जैमिनिरुवाच-
विश्वास-प्रस्तुतिः
गङ्गाद्वारस्य माहात्म्यं त्वत्प्रसादाच्छ्रुतं मया
प्रयागस्य च माहात्म्यमिदानीं श्रोतुमिष्यसे ॥ १ ॥
मूलम्
गङ्गाद्वारस्य माहात्म्यं त्वत्प्रसादाच्छ्रुतं मया
प्रयागस्य च माहात्म्यमिदानीं श्रोतुमिष्यसे ॥ १ ॥
विश्वास-प्रस्तुतिः
गङ्गाब्धिसङ्गमस्यापि माहात्म्यं कथ्यतां मुने
न सम्यक्कथितुं कोऽपि शक्नोति त्वदृते क्षितौ ॥ २ ॥
मूलम्
गङ्गाब्धिसङ्गमस्यापि माहात्म्यं कथ्यतां मुने
न सम्यक्कथितुं कोऽपि शक्नोति त्वदृते क्षितौ ॥ २ ॥
विश्वास-प्रस्तुतिः
व्यास उवाच-
प्रयागस्य फलं वत्स गङ्गाब्धिसङ्गमस्य च
सम्यग्वक्तुं न शक्नोमि सङ्क्षेपाच्छ्रूयतां द्विज ॥ ३ ॥
मूलम्
व्यास उवाच-
प्रयागस्य फलं वत्स गङ्गाब्धिसङ्गमस्य च
सम्यग्वक्तुं न शक्नोमि सङ्क्षेपाच्छ्रूयतां द्विज ॥ ३ ॥
विश्वास-प्रस्तुतिः
कोटिब्रह्माण्डमध्येषु यानि तीर्थानि वै मुने
प्रयान्ति तानि सर्वाणि प्रयागप्रतिमां तु किम् ॥ ४ ॥
मूलम्
कोटिब्रह्माण्डमध्येषु यानि तीर्थानि वै मुने
प्रयान्ति तानि सर्वाणि प्रयागप्रतिमां तु किम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
गङ्गाया यमुनायाश्च सरस्वत्याश्च सङ्गमे
प्रशंसन्ति सुराः सर्वे ब्रह्मविष्णुशिवादयः ॥ ५ ॥
मूलम्
गङ्गाया यमुनायाश्च सरस्वत्याश्च सङ्गमे
प्रशंसन्ति सुराः सर्वे ब्रह्मविष्णुशिवादयः ॥ ५ ॥
विश्वास-प्रस्तुतिः
मकरस्थे रवौ माघे स्नानं ये तत्र कुर्वते
तेषामागमनं नास्ति विष्णुलोकात्कदाचन ॥ ६ ॥
मूलम्
मकरस्थे रवौ माघे स्नानं ये तत्र कुर्वते
तेषामागमनं नास्ति विष्णुलोकात्कदाचन ॥ ६ ॥
विश्वास-प्रस्तुतिः
गवां कोटिसहस्राणि वाजिमेधमुखाध्वराः
मेरुतुल्यसुवर्णानि दानान्यन्यानि च द्विज ॥ ७ ॥
मूलम्
गवां कोटिसहस्राणि वाजिमेधमुखाध्वराः
मेरुतुल्यसुवर्णानि दानान्यन्यानि च द्विज ॥ ७ ॥
विश्वास-प्रस्तुतिः
कुरुक्षेत्रे पुष्करे च प्रभासे च गयासु च
हुत्वा दत्वा च विप्रेभ्यो यत्फलं प्राप्यते बुधैः ॥ ८ ॥
मूलम्
कुरुक्षेत्रे पुष्करे च प्रभासे च गयासु च
हुत्वा दत्वा च विप्रेभ्यो यत्फलं प्राप्यते बुधैः ॥ ८ ॥
विश्वास-प्रस्तुतिः
माघे स्नात्वा प्रयागे तु तस्मात्कोटिगुणं भवेत्
तस्मात्समस्ततीर्थानां प्रयागः परमः स्मृतः ॥ ९ ॥
मूलम्
माघे स्नात्वा प्रयागे तु तस्मात्कोटिगुणं भवेत्
तस्मात्समस्ततीर्थानां प्रयागः परमः स्मृतः ॥ ९ ॥
विश्वास-प्रस्तुतिः
सिंहराशिस्थिते सूर्ये गोदावर्यां द्विजोत्तम
चिरमुग्रतपस्तप्त्वा स्नानदानव्रतादिभिः ॥ १० ॥
मूलम्
सिंहराशिस्थिते सूर्ये गोदावर्यां द्विजोत्तम
चिरमुग्रतपस्तप्त्वा स्नानदानव्रतादिभिः ॥ १० ॥
विश्वास-प्रस्तुतिः
वेदागमपुराणोक्तं यत्पुण्यमक्षयं भवेत्
माघे स्नात्वा प्रयागे तु तत्पुण्यं नात्र संशयः ॥ ११ ॥
मूलम्
वेदागमपुराणोक्तं यत्पुण्यमक्षयं भवेत्
माघे स्नात्वा प्रयागे तु तत्पुण्यं नात्र संशयः ॥ ११ ॥
विश्वास-प्रस्तुतिः
फाल्गुने कृष्णपक्षे तु चतुर्दश्यामुपोषितः
काश्यां यत्फलमाप्नोति तन्मे निगदतः शृणु ॥ १२ ॥
मूलम्
फाल्गुने कृष्णपक्षे तु चतुर्दश्यामुपोषितः
काश्यां यत्फलमाप्नोति तन्मे निगदतः शृणु ॥ १२ ॥
विश्वास-प्रस्तुतिः
कोटिजन्मार्जितैः पापैर्विमुक्तः सर्वरूपधृक्
उद्धृत्य कोटिपुरुषाञ्छिवेन सह मोदते ॥ १३ ॥
मूलम्
कोटिजन्मार्जितैः पापैर्विमुक्तः सर्वरूपधृक्
उद्धृत्य कोटिपुरुषाञ्छिवेन सह मोदते ॥ १३ ॥
विश्वास-प्रस्तुतिः
माघेमासे प्रयागे तु स्नात्वा सकृदपि द्विजः
कल्पकोटिशतं विष्णुं सम्पूज्यान्यत्र यत्फलम् ॥ १४ ॥
मूलम्
माघेमासे प्रयागे तु स्नात्वा सकृदपि द्विजः
कल्पकोटिशतं विष्णुं सम्पूज्यान्यत्र यत्फलम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
एकाहमपि सम्पूज्य मकरस्थे दिवाकरे
सत्यं सत्यमहं वच्मि सर्वमेवाक्षयं भवेत् ॥ १५ ॥
मूलम्
एकाहमपि सम्पूज्य मकरस्थे दिवाकरे
सत्यं सत्यमहं वच्मि सर्वमेवाक्षयं भवेत् ॥ १५ ॥
विश्वास-प्रस्तुतिः
यावद्दिनं माघमासे तत्र तिष्ठति मानवः
तावत्कल्पशतं विप्र मोदते विष्णुना सह ॥ १६ ॥
मूलम्
यावद्दिनं माघमासे तत्र तिष्ठति मानवः
तावत्कल्पशतं विप्र मोदते विष्णुना सह ॥ १६ ॥
विश्वास-प्रस्तुतिः
गङ्गायमुनयोस्तोये स्नानं येन कृतं सकृत्
सद्यस्तद्दर्शनात्पापैर्मुच्यते सर्वपातकैः ॥ १७ ॥
मूलम्
गङ्गायमुनयोस्तोये स्नानं येन कृतं सकृत्
सद्यस्तद्दर्शनात्पापैर्मुच्यते सर्वपातकैः ॥ १७ ॥
विश्वास-प्रस्तुतिः
तर्तुं यदीच्छन्ति जनाः संसाराब्धिं सुदुस्तरम्
गङ्गायमुनयोः स्नात्वा भक्त्या पश्यन्तु माधवम् ॥ १८ ॥
मूलम्
तर्तुं यदीच्छन्ति जनाः संसाराब्धिं सुदुस्तरम्
गङ्गायमुनयोः स्नात्वा भक्त्या पश्यन्तु माधवम् ॥ १८ ॥
विश्वास-प्रस्तुतिः
यजन्ति मानवास्तत्र यद्यदिष्ट्वा कलेवरम्
सद्यो लभन्ते विप्रर्षे तत्तदेव न संशयः ॥ १९ ॥
मूलम्
यजन्ति मानवास्तत्र यद्यदिष्ट्वा कलेवरम्
सद्यो लभन्ते विप्रर्षे तत्तदेव न संशयः ॥ १९ ॥
विश्वास-प्रस्तुतिः
इतिहासमिहैवाहं कथयामि निशामय
यच्छ्रुत्वा सर्वपापेभ्यो मुक्तो भवति मानवः ॥ २० ॥
मूलम्
इतिहासमिहैवाहं कथयामि निशामय
यच्छ्रुत्वा सर्वपापेभ्यो मुक्तो भवति मानवः ॥ २० ॥
विश्वास-प्रस्तुतिः
प्रणिधिर्नाम तत्रासीद्वैश्य एको महाधनी
देवतातिथिपूजासु विप्रभक्त्येकतत्परः ॥ २१ ॥
मूलम्
प्रणिधिर्नाम तत्रासीद्वैश्य एको महाधनी
देवतातिथिपूजासु विप्रभक्त्येकतत्परः ॥ २१ ॥
विश्वास-प्रस्तुतिः
तस्य पद्मावती नाम धर्मपत्नी पतिव्रता
चार्वङ्गी शीलयुक्ता च कुलजा प्रियवादिनी ॥ २२ ॥
मूलम्
तस्य पद्मावती नाम धर्मपत्नी पतिव्रता
चार्वङ्गी शीलयुक्ता च कुलजा प्रियवादिनी ॥ २२ ॥
विश्वास-प्रस्तुतिः
स्त्रीणां योग्या गुणा ये ये सृष्टाः श्रीपरमेष्ठिना
तच्छरीरे गुणास्ते ते निवसन्ति द्विजोत्तम ॥ २३ ॥
मूलम्
स्त्रीणां योग्या गुणा ये ये सृष्टाः श्रीपरमेष्ठिना
तच्छरीरे गुणास्ते ते निवसन्ति द्विजोत्तम ॥ २३ ॥
विश्वास-प्रस्तुतिः
अथासौप्रणिधिर्वैश्यः समादायधनं बहु
वाणिज्यार्थे गतो विप्र शुभे लग्ने शुभे तिथौ ॥ २४ ॥
मूलम्
अथासौप्रणिधिर्वैश्यः समादायधनं बहु
वाणिज्यार्थे गतो विप्र शुभे लग्ने शुभे तिथौ ॥ २४ ॥
विश्वास-प्रस्तुतिः
धनाद्धर्मः प्रभवति धनाच्च विपुलं यशः
धनात्कुलमवाप्नोति भवेत्किं वा धनादृते ॥ २५ ॥
मूलम्
धनाद्धर्मः प्रभवति धनाच्च विपुलं यशः
धनात्कुलमवाप्नोति भवेत्किं वा धनादृते ॥ २५ ॥
विश्वास-प्रस्तुतिः
धनहीनं जनं दृष्ट्वा सखापि वा पलायते
मेघःशरद्यम्बुहीनः खण्डं खण्डं नयेन्महत् ॥ २६ ॥
मूलम्
धनहीनं जनं दृष्ट्वा सखापि वा पलायते
मेघःशरद्यम्बुहीनः खण्डं खण्डं नयेन्महत् ॥ २६ ॥
विश्वास-प्रस्तुतिः
खादितुं प्राप्यते यावत्तावदेव हि बान्धवाः
धनं यस्य कुलं तस्य बुद्धिस्तस्य स पण्डितः ॥ २७ ॥
मूलम्
खादितुं प्राप्यते यावत्तावदेव हि बान्धवाः
धनं यस्य कुलं तस्य बुद्धिस्तस्य स पण्डितः ॥ २७ ॥
विश्वास-प्रस्तुतिः
अर्थैर्विहीनः पुरुषो जीवन्नपि मृतोपमः
धर्मार्थविद्यार्जनतो मतिर्यस्य नि वर्तते ॥ २८ ॥
मूलम्
अर्थैर्विहीनः पुरुषो जीवन्नपि मृतोपमः
धर्मार्थविद्यार्जनतो मतिर्यस्य नि वर्तते ॥ २८ ॥
विश्वास-प्रस्तुतिः
ज्ञेयः स मूर्खः सुतरामधिकस्याधिकं फलम्
कर्त्तव्यः सततं धर्मश्चार्जितव्यं सदाधनम् ॥ २९ ॥
मूलम्
ज्ञेयः स मूर्खः सुतरामधिकस्याधिकं फलम्
कर्त्तव्यः सततं धर्मश्चार्जितव्यं सदाधनम् ॥ २९ ॥
विश्वास-प्रस्तुतिः
शिक्षितव्या सदा विद्या पुम्भिरेव विचक्षणैः
दानाद्धनं च विद्या च वर्द्धते प्रतिवासरम् ॥ ३० ॥
मूलम्
शिक्षितव्या सदा विद्या पुम्भिरेव विचक्षणैः
दानाद्धनं च विद्या च वर्द्धते प्रतिवासरम् ॥ ३० ॥
विश्वास-प्रस्तुतिः
धर्मस्तु वर्द्धते नैव रक्षतेन विना नृणाम्
काष्ठं तृणं तुषं वापि सम्प्राप्य न परित्यजेत् ॥ ३१ ॥
मूलम्
धर्मस्तु वर्द्धते नैव रक्षतेन विना नृणाम्
काष्ठं तृणं तुषं वापि सम्प्राप्य न परित्यजेत् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
पुमान्सञ्चयशीलोऽपि कदाचिन्नावसीदति
ततोऽसौ प्रणिधिर्वैश्यो नियोज्य स्त्रियमालये ॥ ३२ ॥
मूलम्
पुमान्सञ्चयशीलोऽपि कदाचिन्नावसीदति
ततोऽसौ प्रणिधिर्वैश्यो नियोज्य स्त्रियमालये ॥ ३२ ॥
विश्वास-प्रस्तुतिः
गृहव्यापारनिष्णातो वाणिज्येन जगाम ह
अथैकदा तस्य पत्नी गृहीत्वोद्वर्तनादिकम् ॥ ३३ ॥
मूलम्
गृहव्यापारनिष्णातो वाणिज्येन जगाम ह
अथैकदा तस्य पत्नी गृहीत्वोद्वर्तनादिकम् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
सखीभिः सह विप्रर्षे जगाम स्नानहेतवे
ततो धनुर्ध्वजो नाम स्वयं च पातकाश्रयः ॥ ३४ ॥
मूलम्
सखीभिः सह विप्रर्षे जगाम स्नानहेतवे
ततो धनुर्ध्वजो नाम स्वयं च पातकाश्रयः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
निजेच्छया प्रकुर्वन्तीं स्नानकर्म ददर्श ताम्
विकसत्स्वर्णपुष्पाढ्यां प्रफुल्लकमलाननाम् ॥ ३५ ॥
मूलम्
निजेच्छया प्रकुर्वन्तीं स्नानकर्म ददर्श ताम्
विकसत्स्वर्णपुष्पाढ्यां प्रफुल्लकमलाननाम् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
मृगशावदृशं चारु पीनोन्नतपयोधराम्
तां वैश्यपत्नीमालोक्य श्वपचोऽसौ स्मरातुरः ॥ ३६ ॥
मूलम्
मृगशावदृशं चारु पीनोन्नतपयोधराम्
तां वैश्यपत्नीमालोक्य श्वपचोऽसौ स्मरातुरः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
उवाच प्रहसन्वाणीं निजमूर्तिमचिन्तयन्
धनुर्ध्वज उवाच-
कासि कल्याणि सुश्रोणि चारुहासिनि सुन्दरि ॥ ३७ ॥
मूलम्
उवाच प्रहसन्वाणीं निजमूर्तिमचिन्तयन्
धनुर्ध्वज उवाच-
कासि कल्याणि सुश्रोणि चारुहासिनि सुन्दरि ॥ ३७ ॥
विश्वास-प्रस्तुतिः
मनो हरसि मे कस्मात्सुयौवनरसैः प्रिये
विशालजघने तन्वि मया गुणवता सह ॥ ३८ ॥
मूलम्
मनो हरसि मे कस्मात्सुयौवनरसैः प्रिये
विशालजघने तन्वि मया गुणवता सह ॥ ३८ ॥
विश्वास-प्रस्तुतिः
गुणवत्या त्वया सर्वं सुखमत्यनुभूयताम्
धनुर्ध्वजवचः श्रुत्वा तस्याः सख्यस्ततो द्विज ॥ ३९ ॥
मूलम्
गुणवत्या त्वया सर्वं सुखमत्यनुभूयताम्
धनुर्ध्वजवचः श्रुत्वा तस्याः सख्यस्ततो द्विज ॥ ३९ ॥
विश्वास-प्रस्तुतिः
ऊचुर्वाक्यं तथा क्रुद्धाः सन्दष्टदशनच्छदाः
सख्य ऊचुः-
अरे मूढ दुराचार दुराचारकुलोद्भव ॥ ४० ॥
मूलम्
ऊचुर्वाक्यं तथा क्रुद्धाः सन्दष्टदशनच्छदाः
सख्य ऊचुः-
अरे मूढ दुराचार दुराचारकुलोद्भव ॥ ४० ॥
विश्वास-प्रस्तुतिः
पादनिष्प्रेक्षणमपि नैतस्यास्ते प्रदीयते
इयं पतिव्रता नारी धर्मकर्मपरायणा ॥ ४१ ॥
मूलम्
पादनिष्प्रेक्षणमपि नैतस्यास्ते प्रदीयते
इयं पतिव्रता नारी धर्मकर्मपरायणा ॥ ४१ ॥
विश्वास-प्रस्तुतिः
आत्मानं सुखमिच्छद्भिः पापदृष्ट्या न दृश्यते
परस्त्रीमुखसौन्दर्यं परद्रव्यं च सर्वदा ॥ ४२ ॥
मूलम्
आत्मानं सुखमिच्छद्भिः पापदृष्ट्या न दृश्यते
परस्त्रीमुखसौन्दर्यं परद्रव्यं च सर्वदा ॥ ४२ ॥
विश्वास-प्रस्तुतिः
दृष्ट्वा कामाग्निसङ्खिन्ना दह्यन्ते मूढमानसाः
याहि पापमते दूरं मा वदोक्तिं सुदुःसहाम् ॥ ४३ ॥
मूलम्
दृष्ट्वा कामाग्निसङ्खिन्ना दह्यन्ते मूढमानसाः
याहि पापमते दूरं मा वदोक्तिं सुदुःसहाम् ॥ ४३ ॥
विश्वास-प्रस्तुतिः
वयमेव भवन्तं न स्पृशामश्चरणैरपि
धनुर्ध्वज उवाच-
धिगस्त्वमुं जातिशब्दं सञ्जानन्नखिलं गुणम् ॥ ४४ ॥
मूलम्
वयमेव भवन्तं न स्पृशामश्चरणैरपि
धनुर्ध्वज उवाच-
धिगस्त्वमुं जातिशब्दं सञ्जानन्नखिलं गुणम् ॥ ४४ ॥
विश्वास-प्रस्तुतिः
सम्भावितो न युष्माभिः श्वपचत्वे यतोऽधुना
कनकं मदिरापूर्णं कलशाभ्यन्तरस्थितम् ॥ ४५ ॥
मूलम्
सम्भावितो न युष्माभिः श्वपचत्वे यतोऽधुना
कनकं मदिरापूर्णं कलशाभ्यन्तरस्थितम् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
सम्प्राप्य को न गृह्णाति तद्गुणग्रामवित्पुमान्
अतोऽहं युवतीमेनां यथा प्राप्नोमि साम्प्रतम् ॥ ४६ ॥
मूलम्
सम्प्राप्य को न गृह्णाति तद्गुणग्रामवित्पुमान्
अतोऽहं युवतीमेनां यथा प्राप्नोमि साम्प्रतम् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
तथा कुरुत हे सख्यः शरणं भो गतोस्मि यत्
इति ब्रुवन्तं तं मूढं भूयोभूयो द्विजोत्तम ॥ ४७ ॥
मूलम्
तथा कुरुत हे सख्यः शरणं भो गतोस्मि यत्
इति ब्रुवन्तं तं मूढं भूयोभूयो द्विजोत्तम ॥ ४७ ॥
विश्वास-प्रस्तुतिः
ऊचुर्वाक्यमिदं तास्तु जातात्यन्तकुतूहलाः
सख्य ऊचुः-
यद्येतां रमणीं नूनमिच्छसि त्वं सुदुर्मते ॥ ४८ ॥
मूलम्
ऊचुर्वाक्यमिदं तास्तु जातात्यन्तकुतूहलाः
सख्य ऊचुः-
यद्येतां रमणीं नूनमिच्छसि त्वं सुदुर्मते ॥ ४८ ॥
विश्वास-प्रस्तुतिः
गङ्गायमुनयोः शीघ्रं शरीरं सङ्गमे त्यज
मिथःकृतमुखालोका हसन्त्यस्तास्ततो द्विज ॥ ४९ ॥
मूलम्
गङ्गायमुनयोः शीघ्रं शरीरं सङ्गमे त्यज
मिथःकृतमुखालोका हसन्त्यस्तास्ततो द्विज ॥ ४९ ॥
विश्वास-प्रस्तुतिः
तां साधुपत्नीमादाय ययुर्निजगृहान्तरम्
ततोऽसौ श्वपचो मोहाद्ब्रह्महत्यासहस्रकृत् ५० 7.4.50
गङ्गायमुनयोस्तोये तामिष्ट्वा पञ्चतां गतः
तत्स्वामिसदृशाकारः समस्तगुणवान्बली ॥ ५१ ॥
मूलम्
तां साधुपत्नीमादाय ययुर्निजगृहान्तरम्
ततोऽसौ श्वपचो मोहाद्ब्रह्महत्यासहस्रकृत् ५० 7.4.50
गङ्गायमुनयोस्तोये तामिष्ट्वा पञ्चतां गतः
तत्स्वामिसदृशाकारः समस्तगुणवान्बली ॥ ५१ ॥
विश्वास-प्रस्तुतिः
स च एव श्वपाकोऽसौ स्ववृत्तान्तं स्मरन्नभूत्
ततोऽसौ प्रणिधिर्वैश्यस्तस्मिन्नेव दिने शुभे ॥ ५२ ॥
मूलम्
स च एव श्वपाकोऽसौ स्ववृत्तान्तं स्मरन्नभूत्
ततोऽसौ प्रणिधिर्वैश्यस्तस्मिन्नेव दिने शुभे ॥ ५२ ॥
विश्वास-प्रस्तुतिः
कृत्वा वाणिज्यमायातः स्वकीयं निलयं प्रति
श्वपाकोऽपि ततो विप्रस्तस्या वासं विवेश ह ॥ ५३ ॥
मूलम्
कृत्वा वाणिज्यमायातः स्वकीयं निलयं प्रति
श्वपाकोऽपि ततो विप्रस्तस्या वासं विवेश ह ॥ ५३ ॥
विश्वास-प्रस्तुतिः
प्रणिधेः सदृशो रूपैर्वयोभिश्च गुणैरपि
एकाकारौ समालोक्य पुरःस्थौ तौ गुणाकरौ ॥ ५४ ॥
मूलम्
प्रणिधेः सदृशो रूपैर्वयोभिश्च गुणैरपि
एकाकारौ समालोक्य पुरःस्थौ तौ गुणाकरौ ॥ ५४ ॥
विश्वास-प्रस्तुतिः
कस्याहं दयिता को वा मम भर्त्तेत्यचिन्तयत्
ततः सा विस्मिता साध्वी विलोक्य तत्पतिद्वयम् ॥ ५५ ॥
मूलम्
कस्याहं दयिता को वा मम भर्त्तेत्यचिन्तयत्
ततः सा विस्मिता साध्वी विलोक्य तत्पतिद्वयम् ॥ ५५ ॥
विश्वास-प्रस्तुतिः
तुष्टाव माधवं देवं वचनैः कोमलाक्षरैः ॥ ५६ ॥
मूलम्
तुष्टाव माधवं देवं वचनैः कोमलाक्षरैः ॥ ५६ ॥
विश्वास-प्रस्तुतिः
पद्मावत्युवाच-
नमामि गोविन्दमनन्तमूर्तिं शक्रादिदेवार्चितपादपद्मम्
योगेश्वरं योगविदां निरीहं योगप्रदं योगिभिरर्चनीयम् ॥ ५७ ॥
मूलम्
पद्मावत्युवाच-
नमामि गोविन्दमनन्तमूर्तिं शक्रादिदेवार्चितपादपद्मम्
योगेश्वरं योगविदां निरीहं योगप्रदं योगिभिरर्चनीयम् ॥ ५७ ॥
विश्वास-प्रस्तुतिः
नमोऽस्तु ते कैटभमर्द्दनाय नमो मधुध्वंसकराय तुभ्यम्
नमोऽस्तु कंसासुरनाशनाय नमोऽस्तु चाणूरनिपातनाय ॥ ५८ ॥
मूलम्
नमोऽस्तु ते कैटभमर्द्दनाय नमो मधुध्वंसकराय तुभ्यम्
नमोऽस्तु कंसासुरनाशनाय नमोऽस्तु चाणूरनिपातनाय ॥ ५८ ॥
विश्वास-प्रस्तुतिः
नमोऽस्तु वेदोद्धरणाग्रनित्यं नमोऽस्तु भूम्युद्धरणाय तुभ्यम्
नमोस्तु पृथ्वीधरणक्षमाय नमोस्तु दैत्यान्तकराय तुभ्यम् ॥ ५९ ॥
मूलम्
नमोऽस्तु वेदोद्धरणाग्रनित्यं नमोऽस्तु भूम्युद्धरणाय तुभ्यम्
नमोस्तु पृथ्वीधरणक्षमाय नमोस्तु दैत्यान्तकराय तुभ्यम् ॥ ५९ ॥
विश्वास-प्रस्तुतिः
गङ्गाम्बुधौ ताङ्घ्रियुगाय तुभ्यं नमोस्तु राजन्यकुलान्तकाय
नमोस्तु ते रावणवंशहन्त्रे अलं च दैत्यान्तकराय तुभ्यम् ॥ ६० ॥
मूलम्
गङ्गाम्बुधौ ताङ्घ्रियुगाय तुभ्यं नमोस्तु राजन्यकुलान्तकाय
नमोस्तु ते रावणवंशहन्त्रे अलं च दैत्यान्तकराय तुभ्यम् ॥ ६० ॥
विश्वास-प्रस्तुतिः
नमोस्तु ते चाध्वरनिन्दकाय नमोस्तु ते म्लेच्छकुलान्तकाय
नमोऽस्तु ते हृत्कमलासनाय नमोऽस्तु ते सर्वरिपुध्वजाय ॥ ६१ ॥
मूलम्
नमोस्तु ते चाध्वरनिन्दकाय नमोस्तु ते म्लेच्छकुलान्तकाय
नमोऽस्तु ते हृत्कमलासनाय नमोऽस्तु ते सर्वरिपुध्वजाय ॥ ६१ ॥
विश्वास-प्रस्तुतिः
प्रसीद गोपीजनवल्लभ प्रभो धृतैकहस्ताचलदेवदेव
प्रसीद लक्ष्मीमुखपद्मभृङ्ग प्रसीद विष्णो सततं नमस्ते ॥ ६२ ॥
मूलम्
प्रसीद गोपीजनवल्लभ प्रभो धृतैकहस्ताचलदेवदेव
प्रसीद लक्ष्मीमुखपद्मभृङ्ग प्रसीद विष्णो सततं नमस्ते ॥ ६२ ॥
विश्वास-प्रस्तुतिः
प्रसीद पद्मेक्षणचक्रपाणे कौमोदकीहस्तगदाधर त्वम्
प्रसीद विष्णो धृतपाञ्चजन्य नमोस्तु ते पद्मधराय नित्यम् ॥ ६३ ॥
मूलम्
प्रसीद पद्मेक्षणचक्रपाणे कौमोदकीहस्तगदाधर त्वम्
प्रसीद विष्णो धृतपाञ्चजन्य नमोस्तु ते पद्मधराय नित्यम् ॥ ६३ ॥
विश्वास-प्रस्तुतिः
संसारकौतुहलमन्दिरे ते मोहान्धकारे च विवेकदीपे
सम्मोहिता केशव मायया हि त्वदीयया नित्यमहं भ्रमामि ॥ ६४ ॥
मूलम्
संसारकौतुहलमन्दिरे ते मोहान्धकारे च विवेकदीपे
सम्मोहिता केशव मायया हि त्वदीयया नित्यमहं भ्रमामि ॥ ६४ ॥
विश्वास-प्रस्तुतिः
विरञ्चि सेन्द्रार्कमुखाः सुरेन्द्रा मायां न जानन्ति तवासुरारे
मानुष्यहं किं तव वेद्मि मायां पुरोभ्रमं मे हरसानुकम्पम् ॥ ६५ ॥
मूलम्
विरञ्चि सेन्द्रार्कमुखाः सुरेन्द्रा मायां न जानन्ति तवासुरारे
मानुष्यहं किं तव वेद्मि मायां पुरोभ्रमं मे हरसानुकम्पम् ॥ ६५ ॥
विश्वास-प्रस्तुतिः
व्यास उवाच-
तस्याः स्तवं समाकर्ण्य भगवान्माधवः प्रभुः
समालोक्य जगन्नाथश्चतुर्वर्गफलप्रदः ॥ ६६ ॥
मूलम्
व्यास उवाच-
तस्याः स्तवं समाकर्ण्य भगवान्माधवः प्रभुः
समालोक्य जगन्नाथश्चतुर्वर्गफलप्रदः ॥ ६६ ॥
विश्वास-प्रस्तुतिः
आविर्बभूव सहसा सूर्यकोटिसमप्रभः
सा मूर्ध्ना भूमिमालोक्य ववन्दे तत्पदद्वयम् ॥ ६७ ॥
मूलम्
आविर्बभूव सहसा सूर्यकोटिसमप्रभः
सा मूर्ध्ना भूमिमालोक्य ववन्दे तत्पदद्वयम् ॥ ६७ ॥
विश्वास-प्रस्तुतिः
नमस्ते कमलाकान्त भुक्तिमुक्तिफलप्रद
हर मे ज्ञानहीनायाः स्वकीय मतिविभ्रमम् ॥ ६८ ॥
मूलम्
नमस्ते कमलाकान्त भुक्तिमुक्तिफलप्रद
हर मे ज्ञानहीनायाः स्वकीय मतिविभ्रमम् ॥ ६८ ॥
विश्वास-प्रस्तुतिः
श्रीभगवानुवाच-
भ्रमं जहीहि चार्वङ्गि द्वावेतौ हि पती तव
एकभावेन सुश्रोणि कुरु सेवां तयोः सदा ॥ ६९ ॥
मूलम्
श्रीभगवानुवाच-
भ्रमं जहीहि चार्वङ्गि द्वावेतौ हि पती तव
एकभावेन सुश्रोणि कुरु सेवां तयोः सदा ॥ ६९ ॥
विश्वास-प्रस्तुतिः
यश्च ते प्रणिधिः स्वामी मद्भक्तस्तरुणः सुधीः
भोक्तुं सुखफलं साध्वि सोऽभवद्द्विविधः स्वयम् ॥ ७० ॥
मूलम्
यश्च ते प्रणिधिः स्वामी मद्भक्तस्तरुणः सुधीः
भोक्तुं सुखफलं साध्वि सोऽभवद्द्विविधः स्वयम् ॥ ७० ॥
विश्वास-प्रस्तुतिः
अनन्तरूपिणी लक्ष्मीर्यथा क्रीडे मया सह
तथा त्वमपि सुश्रोणि भुङ्क्ष्व ताभ्यां सुखं सदा ॥ ७१ ॥
मूलम्
अनन्तरूपिणी लक्ष्मीर्यथा क्रीडे मया सह
तथा त्वमपि सुश्रोणि भुङ्क्ष्व ताभ्यां सुखं सदा ॥ ७१ ॥
विश्वास-प्रस्तुतिः
पद्मावत्युवाच-
एकस्या द्वौ पती देव न प्रशंसन्ति मानवाः
मग्नां लज्जाब्धिकल्लोले मामुद्धर दयामय ॥ ७२ ॥
मूलम्
पद्मावत्युवाच-
एकस्या द्वौ पती देव न प्रशंसन्ति मानवाः
मग्नां लज्जाब्धिकल्लोले मामुद्धर दयामय ॥ ७२ ॥
विश्वास-प्रस्तुतिः
श्रीभगवानुवाच-
यदापकीर्तितः साध्वि बिभेषि त्वं ध्रुवं भुवि
तदा मत्पुरमागच्छ ताभ्यां सह वरानने ॥ ७३ ॥
मूलम्
श्रीभगवानुवाच-
यदापकीर्तितः साध्वि बिभेषि त्वं ध्रुवं भुवि
तदा मत्पुरमागच्छ ताभ्यां सह वरानने ॥ ७३ ॥
विश्वास-प्रस्तुतिः
विमानमागतं सद्यस्ततो भगवदाज्ञया
तौ समादाय वैकुण्ठं सा गन्तुमुपचक्रमे ॥ ७४ ॥
मूलम्
विमानमागतं सद्यस्ततो भगवदाज्ञया
तौ समादाय वैकुण्ठं सा गन्तुमुपचक्रमे ॥ ७४ ॥
विश्वास-प्रस्तुतिः
अथ सा पथिगच्छन्ती भर्तृभ्यां सह जैमिने
ददर्शैकं महात्मानं रथस्थं स्त्रीसमन्वितम् ॥ ७५ ॥
मूलम्
अथ सा पथिगच्छन्ती भर्तृभ्यां सह जैमिने
ददर्शैकं महात्मानं रथस्थं स्त्रीसमन्वितम् ॥ ७५ ॥
विश्वास-प्रस्तुतिः
धृतं कमलपत्राक्षैरतसीकुसुमप्रभैः
चतुर्भुजैर्दूतगणैरासीनैर्गरुडोपरि ॥ ७६ ॥
मूलम्
धृतं कमलपत्राक्षैरतसीकुसुमप्रभैः
चतुर्भुजैर्दूतगणैरासीनैर्गरुडोपरि ॥ ७६ ॥
विश्वास-प्रस्तुतिः
विष्णुदूतांस्ततस्तांस्तु विष्णुरूपान्वराङ्गना
कोऽयं रथस्थः पुरुष इति पप्रच्छ सा सती ॥ ७७ ॥
मूलम्
विष्णुदूतांस्ततस्तांस्तु विष्णुरूपान्वराङ्गना
कोऽयं रथस्थः पुरुष इति पप्रच्छ सा सती ॥ ७७ ॥
विश्वास-प्रस्तुतिः
के वा यूयं महात्मानः पुण्डरीकनिभेक्षणाः
सर्वेपि विष्णुसदृशाः शङ्खचक्रादिपाणयः ॥ ७८ ॥
मूलम्
के वा यूयं महात्मानः पुण्डरीकनिभेक्षणाः
सर्वेपि विष्णुसदृशाः शङ्खचक्रादिपाणयः ॥ ७८ ॥
विश्वास-प्रस्तुतिः
ततस्ते भगवद्दूता विष्णुतुल्यपराक्रमाः
विहस्योचुर्मुहुः सर्वे परमामोदसंयुताः ॥ ७९ ॥
मूलम्
ततस्ते भगवद्दूता विष्णुतुल्यपराक्रमाः
विहस्योचुर्मुहुः सर्वे परमामोदसंयुताः ॥ ७९ ॥
विश्वास-प्रस्तुतिः
विष्णुदूता ऊचुः
विष्णुदूता वयं साध्वि पुण्यात्मानमिमञ्जनम्
समादाय पदं याम उदारं लोकमुत्तमम् ॥ ८० ॥
मूलम्
विष्णुदूता ऊचुः
विष्णुदूता वयं साध्वि पुण्यात्मानमिमञ्जनम्
समादाय पदं याम उदारं लोकमुत्तमम् ॥ ८० ॥
विश्वास-प्रस्तुतिः
पद्मावत्युवाच-
केन पुण्यप्रभावेन गतोऽयमीदृशीं गतिम्
विष्णुदूता महात्मानः कथ्यतामित्यहो मम ॥ ८१ ॥
मूलम्
पद्मावत्युवाच-
केन पुण्यप्रभावेन गतोऽयमीदृशीं गतिम्
विष्णुदूता महात्मानः कथ्यतामित्यहो मम ॥ ८१ ॥
विश्वास-प्रस्तुतिः
विष्णुदूता ऊचुः -
अयं बृहद्ध्वजो नाम राक्षसो लोकशोककृत्
अरण्यादिनिवासी च महाबलपराक्रमः ॥ ८२ ॥
मूलम्
विष्णुदूता ऊचुः -
अयं बृहद्ध्वजो नाम राक्षसो लोकशोककृत्
अरण्यादिनिवासी च महाबलपराक्रमः ॥ ८२ ॥
विश्वास-प्रस्तुतिः
परदारपरद्रव्यहारको रिपुकोद्यतः
गोमांसाशी निष्ठुरोक्तिभाषी च देवनिन्दकः ॥ ८३ ॥
मूलम्
परदारपरद्रव्यहारको रिपुकोद्यतः
गोमांसाशी निष्ठुरोक्तिभाषी च देवनिन्दकः ॥ ८३ ॥
विश्वास-प्रस्तुतिः
यद्यत्पापरतं कर्म तदनेन कृतं सदा
स्वप्नेऽपि न कृतं कर्म शुभं न च पतिव्रते ॥ ८४ ॥
मूलम्
यद्यत्पापरतं कर्म तदनेन कृतं सदा
स्वप्नेऽपि न कृतं कर्म शुभं न च पतिव्रते ॥ ८४ ॥
विश्वास-प्रस्तुतिः
अयं रथं समारुह्य सततं कामपीडितः
परस्त्रीहरणार्थाय सुश्रोणि नभसि भ्रमन् ॥ ८५ ॥
मूलम्
अयं रथं समारुह्य सततं कामपीडितः
परस्त्रीहरणार्थाय सुश्रोणि नभसि भ्रमन् ॥ ८५ ॥
विश्वास-प्रस्तुतिः
यां यां सुयौवनां नारीं यत्र यत्रायमीक्षते
बलाच्चालिङ्गितस्तां तु तत्र तत्र स्मरातुरः ॥ ८६ ॥
मूलम्
यां यां सुयौवनां नारीं यत्र यत्रायमीक्षते
बलाच्चालिङ्गितस्तां तु तत्र तत्र स्मरातुरः ॥ ८६ ॥
विश्वास-प्रस्तुतिः
अथैकदा भीमकेश नाम्नो नरपतेः प्रियाम्
ददर्श क्रीडामध्यस्थां सुन्दरीं नवयौवनाम् ॥ ८७ ॥
मूलम्
अथैकदा भीमकेश नाम्नो नरपतेः प्रियाम्
ददर्श क्रीडामध्यस्थां सुन्दरीं नवयौवनाम् ॥ ८७ ॥
विश्वास-प्रस्तुतिः
अथासौ तां समालोक्य सुवर्णकुसुमप्रभाम्
इत्युवाच वचः प्रेम्णा का त्वमत्र करोषि किम् ॥ ८८ ॥
मूलम्
अथासौ तां समालोक्य सुवर्णकुसुमप्रभाम्
इत्युवाच वचः प्रेम्णा का त्वमत्र करोषि किम् ॥ ८८ ॥
विश्वास-प्रस्तुतिः
सैवोवाच ततः कान्ता भीमकेशस्य भूपतेः
अहं सुरतशास्त्रज्ञा केशिनी नाम भूषिता ॥ ८९ ॥
मूलम्
सैवोवाच ततः कान्ता भीमकेशस्य भूपतेः
अहं सुरतशास्त्रज्ञा केशिनी नाम भूषिता ॥ ८९ ॥
विश्वास-प्रस्तुतिः
अयि सर्वगुणज्ञां मां प्रेमहृष्टां न भूपतिः
स्ववंशजां दोषहीनां पश्यति क्षणमप्यसौ ॥ ९० ॥
मूलम्
अयि सर्वगुणज्ञां मां प्रेमहृष्टां न भूपतिः
स्ववंशजां दोषहीनां पश्यति क्षणमप्यसौ ॥ ९० ॥
विश्वास-प्रस्तुतिः
स्थीयते नित्यमत्रैव भर्त्राखण्डितचर्चया
मया स्वकर्मशोचन्त्या विरहानलतप्तया ॥ ९१ ॥
मूलम्
स्थीयते नित्यमत्रैव भर्त्राखण्डितचर्चया
मया स्वकर्मशोचन्त्या विरहानलतप्तया ॥ ९१ ॥
विश्वास-प्रस्तुतिः
कस्त्वं कथमिदं प्राप्तमुद्यानं प्रतिसत्तम
समायातोऽसि तत्सर्वं प्रसन्नो वक्तुमर्हसि ॥ ९२ ॥
मूलम्
कस्त्वं कथमिदं प्राप्तमुद्यानं प्रतिसत्तम
समायातोऽसि तत्सर्वं प्रसन्नो वक्तुमर्हसि ॥ ९२ ॥
विश्वास-प्रस्तुतिः
अथायमित्याह वचः पूर्णचन्द्र निभानने
मायावी राक्षसोऽहं त्वामालिङ्गितुमिहागतः ॥ ९३ ॥
मूलम्
अथायमित्याह वचः पूर्णचन्द्र निभानने
मायावी राक्षसोऽहं त्वामालिङ्गितुमिहागतः ॥ ९३ ॥
विश्वास-प्रस्तुतिः
जहीहि रुष्टभर्तारं सर्वदा दोषदर्शिनम्
तन्वि मां भज सर्वं ते दास्यामि सुखमुत्तमम् ॥ ९४ ॥
मूलम्
जहीहि रुष्टभर्तारं सर्वदा दोषदर्शिनम्
तन्वि मां भज सर्वं ते दास्यामि सुखमुत्तमम् ॥ ९४ ॥
विश्वास-प्रस्तुतिः
ततो विहस्य साध्वीयं राक्षसेन्द्रमिमं मुदा
बबन्ध बाहुलतया विन्यस्य वदने मुखम् ॥ ९५ ॥
मूलम्
ततो विहस्य साध्वीयं राक्षसेन्द्रमिमं मुदा
बबन्ध बाहुलतया विन्यस्य वदने मुखम् ॥ ९५ ॥
विश्वास-प्रस्तुतिः
स तामालिङ्ग्य युवतीं विवेकोद्वेगविह्वलाम्
अनया सह सुश्रोणि दिव्यमारूढवान्रथम् ॥ ९६ ॥
मूलम्
स तामालिङ्ग्य युवतीं विवेकोद्वेगविह्वलाम्
अनया सह सुश्रोणि दिव्यमारूढवान्रथम् ॥ ९६ ॥
विश्वास-प्रस्तुतिः
दम्पतीभावमाश्रित्य तौ जातावतिकौतुकम्
वायुवेगरथारूढौ यातौ गगनवर्त्मनि ॥ ९७ ॥
मूलम्
दम्पतीभावमाश्रित्य तौ जातावतिकौतुकम्
वायुवेगरथारूढौ यातौ गगनवर्त्मनि ॥ ९७ ॥
विश्वास-प्रस्तुतिः
अथैनामयमित्याह पश्यतन्विवरानने
त्वद्भर्तृदेशादायातौ गङ्गासागरसङ्गमे ॥ ९८ ॥
मूलम्
अथैनामयमित्याह पश्यतन्विवरानने
त्वद्भर्तृदेशादायातौ गङ्गासागरसङ्गमे ॥ ९८ ॥
विश्वास-प्रस्तुतिः
ततो रथस्थनारीयमधिगङ्गाब्धिसङ्गमम्
जगाम पञ्चतां सद्यः सन्दृश्यात्यन्तसाध्वसैः ॥ ९९ ॥
मूलम्
ततो रथस्थनारीयमधिगङ्गाब्धिसङ्गमम्
जगाम पञ्चतां सद्यः सन्दृश्यात्यन्तसाध्वसैः ॥ ९९ ॥
विलप्य बहुधा साध्वीं तत्रायमपि राक्षसः
गतप्राणां समालोक्य सद्यो मृत्युं जगाम ह १०० 7.4.100
वैनतेयध्वजादेशादिमौ गलितकल्मषौ
नयामः पुण्यकर्माणौ वैकुण्ठं प्रति सम्प्रति १०१
जलेस्थले चान्तरिक्षे गङ्गासागरसङ्गमे
देहं सन्त्यज्य गच्छन्ति पापिनो हि परां गतिम् १०२
त्रैलोक्यदुर्लभं तीर्थं गङ्गासागरसङ्गमे
माघे तपसि शुक्लायामेकादश्यामुपोषितः १०३
तत्र शुद्धिमवाप्नोति ब्रह्महापि न संशयः
गङ्गाब्धिसङ्गमे स्नात्वा हरिं दृष्ट्वा च माधवम् १०४
कार्तिकेयमुखं दृष्ट्वा पुनर्जन्म न विद्यते
कार्तिकेयो हरिः साक्षादित्यभेदः कृतः सदा १०५
ये कार्तिङ्केयं पश्यन्ति ते सर्वे मोक्षगामिनः
सर्वतीर्थाधिकं तीर्थं गङ्गाब्धिसङ्गमं शृणु १०६
जले स्थले चान्तरिक्षे मृतो मोक्षमवाप्नुयात्
व्यास उवाच-
इत्युक्त्वा विष्णुदूतास्ते तौ समादाय जैमिने १०७
जग्मुर्विष्णुगृहं सर्वे सह साकाशवर्त्मनि
या च पद्मावती साध्वी भर्तृद्वयसमन्विता १०८
गता सारूप्यतां विष्णोश्चतुर्वर्गप्रदायिनः
तत्र भुक्त्वाखिलान्भोगान्दुर्ल्लभान्द्विजसत्तम १०९
परमं ज्ञानमासाद्य ययुः सारूप्यतां हरेः
सर्वतीर्थमयी गङ्गा सर्वतीर्थमयो हरिः ११०
गङ्गायाश्च हरेश्चैव तस्माद्भक्तिर्विधीयते
गङ्गाब्धिसङ्गमे पूर्वं माधवो नाम भूभुजः १११
तप्त्वा तपश्चिरं तत्र सदारो मोक्षमाप्तवान् ११२
जैमिनिरुवाच-
त्वयोक्तो माधवः कोऽसौ किं कर्म स चकार ह
कथं तेपे तपस्तन्मे सर्वं कथय सत्तम ११३
व्यास उवाच-
चरितं तस्य विप्रर्षे माधवस्य महात्मनः
आकर्णय प्रवक्ष्यामि समासेन महामते ११४
इति श्रीपद्मपुराणे क्रियायोगसारे व्यासजैमिनिसंवादे प्रयागवर्णनन्नाम चतुर्थोऽध्यायः ४