००९

जैमिनिरुवाच-

विश्वास-प्रस्तुतिः

भूय एव गुरो ब्रूहि गङ्गामाहात्म्यमुत्तमम्
गङ्गाकथामृतं पातुं माधुर्यात्पुनरिष्यते ॥ १ ॥

मूलम्

भूय एव गुरो ब्रूहि गङ्गामाहात्म्यमुत्तमम्
गङ्गाकथामृतं पातुं माधुर्यात्पुनरिष्यते ॥ १ ॥

विश्वास-प्रस्तुतिः

व्यास उवाच-
तदप्यहं ब्रवीमि त्वां गङ्गाभक्तो यतो भवान्
तौ पादौ सफलौ नॄणां जाह्नवीतटगामिनौ ॥ २ ॥

मूलम्

व्यास उवाच-
तदप्यहं ब्रवीमि त्वां गङ्गाभक्तो यतो भवान्
तौ पादौ सफलौ नॄणां जाह्नवीतटगामिनौ ॥ २ ॥

विश्वास-प्रस्तुतिः

गङ्गाकल्लोलनिनदश्राविणौ श्रवणौ च तौ
सा जिह्वा या च जानाति स्वादुभेदं तदम्भसः ॥ ३ ॥

मूलम्

गङ्गाकल्लोलनिनदश्राविणौ श्रवणौ च तौ
सा जिह्वा या च जानाति स्वादुभेदं तदम्भसः ॥ ३ ॥

विश्वास-प्रस्तुतिः

ते नेत्रे जाह्नवी चारुतरङ्गदर्शने च ते
तल्ललाटमिति प्रोक्तं गङ्गामृत्पुण्ड्रधारि यत् ॥ ४ ॥

मूलम्

ते नेत्रे जाह्नवी चारुतरङ्गदर्शने च ते
तल्ललाटमिति प्रोक्तं गङ्गामृत्पुण्ड्रधारि यत् ॥ ४ ॥

विश्वास-प्रस्तुतिः

तौ हस्तौ जाह्नवी तीरे हरि पूजापरायणौ
शरीरं सफलं तच्च विमले जाह्नवी जले ॥ ५ ॥

मूलम्

तौ हस्तौ जाह्नवी तीरे हरि पूजापरायणौ
शरीरं सफलं तच्च विमले जाह्नवी जले ॥ ५ ॥

विश्वास-प्रस्तुतिः

पतितं तद्द्विजश्रेष्ठ चतुर्वर्गफलप्रदम्
स्वर्गस्थाः पितरः सर्वे गच्छन्तो जाह्नवीतटे ॥ ६ ॥

मूलम्

पतितं तद्द्विजश्रेष्ठ चतुर्वर्गफलप्रदम्
स्वर्गस्थाः पितरः सर्वे गच्छन्तो जाह्नवीतटे ॥ ६ ॥

विश्वास-प्रस्तुतिः

सन्दृश्य हृष्टाः शंसन्ति वदन्त इति जैमिने
तत्पुण्यं कृतमस्माभिः सद्गतिप्राप्तये पुरा ॥ ७ ॥

मूलम्

सन्दृश्य हृष्टाः शंसन्ति वदन्त इति जैमिने
तत्पुण्यं कृतमस्माभिः सद्गतिप्राप्तये पुरा ॥ ७ ॥

विश्वास-प्रस्तुतिः

भविष्यत्यक्षयं तच्च यतः पुत्रोऽयमीदृशः
अनेन गाङ्गैः सलिलैर्वयं सम्प्रति तर्पिताः ॥ ८ ॥

मूलम्

भविष्यत्यक्षयं तच्च यतः पुत्रोऽयमीदृशः
अनेन गाङ्गैः सलिलैर्वयं सम्प्रति तर्पिताः ॥ ८ ॥

विश्वास-प्रस्तुतिः

यास्यामः परमं धाम दुर्ल्लभं यत्सुरैरपि
गङ्गायां यानि द्रव्याणि दास्यत्यस्माकमात्मजः ॥ ९ ॥

मूलम्

यास्यामः परमं धाम दुर्ल्लभं यत्सुरैरपि
गङ्गायां यानि द्रव्याणि दास्यत्यस्माकमात्मजः ॥ ९ ॥

विश्वास-प्रस्तुतिः

अस्मभ्यं तानि सर्वाणि भविष्यन्त्यक्षयाणि वै
नरकस्थाश्च पितरः सर्वदुःखसमन्विताः ॥ १० ॥

मूलम्

अस्मभ्यं तानि सर्वाणि भविष्यन्त्यक्षयाणि वै
नरकस्थाश्च पितरः सर्वदुःखसमन्विताः ॥ १० ॥

विश्वास-प्रस्तुतिः

वदन्तीति सुतं दृष्ट्वा गच्छन्तं जाह्नवीतटम्
कृतानि यानि पापानि नरकक्लेशदानि वै ॥ ११ ॥

मूलम्

वदन्तीति सुतं दृष्ट्वा गच्छन्तं जाह्नवीतटम्
कृतानि यानि पापानि नरकक्लेशदानि वै ॥ ११ ॥

विश्वास-प्रस्तुतिः

यास्यन्ति सङ्क्षयं तानि पुत्रस्यापि प्रसादतः
विमुक्ता नरकक्लेशैर्वयं सर्वे सुदुःसहैः ॥ १२ ॥

मूलम्

यास्यन्ति सङ्क्षयं तानि पुत्रस्यापि प्रसादतः
विमुक्ता नरकक्लेशैर्वयं सर्वे सुदुःसहैः ॥ १२ ॥

विश्वास-प्रस्तुतिः

अथ पुत्रप्रसादेन यास्यामः परमां गतिम्
यात्रां विधाय यो मर्त्यो गृहं मोहान्निवर्तते ॥ १३ ॥

मूलम्

अथ पुत्रप्रसादेन यास्यामः परमां गतिम्
यात्रां विधाय यो मर्त्यो गृहं मोहान्निवर्तते ॥ १३ ॥

विश्वास-प्रस्तुतिः

निराशाः पितरस्तस्य यान्ति सर्वे यथा गताः
आमिषं मैथुनं चैव दोलामश्वं गजं तथा ॥ १४ ॥

मूलम्

निराशाः पितरस्तस्य यान्ति सर्वे यथा गताः
आमिषं मैथुनं चैव दोलामश्वं गजं तथा ॥ १४ ॥

विश्वास-प्रस्तुतिः

उपानहं चातपत्रं गङ्गायात्रासु वर्जयेत्
अध्वश्रमोद्भवं दुःखं दुष्करं न हि मन्यते ॥ १५ ॥

मूलम्

उपानहं चातपत्रं गङ्गायात्रासु वर्जयेत्
अध्वश्रमोद्भवं दुःखं दुष्करं न हि मन्यते ॥ १५ ॥

विश्वास-प्रस्तुतिः

गृहे पद्मसुखं तत्र गङ्गास्नाने स्मरेन्न च
असत्यभाषणं चैव पाखण्डसङ्गमेव च ॥ १६ ॥

मूलम्

गृहे पद्मसुखं तत्र गङ्गास्नाने स्मरेन्न च
असत्यभाषणं चैव पाखण्डसङ्गमेव च ॥ १६ ॥

विश्वास-प्रस्तुतिः

द्विर्भोजनं च कलहं गङ्गायात्रासु वर्जयेत्
परनिन्दां च लोभं च गर्वं च क्रोधमत्सरौ ॥ १७ ॥

मूलम्

द्विर्भोजनं च कलहं गङ्गायात्रासु वर्जयेत्
परनिन्दां च लोभं च गर्वं च क्रोधमत्सरौ ॥ १७ ॥

विश्वास-प्रस्तुतिः

अत्यन्तहास्यशोकं च गङ्गायात्रासु वर्जयेत्
मञ्चसुप्तमिवात्मानं चिन्तयेद्भूमिशायिनम् ॥ १८ ॥

मूलम्

अत्यन्तहास्यशोकं च गङ्गायात्रासु वर्जयेत्
मञ्चसुप्तमिवात्मानं चिन्तयेद्भूमिशायिनम् ॥ १८ ॥

विश्वास-प्रस्तुतिः

गङ्गानाम सुनामानि वदेद्गच्छञ्जनः पथि
माहात्म्यं जाह्नवी देव्याः सर्वपापप्रणाशनम् ॥ १९ ॥

मूलम्

गङ्गानाम सुनामानि वदेद्गच्छञ्जनः पथि
माहात्म्यं जाह्नवी देव्याः सर्वपापप्रणाशनम् ॥ १९ ॥

विश्वास-प्रस्तुतिः

सुखदं मोक्षदं चैव कथयन्पथि गच्छति
गङ्गे देवि जगन्मातर्देहि सन्दर्शनं मम ॥ २० ॥

मूलम्

सुखदं मोक्षदं चैव कथयन्पथि गच्छति
गङ्गे देवि जगन्मातर्देहि सन्दर्शनं मम ॥ २० ॥

विश्वास-प्रस्तुतिः

वचोभिः कोमलैरेभिः कुर्याच्छ्रमनिवारणम्
हा कथं सदनं त्यक्तमागतं वा कथं मया ॥ २१ ॥

मूलम्

वचोभिः कोमलैरेभिः कुर्याच्छ्रमनिवारणम्
हा कथं सदनं त्यक्तमागतं वा कथं मया ॥ २१ ॥

विश्वास-प्रस्तुतिः

श्रमैरिति वदेद्यस्तु सम्पूर्णं तत्फलं नहि
क्व पर्यङ्ङ्कः क्व मे पत्नी क्व च मे च सुहृद्गृहम् ॥ २२ ॥

मूलम्

श्रमैरिति वदेद्यस्तु सम्पूर्णं तत्फलं नहि
क्व पर्यङ्ङ्कः क्व मे पत्नी क्व च मे च सुहृद्गृहम् ॥ २२ ॥

विश्वास-प्रस्तुतिः

स्वपामि प्रान्तरे भूमौ कथं वाहं समागतः
धनधान्यादिवस्तूनां का गतिर्वा गृहे मम ॥ २३ ॥

मूलम्

स्वपामि प्रान्तरे भूमौ कथं वाहं समागतः
धनधान्यादिवस्तूनां का गतिर्वा गृहे मम ॥ २३ ॥

विश्वास-प्रस्तुतिः

कियद्भिर्दिवसैर्भूयो गमिष्याम्यहमालयम्
इति चिन्ताकुला ये च पथि गच्छन्ति मानवाः ॥ २४ ॥

मूलम्

कियद्भिर्दिवसैर्भूयो गमिष्याम्यहमालयम्
इति चिन्ताकुला ये च पथि गच्छन्ति मानवाः ॥ २४ ॥

विश्वास-प्रस्तुतिः

गङ्गास्नानफलं तेषां सम्पूर्णं न भवेद्द्विज
गङ्गे गन्तुं प्रतीतीरे यात्रेयं विहिता तव ॥ २५ ॥

मूलम्

गङ्गास्नानफलं तेषां सम्पूर्णं न भवेद्द्विज
गङ्गे गन्तुं प्रतीतीरे यात्रेयं विहिता तव ॥ २५ ॥

विश्वास-प्रस्तुतिः

निर्विघ्नां सिद्धिमाप्नोमि त्वत्प्रसादात्सरिद्वरे
इमं मन्त्रं समुच्चार्य यात्राकाले विशेषतः ॥ २६ ॥

मूलम्

निर्विघ्नां सिद्धिमाप्नोमि त्वत्प्रसादात्सरिद्वरे
इमं मन्त्रं समुच्चार्य यात्राकाले विशेषतः ॥ २६ ॥

विश्वास-प्रस्तुतिः

हर्षितो निलयाद्गच्छेद्वैष्णवैः सह जैमिने
नातिवेगेन गन्तव्यं न तथा च शनैः शनैः ॥ २७ ॥

मूलम्

हर्षितो निलयाद्गच्छेद्वैष्णवैः सह जैमिने
नातिवेगेन गन्तव्यं न तथा च शनैः शनैः ॥ २७ ॥

विश्वास-प्रस्तुतिः

गङ्गायात्रासु कर्त्तव्यं नान्यत्कर्म विचक्षणैः
गङ्गातीरे प्रयागे तु वाणिज्यप्रमुखानि च ॥ २८ ॥

मूलम्

गङ्गायात्रासु कर्त्तव्यं नान्यत्कर्म विचक्षणैः
गङ्गातीरे प्रयागे तु वाणिज्यप्रमुखानि च ॥ २८ ॥

विश्वास-प्रस्तुतिः

कार्याणि कुरुते यस्तु तत्पुण्यार्द्धं विनश्यति
जन्मजन्मार्जितं पापं स्वल्पं वा यदि वा बहु ॥ २९ ॥

मूलम्

कार्याणि कुरुते यस्तु तत्पुण्यार्द्धं विनश्यति
जन्मजन्मार्जितं पापं स्वल्पं वा यदि वा बहु ॥ २९ ॥

विश्वास-प्रस्तुतिः

गङ्गादेवीप्रसादेन सर्वं मे यास्यति क्षयम्
इत्युक्त्वा परमप्रीतः प्राज्ञो गङ्गातटं व्रजेत् ॥ ३० ॥

मूलम्

गङ्गादेवीप्रसादेन सर्वं मे यास्यति क्षयम्
इत्युक्त्वा परमप्रीतः प्राज्ञो गङ्गातटं व्रजेत् ॥ ३० ॥

विश्वास-प्रस्तुतिः

दृष्ट्वा च मातरं गङ्गामिमं मन्त्रमुदीरयेत्
अद्य मे सफलं जन्म जीवितं च सुजीवितम् ॥ ३१ ॥

मूलम्

दृष्ट्वा च मातरं गङ्गामिमं मन्त्रमुदीरयेत्
अद्य मे सफलं जन्म जीवितं च सुजीवितम् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

साक्षाद्ब्रह्मस्वरूपां त्वामपश्यमिति चक्षुषा
देवि त्वद्दर्शनादेव महापातकिनो मम ॥ ३२ ॥

मूलम्

साक्षाद्ब्रह्मस्वरूपां त्वामपश्यमिति चक्षुषा
देवि त्वद्दर्शनादेव महापातकिनो मम ॥ ३२ ॥

विश्वास-प्रस्तुतिः

विनष्टमभवत्पापं जन्मकोटिसमुद्भवम्
इत्युक्त्वा सकलं देहं निपात्य पृथिवीतले ॥ ३३ ॥

मूलम्

विनष्टमभवत्पापं जन्मकोटिसमुद्भवम्
इत्युक्त्वा सकलं देहं निपात्य पृथिवीतले ॥ ३३ ॥

विश्वास-प्रस्तुतिः

प्रणमेज्जाह्नवीं देवीं भक्तिभावसमन्वितः
ततः स्रोतःसमीपे च बद्धाञ्जलिरिमं पुनः ॥ ३४ ॥

मूलम्

प्रणमेज्जाह्नवीं देवीं भक्तिभावसमन्वितः
ततः स्रोतःसमीपे च बद्धाञ्जलिरिमं पुनः ॥ ३४ ॥

विश्वास-प्रस्तुतिः

पठेन्मन्त्रं भक्तिभावैः सुप्रीतो द्विजसत्तम
गङ्गे देवि जगद्धात्रि पादाभ्यां सलिलं तव ॥ ३५ ॥

मूलम्

पठेन्मन्त्रं भक्तिभावैः सुप्रीतो द्विजसत्तम
गङ्गे देवि जगद्धात्रि पादाभ्यां सलिलं तव ॥ ३५ ॥

विश्वास-प्रस्तुतिः

स्पृशामीत्यपराधं मे प्रसन्ना क्षन्तुमर्हसि
स्वर्गारोहणसोपानं त्वदीयमुदकं शुभे ॥ ३६ ॥

मूलम्

स्पृशामीत्यपराधं मे प्रसन्ना क्षन्तुमर्हसि
स्वर्गारोहणसोपानं त्वदीयमुदकं शुभे ॥ ३६ ॥

विश्वास-प्रस्तुतिः

अतः स्पृशामि पादाभ्यां गङ्गे देवि नमो नमः
ततस्तु मस्तके धृत्वा गाङ्गेयं वारि भक्तितः ॥ ३७ ॥

मूलम्

अतः स्पृशामि पादाभ्यां गङ्गे देवि नमो नमः
ततस्तु मस्तके धृत्वा गाङ्गेयं वारि भक्तितः ॥ ३७ ॥

विश्वास-प्रस्तुतिः

स्नानार्थं प्रविशेत्स्रोतः प्राज्ञो गङ्गेति कीर्तयन्
त्वत्कर्दमैरतिस्निग्धैः सर्वपापप्रणाशनैः ॥ ३८ ॥

मूलम्

स्नानार्थं प्रविशेत्स्रोतः प्राज्ञो गङ्गेति कीर्तयन्
त्वत्कर्दमैरतिस्निग्धैः सर्वपापप्रणाशनैः ॥ ३८ ॥

विश्वास-प्रस्तुतिः

मया संलिप्यते गात्रं मातर्मे हर पातकम्
गङ्गाकर्दमलिप्ताङ्गो गङ्गागङ्गेति कीर्तयन् ॥ ३९ ॥

मूलम्

मया संलिप्यते गात्रं मातर्मे हर पातकम्
गङ्गाकर्दमलिप्ताङ्गो गङ्गागङ्गेति कीर्तयन् ॥ ३९ ॥

विश्वास-प्रस्तुतिः

सर्वकल्मषनाशिन्यां गङ्गायां स्नानमाचरेत्
भूयः पूर्वोक्तमन्त्रेण गृहीत्वा मृत्तिकां ततः ॥ ४० ॥

मूलम्

सर्वकल्मषनाशिन्यां गङ्गायां स्नानमाचरेत्
भूयः पूर्वोक्तमन्त्रेण गृहीत्वा मृत्तिकां ततः ॥ ४० ॥

विश्वास-प्रस्तुतिः

वक्ष्यमाणेन मन्त्रेण गृहीत्वा मृत्तिकां पुनः
वक्ष्यमाणेन मन्त्रेण भक्तितः स्नानमाचरेत् ॥ ४१ ॥

मूलम्

वक्ष्यमाणेन मन्त्रेण गृहीत्वा मृत्तिकां पुनः
वक्ष्यमाणेन मन्त्रेण भक्तितः स्नानमाचरेत् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

ब्रह्मस्वरूपे हे गङ्गे स्नानमाचर्यते मया
त्वदीये निर्मले तोये यथोक्तफलदा भव ॥ ४२ ॥

मूलम्

ब्रह्मस्वरूपे हे गङ्गे स्नानमाचर्यते मया
त्वदीये निर्मले तोये यथोक्तफलदा भव ॥ ४२ ॥

विश्वास-प्रस्तुतिः

ततो निजेच्छया विप्र गङ्गायां लोकमातरि
स्नानं समाचरेत्प्राज्ञो गङ्गानारायणं स्मरन् ॥ ४३ ॥

मूलम्

ततो निजेच्छया विप्र गङ्गायां लोकमातरि
स्नानं समाचरेत्प्राज्ञो गङ्गानारायणं स्मरन् ॥ ४३ ॥

विश्वास-प्रस्तुतिः

एवं स्नात्वा तु गङ्गायां गात्रं वस्त्रेण मार्जयेत्
परिधेयाम्बराम्बूनि गङ्गास्रोतसि न त्यजेत् ॥ ४४ ॥

मूलम्

एवं स्नात्वा तु गङ्गायां गात्रं वस्त्रेण मार्जयेत्
परिधेयाम्बराम्बूनि गङ्गास्रोतसि न त्यजेत् ॥ ४४ ॥

विश्वास-प्रस्तुतिः

न दन्तधावनं कुर्याद्गङ्गागर्भे विचक्षणः
कुर्याच्चेन्मोहतः पुण्यं न गङ्गास्नानजं लभेत् ॥ ४५ ॥

मूलम्

न दन्तधावनं कुर्याद्गङ्गागर्भे विचक्षणः
कुर्याच्चेन्मोहतः पुण्यं न गङ्गास्नानजं लभेत् ॥ ४५ ॥

विश्वास-प्रस्तुतिः

प्रभातेऽन्यत्र तां कृत्वा दन्तकाष्ठादिकक्रियाम्
रात्रिवासं परित्यज्य गङ्गायां स्नानमाचरेत् ॥ ४६ ॥

मूलम्

प्रभातेऽन्यत्र तां कृत्वा दन्तकाष्ठादिकक्रियाम्
रात्रिवासं परित्यज्य गङ्गायां स्नानमाचरेत् ॥ ४६ ॥

विश्वास-प्रस्तुतिः

बाह्यभूमिमगत्वा यो गङ्गायां स्नानमाचरेत्
गङ्गास्नानफलं सोऽपि सम्पूर्णं च लभेन्नहि ॥ ४७ ॥

मूलम्

बाह्यभूमिमगत्वा यो गङ्गायां स्नानमाचरेत्
गङ्गास्नानफलं सोऽपि सम्पूर्णं च लभेन्नहि ॥ ४७ ॥

विश्वास-प्रस्तुतिः

स्नात्वा च गङ्गामृत्पुण्ड्रं स्थाने स्थाने नयेद्बुधः
ततः स्थिरमनाः कुर्याद्विधिना तर्पणादिकम् ॥ ४८ ॥

मूलम्

स्नात्वा च गङ्गामृत्पुण्ड्रं स्थाने स्थाने नयेद्बुधः
ततः स्थिरमनाः कुर्याद्विधिना तर्पणादिकम् ॥ ४८ ॥

विश्वास-प्रस्तुतिः

गाङ्गेयैरुदकैर्यस्तु कुरुते पितृतर्पणम्
पितरस्तस्य तृप्यन्ति वर्षकोटिशतावधि ॥ ४९ ॥

मूलम्

गाङ्गेयैरुदकैर्यस्तु कुरुते पितृतर्पणम्
पितरस्तस्य तृप्यन्ति वर्षकोटिशतावधि ॥ ४९ ॥

विश्वास-प्रस्तुतिः

गङ्गायां कुरुते यस्तु पितृश्राद्धं द्विजोत्तम
पितरस्तस्य तिष्ठन्ति सन्तुष्टास्त्रिदशालयम् ५० 7.9.50
समाप्य स्नानकर्माणि गङ्गायां समुपोषितः
दानं देवार्चनं चैव जयोऽन्याश्च क्रियास्तथा
कृतास्तु यास्तु गङ्गायां क्षयस्तासां न विद्यते ॥ ५१ ॥

कृतपञ्चमहायज्ञो गङ्गापूजां समाचरेत् ॥ ५२ ॥

मूलम्

समाप्य स्नानकर्माणि गङ्गायां समुपोषितः
कृतपञ्चमहायज्ञो गङ्गापूजां समाचरेत् ॥ ५२ ॥

विश्वास-प्रस्तुतिः

गङ्गायाः प्रतिमां देव्याः श्रीविष्णोः प्रतिमां तथा
नालिकेरोदकैर्दिव्यैः स्नापयेद्भक्तितो बुधः ॥ ५३ ॥

मूलम्

गङ्गायाः प्रतिमां देव्याः श्रीविष्णोः प्रतिमां तथा
नालिकेरोदकैर्दिव्यैः स्नापयेद्भक्तितो बुधः ॥ ५३ ॥

विश्वास-प्रस्तुतिः

जाह्नवीप्रतिमाभावान्नालिकेरोदकानि वै
निक्षिपेज्जाह्नवीतोये जाह्नवीं हृदि संस्मरन् ॥ ५४ ॥

मूलम्

जाह्नवीप्रतिमाभावान्नालिकेरोदकानि वै
निक्षिपेज्जाह्नवीतोये जाह्नवीं हृदि संस्मरन् ॥ ५४ ॥

विश्वास-प्रस्तुतिः

दिव्यैर्गन्धैश्च दीपैश्च घृतपूर्णसमुज्ज्वलैः
धूपैः सुवासितैश्चैव नानापुष्पमनोहरैः ॥ ५५ ॥

मूलम्

दिव्यैर्गन्धैश्च दीपैश्च घृतपूर्णसमुज्ज्वलैः
धूपैः सुवासितैश्चैव नानापुष्पमनोहरैः ॥ ५५ ॥

विश्वास-प्रस्तुतिः

नानाफलैः सुपक्वैश्च नैवेद्यैरुत्तमास्तथा
पाद्यार्घाचमनीयैश्च ताम्बूलैः खादिरान्वितैः ॥ ५६ ॥

मूलम्

नानाफलैः सुपक्वैश्च नैवेद्यैरुत्तमास्तथा
पाद्यार्घाचमनीयैश्च ताम्बूलैः खादिरान्वितैः ॥ ५६ ॥

विश्वास-प्रस्तुतिः

अन्यैरप्युपहारैश्च विशिष्टैर्निजभक्तितः
स्तवैर्नाना च नैवेद्यैर्गङ्गां विष्णुं च पूजयेत् ॥ ५७ ॥

मूलम्

अन्यैरप्युपहारैश्च विशिष्टैर्निजभक्तितः
स्तवैर्नाना च नैवेद्यैर्गङ्गां विष्णुं च पूजयेत् ॥ ५७ ॥

विश्वास-प्रस्तुतिः

ततः सम्पूजितां देवीं विष्णुं च परमेश्वरम्
अङ्गप्रदक्षिणां कुर्याद्भक्त्या वारत्रयं बुधः ॥ ५८ ॥

मूलम्

ततः सम्पूजितां देवीं विष्णुं च परमेश्वरम्
अङ्गप्रदक्षिणां कुर्याद्भक्त्या वारत्रयं बुधः ॥ ५८ ॥

विश्वास-प्रस्तुतिः

अथ स्थित्वा निराहारोऽपरेहनि सरिद्वरे
भोक्ष्यामि जह्नुतनये शरणं मे भवानघे ॥ ५९ ॥

मूलम्

अथ स्थित्वा निराहारोऽपरेहनि सरिद्वरे
भोक्ष्यामि जह्नुतनये शरणं मे भवानघे ॥ ५९ ॥

विश्वास-प्रस्तुतिः

एवं सङ्कल्प्य मतिमान्कर्मणा मनसा गिरा
रात्रौ जागरणं कुर्याज्जितनिद्रो ऽतिहर्षितः ॥ ६० ॥

मूलम्

एवं सङ्कल्प्य मतिमान्कर्मणा मनसा गिरा
रात्रौ जागरणं कुर्याज्जितनिद्रो ऽतिहर्षितः ॥ ६० ॥

विश्वास-प्रस्तुतिः

अशक्त्या च द्विजश्रेष्ठ फलाहारो भवेदधः
अन्नमात्रं न भुञ्जीत न च कुर्याद्धि भोजनम् ॥ ६१ ॥

मूलम्

अशक्त्या च द्विजश्रेष्ठ फलाहारो भवेदधः
अन्नमात्रं न भुञ्जीत न च कुर्याद्धि भोजनम् ॥ ६१ ॥

विश्वास-प्रस्तुतिः

प्रातर्गङ्गां च विष्णुं च पुनरभ्यर्च्य जैमिने
विप्राय दक्षिणां दद्याद्विभवस्यानुरूपतः ॥ ६२ ॥

मूलम्

प्रातर्गङ्गां च विष्णुं च पुनरभ्यर्च्य जैमिने
विप्राय दक्षिणां दद्याद्विभवस्यानुरूपतः ॥ ६२ ॥

विश्वास-प्रस्तुतिः

अर्चनं जागरं चैव यत्कृतं पुरतस्तव
अच्छिद्रमस्तु तत्सर्वं त्वत्प्रसादात्सरिद्वरे ॥ ६३ ॥

मूलम्

अर्चनं जागरं चैव यत्कृतं पुरतस्तव
अच्छिद्रमस्तु तत्सर्वं त्वत्प्रसादात्सरिद्वरे ॥ ६३ ॥

विश्वास-प्रस्तुतिः

इत्युक्त्वा तां नमस्कृत्य कृतनित्यक्रियो द्विजः
ततः सबन्धुभिः सार्द्धं पारणं स्वयमाचरेत् ॥ ६४ ॥

मूलम्

इत्युक्त्वा तां नमस्कृत्य कृतनित्यक्रियो द्विजः
ततः सबन्धुभिः सार्द्धं पारणं स्वयमाचरेत् ॥ ६४ ॥

विश्वास-प्रस्तुतिः

तीर्थोपवासमेवं यः कुरुते जाह्नवीतटे
तस्य पुण्यफलं वत्स वदतो मे निशामय ॥ ६५ ॥

मूलम्

तीर्थोपवासमेवं यः कुरुते जाह्नवीतटे
तस्य पुण्यफलं वत्स वदतो मे निशामय ॥ ६५ ॥

विश्वास-प्रस्तुतिः

जन्मान्तरार्जितैः पापैर्विमुक्तो विष्णुरूपधृक्
विष्णोः पुरं समासाद्य विष्णुना सह मोदते ॥ ६६ ॥

मूलम्

जन्मान्तरार्जितैः पापैर्विमुक्तो विष्णुरूपधृक्
विष्णोः पुरं समासाद्य विष्णुना सह मोदते ॥ ६६ ॥

विश्वास-प्रस्तुतिः

कल्पकोटिसहस्राणि कल्पकोटिशतानि च
स्थित्वा विष्णुपुरं सर्वं सुखं भुङ्क्ते सुदुर्ल्लभम् ॥ ६७ ॥

मूलम्

कल्पकोटिसहस्राणि कल्पकोटिशतानि च
स्थित्वा विष्णुपुरं सर्वं सुखं भुङ्क्ते सुदुर्ल्लभम् ॥ ६७ ॥

विश्वास-प्रस्तुतिः

ततो नारायणादेशाद्ब्रह्मलोकं स गच्छति
ब्रह्मलोके सुखं भुङ्क्ते दुर्ल्लभं यत्सुरैरपि ॥ ६८ ॥

मूलम्

ततो नारायणादेशाद्ब्रह्मलोकं स गच्छति
ब्रह्मलोके सुखं भुङ्क्ते दुर्ल्लभं यत्सुरैरपि ॥ ६८ ॥

विश्वास-प्रस्तुतिः

तावत्कालं ब्रह्मलोके स्थित्वा ब्रह्मक्षयात्ततः
महादेवं ततो गच्छेद्रथमारुह्य शोभनम् ॥ ६९ ॥

मूलम्

तावत्कालं ब्रह्मलोके स्थित्वा ब्रह्मक्षयात्ततः
महादेवं ततो गच्छेद्रथमारुह्य शोभनम् ॥ ६९ ॥

विश्वास-प्रस्तुतिः

सुखं नानाविधं तत्र भुङ्क्तेऽत्यन्तसुदुर्ल्लभम्
गाणपत्यमवाप्नोति किमन्यैर्बहुभाषितैः ॥ ७० ॥

मूलम्

सुखं नानाविधं तत्र भुङ्क्तेऽत्यन्तसुदुर्ल्लभम्
गाणपत्यमवाप्नोति किमन्यैर्बहुभाषितैः ॥ ७० ॥

विश्वास-प्रस्तुतिः

तावत्कालं शिवपुरे स्थित्वा वै पुण्यवान्नरः
इन्द्रलोकं ततो गच्छेद्द्वितीय इव वासवः ॥ ७१ ॥

मूलम्

तावत्कालं शिवपुरे स्थित्वा वै पुण्यवान्नरः
इन्द्रलोकं ततो गच्छेद्द्वितीय इव वासवः ॥ ७१ ॥

विश्वास-प्रस्तुतिः

तेन पुण्यात्मना सार्द्धं वसेदेकासने ततः
तत्र भुक्त्वाखिलान्कामान्कल्पकोटिशतावधि ॥ ७२ ॥

मूलम्

तेन पुण्यात्मना सार्द्धं वसेदेकासने ततः
तत्र भुक्त्वाखिलान्कामान्कल्पकोटिशतावधि ॥ ७२ ॥

विश्वास-प्रस्तुतिः

सूर्यलोकं ततो गच्छेद्द्वितीय इव चन्द्रमाः
तत्रामृतानि भुक्त्वा वै चिरं चन्द्रस्य सन्निधौ ॥ ७३ ॥

मूलम्

सूर्यलोकं ततो गच्छेद्द्वितीय इव चन्द्रमाः
तत्रामृतानि भुक्त्वा वै चिरं चन्द्रस्य सन्निधौ ॥ ७३ ॥

विश्वास-प्रस्तुतिः

पुनरागत्य पृथिवीं चक्रवर्ती नृपो भवेत्
पालयित्वा चिरं पृथ्वीं जित्वा वै सकलान्रिपून् ॥ ७४ ॥

मूलम्

पुनरागत्य पृथिवीं चक्रवर्ती नृपो भवेत्
पालयित्वा चिरं पृथ्वीं जित्वा वै सकलान्रिपून् ॥ ७४ ॥

विश्वास-प्रस्तुतिः

आयुषोंऽते च गङ्गायां सुखं मृत्युमवाप्नुयात्
भूयः स एवमारुह्य विमानं सुमहायशाः ॥ ७५ ॥

मूलम्

आयुषोंऽते च गङ्गायां सुखं मृत्युमवाप्नुयात्
भूयः स एवमारुह्य विमानं सुमहायशाः ॥ ७५ ॥

विश्वास-प्रस्तुतिः

पुरं भगवतो याति दैवतैरपि दुर्ल्लभम्
तत्र भुक्त्वाखिलान्भोगान्मन्वन्तरचतुष्टयम् ॥ ७६ ॥

मूलम्

पुरं भगवतो याति दैवतैरपि दुर्ल्लभम्
तत्र भुक्त्वाखिलान्भोगान्मन्वन्तरचतुष्टयम् ॥ ७६ ॥

विश्वास-प्रस्तुतिः

परमं ज्ञानमासाद्य दुर्ल्लभं मोक्षमाप्नुयात्
जाह्नवीतीरयात्रायां दैवाद्यस्य भवेत्पथि ॥ ७७ ॥

मूलम्

परमं ज्ञानमासाद्य दुर्ल्लभं मोक्षमाप्नुयात्
जाह्नवीतीरयात्रायां दैवाद्यस्य भवेत्पथि ॥ ७७ ॥

विश्वास-प्रस्तुतिः

पञ्चता सोऽपि परमं धाम गच्छेन्न संशयः
सत्यधर्मो नाम राजा धार्मिकश्च प्रियंवदः ॥ ७८ ॥

मूलम्

पञ्चता सोऽपि परमं धाम गच्छेन्न संशयः
सत्यधर्मो नाम राजा धार्मिकश्च प्रियंवदः ॥ ७८ ॥

विश्वास-प्रस्तुतिः

त्रेताद्वापरसन्धौ च बभूव क्षितिमण्डले
विजया नाम महिषी तस्य भूमिपतेरभूत् ॥ ७९ ॥

मूलम्

त्रेताद्वापरसन्धौ च बभूव क्षितिमण्डले
विजया नाम महिषी तस्य भूमिपतेरभूत् ॥ ७९ ॥

विश्वास-प्रस्तुतिः

सुन्दरी शीलयुक्ता सा पतिसेवापरायणा
सप्तवर्षसहस्राणि भुक्त्वा वसुमतीमिमाम् ॥ ८० ॥

मूलम्

सुन्दरी शीलयुक्ता सा पतिसेवापरायणा
सप्तवर्षसहस्राणि भुक्त्वा वसुमतीमिमाम् ॥ ८० ॥

विश्वास-प्रस्तुतिः

कदाचित्प्राप्तकालोऽसौ सदारः पञ्चतां गतः
ततो यमभटैर्बद्धौ दम्पती तौ भयङ्करौ ॥ ८१ ॥

मूलम्

कदाचित्प्राप्तकालोऽसौ सदारः पञ्चतां गतः
ततो यमभटैर्बद्धौ दम्पती तौ भयङ्करौ ॥ ८१ ॥

विश्वास-प्रस्तुतिः

दुःखप्रदेन मार्गेण जग्मतुर्यममन्दिरम्
तौ दृष्ट्वा धर्मराजोऽपि चित्रगुप्तमुवाच ह ॥ ८२ ॥

मूलम्

दुःखप्रदेन मार्गेण जग्मतुर्यममन्दिरम्
तौ दृष्ट्वा धर्मराजोऽपि चित्रगुप्तमुवाच ह ॥ ८२ ॥

विश्वास-प्रस्तुतिः

एतयोः सर्वकर्माणि चित्रगुप्त विचारय
तेनाज्ञप्तश्चित्रगुप्तस्तयोः कर्माणि जैमिने ॥ ८३ ॥

मूलम्

एतयोः सर्वकर्माणि चित्रगुप्त विचारय
तेनाज्ञप्तश्चित्रगुप्तस्तयोः कर्माणि जैमिने ॥ ८३ ॥

विश्वास-प्रस्तुतिः

मूलाद्विचारयामास प्राह चेति कृताञ्जलि
चित्रगुप्त उवाच-
एतयोः सकलं कर्म शृणु राजन्वदाम्यहम् ॥ ८४ ॥

मूलम्

मूलाद्विचारयामास प्राह चेति कृताञ्जलि
चित्रगुप्त उवाच-
एतयोः सकलं कर्म शृणु राजन्वदाम्यहम् ॥ ८४ ॥

विश्वास-प्रस्तुतिः

शुभं वाप्यशुभं कर्म यदेताभ्यां कृतं भुवि
किञ्चिदस्या नयोपायं वदामि तदहं शृणु ॥ ८५ ॥

मूलम्

शुभं वाप्यशुभं कर्म यदेताभ्यां कृतं भुवि
किञ्चिदस्या नयोपायं वदामि तदहं शृणु ॥ ८५ ॥

विश्वास-प्रस्तुतिः

एकादा त्रासितो व्याघ्रैः कश्चिदेको मृगः प्रभो
वनाज्जीवनरक्षार्थमागतोऽस्य सभां प्रति ॥ ८६ ॥

मूलम्

एकादा त्रासितो व्याघ्रैः कश्चिदेको मृगः प्रभो
वनाज्जीवनरक्षार्थमागतोऽस्य सभां प्रति ॥ ८६ ॥

विश्वास-प्रस्तुतिः

तमायान्तं समालोक्य भूयोऽयं प्राप्तकौतुकः
जघने स्वयमुत्थाय खड्गेन तरसा मृगम् ॥ ८७ ॥

मूलम्

तमायान्तं समालोक्य भूयोऽयं प्राप्तकौतुकः
जघने स्वयमुत्थाय खड्गेन तरसा मृगम् ॥ ८७ ॥

विश्वास-प्रस्तुतिः

जघान ह मृगं राजा शरणागतमप्यमुम्
तस्मात्सदारोभूपोऽयं दण्डनीयस्त्वया प्रभो ॥ ८८ ॥

मूलम्

जघान ह मृगं राजा शरणागतमप्यमुम्
तस्मात्सदारोभूपोऽयं दण्डनीयस्त्वया प्रभो ॥ ८८ ॥

विश्वास-प्रस्तुतिः

यावन्ति तस्य रोमाणि संस्थितानि कलेवरे
मन्वन्तरसहस्राणि मन्वन्तरशतानि च ॥ ८९ ॥

मूलम्

यावन्ति तस्य रोमाणि संस्थितानि कलेवरे
मन्वन्तरसहस्राणि मन्वन्तरशतानि च ॥ ८९ ॥

विश्वास-प्रस्तुतिः

कोटिकोटिकुलैर्युक्ता नारकी स्यान्न संशयः
शरणागतरक्षां यः प्राणैरपि धनैरपि ॥ ९० ॥

मूलम्

कोटिकोटिकुलैर्युक्ता नारकी स्यान्न संशयः
शरणागतरक्षां यः प्राणैरपि धनैरपि ॥ ९० ॥

विश्वास-प्रस्तुतिः

कुरुते यो नरो ज्ञानी तस्य पुण्यं निशामय
सर्वपापैर्विनिर्मुक्तो ब्रह्महत्यामुखैरपि ॥ ९१ ॥

मूलम्

कुरुते यो नरो ज्ञानी तस्य पुण्यं निशामय
सर्वपापैर्विनिर्मुक्तो ब्रह्महत्यामुखैरपि ॥ ९१ ॥

विश्वास-प्रस्तुतिः

आयुषोऽन्ते व्रजेन्मोक्षं योगिनामपि दुर्ल्लभम्
यमाज्ञया ततो दूतैः सदारोऽसौ महीपतिः ॥ ९२ ॥

मूलम्

आयुषोऽन्ते व्रजेन्मोक्षं योगिनामपि दुर्ल्लभम्
यमाज्ञया ततो दूतैः सदारोऽसौ महीपतिः ॥ ९२ ॥

विश्वास-प्रस्तुतिः

असिपत्रवने घोरे स्थापितोऽत्यन्तदुःखदे
असितुल्यानि पत्राणि यतस्तेषां च शाखिनाम् ॥ ९३ ॥

मूलम्

असिपत्रवने घोरे स्थापितोऽत्यन्तदुःखदे
असितुल्यानि पत्राणि यतस्तेषां च शाखिनाम् ॥ ९३ ॥

विश्वास-प्रस्तुतिः

असिपत्रवनं प्राहुरतस्तद्वै मनीषिणः
स्थित्वासिपत्रविपिने युगकोटिशतानि च ॥ ९४ ॥

मूलम्

असिपत्रवनं प्राहुरतस्तद्वै मनीषिणः
स्थित्वासिपत्रविपिने युगकोटिशतानि च ॥ ९४ ॥

विश्वास-प्रस्तुतिः

सदारो नरकं भेजे व्याघ्रभक्ष्याह्वयं ततः
निरयं तं प्रविशति सर्वोपद्रवसंयुतम् ॥ ९५ ॥

मूलम्

सदारो नरकं भेजे व्याघ्रभक्ष्याह्वयं ततः
निरयं तं प्रविशति सर्वोपद्रवसंयुतम् ॥ ९५ ॥

विश्वास-प्रस्तुतिः

भवेच्च भक्ष्यो व्याघ्रेण व्याघ्रभक्ष्यस्ततः स्मृतः
युगकोटिसहस्राणि स्थित्वा तत्र स भूपतिः ॥ ९६ ॥

मूलम्

भवेच्च भक्ष्यो व्याघ्रेण व्याघ्रभक्ष्यस्ततः स्मृतः
युगकोटिसहस्राणि स्थित्वा तत्र स भूपतिः ॥ ९६ ॥

विश्वास-प्रस्तुतिः

सदारोऽजनि पापान्ते भेकयोनिं गतः क्षितौ
जातिस्मरौ ततस्तौ तु भेकीभेकौ सुदुःखितौ ॥ ९७ ॥

मूलम्

सदारोऽजनि पापान्ते भेकयोनिं गतः क्षितौ
जातिस्मरौ ततस्तौ तु भेकीभेकौ सुदुःखितौ ॥ ९७ ॥

विश्वास-प्रस्तुतिः

तीरे तस्थतुरेकस्मिन्सततं कीटभोजिनौ
अथैकदा तेन पथा पुण्याहं प्राप्य मानवाः ॥ ९८ ॥

मूलम्

तीरे तस्थतुरेकस्मिन्सततं कीटभोजिनौ
अथैकदा तेन पथा पुण्याहं प्राप्य मानवाः ॥ ९८ ॥

विश्वास-प्रस्तुतिः

गच्छन्ति जाह्नवीतीरं तांस्तौ ददृशतुर्द्विज
भेक उवाच-
वर्षाभ्वि मोहाद्यत्सर्वं पापं कर्म कृतं मया ॥ ९९ ॥

मूलम्

गच्छन्ति जाह्नवीतीरं तांस्तौ ददृशतुर्द्विज
भेक उवाच-
वर्षाभ्वि मोहाद्यत्सर्वं पापं कर्म कृतं मया ॥ ९९ ॥

अद्यापि कर्मणा तेन दुःखमावां न मुञ्चति
त्यक्त्वा शरीरं गङ्गायां मुक्ताः स्युः पापिनोऽपि च १०० 7.9.100
तथाप्येवं विधं दुःखमनुभूयावहे कथम्
गङ्गायां त्यक्तुमिच्छामि सम्प्रत्येतत्कलेवरम् १०१
का युक्तिर्ब्रूहि तां कान्ते तितीर्षुर्दुःखसागरम्
वर्षाभ्वी तद्वचः श्रुत्वा प्राहेति विनयान्विता १०२
वर्षाभ्व्युवाच-
दुःखं न शक्यते सोढुं स्वामिन्नेतद् द्रुतं कुरु
ततस्तौ दम्पती विप्र स्मृत्वा गङ्गां शुभप्रदाम् १०३
सहसा चक्रतुर्यात्रां मरणायोपहर्षितौ
अथैतौ पथि गच्छन्तौ चिरकालं बुभुक्षितौ १०४
अपश्यत्पापकृत्क्ष्वेडः कालसर्पो भयङ्करः
कालसर्प्प उवाच-
दर्दुरौ पापिनौ येथाः प्राप्तकालौ युवां ततः १०५
अथ नूनं भक्षितव्यौ क्षुधितेन मया युवाम्
ततस्तावतिसन्त्रस्तौ दम्पती दुःखभागिनौ १०६
इत्यूचतुर्वचो भक्त्या कालसर्पं पुरोगतम्
नास्ति मृत्युभयं सर्प स्वल्पमप्यावयोर्हृदि १०७
अहमासं पुरा राजा सत्यधर्माह्वयः क्षितौ
इयं च विजया नाम महिषी संस्थिता मम १०८
मया दुरात्मना मोहान्नितः शरणं गतः ?
तेनैव कर्मणा भुक्तं चिरं दुःखं यमालये १०९
भोक्तुं स्वकर्मणः शेषं भेकयोनौ स्त्रिया सह
सोऽहं यातोऽस्मि पापेन कृतं कर्म न मुञ्चति ११०
सत्यमावां जिगमिषू परमं धाम पन्नग
व्रजावो जाह्नवीतीरं शरीरत्यागहेतवे १११
त्यजाविवेकतां सर्प नरकक्लेशदायिनीम्
आवां सङ्खाद्य भवतो भविष्यति सुखं कियत् ११२
आवयोर्हृदये विष्णुस्तवापि हृदये हरिः
अतएव त्वया सार्द्धं शत्रुता का भुजङ्गम ११३
प्राणिहिंसा न कर्तव्या कदापि च विचक्षणैः
क्रियतेऽपि च तद्धिंसां विदधाति स्वयं विधिः ११४
आयुः पुत्राश्च दाराश्च सम्पदश्च यशांसि च
हिंसां दत्वा मनुष्याणां हरेद्दुष्टो विधिः स्वयम् ११५
किं जपैः किं तपोभिर्वा किं दानैः किमु चाध्वरैः
हिंसेति वर्णद्वितयं यस्यास्ति हृदये सदा ११६
यः प्राणिहिंसको मर्त्यः स एव हरिहिंसकः
सर्वप्राणिशरीरस्थो भगवान्कमलापतिः ११७
आत्मानं बहुधा सृष्ट्वा भगवान्भूतभावनः
संसारकौतुकागारे क्रीडेच्छिशुरिव स्वयम् ११८
शरीरिणः शरीरं हि निलयः परमात्मनः
परमात्मा स्वयं विष्णुरतो हिंसां विवर्जयेत् ११९
परप्राणविनाशेन चात्मतुष्टिर्विधीयते १२०
क्षणं स्यादात्मनस्तुष्टिरन्यस्य प्राणसङ्क्षयः
चरित्रमेतल्लोकानामत्यद्भुतमिव क्षितौ १२१
आत्मतृप्तिं प्रकुर्वन्ति परं हत्वातियत्नतः
धीमान्नात्मपरिज्ञानं कदाचित्कुरुते नहि १२२
अहं विष्णुरसौविष्णुरिति चेतसि भावयेत्
परदुःखेन यो दुःखी सुखी यश्च परश्रिया १२३
संसारेऽस्मिन्स विज्ञेयः साक्षादेव हरिः स्वयम्
धिगस्तु तत्सुखं नॄणां मोहवञ्चितचेतसाम् १२४
परहिंसाविधानेन सुखं यत्स्याद्भुजङ्गम
सुखानि वापि दुःखानि दीयन्ते यानि जन्तवे १२५
अचिरेणैव तानि स्म लभन्ते भुवि मानवाः
तस्माद्धिंसां परित्यज्य भुजङ्गम सुखी भव १२६
त्वयि प्रसन्ने गच्छावः पारं दुःखमहोदधेः
सर्प उवाच-
यदा स्यात्परहिंसायां नूनं मे नातिपातकम् १२७
तदा कथमहो सृष्टै वेधसा भक्ष्यभक्षकौ
परहिंसा न कर्तव्या सत्यमेतत्त्वयोदितम् १२८
किन्तु सर्वेषु भक्ष्येषु हिंसा सम्भाव्यते नहि
नारायणो विश्वरूपः सत्यमेतन्न संशयः १२९
भक्ष्यभक्षकसंयुक्तं स्वयमेव ससर्ज ह
सृजति स्वयमात्मानमात्मानं रक्षति स्वयम् १३०
आत्मानं स्वयमेवात्ति सृष्टिरेवंविधा हरेः
शक्तोऽहं किं युवां हन्तुं कालरूपी स्वयं विधिः १३१
सम्प्रति प्रेषयामास कार्येस्मिन्मां स्वयं हरिः
युवां ससर्ज यो देवो यश्च रक्षति वां सदा १३२
कालरूपी स एवाद्य हन्ति हेतुं विधाय माम्
व्यास उवाच-
ततस्तेन भुजङ्गेन भक्षितौ तौ च दम्पती १३३
गङ्गा गङ्गेति जल्पन्तौ महत्या क्षुधया पथि
जाह्नवीतीरयात्रायां पादेपादे जनाविमौ १३४
अश्वमेधाख्य यज्ञानां प्राप्तवन्तौ महाफलम्
तस्मादेनौ महात्मानौ बह्वश्वमेधधारिणौ १३५
एतयोः सदृशो नास्ति शतक्रतुरहं यतः
निजाधिकारेणैवान्यमवलम्ब्य पुरन्दरः १३६
अर्घ्यहस्तः पादचारी वृतो देवैः समाययौ
अथ रम्भोर्वशी चैव सुन्दर्योऽन्याश्च हर्षिताः १३७
अन्योन्यं कथयामासुर्निजयौवनगर्विताः
अयं पुण्यात्मनां श्रेष्ठो रसज्ञोऽत्यन्तसुन्दरः १३८
आयातोऽमुं करिष्यामि स्ववशं सेवितैः स्वकैः
काचित्काञ्चिद्वदत्येतज्जानामि सकलां कलाम् १३९
अतएव भविष्यामि कान्ताहमस्य भूपतेः
काचित्काञ्चिदिति ब्रूयात्ते शक्रोपि वशो मम १४०
किमत्र चित्रं वशगो भूपालोऽयं भविष्यति १४१
भर्त्ता ममायं च पतिर्ममायं स्वामी ममायं मम नाथ एषः
इतीव सर्वाः परमप्रमोदैर्वदन्ति नार्योखिलसद्गुणज्ञाः १४२
उच्चावचं विप्र निशम्य तासां जगाद काचिद्गुणिनी रसज्ञा
सौदास्यकान्तां नृपतिः स्वयं यां भजत्ययं किं कलहेन नार्यः १४३
सुन्दर्य्यस्तास्ततः सर्वाः सन्त्यज्य कलहं द्विज
आजग्मुर्हृदयोत्साहैः सर्वाभरणभूषिताः १४४
अथ तं नृपतिश्रेष्ठ सदारं गतकल्मषम्
पाद्याद्यैः पूजयामासुः प्राहेति च पुरन्दरः १४५
रथे निवेशयामास पुष्पके स्त्रीसमन्वितम्
भेरीमृदङ्गमधुरी डिण्डिमानकनिःस्वनैः १४६
करकं कणनादैश्च करतालस्वनैस्तथा
जयशब्दैश्च देवानां नाकः शब्दमयोऽभवत् १४७
देवाङ्गना चारुहस्त श्वेतचामरमारुतैः
वीजितः सरथारूढः सदारस्त्रिदिवं ययौ १४८
ततः शक्रः स्वयं तस्मै सत्यधर्माय भूभुजे
दत्तवान्निजासनार्द्धं शुभो वै क्षयशङ्कया १४९
शक्रेण सह भूपोऽसौ वसन्नेकासने सदा
शक्रत्वमकरोत्स्वर्गे केशवस्यानुकम्पया १५० 7.9.150
युगकोटिसहस्राणि दिवि भुक्त्वाखिलं सुखम्
रथमारुह्यवैकुण्ठं ययौ भगवदाज्ञया १५१
तत्र मन्वन्तरं भुक्त्वा सर्वभोगमनोरमम्
परमं ज्ञानमासाद्या सदारो मोक्षमाप्तवान् १५२
जाह्नवीतीरयात्रायां शरीरं त्यजतः पथि
फलमेवंविधं विप्र मया सर्वं प्रकीर्तितम् १५३
जाह्नवीतीरगमने मुनिभिस्तत्वदर्शिभिः
न कालनियमः प्रोक्तो नारदाद्यैर्महर्षिभिः १५४
यदायदा द्विजश्रेष्ठ गङ्गायां स्नानमाचरेत्
तदातदाऽक्षयं पुण्यं लभते मानवो ध्रुवम् १५५
गङ्गा सर्वाणि पापानि नाशयन्तीति निश्चयः
कुर्यात्पुनःपुनः पापं न च गङ्गा पुनाति तम् १५६
पापबुद्धिं परित्यज्य गङ्गायां लोकमातरि
स्नानं कुरुत हे लोका यदि सद्गतिमिच्छथ १५७
यत्पुण्यं गङ्गास्नानात्तु मानवानां भवेद्दिवज
तत्पुण्यं प्राप्यते विप्र कर्मभिः कैः सुदुस्तरैः १५८
आसाराणां भूमिरेणोः सङ्ख्यां कर्तुं तु शक्यते
भागीरथीगुणास्ते न शक्या वक्तुं न च द्विज १५९
विचार्य सर्वशास्त्राणि त्वदीयानि मयोच्यते
गङ्गाम्भसि सकृत्स्नात्वा मोक्षमाप्नोति मानवः १६०
स्नानं कूपजलेऽपि यस्तु कुरुते गङ्गां विचिन्त्य प्रभुं देवानां सकलार्त्तशोकदुरितत्रासौघविध्वंसिनीम्
मुक्तः सोऽपि समस्तपातकचयैर्गोविप्रहत्यादिभिर्गच्छेद्विष्णुपुरं समस्तसुखदं-
गङ्गाप्रसादाद्दिवज १६१
इति श्रीपद्मपुराणे क्रियायोगसारे गङ्गामाहात्म्ये नवमोऽध्यायः ९