जैमिनिरुवाच-
विश्वास-प्रस्तुतिः
माहात्म्यमेतद्गङ्गायास्त्वत्प्रसादाच्छ्रुतं मया
इदानीं श्रोतुमिच्छामि विष्णुपूजाफलं गुरो ॥ १ ॥
मूलम्

व्यास उवाच-
शृणु लक्ष्मीपतेर्वत्स सपर्या फलमुत्तमम्
यच्छ्रुत्वा मानवाः सर्वे लभन्ते ज्ञानमुत्तमम् ॥ २ ॥

विप्र द्वादशमासेषु माघादिषु सनातनः
पूजितव्यो विधानैर्यैः शृणु तानि वदाम्यहम् ॥ ३ ॥

माघेमासि समायाते सर्वमासोत्तमे शुभे
आमिषं मैथुनं चैव त्याजयेद्वैष्णवोत्तमः ॥ ४ ॥

प्रातःस्नायी भवेन्नित्यं तैलान्यपि च वर्जयेत्
द्विर्भोजनं परान्नं च माघेमासि परित्यजेत् ॥ ५ ॥

प्रातः शुक्लाम्बरधरः कृतपञ्च महाध्वरः
सपर्यामारभेद्विष्णोः स्थिरचित्तो हि मानवः ॥ ६ ॥

ईषदुष्णजलैः शुद्धैः स्नापयेद्विष्णुमव्ययम्
अतिश्लथैश्चन्दनैश्च विष्णोरङ्गानि लेपयेत् ॥ ७ ॥

पूजयेज्जगदीशस्य देवदेवस्य चक्रिणः
प्रक्षालितानि पात्राणि जलहीनानि कारयेत् ॥ ८ ॥

स्नापयित्वा जगन्नाथमीषदुष्णेन वारिणा
प्रोक्षितव्यं तच्छरीरं दिव्यवस्त्रेण यत्नतः ॥ ९ ॥

सलिलैरीषदुष्णैश्च प्रस्नापयति केशवम्
माघेमासि द्विजश्रेष्ठ फलं तस्य मयोच्यते ॥ १० ॥

विमुक्तः पातकैः सर्वैर्जन्मजन्मान्तरार्जितैः
इह भुङ्क्ते सुखं सर्वं शेषे याति हरेर्गृहम् ॥ ११ ॥

यत्नात्प्रक्षाल्य पात्राणि कृत्वाशुद्धानिवारिभिः
यः पूजयेज्जगन्नाथं तस्य पुण्यं निशामय ॥ १२ ॥

इह भुक्त्वाखिलान्कामान्सर्वव्याधिविवर्जितः
अन्ते युगसहस्राणि तिष्ठेत्केशवमन्दिरम् ॥ १३ ॥

प्रभाते विश्वसन्ध्यायां पुरतश्चक्रपाणिनः
ज्वलन्तं स्थापयेद्वह्निं निर्द्धूमं वैष्णवो जनः ॥ १४ ॥

शीतस्य वारणार्थाय सायम्प्रातश्च वैष्णवः
माघे विष्ण्वग्रतो वह्निं ज्वालयेत्तत्फलंशृणु ॥ १५ ॥

इह भुक्त्वाखिलान्कामान्पुत्रपौत्रसमन्वितः
अन्ते विष्णुपुरं याति दैवतैरपि दुर्ल्लभम् ॥ १६ ॥

यथैवात्मा तथा विष्णुः सन्देहोनात्र विद्यते
स्वपन्तं देवदेवेशं पर्यङ्कोपरि केशवम् ॥ १७ ॥

आत्मनः कुरुते मर्त्यो यथा शीतनिवारणम्
क्षीरेण स्नापयेद्यस्तु माघे मासि जनार्दनम्
तस्मै देवोत्तमो विष्णुः सन्तुष्टो न ददाति किम् ॥ १८ ॥

तथा शीतक्षयं कुर्याद्दिव्यवस्त्रेण चक्रिणः ॥ १९ ॥

यः पूजयेत्सकृन्माघे स्नापयित्वा चतुर्भुजम्
नालिकेरोदकैर्दुग्धैः फलं तस्य वदाम्यहम् ॥ २० ॥

नरकाब्धौ मज्जमानान्दुस्तरे स्वेन कर्मणा
उद्धृत्य कोटिपुरुषान्स याति चक्रिणः पदम् ॥ २१ ॥

माघे मासे च शुक्लायां पञ्चम्यां द्विजसत्तम
एकादश्यां च पञ्चम्यां हरिपूजा विशेषतः ॥ २२ ॥

दातव्यो देवदेवाय सपद्माय मुरारये
पायसो धूपसहितो माघेमासि दिने दिने ॥ २३ ॥

सधूपपायसं यस्तु माघे यच्छति चक्रिणे
तस्य पुण्यफलं वच्मि शृणु वैष्णव जैमिने ॥ २४ ॥

अन्ते विष्णुपुरं गत्वा मन्वन्तरचतुष्टयम्
भुङ्क्ते मनोरमान्भोगान्प्रसादाच्चक्रपाणिनः ॥ २५ ॥

पुनरागत्य धरणीं चक्रवर्ती नृपो भवेत्
भुङ्क्ते च भोगं सुचिरं मृतो याति हरेर्गृहम् ॥ २६ ॥

पञ्चम्यां वापि सप्तम्यामेकादश्यां च जैमिने
अशक्तो वैष्णवो दद्यात्परमान्नं मुरारये ॥ २७ ॥

कृष्णपक्षाद्दिवजश्रेष्ठ शुक्लपक्षे विशेषतः
शुक्लपक्षे तिथिष्वेषु दद्यादन्नं मुरारये ॥ २८ ॥

एकाहमपि यो माघे विष्णवे दैत्यजिष्णवे
सपूपम्पायसं दद्यान्न तस्य दुर्ल्लभो हरिः ॥ २९ ॥

यत्किच्चिद्दिवजतुष्ट्यर्थं माघेमासि प्रदीयते
तदक्षयं भवेत्पुंसः कोऽपि नास्त्यत्र संशयः ॥ ३० ॥

माघे मासि कृतं कर्म शुभं वाशुभमेव वा
तस्य नास्ति क्षयं विप्र मन्वन्तरशतैरपि ॥ ३१ ॥

माघे चम्पकपुष्पेण योऽर्चयेत्कमलापतिम्
स गच्छेत्परमं धाम विमुक्तः सर्वपातकैः ॥ ३२ ॥

यावन्ति स्वर्णपुष्पाणि दीयन्ते चक्रपाणये
तावद्युगसहस्राणि स्थीयते विष्णुमन्दिरम् ॥ ३३ ॥

मेरुतुल्यसुवर्णानि दत्वा भवति यत्फलम्
एकेन स्वर्णपुष्पेण हरिं सम्पूज्य तत्फलम् ॥ ३४ ॥

सुवर्णपुष्पं विप्रेन्द्र सर्वदा केशवप्रियम्
माघेमासि विशेषेण पवित्रं केशवप्रियम् ॥ ३५ ॥

सुवर्णकुसुमैर्दिव्यैर्येन नाराधितो हरिः
रत्नैर्हीनः सुवर्णाद्यैः स भवेज्जन्मजन्मनि ॥ ३६ ॥

फलं चम्पकपुष्पस्य ब्रवीम्यहं विशेषतः
आकर्णय द्विजश्रेष्ठ सेतिहासमनुत्तमम् ॥ ३७ ॥

सुवर्णो नाम भूपालो बलवान्सर्वशास्त्रवित्
आर्यावर्तेषु सर्वेषु बभूव विप्रवर्चसा ॥ ३८ ॥

राजश्रिया विद्यया च वयसा च स भूपतिः
अतिप्रमत्तो विप्रर्षे सदा पापरतोऽभवत् ॥ ३९ ॥

पाखण्डमन्त्रिणां वाक्यैर्विनादोषैरपि द्विज
धनलोभात्तेन राज्ञा दण्ड्यन्ते साधवो जनाः ॥ ४० ॥

अन्यायोपार्जितं वित्तं गीतवाद्यादिभिर्वृतः
समस्तं नाशयामास यज्ञदानविवर्जितः ॥ ४१ ॥

न ज्ञातिपोषणं चक्रे न देवद्विजभोजनम्
न च याचकसन्तुष्टिं सर्वदा पापमोहितः ॥ ४२ ॥

न चकारातिथेः पूजां सदा पापपरायणः
ययौ च मन्दिरान्नित्यं स भूपः पापमन्दिरः ॥ ४३ ॥

कृतानि तेन पापानि यान्यन्यान्यविवेकिनाम्
अपि वर्षशतैः शक्तः सङ्ख्यातुं जनितानि किम् ॥ ४४ ॥

एकदा स महीपालः कामेन परिमोहितः
जगाम वेश्यानिलयं निशीथे दुरिताशयः ॥ ४५ ॥

तमायान्तं ततो दृष्ट्वा भूपालमुज्ज्वलाह्वया
सहसोत्थाय पर्यङ्के चक्रे तत्पादवन्दनम् ॥ ४६ ॥

प्रक्षाल्य तत्पादयुगं भृङ्गारसलिलैश्च सा
मञ्चे निवेशयामास दोर्भ्यामालिङ्ग्य तं नृपम् ॥ ४७ ॥

तत्प्रेमामृतधाराभिः सिक्तोऽसौ पृथिवीपतिः
तस्मिन्नुवास पर्यङ्के तया सह कुतूहली ॥ ४८ ॥

ततः सा गणिका प्रीत्या हसन्ती नवयौवना
ददौ चम्पकपुष्पाणां तस्मै भूमिभुजे स्वयम् ॥ ४९ ॥

पुष्पमाला पुष्पमेकं तस्माद्भूपति हस्ततः
पपात धरणीपृष्ठे गन्धव्याप्तदिगन्तरम् ५० 7.10.50
तच्च्युतं कुसुमं दृष्ट्वा स राजाऽत्यतसम्भ्रमात्
नमोनारायणायेति जगादोङ्कारपूर्वकम् ॥ ५१ ॥

नारायणायेति वाक्यात्सर्वाणि पातकानि च
स्वर्णपुष्पप्रदानेन तस्य नष्टानि भूभुजः ॥ ५२ ॥

ग्रामीणा अथ सर्वेऽपि समागत्यातिदुर्जये
तस्यामेव निशायां तं जघ्नुर्वेश्यागृहे स्थितम् ॥ ५३ ॥

नेतुं तमथ भूपालं सर्वपातकिनां वरम्
किङ्करान्प्रेषयामास क्रुद्धो वैवस्वतो भृशम् ॥ ५४ ॥

तेनाज्ञप्तास्ततो दूताः पाशमुद्गरपाणयः
अतिवेगात्समायाताः क्रोधसंरक्तलोचनाः ॥ ५५ ॥

उद्यमं चक्रिरे नेतुं यमदूताः स्वमालयम्
ततो नारायणप्रेष्याः शङ्खचक्रगदाधराः ॥ ५६ ॥

आयाता गरुडारूढास्तं नेतुं पृथिवीपतिम्
पाशे नियन्त्रितं दृष्ट्वा तं भूपं विष्णुकिङ्कराः ॥ ५७ ॥

जघ्नुश्चक्रैर्गदाभिश्च यमदूतान्महाबलाः
समारोप्य रथे दिव्ये शङ्खान्दध्मुरनुत्तमान् ॥ ५८ ॥

तथा राजा रथारूढस्तुलसीमाल्यभूषितः
पीतकौशेयवासाश्च स्वर्णालङ्कारभूषितः ॥ ५९ ॥

स्तूयमानो मुनिगर्णैर्वेदवेदाङ्गपारगैः
विष्णुदूतैः परिवृतो हरेः सालोक्यमाययौ ॥ ६० ॥

अथोत्थाय स्वयं विष्णुश्चतुर्भिर्दीर्घबाहुभिः
तमालिङ्गितवान्भूपं प्रोक्तवांश्च द्विजोत्तम ॥ ६१ ॥

श्रीभगवानुवाच-
नृपते कुशलं ब्रूहि सर्वपुण्यात्मनां वर
किमस्ति साध्यं भवतस्तदाज्ञापय सम्प्रति ॥ ६२ ॥

नमोनारायणायेति वारैकमपि यो वदेत्
नित्यं तस्यानुपाल्योऽहं स मे भ्राता स मे पिता ॥ ६३ ॥

नारायणेति मन्नाम कदाचिद्यः स्मेरन्नरः
साधयाम्यखिलं तस्य पितुः पुत्र इवेप्सितम् ॥ ६४ ॥

भक्तोऽसि नृपतिश्रेष्ठ तस्मान्निजमनोरथम्
प्रकाशयाद्भुतं तात किं ते दास्यामि चाधुना ॥ ६५ ॥

राजोवाच-
सर्वमेव दयासिन्धो त्वया दत्तं न संशयः
पापिनापि मया प्राप्तं तव स्थानं सुदुर्ल्लभम् ॥ ६६ ॥

तस्यानेन तु वाक्येन प्रसन्नः कमलापतिः
स्नेहान्निवेशयामास भूपालं तन्निशामय ॥ ६७ ॥

ततः सुवर्णालङ्कारैर्विश्वकर्मविनिर्मितैः
चकार मण्डलं तस्य स्वयमेव दयामया ॥ ६८ ॥

अथ नानाविधैर्भक्ष्यैर्दिव्यैरपि सुदुर्ल्लभैः
तोषितः स महीपालो विष्णुनाति सहिष्णुना ॥ ६९ ॥

एवं प्रतिदिनं तस्थौ स राजा विष्णुमन्दिरम्
मन्वन्तरसहस्राणि नव वर्ष शतानि च ॥ ७० ॥

प्रजानां पालनं चक्रे स राजा धर्मतत्परः
पूजयामास सततं भक्त्या परमया हरिः ॥ ७१ ॥
मूलम्
प्रजानां पालनं चक्रे स राजा धर्मतत्परः
पूजयामास सततं भक्त्या परमया हरिः ॥ ७१ ॥
विश्वास-प्रस्तुतिः
चारु चम्पकपुष्पैश्च नैवेद्यैर्विविधैश्च सः
आयुःशेषे स भूपालो मरणं जाह्नवी जले ॥ ७२ ॥

समासाद्य ययौ मोक्षं प्रसादाच्चक्रपाणिनः
व्यास उवाच-
विप्र चम्पकपुष्पस्य प्रभावोऽयं प्रकीर्तितः ॥ ७३ ॥

चपङ्कैर्हरिमभ्यर्च्य मुक्ताः स्युः पापिनो जनाः
स्फुटचम्पकपुष्पेण पूजितो भगवान्हरिः ॥ ७४ ॥

अचिरेणैव विप्रर्षे ददाति परमं पदम्
ये यजन्ति परात्मानमिच्छया वाप्यनिच्छया ॥ ७५ ॥

तेऽपि यान्ति परं धाम विमुक्ताः सर्वपातकैः ॥ ७६ ॥

हरौ प्रसन्ने दुरितानिकोऽपि यतः स राजा कृतपातकोऽपि
जगाम मोक्षं कृपयामुरारेर्विश्वार्णवं निम्नमिमं वितीर्य ॥ ७७ ॥

दिव्यैः सुगन्धैः कनकप्रसूनैर्नारायणं पद्मदलायताक्षम्
भक्त्या यजेद्यः परमादरेण मर्त्यो व्रजेत्तत्तु विहाय पापम् ७८