद्वारद्वयं जनः
विमुक्तः सकलैः पापैः प्रविशेन्माधवीं तनुम् १२३
भ्रामयेत्सोदकं शङ्खं केशवोपरि जैमिने
अन्ते देवालयं गत्वा सभवेत्सुरवन्दितः १२४
प्रणमेद्दण्डवद्भूमौ सप्तधा यस्तु केशवम्
पातकं तच्छरीरस्थं भस्मीभवति तत्क्षणात् १२५
शिरस्यञ्जलिमाधाय प्रणमेद्यो जनार्दनम्
तस्मै लक्ष्मीपतिर्विष्णुर्ददाति परमं पदम् १२६
भूमौ निपात्य सर्वाङ्गं हरिं प्रणमतां नृणाम्
पुण्यप्रभावं विप्रर्षे वदतो मे निशामय १२७
यावद्भूरेणुभिर्नृणां भूषितं स्यात्कलेवरम्
तावत्कल्पसहस्राणि तिष्ठन्ति हरिसन्निधौ १२८
ततः केशवनिर्माल्यं वैष्णवेभ्यः प्रदीयते
वैष्णवांस्तान्प्रवक्ष्यामि शृणु सत्तम जैमिने १२९
शुकः सूतस्तथा व्यासो नारदः कपिलो मुनिः
प्रह्लादश्चाम्बरीषश्च तथाक्रूरोद्धवावपि १३०
बिभीषणो हनूमांश्च तथैवान्येऽपि वैष्णवाः
निर्माल्यं वासुदेवस्य गृह्णन्तु सर्वकामदम् १३१
इत्युक्त्वा विष्णुनिर्माल्यं निक्षिपेद्भुवि वैष्णवः
ततस्तु हरिनिर्माल्यं स्वयं गृह्णाति भक्तितः १३२
मस्तके दृश्यते यस्य हरिनिर्माल्यमुत्तमम्
स विज्ञेयो द्विजश्रेष्ठ साक्षादेव हरिः स्वयम् १३३
दुर्लभं विष्णुनैवेद्यं निर्माल्यं पापनाशनम्
गृह्णन्ति त्रिदशाः सर्वे मनुष्याणां च का कथा १३४
जैमिने तुलसीपत्रं यस्तु जिघ्रति वैष्णवः
तस्य देहान्तरस्थं हि सर्वं पापं विनश्यति १३५
तुलसीपत्रगन्धस्तु प्रविशेद्यस्य नासिकाम्
आपदस्तच्छरीरस्थाः सद्यो गच्छन्ति सङ्क्षयम् १३६
तुलसीछदनघ्राणमाघ्राय योऽभिनन्दति
तस्यालये भवेन्नित्यमानन्दो द्विजसत्तम १३७
स्तवैः स्तुत्वा जगन्नाथं कमलाप्रियमच्युतम्
कृताञ्जलिस्ततः प्राज्ञ इमं मन्त्रमुदीरयेत् १३८
नारायण जगद्रूप गच्छ धाम जगत्पते
गच्छ देव निजस्थानं प्रसन्नो भव सर्वदा १३९
येयं स्वशक्त्या देवेन्द्र तव पूजा कृता मया
अच्छिद्रास्तु जगन्नाथ त्वत्प्रसादाज्जगन्मय १४०
ततः पादोदकं प्राज्ञो महाविष्णोः परात्मनः
समस्तपातकध्वंसि गृह्णीयाद्भक्तिभावतः १४१
कणमात्रं वहेद्यस्तु विष्णोः पादोदकं शुभम्
स स्नातः सर्वतीर्थेषु जैमिने सत्यमुच्यते १४२
स्पृशेत्पादोदकं विष्णोर्गङ्गास्नानफलं भवेत्
गाङ्गेयं सलिलं विप्र विष्णुपादोदकं यतः १४३
अकालमरणं नास्ति नास्ति व्याधिभयं तथा
यः स्पृशेत्पादसलिलं केशवस्य महात्मनः १४४
पापव्याधिविनाशार्थं विष्णुपादोदकौषधम्
पापिनोऽपि नरास्ते च पिबन्तु प्रतिवासरम् १४५
विष्णुपादोदकं विप्र यः पिबेद्वैष्णवो जनः
पातकं तच्छरीरस्थं क्षणादेव तु नश्यति १४६
यथौषधेन देहस्थं हन्यते देहिनो भृशम्
तथैव पातकं सर्वं विष्णुपादोदकेन च १४७
विष्णुपादोदकं शुद्धं तुलसीपत्रसंयुतम्
यो वहेच्छिरसा विप्र तस्य पुण्यं वदाम्यहम् १४८
ब्रह्महत्यादिभिः पापैर्विमुक्तो विष्णुरूपधृक्
अन्ते विष्णुपुरं गत्वा विष्णुना सह मोदते १४९
मेरुप्रमाण हेमानि दत्वा भवति यत्फलम्
विष्णुपादोदकं स्पृष्ट्वा तद्भवेदधिकं फलम् १५० 7.11.150
अश्वकोटिप्रदानेन तत्फलं प्राप्यते जनैः
सप्तद्वीपां महीं दत्वा द्विजेभ्यो यत्फलं लभेत् १५१
तत्फलं लभते मर्त्यो विष्णुपादोदकं स्पृशन्
अश्वमेधसहस्राणि कृत्वा भवति यत्फलम् १५२
विष्णुपादोदकं स्पृष्ट्वा तद्भवेदधिकं फलम्
दीर्घिकाशतदानेन यत्पुण्यं परिकीर्तितम् १५३
तस्मादप्यधिकं पुण्यं लभेत्पादोदकं स्पृशन्
बहुनात्र किमुक्तेन सङ्क्षेपादुच्यते मया १५४
विष्णुपादोदकस्पर्शान्मुक्तो भवति मानवः
भूयोभूयोपि विप्रेन्द्र सुदृढं कथ्यते मया १५५
पुनर्न लभते जन्म स्पृशन्पादोदकं हरेः
विष्णुनैवेद्यशेषं यः सर्वपापविनाशनम् १५६
योऽश्नाति भक्तिभावेन स गच्छेत्परमं पदम्
दुर्लभं विष्णुनैवेद्य भुञ्जते द्विजसत्तम १५७
देहं त्यजति पापानि ब्रह्महत्यामुखान्यपि
भुञ्जतो हरिनैवेद्यं दासीव वशगा भवेत् १५८
मुक्तिभूमिः सुरश्रेष्ठ दैवतैरपि दुर्लभा
सम्पूज्य कमलाकान्तं किञ्चिन्नैवेद्यमत्यजन् १५९
अचिरेणैव तं विष्णुर्नयति स्वां तनुं प्रति
नैवेद्यस्य महाविष्णोर्गुणं किं कथयाम्यहम् १६०
यद्भुञ्जतः केशवोऽपि स्यादधीनो द्विज प्रभो
अनेन विधिना विप्र प्रतिमासे जनार्दनम् १६१
विधिहीनामपि श्रेष्ठां पूजां श्रीकमलापतेः
यः कुर्याद्भक्तिभावेन सोऽपि स्यात्केशवप्रियः १६२
विधिज्ञो विधिना विष्णुमभ्यर्च्य यत्फलं लभेत्
यथोक्तविधिना विप्र नैवेद्यैर्बहुभिः प्रभो १६३
पूजितोऽपि न तुष्टः स्याद्यदि भक्तिर्न तिष्ठति
यस्य वै यावती भक्तिर्देवदेवे जनार्दने १६४
तावदेव फलावाप्तिस्तस्य नास्त्यत्र संशयः
अभक्त्याया हरेः पूजा क्रियते भुवि मानवैः १६५
सा पूजा ब्राह्मणश्रेष्ठ पूजाकाले भवेत्किल
ज्ञानमूलं हरेर्भक्तिर्भक्तिमूलं जगत्पतेः १६६
पूजा मोक्षद्रुमोत्पत्तौ मूलमाराधनं हरेः
अल्पमात्रमपि प्राज्ञ श्रद्धया कुरुते हि यत् १६७
तदक्षयं भवेत्सर्वं श्रद्धायुक्ताखिला क्रिया
भक्त्या यः पूजयेद्विष्णुं वारिमात्रमपि द्विज १६८
संस्थानं लभते विष्णोर्यतो भक्तवशो हरिः १६९
असारमेतद्भुवनं समस्तं सारं हरेः पूजनमेव विप्र
तस्मान्मनुष्यो निजमङ्गलैषी भक्त्या यजेत्कृष्णमनन्तमूर्तिम् १७०
इति श्रीपद्मपुराणे क्रियायोगसारे हरिपूजाविधिर्नाम एकादशोऽध्यायः ११