राजोवाच-
विश्वास-प्रस्तुतिः
तिष्ठात्रैव महाबाहो मम राज्ये सुशोभने
कर्तव्या ते मया वृत्तिः संशयो नात्र विद्यते ॥ १ ॥
मूलम्

ततो वीरवरस्तस्य सन्निधौ धरणीपतेः
उवास सततं विप्र तत्सेवा गतमानसः ॥ २ ॥
मूलम्
ततो वीरवरस्तस्य सन्निधौ धरणीपतेः
उवास सततं विप्र तत्सेवा गतमानसः ॥ २ ॥
विश्वास-प्रस्तुतिः
अथैकदा तस्य पुरे जैमिने सकलाः प्रजाः
भीमनादो नाम खड्गः क्षोभयामास सन्ततम् ॥ ३ ॥

तद्वधाय ततो राजा प्रेषयामास तं रुषा
ततोऽसौ गण्डकं हन्तु ययौ वीरवरो जनैः ॥ ४ ॥

ददर्श पर्वताकारं सुप्तं तं धरणीतले
दंष्ट्राकरालवदनं खड्गिनं तं सशक्तिधृक् ॥ ५ ॥

नभसि भ्रामयन्सप्तिं स च वीरवरो रुषा
खड्गिनं तमिति प्राह मेघगम्भीरया गिरा ॥ ६ ॥

उपार्जितास्त्वया ये ये दुरात्मन्पापपादपाः
बभूवुः फलिनस्ते ते ऋतुं प्राप्य यथा द्रुमाः ॥ ७ ॥

खादिताः प्राणिनो ये ये राज्येऽस्मिन्पापिना त्वया
यमालये समस्तैस्तैर्दर्शनं ते भविष्यति ॥ ८ ॥

मुञ्च निद्रामरे दुष्ट मां पश्यान्तकरं निजम्
अनया निद्रया किन्ते महानिद्र भविष्यति ॥ ९ ॥

ततः सोऽपि समुत्तस्थौ क्रोधसंरक्तलोचनः
धूलिधूसरसर्वाङ्गस्त्यक्तनिद्रो महाबलः ॥ १० ॥

भीमनाद उवाच-
गर्वं मा कुरु दुर्बुद्धे तवायुः शेषतां गतम्
तत्सन्दर्शनमात्रेण प्राप्तः कोनु विमुच्यते ॥ ११ ॥

ज्वलदग्निशिखाश्रेणीं प्रविशेच्छलभो यथा
मत्कोपानलराशौ त्वं तथैव निपतिष्यसि ॥ १२ ॥

इति ब्रुवन्तं तं द्रष्टुं शक्त्या निशितया तया
स जज्वाल महाकोपात्कृत्वा हुङ्कारनिःस्वनम् ॥ १३ ॥

स पपात महीपृष्ठे गतायुर्गण्डकस्ततः
चालयन्पृथिवीं सर्वां स्वनितौघ परिप्लुतः ॥ १४ ॥

खड्गिनं पतितं दृष्ट्वा गङ्गाब्धिरोधसि द्विज
समीपं तस्य भूपस्य स गन्तुमुपचक्रमे ॥ १५ ॥

स गच्छन्पथिविप्रर्षे ददर्शैकं महाशयम्
जाज्वल्यमानं तेजोभिर्द्वितीयमिव भास्करम् ॥ १६ ॥

विष्णुदूतगणैर्युक्तं तुलसीमाल्यभूषितम्
दिव्याम्बरधरं दिव्यं रथारूढं स्मिताननम् ॥ १७ ॥

पप्रच्छेति ततो भक्त्या स च वीरवरश्च तम्
कस्त्वं कुत इहायातः क्व गच्छसि वदस्व नः ॥ १८ ॥

पुरुष उवाच-
कन्येविधृतपुंवेशे मद्वृत्तान्तं निशामय
कथयामि समासेन श्रोतुमिच्छसि चेन्मुदा ॥ १९ ॥

अहमासं पुरा राजा चौरवंशवनानलः
धर्मबुद्धिरिति ख्यातः सर्वधर्मपरायणः ॥ २० ॥

मया यज्ञाः कृताः सर्वे दानानि सकलानि च
चतुर्वर्षसहस्राणि पालिता च वसुन्धरा ॥ २१ ॥

पाखण्डजनवाक्येन मया भूमिर्द्विजन्मनः
लङ्घिता कोपमासाद्य दोषिता न हि कुत्रचित् ॥ २२ ॥

मया तेनापराधेन स्वयमेव विधिस्ततः
जहार तत्क्षणादेव सर्वां राजश्रियं रुषा ॥ २३ ॥

अथाहं गतसम्पत्तिः शोकाग्निदग्धमानसः
कियिद्भिर्दिवसैः साध्वि यमराजवशं गतः ॥ २४ ॥

मां दृष्ट्वा चित्रगुप्तेन तत्कर्मप्रकटीकृतम्
उक्तश्च भास्करिर्देवश्चारुहासगतिः प्रभुः ॥ २५ ॥

धर्मबुद्धिरयं राजा कृतपुण्यक्रियः सदा
अस्त्यस्य दुरितं किञ्चित्तन्निशामय वच्म्यहम् ॥ २६ ॥

पाखण्डैर्बोधितोऽयं तु जहार द्विजशासनम्
तेनैव कर्मणा स्थानं नरके चास्यदुत्तरे ॥ २७ ॥

वृत्तिच्छेदः सूर्यपुत्र यस्य येन विधीयते
स तस्य वधमाप्नोति शास्त्रेषु इति निश्चितम् ॥ २८ ॥

तस्मादयं पापकर्मा ब्रह्महा पृथिवीपतिः
एतस्य निरये स्थानं कल्पकोटिशतावधि ॥ २९ ॥

आत्मदत्तां हरेद्यस्तु परदत्तां च मेदिनीम्
स कोटिकुलसंयुक्तः प्रयाति नरकं विभो ॥ ३० ॥

यो हरेच्च महीं तावद्देवस्य ब्राह्मणस्य च
न तस्य निष्कृतिर्दृष्टा कल्पकोटिशतावधि ॥ ३१ ॥

परदत्तां क्षितिं यस्तु रक्षितुर्यस्तु रक्षति
स कोटिगुणमाप्नोति पुण्यं दातृगुणादपि ॥ ३२ ॥

ततोऽहं शमनादेशाद्भुक्त्वा वै पूतिमृत्तिकाम्
कल्पयोनौ प्राणिहिंसा सर्वदैव मया कृता ॥ ३३ ॥

गावश्च ब्राह्मणाश्चैव तथैवान्येऽपि जीविनः
मया दुष्टेन निहताः कोटिकोटिसहस्रशः ॥ ३४ ॥

कालेन प्रेरिता साध्वि मां सर्वक्षयिताश्रयम्
खड्गयोनिं समुत्पन्नं भवती प्रजघान ह ॥ ३५ ॥

गङ्गाब्धिसङ्गमं तीर्थं दुर्ल्लभं दैवतैरपि
स्थलेऽपि मृत्युमासाद्य यत्रेयं मम सद्गतिः ॥ ३६ ॥

गच्छ सुश्रोणि भद्रं ते भविष्यति न संशयः
अचिरेणैव पतिना दर्शनं ते भविष्यति ॥ ३७ ॥

व्यास उवाच-
तस्यैतद्वचनं श्रुत्वा सा कन्या परमाद्भुतम्
ववन्दे चरणौ तस्य धर्मबुद्धिर्महीपतिः ॥ ३८ ॥

ततो रथं समारुह्य स राजा त्रिदिवं ययौ
सोऽपि वीरवरो विप्र जगाम नृपतेः सभाम् ॥ ३९ ॥

राजा च तं मृतं श्रुत्वा खड्गिनं भीमविक्रमम्
तस्यै ददौ विवाहेन जयन्तीं निजकन्यकाम् ॥ ४० ॥

जयन्तीं तां समादाय सा कन्या पुरुषाकृतिः
तपस्तप्तुं मनश्चक्रे गङ्गासागरसङ्गमे ॥ ४१ ॥

गङ्गाब्धिसङ्गमे स्नात्वा प्रभाते द्विजसत्तम
गीतैर्वाद्यैश्च नृत्यैश्च यजेन्नारायणं प्रभुम् ॥ ४२ ॥

निरामिषं हविष्यं च फलाहारं द्विजोत्तम
कदाचिदुपवासं सा कुरुते च वराङ्गना ॥ ४३ ॥

एकाकिनीं समालोक्य कोऽग्रहीदत्र भूतले
मां नीचमिति मत्वासौ समारुह्य च वाजिनम् ॥ ४४ ॥

भूय एव निजं राज्यं साजगाम वराङ्गना
माधवस्य वियोगेन तस्य विद्याधरस्य वा ॥ ४५ ॥

मृता सा राजतनया यतोऽन्यं न भजत्यपि
तस्यां मृतायां भृत्योऽसौ निर्जगाम यदृच्छया ॥ ४६ ॥

विलप्य बहुधा तत्र प्रचेष्टोऽत्यन्त शोकभाक्
जगाम मरणार्थाय गङ्गासागरसङ्गमम् ॥ ४७ ॥

गङ्गाब्धिसङ्गमे स्नात्वा तुलसीमृद्विभूषितः
कृताञ्जलिरिति प्राह प्रचेष्टो भीष्ममातरम् ॥ ४८ ॥

पवित्रे त्वज्जले मातस्त्यजाम्यत्र कलेवरम्
सुलोचना मे कान्तास्याद्यथातत्त्वं करिष्यसि ॥ ४९ ॥

भूयोभूयो ब्रुवन्तं तमिति तस्याश्च किङ्कराः
बध्वा पाशेन तं निन्युर्निरुक्तां तत्सभां प्रति ५० 7.6.50
तप्ता वीरवरादेशात्किङ्करास्ते सुदारुणाः
कारायां स्थापयामासुः प्रचेष्टमनुविह्वलम् ॥ ५१ ॥

एतस्मिन्नेव काले तु दृष्ट्वा तत्कार्यमद्भुतम्
हाहाकारो महानासीत्तद्राज्ये द्विजसत्तम ॥ ५२ ॥

एतच्छ्रुत्वाद्भुतं कर्म स च राजा गुणाकरः
आयातोऽत्यन्त सन्तप्तो वदतीति द्विजोत्तम ॥ ५३ ॥

निषङ्गिणश्च रथिनश्चर्मिणः खड्गिनस्तथा
धानुष्काश्च कौन्तकाश्च कोटिकोटिसहस्रशः ॥ ५४ ॥

स्थाने स्थाने पुरे तस्मिन्राजा वै शोकविह्वलः
नियोजयामास तदा रक्षायै द्विजसत्तम ॥ ५५ ॥

तेनाज्ञप्तास्ततः सर्वे योद्धारोऽमितविक्रमाः
सत्वराः पतिरक्षासु तस्थुस्तस्मिन्पुरे रुषा ॥ ५६ ॥

गीतानि गायकैः सर्वैर्नृत्यानि नर्तकैस्तथा
वाद्यानि वादकैश्चैव तत्र त्यक्तानि साध्वसैः ॥ ५७ ॥

ततः स राजा विप्रर्षे समाहूय स्वमन्त्रिणः
किमेतदिति पप्रच्छ शोकोपहतमानसः ॥ ५८ ॥

मन्त्रिण ऊचुः-
देवाद्भुतमिदं कर्म न दृष्टं न श्रुतं क्वचित्
एतावतां नृणां मध्ये पश्यतां क्व जगाम सा ॥ ५९ ॥

कोऽपि जल्पति सा लक्ष्मीः शापेनागत्य भूतले
त्वदीयं सौधमेतर्हि स्वयमन्तरधीयत ॥ ६० ॥

मायामयी सा रमणी मायया त्वद्गृहे स्थिता
मायां स्वकीयां दर्शित्वा गतेत्यन्ये वदन्ति वै ॥ ६१ ॥

केचिद्वदन्ति रमणी सर्वलक्षणसंयुता
आगमिष्यति भूयोऽपि भगाङ्गो मघवा यतः ॥ ६२ ॥

तन्मुखञ्चन्द्रवन्मत्वा विचिन्त्यात्मानमात्मना
केचिद्वदन्ति चन्द्रेण नीता सुप्रतिपत्तये ॥ ६३ ॥

वदन्ति केऽपि सा कन्या सद्गुणा दीर्घवासना
भ्रान्त्या चन्द्रमसा ग्रस्ता पूर्णचन्द्रनिभानना ॥ ६४ ॥

दिग्गजैर्नलिनी भ्रान्त्या प्रफुल्लकमलानना
विषदण्डप्रहस्ता च नीरजा कलिकाकुचा ॥ ६५ ॥

केचिद्वदन्ति सृष्ट्वा सा स्रष्टुमन्यां स्त्रियं नृपं
तद्रूपादर्शनालोक्ये नीता रूपगुणास्थिता ॥ ६६ ॥

केचिद्वदन्ति भूपाल त्वया सर्वदिशो जिताः
रूपैर्दैवाङ्गना जेतुं गता सा त्रिदिवं प्रति ॥ ६७ ॥

अथ ते मन्त्रिणोऽन्योन्यमालोक्येति मुखश्रियः
स्तब्धा इवाभवन्सर्वे निरुत्साहाः ससाध्वसाः ॥ ६८ ॥

भूपः सुलोचने पुत्रि क्व गतासि विहाय माम्
इत्युक्त्वा स महीपालः पृथिव्यां मूर्च्छितोऽपतत् ॥ ६९ ॥

राजानं पतितं दृष्ट्वा शोकेन महता ततः
जज्ञे हाहारवस्तस्मिन्नगरे द्विजसत्तम ॥ ७० ॥

तत्क्रन्दनध्वनिं विप्र प्रतिश्रुत्वा च जायते
उत्प्रेक्षते तत्र लोके क्रन्दन्ति ककुभो दश ॥ ७१ ॥

धूलिधूसरतां गन्तुं नृपतिं मुक्तकेशकम्
विधृत्य मन्त्रिणः सर्वे तरसा सौधमाययुः ॥ ७२ ॥

अथ विद्याधरस्तत्र श्रीविक्रमदेवजः
तस्याः पीठं समालिङ्ग्य रुरोद करुणस्वनैः ॥ ७३ ॥

हा प्रिये चञ्चलापाङ्गि सुवर्णकुसुमप्रभे
शोकाब्धौ पातयित्वा मां क्व गतासि वरानने ॥ ७४ ॥

मम किं दूषणं दृष्टं त्वया निर्दोषया प्रिये
न ददासि कथं भद्रे दर्शनं कमलानने ॥ ७५ ॥

न जीविष्याम्यंहं भद्रे क्षणमात्रं त्वया विना
अतो मे दर्शनं दत्वा क्रियतां प्राणरक्षणम् ॥ ७६ ॥

किं धनैः किं जनैः किं मे मित्रैः किं वा धनैर्गृहैः
नाप्नोमि यदि भद्रे त्वां प्राणेभ्योऽपि गरीयसीम् ॥ ७७ ॥

एतच्चान्यच्च विप्रर्षे स कृत्वा करुणं महत्
शोकान्मृत्युं विनिश्चिन्त्य ययौ गङ्गाब्धिसङ्गमम् ॥ ७८ ॥

तत्र गङ्गाम्भसि स्नात्वा समुद्रजलमिश्रिते
निवेद्य भास्करायार्घं गङ्गां नत्वाह मातरम् ॥ ७९ ॥

गङ्ङ्गे देवि जगन्मातस्त्वज्जले विमले तनुम्
त्यजामि तां यथा भूयः प्राप्नोमि तत्करिष्यसि ॥ ८० ॥

इति ब्रुवन्तं तं विप्र तत्किङ्करवरास्ततः
विधिं विनिन्युः सदृशं क्रुद्धा वीरवरस्य च ॥ ८१ ॥

ततो वीरवरः प्राह कस्त्वं भोः कुत आगतः
कथमत्र तनुत्यागं कुरुषे तद्वदस्व मे ॥ ८२ ॥

तद्वाक्यमेतदाकर्ण्य ततो विद्याधरोऽखिलाम्
तां कथां कथयामास शृण्वतां विस्मयप्रदाम् ॥ ८३ ॥

अथ त्वं मूर्खलोकानां प्रवरोसि न संशयः
गान्धर्वी राक्षसी वापि पन्नगी वापि किन्नरी ॥ ८४ ॥

शापागतेव सा कन्या तस्मादन्तर्हिता स्वयम्
सा देवरूपिणी कन्या देवानां निलयं गता ॥ ८५ ॥

कथं तया समं भूयो दर्शनं ते भविष्यति
चकोरपेयं पीयूषं गगने रोहिणीपतेः ॥ ८६ ॥
मूलम्
कथं तया समं भूयो दर्शनं ते भविष्यति
चकोरपेयं पीयूषं गगने रोहिणीपतेः ॥ ८६ ॥
विश्वास-प्रस्तुतिः
किं शक्नुवन्ति तं पापा वायसा बलिनोऽपि च
यदप्राप्यं न तत्प्राप्यं प्राप्यं यत्तच्च लभ्यते ॥ ८७ ॥

जानन्ति तज्जनं कश्चिन्मोहं प्रति न गच्छति
केनापि दीयते कन्या कन्या केनापि गृह्यते ॥ ८८ ॥

पूर्वजन्मनि या कन्या तां कन्यां लभते पतिः
पुत्रप्रयोजना भार्या पुत्राः पिण्डप्रयोजनाः ॥ ८९ ॥

कुर्वन्ति दारग्रहणमतएव मनीषिणः
यथेह दीयते नार्या तथा नारी समश्नुते ॥ ९० ॥

क्रन्दन्रजन्यामप्येष भृङ्गः कुमुदिनीं सहेत्
सद्रूपोऽपि पतिः स्त्रीणां सन्तोषाय भवेन्नहि ॥ ९१ ॥

रवौ स्थितेऽपि पद्मिन्या मधूनि भ्रमरः पिबेत्
नारीषु सततं चित्तं विष्णुभक्तिष्वनादरः ॥ ९२ ॥

शोकैः कैश्चित्तनुत्यागस्तिस्रः पुंसां विडम्बनाः
दाराः पुत्रास्तथा भ्राता देशाश्च बान्धवास्तथा ॥ ९३ ॥

पुनर्लभ्या इमे सर्वे पुनर्लभ्या न चासवः
न मुक्तो विषयो धर्मो न च कर्म कृतं त्वया ॥ ९४ ॥

वर्तमाने गते मूढ भविष्यं जन्म दुर्ल्लभम्
मम माता मम पिता भार्या भ्राता धनं मम ॥ ९५ ॥

निष्फलं याति वै जन्म नृणां ममतया तया
एवं प्रबोधितः सम्यक्तेन धीरवरेण सः ॥ ९६ ॥

दौर्मनस्यं परित्यज्य तस्थौ तत्रैव जैमिने
ततस्तु गन्धिनी प्रीत्या हसन्ती स्वगृहं गता ॥ ९७ ॥

गत्वा च माधवं मञ्चे स्वपन्तं सा ददर्श ह
गन्धिन्युवाच-
उत्तिष्ठोत्तिष्ठ दुर्बुद्धे भ्रमस्ते विफलोऽभवत् ॥ ९८ ॥

विवाहकाले सा कन्या बभूवान्तर्हिता स्वयम्
एवं तस्या वचः श्रुत्वा समुत्तस्थौ स माधवः ॥ ९९ ॥

विललापाकुलः शोकैर्महद्भिः क्ष्मातले लुठन्
कन्याया दूषणं नास्ति नास्ति विद्याधरस्य वा १०० 7.6.100