००२

व्यास उवाच-

विश्वास-प्रस्तुतिः

सृष्टेरादौ महाविष्णुः सिसृक्षुः सकलं जगत्
स्रष्टा पाता च संहर्ता त्रिमूर्तिरभवत्स्वयम् ॥ १ ॥

मूलम्

सृष्टेरादौ महाविष्णुः सिसृक्षुः सकलं जगत्
स्रष्टा पाता च संहर्ता त्रिमूर्तिरभवत्स्वयम् ॥ १ ॥

विश्वास-प्रस्तुतिः

सृष्ट्यर्थमस्य जगतः ससर्ज ब्रह्मसञ्ज्ञकम्
दक्षिणां गतआत्मानमात्मना श्रेष्ठपूरुषः ॥ २ ॥

मूलम्

सृष्ट्यर्थमस्य जगतः ससर्ज ब्रह्मसञ्ज्ञकम्
दक्षिणां गतआत्मानमात्मना श्रेष्ठपूरुषः ॥ २ ॥

विश्वास-प्रस्तुतिः

ततस्तु पालनार्थाय जगतो जगतीपतिः
विष्णुं ससर्ज वामांशान्निजांशं केशवं मुने ॥ ३ ॥

मूलम्

ततस्तु पालनार्थाय जगतो जगतीपतिः
विष्णुं ससर्ज वामांशान्निजांशं केशवं मुने ॥ ३ ॥

विश्वास-प्रस्तुतिः

अथ संहरणार्थाय जगतो रुद्रमव्ययम्
मुने ससर्ज मध्याङ्गात्कृतपद्मालयः प्रभुः ॥ ४ ॥

मूलम्

अथ संहरणार्थाय जगतो रुद्रमव्ययम्
मुने ससर्ज मध्याङ्गात्कृतपद्मालयः प्रभुः ॥ ४ ॥

विश्वास-प्रस्तुतिः

रजः सत्वं तमश्चेति पुरुषं त्रिगुणात्मकम्
वदन्ति केचिद्ब्रह्माणं विष्णुं केचिच्च शङ्करम् ॥ ५ ॥

मूलम्

रजः सत्वं तमश्चेति पुरुषं त्रिगुणात्मकम्
वदन्ति केचिद्ब्रह्माणं विष्णुं केचिच्च शङ्करम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

एको विष्णुस्त्रिधा भूत्वा सृजत्यत्ति च पाति च
तस्माद्भेदो न कर्त्तव्यस्त्रिषु लोकेषु सत्तमैः ॥ ६ ॥

मूलम्

एको विष्णुस्त्रिधा भूत्वा सृजत्यत्ति च पाति च
तस्माद्भेदो न कर्त्तव्यस्त्रिषु लोकेषु सत्तमैः ॥ ६ ॥

विश्वास-प्रस्तुतिः

आद्या प्रकृतिरेतस्य महाविष्णोः परात्मनः
निदानम्भूतविश्वस्य विद्या विद्येति गीयते ॥ ७ ॥

मूलम्

आद्या प्रकृतिरेतस्य महाविष्णोः परात्मनः
निदानम्भूतविश्वस्य विद्या विद्येति गीयते ॥ ७ ॥

विश्वास-प्रस्तुतिः

भावाभावस्वरूपा सा जगद्धेतुः सनातनी
ब्राह्मी लक्ष्मीरम्बिकेति त्रिमूर्तिः सहसाऽभवत् ॥ ८ ॥

मूलम्

भावाभावस्वरूपा सा जगद्धेतुः सनातनी
ब्राह्मी लक्ष्मीरम्बिकेति त्रिमूर्तिः सहसाऽभवत् ॥ ८ ॥

विश्वास-प्रस्तुतिः

सृष्टिस्थितिविनाशेषु यां नियोज्य ततो मुने
आद्यां चैवाद्यपुरुषस्तत्रैवान्तरधीयत ॥ ९ ॥

मूलम्

सृष्टिस्थितिविनाशेषु यां नियोज्य ततो मुने
आद्यां चैवाद्यपुरुषस्तत्रैवान्तरधीयत ॥ ९ ॥

विश्वास-प्रस्तुतिः

यस्याज्ञया ततो ब्रह्मा महाभूतान्ससर्ज ह
पृथिव्याकाशवाय्वम्बु वह्नीन्पञ्चसमाधिना ॥ १० ॥

मूलम्

यस्याज्ञया ततो ब्रह्मा महाभूतान्ससर्ज ह
पृथिव्याकाशवाय्वम्बु वह्नीन्पञ्चसमाधिना ॥ १० ॥

विश्वास-प्रस्तुतिः

भूर्भुवः स्वस्तथा चैव महश्चैव जनस्तथा
तपश्च सत्यमित्यादीन्सृष्टवान्कमलासनः ॥ ११ ॥

मूलम्

भूर्भुवः स्वस्तथा चैव महश्चैव जनस्तथा
तपश्च सत्यमित्यादीन्सृष्टवान्कमलासनः ॥ ११ ॥

विश्वास-प्रस्तुतिः

अतलं सृष्टवान्ब्रह्मा ततोऽधोवितलं द्विज
ततोऽधःसुतलं चैव ततोऽधश्च तलातलम् ॥ १२ ॥

मूलम्

अतलं सृष्टवान्ब्रह्मा ततोऽधोवितलं द्विज
ततोऽधःसुतलं चैव ततोऽधश्च तलातलम् ॥ १२ ॥

विश्वास-प्रस्तुतिः

महातलमधस्तस्मात्ततोऽधश्च रसातलम्
तस्मादधश्च पातालं लोकानेवं यथाक्रमम् ॥ १३ ॥

मूलम्

महातलमधस्तस्मात्ततोऽधश्च रसातलम्
तस्मादधश्च पातालं लोकानेवं यथाक्रमम् ॥ १३ ॥

विश्वास-प्रस्तुतिः

देवतानान्निवासार्थं रत्नसानुं महागिरिम्
सृष्टवान्पृथिवीमध्ये जाम्बूनदसमुज्ज्वलम् ॥ १४ ॥

मूलम्

देवतानान्निवासार्थं रत्नसानुं महागिरिम्
सृष्टवान्पृथिवीमध्ये जाम्बूनदसमुज्ज्वलम् ॥ १४ ॥

विश्वास-प्रस्तुतिः

मन्दरं चरमं चैव त्रिकूटमुदयाचलम्
अन्यांश्च पर्वतांश्चैव सृष्टवान्विविधानपि ॥ १५ ॥

मूलम्

मन्दरं चरमं चैव त्रिकूटमुदयाचलम्
अन्यांश्च पर्वतांश्चैव सृष्टवान्विविधानपि ॥ १५ ॥

विश्वास-प्रस्तुतिः

लोकालोकस्ततश्चैव तन्मध्ये सप्तसागराः
सप्तद्वीपाश्च विप्रेन्द्र परमेश स्वयम्भुवा ॥ १६ ॥

मूलम्

लोकालोकस्ततश्चैव तन्मध्ये सप्तसागराः
सप्तद्वीपाश्च विप्रेन्द्र परमेश स्वयम्भुवा ॥ १६ ॥

विश्वास-प्रस्तुतिः

जम्बुद्वीपो द्विजश्रेष्ठ द्वीपश्च प्लक्षसञ्ज्ञितः
विज्ञेयो द्विगुणस्तस्माच्छाल्मलो द्विगुणस्ततः ॥ १७ ॥

मूलम्

जम्बुद्वीपो द्विजश्रेष्ठ द्वीपश्च प्लक्षसञ्ज्ञितः
विज्ञेयो द्विगुणस्तस्माच्छाल्मलो द्विगुणस्ततः ॥ १७ ॥

विश्वास-प्रस्तुतिः

ते च प्लक्षादयो द्वीपाः सर्वभाग समन्विताः
समस्तगुणसंयुक्ता देवदेवर्षिमूर्तयः ॥ १८ ॥

मूलम्

ते च प्लक्षादयो द्वीपाः सर्वभाग समन्विताः
समस्तगुणसंयुक्ता देवदेवर्षिमूर्तयः ॥ १८ ॥

विश्वास-प्रस्तुतिः

सप्तद्वीपा इमे विप्र सप्तसागरवेष्टिताः
तेषां नामानि वक्ष्यामि सागराणां निशामय ॥ १९ ॥

मूलम्

सप्तद्वीपा इमे विप्र सप्तसागरवेष्टिताः
तेषां नामानि वक्ष्यामि सागराणां निशामय ॥ १९ ॥

विश्वास-प्रस्तुतिः

लवणेक्षु सुरा सर्पिर्दधिदुग्धजलान्तकाः
एते समुद्रा देवर्षे पूर्वस्माच्च परः पराः ॥ २० ॥

मूलम्

लवणेक्षु सुरा सर्पिर्दधिदुग्धजलान्तकाः
एते समुद्रा देवर्षे पूर्वस्माच्च परः पराः ॥ २० ॥

विश्वास-प्रस्तुतिः

विज्ञेया द्विगुणाः सर्व आलोकालोकपर्वताः
द्वीपेद्वीपे ततो ब्रह्मा वृक्षगुल्मलतादिकान् ॥ २१ ॥

मूलम्

विज्ञेया द्विगुणाः सर्व आलोकालोकपर्वताः
द्वीपेद्वीपे ततो ब्रह्मा वृक्षगुल्मलतादिकान् ॥ २१ ॥

विश्वास-प्रस्तुतिः

तिर्यग्योनिगताञ्जन्तून्सृष्टवान्द्विजसत्तम
अथ देवान्मनुष्यांश्च नागान्विद्याधरांस्तथा ॥ २२ ॥

मूलम्

तिर्यग्योनिगताञ्जन्तून्सृष्टवान्द्विजसत्तम
अथ देवान्मनुष्यांश्च नागान्विद्याधरांस्तथा ॥ २२ ॥

विश्वास-प्रस्तुतिः

क्रमात्ससर्ज पुत्रांश्च ततो दक्षादिकान्मुनीन्
ब्रह्मक्षत्त्रियविट्शूद्रानन्यांश्चैवान्त्यजांस्तथा ॥ २३ ॥

मूलम्

क्रमात्ससर्ज पुत्रांश्च ततो दक्षादिकान्मुनीन्
ब्रह्मक्षत्त्रियविट्शूद्रानन्यांश्चैवान्त्यजांस्तथा ॥ २३ ॥

विश्वास-प्रस्तुतिः

तेषां च वर्तनादीनि सृष्टवान्स प्रजापतिः
हेमाद्रि दक्षिणं यद्वै विन्ध्याद्रेरुत्तरं तथा ॥ २४ ॥

मूलम्

तेषां च वर्तनादीनि सृष्टवान्स प्रजापतिः
हेमाद्रि दक्षिणं यद्वै विन्ध्याद्रेरुत्तरं तथा ॥ २४ ॥

विश्वास-प्रस्तुतिः

आहुस्तद्भारतं वर्षं शुभाशुभफलप्रदम्
आसाद्य भारते वर्षे ये जन्मनि नरोत्तमाः ॥ २५ ॥

मूलम्

आहुस्तद्भारतं वर्षं शुभाशुभफलप्रदम्
आसाद्य भारते वर्षे ये जन्मनि नरोत्तमाः ॥ २५ ॥

विश्वास-प्रस्तुतिः

धर्मकर्माणि कुर्वन्ति ते सर्वे केशवोपमाः
कर्मभूमौ कृतं कर्म शुभं वाशुभमेव वा ॥ २६ ॥

मूलम्

धर्मकर्माणि कुर्वन्ति ते सर्वे केशवोपमाः
कर्मभूमौ कृतं कर्म शुभं वाशुभमेव वा ॥ २६ ॥

विश्वास-प्रस्तुतिः

तत्फलं भुञ्जते लोको भोगभूमिषु सत्तम
कर्मभूमिं समागत्य यो धर्मकर्मसूद्यतः ॥ २७ ॥

मूलम्

तत्फलं भुञ्जते लोको भोगभूमिषु सत्तम
कर्मभूमिं समागत्य यो धर्मकर्मसूद्यतः ॥ २७ ॥

विश्वास-प्रस्तुतिः

न च तेन समः कोऽपि त्रिषुलोकेषु विद्यते
तस्य स्यात्सफलं जन्म जीवितं च सुजीवितम् ॥ २८ ॥

मूलम्

न च तेन समः कोऽपि त्रिषुलोकेषु विद्यते
तस्य स्यात्सफलं जन्म जीवितं च सुजीवितम् ॥ २८ ॥

विश्वास-प्रस्तुतिः

श्रीनारायणसेवायां मतिर्यस्य न विद्यते
जन्मकोट्यर्जितैः पुण्यैः संसारैकाधिनायके ॥ २९ ॥

मूलम्

श्रीनारायणसेवायां मतिर्यस्य न विद्यते
जन्मकोट्यर्जितैः पुण्यैः संसारैकाधिनायके ॥ २९ ॥

विश्वास-प्रस्तुतिः

नारायणे देवदेवे भक्तिः स्यात्सुदृढा नृणाम्
समस्तसुखदश्चापि स श्लाघ्यो निर्भयोऽपि च ॥ ३० ॥

मूलम्

नारायणे देवदेवे भक्तिः स्यात्सुदृढा नृणाम्
समस्तसुखदश्चापि स श्लाघ्यो निर्भयोऽपि च ॥ ३० ॥

विश्वास-प्रस्तुतिः

त्याज्यः स देशः सहसा नातिष्ठेद्यत्र वैष्णवः
जन्मान्तरार्जितं पापं स्वल्पं वा यदि वा बहु ॥ ३१ ॥

मूलम्

त्याज्यः स देशः सहसा नातिष्ठेद्यत्र वैष्णवः
जन्मान्तरार्जितं पापं स्वल्पं वा यदि वा बहु ॥ ३१ ॥

विश्वास-प्रस्तुतिः

तत्क्षणात्क्षयमाप्नोति भगवद्भक्तदर्शनात्
वैष्णवाङ्घ्रिजलं यस्तु समस्तपातकापहम् ॥ ३२ ॥

मूलम्

तत्क्षणात्क्षयमाप्नोति भगवद्भक्तदर्शनात्
वैष्णवाङ्घ्रिजलं यस्तु समस्तपातकापहम् ॥ ३२ ॥

विश्वास-प्रस्तुतिः

वहेत्स्वशिरसा भक्त्या गङ्गास्नानेन तस्य किम्
मुहूर्तमपि यः कुर्यात्सड्गं भागवतैः सह ॥ ३३ ॥

मूलम्

वहेत्स्वशिरसा भक्त्या गङ्गास्नानेन तस्य किम्
मुहूर्तमपि यः कुर्यात्सड्गं भागवतैः सह ॥ ३३ ॥

विश्वास-प्रस्तुतिः

स मुच्यते सर्वपापैर्ब्रह्महत्यामुखैरपि
धर्मकर्माणि विप्रेन्द्र क्रियन्ते यानि कानि च ॥ ३४ ॥

मूलम्

स मुच्यते सर्वपापैर्ब्रह्महत्यामुखैरपि
धर्मकर्माणि विप्रेन्द्र क्रियन्ते यानि कानि च ॥ ३४ ॥

विश्वास-प्रस्तुतिः

भगवद्भक्तपुरतस्तानि स्युरक्षयाणि च
मुहूर्त्तं वा मुहूर्तार्द्धं यत्र तिष्ठन्ति वैष्णवाः ॥ ३५ ॥

मूलम्

भगवद्भक्तपुरतस्तानि स्युरक्षयाणि च
मुहूर्त्तं वा मुहूर्तार्द्धं यत्र तिष्ठन्ति वैष्णवाः ॥ ३५ ॥

विश्वास-प्रस्तुतिः

सत्यं सत्यं पुनः सत्यं तत्तीर्थं तत्तपोवनम्
अन्नं वा सलिलं वापि फलं वा वैष्णवाय च ॥ ३६ ॥

मूलम्

सत्यं सत्यं पुनः सत्यं तत्तीर्थं तत्तपोवनम्
अन्नं वा सलिलं वापि फलं वा वैष्णवाय च ॥ ३६ ॥

विश्वास-प्रस्तुतिः

यत्किञ्चिद्दीयते विप्र तद्दानमक्षयं भवेत्
समस्तदेवतारूपो वैष्णवः परिकीर्तितः ॥ ३७ ॥

मूलम्

यत्किञ्चिद्दीयते विप्र तद्दानमक्षयं भवेत्
समस्तदेवतारूपो वैष्णवः परिकीर्तितः ॥ ३७ ॥

विश्वास-प्रस्तुतिः

स चेत्सन्तोषितो येन तोषिताः सर्वदेवताः
संसारेऽस्मिन्महाघोरे नानादुःखसमन्विते ॥ ३८ ॥

मूलम्

स चेत्सन्तोषितो येन तोषिताः सर्वदेवताः
संसारेऽस्मिन्महाघोरे नानादुःखसमन्विते ॥ ३८ ॥

विश्वास-प्रस्तुतिः

भगवद्भक्तपुरुषः कदाचिन्नावसीदति
तस्मात्त्वमपि विप्रेन्द्र क्रियायोगेन केशवम् ॥ ३९ ॥

मूलम्

भगवद्भक्तपुरुषः कदाचिन्नावसीदति
तस्मात्त्वमपि विप्रेन्द्र क्रियायोगेन केशवम् ॥ ३९ ॥

विश्वास-प्रस्तुतिः

समाराध्य सदा भक्त्या व्रज विष्णोः पदं परम्
सूत उवाच-
तदेतद्वचनं श्रुत्वा कानीनस्य महात्मनः ॥ ४० ॥

मूलम्

समाराध्य सदा भक्त्या व्रज विष्णोः पदं परम्
सूत उवाच-
तदेतद्वचनं श्रुत्वा कानीनस्य महात्मनः ॥ ४० ॥

विश्वास-प्रस्तुतिः

शिरसाञ्जलिमादाय जैमिनिः पर्यपृच्छत
जैमिनिरुवाच-
भगवद्भक्तमाहात्म्यं त्वया प्रोक्तं पुनः पुनः ॥ ४१ ॥

मूलम्

शिरसाञ्जलिमादाय जैमिनिः पर्यपृच्छत
जैमिनिरुवाच-
भगवद्भक्तमाहात्म्यं त्वया प्रोक्तं पुनः पुनः ॥ ४१ ॥

विश्वास-प्रस्तुतिः

गुरो किं लक्षणं तेषां तत्सर्वं ब्रूहि साम्प्रतम्
कथं वा वैष्णवा लोका ज्ञातव्या मुनिसत्तम ॥ ४२ ॥

मूलम्

गुरो किं लक्षणं तेषां तत्सर्वं ब्रूहि साम्प्रतम्
कथं वा वैष्णवा लोका ज्ञातव्या मुनिसत्तम ॥ ४२ ॥

विश्वास-प्रस्तुतिः

आदितो ब्रूहि तत्सर्वं यदि ते मय्यनुग्रहः
व्यास उवाच-
मधुकैटभयोः पूर्वं हतयोर्वेधसा स्वयम् ॥ ४३ ॥

मूलम्

आदितो ब्रूहि तत्सर्वं यदि ते मय्यनुग्रहः
व्यास उवाच-
मधुकैटभयोः पूर्वं हतयोर्वेधसा स्वयम् ॥ ४३ ॥

विश्वास-प्रस्तुतिः

पृष्टो यदाह भगवांस्तन्निशामय वेद्म्यहम्
कल्पान्ते रुद्ररूपेण संहार्य सकलं जगत् ॥ ४४ ॥

मूलम्

पृष्टो यदाह भगवांस्तन्निशामय वेद्म्यहम्
कल्पान्ते रुद्ररूपेण संहार्य सकलं जगत् ॥ ४४ ॥

विश्वास-प्रस्तुतिः

स्वयमेकश्च भगवान्सुष्वाप योगमायया
सुप्ते तस्मिन्भगवति योगनिद्रा विमोहिते
अभवत्पृथिवी सर्वा सलिलौघ परिप्लुता ॥ ४५ ॥

मूलम्

स्वयमेकश्च भगवान्सुष्वाप योगमायया
सुप्ते तस्मिन्भगवति योगनिद्रा विमोहिते
अभवत्पृथिवी सर्वा सलिलौघ परिप्लुता ॥ ४५ ॥

विश्वास-प्रस्तुतिः

अतो ब्रह्मा जगत्स्रष्टा तन्नाभिकमलोपरि
तमादिपुरुषं ध्यात्वा तस्थौ तद्गतमानसः ॥ ४६ ॥

मूलम्

अतो ब्रह्मा जगत्स्रष्टा तन्नाभिकमलोपरि
तमादिपुरुषं ध्यात्वा तस्थौ तद्गतमानसः ॥ ४६ ॥

विश्वास-प्रस्तुतिः

तस्मिन्काले महाघोरे विष्णोः कर्णमलाद्द्विज
जातौ महासुरौ घोरौ मधुकैटभसञ्ज्ञितौ ॥ ४७ ॥

मूलम्

तस्मिन्काले महाघोरे विष्णोः कर्णमलाद्द्विज
जातौ महासुरौ घोरौ मधुकैटभसञ्ज्ञितौ ॥ ४७ ॥

विश्वास-प्रस्तुतिः

अन्तरिक्षे भ्रमन्तौ तौ दानवावतिदारुणौ
श्रीविष्णोर्नाभिकमले ब्रह्माणं तावपश्यताम् ॥ ४८ ॥

मूलम्

अन्तरिक्षे भ्रमन्तौ तौ दानवावतिदारुणौ
श्रीविष्णोर्नाभिकमले ब्रह्माणं तावपश्यताम् ॥ ४८ ॥

विश्वास-प्रस्तुतिः

तं हन्तुमथ दैत्यौ तौ महाबलपराक्रमौ
उद्यमं चक्रतुर्विप्र क्रोधसंरक्तलोचनौ ॥ ४९ ॥

मूलम्

तं हन्तुमथ दैत्यौ तौ महाबलपराक्रमौ
उद्यमं चक्रतुर्विप्र क्रोधसंरक्तलोचनौ ॥ ४९ ॥

विश्वास-प्रस्तुतिः

ततो ब्रह्मा जगत्स्रष्टा विचिन्त्य तद्वधं हृदा
योगनिद्रां भगवतीं तुष्टाव श्लक्ष्णया गिरा ५० 7.2.50
तस्य स्तवं समाकर्ण्य ब्रह्मणः परमेष्ठिनः
उवाचेति वचः प्रीत्या किं तेऽभिमतमुच्यताम् ॥ ५१ ॥

ब्रह्मोवाच-
अत्युग्रदानवावेतौ हन्तुं मां कृतनिश्चयौ
मायया मोहय क्षिप्रं त्रातारमच्युतं त्यज ॥ ५२ ॥

मूलम्

ब्रह्मोवाच-
अत्युग्रदानवावेतौ हन्तुं मां कृतनिश्चयौ
मायया मोहय क्षिप्रं त्रातारमच्युतं त्यज ॥ ५२ ॥

विश्वास-प्रस्तुतिः

ततो भागवती निद्रा महाविष्णुं तमत्यजत्
दानवाभ्यां ततस्ताभ्यामन्तरिक्षे कृपामयः ॥ ५३ ॥

मूलम्

ततो भागवती निद्रा महाविष्णुं तमत्यजत्
दानवाभ्यां ततस्ताभ्यामन्तरिक्षे कृपामयः ॥ ५३ ॥

विश्वास-प्रस्तुतिः

युयुधे बाहुयुद्धेन शरणागतवत्सलः
पञ्चवर्षसहस्राणि कृत्वा युद्धं सुदारुणम् ॥ ५४ ॥

मूलम्

युयुधे बाहुयुद्धेन शरणागतवत्सलः
पञ्चवर्षसहस्राणि कृत्वा युद्धं सुदारुणम् ॥ ५४ ॥

विश्वास-प्रस्तुतिः

विजयं नागमत्कोऽपि न च कोऽपि पराभवम्
अथ तौ दानवौ तत्र महामायाविमोहितौ ॥ ५५ ॥

मूलम्

विजयं नागमत्कोऽपि न च कोऽपि पराभवम्
अथ तौ दानवौ तत्र महामायाविमोहितौ ॥ ५५ ॥

विश्वास-प्रस्तुतिः

वरं वृण्विति चास्मत्तोऽगदतां केशवं प्रति
ततः प्रहस्य देवेश उवाचेति वचो द्विज ॥ ५६ ॥

मूलम्

वरं वृण्विति चास्मत्तोऽगदतां केशवं प्रति
ततः प्रहस्य देवेश उवाचेति वचो द्विज ॥ ५६ ॥

विश्वास-प्रस्तुतिः

यदि तुष्टौ च वां दैत्यौ मद्वध्यौ भवतं द्रुतौ
ततस्तौ दानवौ घोरौ भगवन्तं जनार्दनम् ॥ ५७ ॥

मूलम्

यदि तुष्टौ च वां दैत्यौ मद्वध्यौ भवतं द्रुतौ
ततस्तौ दानवौ घोरौ भगवन्तं जनार्दनम् ॥ ५७ ॥

विश्वास-प्रस्तुतिः

इत्यूचतुर्महामायौ महामायाविमोहितौ
अयमेव वरो दत्तो भवते नात्र संशयः ॥ ५८ ॥

मूलम्

इत्यूचतुर्महामायौ महामायाविमोहितौ
अयमेव वरो दत्तो भवते नात्र संशयः ॥ ५८ ॥

विश्वास-प्रस्तुतिः

मारयावां विना वारि मही यत्र जनार्द्दन
महासुरौ ततस्तौ तु आनीय जघनं प्रति ॥ ५९ ॥

मूलम्

मारयावां विना वारि मही यत्र जनार्द्दन
महासुरौ ततस्तौ तु आनीय जघनं प्रति ॥ ५९ ॥

विश्वास-प्रस्तुतिः

निहतौ सहसा विप्र चित्रया चक्रधारया
चक्रिणा निहतौ दृष्ट्वा दानवौ मधुकैटभौ
तुष्टाव देवदेवेशं ब्रह्मा विगतसाध्वसः ॥ ६० ॥

मूलम्

निहतौ सहसा विप्र चित्रया चक्रधारया
चक्रिणा निहतौ दृष्ट्वा दानवौ मधुकैटभौ
तुष्टाव देवदेवेशं ब्रह्मा विगतसाध्वसः ॥ ६० ॥

विश्वास-प्रस्तुतिः

ब्रह्मोवाच-
नमो नमस्ते परमेश्वराय प्रपन्नसर्वार्तिविनाशनाय
नमो नमस्ते त्रिगुणात्मकाय नारायणायामितविक्रमाय ॥ ६१ ॥

मूलम्

ब्रह्मोवाच-
नमो नमस्ते परमेश्वराय प्रपन्नसर्वार्तिविनाशनाय
नमो नमस्ते त्रिगुणात्मकाय नारायणायामितविक्रमाय ॥ ६१ ॥

विश्वास-प्रस्तुतिः

त्वत्पादपाथोजयुगं प्रपन्ना जनाः क्वचिन्नो विपदं मनुष्याः
एतन्मया ज्ञातमनन्तकीर्ते सद्यो हृतेयं महती ममापत् ॥ ६२ ॥

मूलम्

त्वत्पादपाथोजयुगं प्रपन्ना जनाः क्वचिन्नो विपदं मनुष्याः
एतन्मया ज्ञातमनन्तकीर्ते सद्यो हृतेयं महती ममापत् ॥ ६२ ॥

विश्वास-प्रस्तुतिः

योगेश्वरोऽसि सदयोऽसि जगत्त्रयेश त्वं देवदेवशरणागतपालकेश
त्वं निर्द्दयोऽरिनिकरस्य विनाशनेषु यद्रक्षितोऽहमसुरौ निहतौ त्वयैतौ ॥ ६३ ॥

मूलम्

योगेश्वरोऽसि सदयोऽसि जगत्त्रयेश त्वं देवदेवशरणागतपालकेश
त्वं निर्द्दयोऽरिनिकरस्य विनाशनेषु यद्रक्षितोऽहमसुरौ निहतौ त्वयैतौ ॥ ६३ ॥

विश्वास-प्रस्तुतिः

यद्यप्यत्यन्तकठिनौ मधुकैटभौ तौ मन्ये तथापि स्वजनाविह चेतसाहम्
यस्मात्स्वजीवनविनाश वरप्रदानैः सन्तोषितोऽखिलशुभप्रद ईश्वरस्त्वम् ॥ ६४ ॥

मूलम्

यद्यप्यत्यन्तकठिनौ मधुकैटभौ तौ मन्ये तथापि स्वजनाविह चेतसाहम्
यस्मात्स्वजीवनविनाश वरप्रदानैः सन्तोषितोऽखिलशुभप्रद ईश्वरस्त्वम् ॥ ६४ ॥

विश्वास-प्रस्तुतिः

रम्यं जगत्त्रयमिदं पुरुषस्य तस्य नश्यन्ति सर्वरिपवः स्वकुलैः समेताः
वृद्धिं व्रजन्ति सुहृदोऽखिलबान्धवाश्च यं पश्यसि त्वममरेश दयाभिरत्र ॥ ६५ ॥

मूलम्

रम्यं जगत्त्रयमिदं पुरुषस्य तस्य नश्यन्ति सर्वरिपवः स्वकुलैः समेताः
वृद्धिं व्रजन्ति सुहृदोऽखिलबान्धवाश्च यं पश्यसि त्वममरेश दयाभिरत्र ॥ ६५ ॥

विश्वास-प्रस्तुतिः

लक्ष्मीमुखाम्बुज मधुव्रत देवदेव संसारलोकभयशोकविनाशकारिन्
त्वच्चारुपादकमलद्वयमाश्रयन्तं मां पाहि नाथ कृपया सततं नमस्ते ॥ ६६ ॥

मूलम्

लक्ष्मीमुखाम्बुज मधुव्रत देवदेव संसारलोकभयशोकविनाशकारिन्
त्वच्चारुपादकमलद्वयमाश्रयन्तं मां पाहि नाथ कृपया सततं नमस्ते ॥ ६६ ॥

विश्वास-प्रस्तुतिः

प्रसीद पुण्डरीकाक्ष प्रसीद कमलेश्वर
प्रसीद सर्वभूतेश विश्वम्भर नमोस्तु ते ॥ ६७ ॥

मूलम्

प्रसीद पुण्डरीकाक्ष प्रसीद कमलेश्वर
प्रसीद सर्वभूतेश विश्वम्भर नमोस्तु ते ॥ ६७ ॥

विश्वास-प्रस्तुतिः

नमस्ते भक्ततुष्टाय नमस्ते भक्तिदायिने
नमस्ते ज्ञानरूपाय शरणं मे भवानघ ॥ ६८ ॥

मूलम्

नमस्ते भक्ततुष्टाय नमस्ते भक्तिदायिने
नमस्ते ज्ञानरूपाय शरणं मे भवानघ ॥ ६८ ॥

विश्वास-प्रस्तुतिः

नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमोनमः
परित्राहि परित्राहि परित्राहि जगन्मय ॥ ६९ ॥

मूलम्

नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमोनमः
परित्राहि परित्राहि परित्राहि जगन्मय ॥ ६९ ॥

विश्वास-प्रस्तुतिः

व्यास उवाच-
एतैरन्यैरपि स्तोत्रैर्ब्रह्मणा लोककारिणा
स्तुतः स देवो भगवान्परमां प्रीतिमाययौ ॥ ७० ॥

मूलम्

व्यास उवाच-
एतैरन्यैरपि स्तोत्रैर्ब्रह्मणा लोककारिणा
स्तुतः स देवो भगवान्परमां प्रीतिमाययौ ॥ ७० ॥

विश्वास-प्रस्तुतिः

श्रीभगवानुवाच -
स्तोत्रेणानेन ते भक्त्या तुष्टोऽस्मि कमलासन
किमस्त्यभिमतं ब्रूहि तत्ते दास्याम्यहं भुवि ॥ ७१ ॥

मूलम्

श्रीभगवानुवाच -
स्तोत्रेणानेन ते भक्त्या तुष्टोऽस्मि कमलासन
किमस्त्यभिमतं ब्रूहि तत्ते दास्याम्यहं भुवि ॥ ७१ ॥

विश्वास-प्रस्तुतिः

ब्रह्मोवाच-
यदि तुष्टोऽसि देवेश करुणाब्धे जगन्मय
नापदस्तव भक्तानां भवन्त्विति वरो मम ॥ ७२ ॥

मूलम्

ब्रह्मोवाच-
यदि तुष्टोऽसि देवेश करुणाब्धे जगन्मय
नापदस्तव भक्तानां भवन्त्विति वरो मम ॥ ७२ ॥

विश्वास-प्रस्तुतिः

श्रीभगवानुवाच-
एवमस्तु सुरश्रेष्ठ दत्तोऽयं ते मया वरः
मद्भक्तस्य कदाप्यापन्न भवेत्क्षितिमण्डले ॥ ७३ ॥

मूलम्

श्रीभगवानुवाच-
एवमस्तु सुरश्रेष्ठ दत्तोऽयं ते मया वरः
मद्भक्तस्य कदाप्यापन्न भवेत्क्षितिमण्डले ॥ ७३ ॥

विश्वास-प्रस्तुतिः

वैष्णवानां शरीरेषु सततं निवसाम्यहम्
लभन्ते नापदस्तस्मात्कदाचिद्वैष्णवा नराः ॥ ७४ ॥

मूलम्

वैष्णवानां शरीरेषु सततं निवसाम्यहम्
लभन्ते नापदस्तस्मात्कदाचिद्वैष्णवा नराः ॥ ७४ ॥

विश्वास-प्रस्तुतिः

ब्रह्मोवाच-
सर्वमेव जगन्नाथ त्वया दत्तं न संशयः
यद्येतौ च महादैत्यौ सङ्ग्रामे विनिपातितौ ॥ ७५ ॥

मूलम्

ब्रह्मोवाच-
सर्वमेव जगन्नाथ त्वया दत्तं न संशयः
यद्येतौ च महादैत्यौ सङ्ग्रामे विनिपातितौ ॥ ७५ ॥

विश्वास-प्रस्तुतिः

कियत्कालं समासाद्य स्तोत्रेणानेन वै प्रभो
स्तौति त्वां परया भक्त्या तस्य त्राता भविष्यसि ॥ ७६ ॥

मूलम्

कियत्कालं समासाद्य स्तोत्रेणानेन वै प्रभो
स्तौति त्वां परया भक्त्या तस्य त्राता भविष्यसि ॥ ७६ ॥

विश्वास-प्रस्तुतिः

अहो ध्यानैरपि ध्यातुं देवैस्त्वं न हि शक्यसे
स त्वं वैष्णवदेहेषु भ्रमसीत्यद्भुतं महत् ॥ ७७ ॥

मूलम्

अहो ध्यानैरपि ध्यातुं देवैस्त्वं न हि शक्यसे
स त्वं वैष्णवदेहेषु भ्रमसीत्यद्भुतं महत् ॥ ७७ ॥

विश्वास-प्रस्तुतिः

क्षणमात्रमपि स्वामिंस्त्वयि तुष्टेन किं भवेत्
स त्वं वैष्णवसङ्गेन भ्रमसीत्यद्भुतं महत् ॥ ७८ ॥

मूलम्

क्षणमात्रमपि स्वामिंस्त्वयि तुष्टेन किं भवेत्
स त्वं वैष्णवसङ्गेन भ्रमसीत्यद्भुतं महत् ॥ ७८ ॥

विश्वास-प्रस्तुतिः

के वैष्णवाः कैटभारे किं वा तेषां च लक्षणम्
कथं ज्ञेयास्तु ते सर्वे तन्मे कथय केशव ॥ ७९ ॥

मूलम्

के वैष्णवाः कैटभारे किं वा तेषां च लक्षणम्
कथं ज्ञेयास्तु ते सर्वे तन्मे कथय केशव ॥ ७९ ॥

विश्वास-प्रस्तुतिः

श्रीभगवानुवाच-
वैष्णवानां लक्षणानि कल्पकोटिशतैरपि
सम्यग्वक्तुं न शक्तोऽस्मि सङ्क्षेपाच्छृणु सत्तम ॥ ८० ॥

मूलम्

श्रीभगवानुवाच-
वैष्णवानां लक्षणानि कल्पकोटिशतैरपि
सम्यग्वक्तुं न शक्तोऽस्मि सङ्क्षेपाच्छृणु सत्तम ॥ ८० ॥

विश्वास-प्रस्तुतिः

संसारो वैष्णवाधीनो देवा वैष्णवपालिताः
अहं च वैष्णवाधीनस्तस्माच्छ्रेष्ठाश्च वैष्णवाः ॥ ८१ ॥

मूलम्

संसारो वैष्णवाधीनो देवा वैष्णवपालिताः
अहं च वैष्णवाधीनस्तस्माच्छ्रेष्ठाश्च वैष्णवाः ॥ ८१ ॥

विश्वास-प्रस्तुतिः

क्षणमात्रमपि ब्रह्मन्विहाय वैष्णवं जनम्
तिष्ठामि नाहमन्यत्र वैष्णवा मम बान्धवाः ॥ ८२ ॥

मूलम्

क्षणमात्रमपि ब्रह्मन्विहाय वैष्णवं जनम्
तिष्ठामि नाहमन्यत्र वैष्णवा मम बान्धवाः ॥ ८२ ॥

विश्वास-प्रस्तुतिः

कामक्रोधविहीना ये हिंसादम्भविवर्जिताः
लोभमोहविहीनाश्च ज्ञेयास्ते वैष्णवा जनाः ॥ ८३ ॥

मूलम्

कामक्रोधविहीना ये हिंसादम्भविवर्जिताः
लोभमोहविहीनाश्च ज्ञेयास्ते वैष्णवा जनाः ॥ ८३ ॥

विश्वास-प्रस्तुतिः

अमत्सरा दयायुक्ताः सर्वभूतहितैषिणः
सत्योक्तिभाषिणश्चैव विज्ञेयास्ते च वैष्णवाः ॥ ८४ ॥

मूलम्

अमत्सरा दयायुक्ताः सर्वभूतहितैषिणः
सत्योक्तिभाषिणश्चैव विज्ञेयास्ते च वैष्णवाः ॥ ८४ ॥

विश्वास-प्रस्तुतिः

धर्मोपदेशिनश्चैव धर्माचारधरास्तथा
गुरुशुश्रूषिणश्चैव विज्ञेयास्ते च वैष्णवाः ॥ ८५ ॥

मूलम्

धर्मोपदेशिनश्चैव धर्माचारधरास्तथा
गुरुशुश्रूषिणश्चैव विज्ञेयास्ते च वैष्णवाः ॥ ८५ ॥

विश्वास-प्रस्तुतिः

समानं ये च पश्यन्ति त्वां च मां च महेश्वरम्
कुर्वन्ति पूजामतिथेर्ज्ञेयास्ते वैष्णवा जनाः ॥ ८६ ॥

मूलम्

समानं ये च पश्यन्ति त्वां च मां च महेश्वरम्
कुर्वन्ति पूजामतिथेर्ज्ञेयास्ते वैष्णवा जनाः ॥ ८६ ॥

विश्वास-प्रस्तुतिः

वेदविद्यानिरुक्ता ये विप्र भक्तिरताः सदा
नपुंसकाः परस्त्रीषु ज्ञेयास्ते वैष्णवा जनाः ॥ ८७ ॥

मूलम्

वेदविद्यानिरुक्ता ये विप्र भक्तिरताः सदा
नपुंसकाः परस्त्रीषु ज्ञेयास्ते वैष्णवा जनाः ॥ ८७ ॥

विश्वास-प्रस्तुतिः

एकादशीव्रतं ये च भक्तिभावेन कुर्वते
गायन्ति मम नामानि ज्ञेयास्ते वैष्णवा जनाः ॥ ८८ ॥

मूलम्

एकादशीव्रतं ये च भक्तिभावेन कुर्वते
गायन्ति मम नामानि ज्ञेयास्ते वैष्णवा जनाः ॥ ८८ ॥

विश्वास-प्रस्तुतिः

देवायतनकर्तारस्तुलसीमाल्यधारकाः
पद्माक्षधारिणो ये च ज्ञेयास्ते वैष्णवा जनाः ॥ ८९ ॥

मूलम्

देवायतनकर्तारस्तुलसीमाल्यधारकाः
पद्माक्षधारिणो ये च ज्ञेयास्ते वैष्णवा जनाः ॥ ८९ ॥

विश्वास-प्रस्तुतिः

शङ्खचक्रगदापद्मैरङ्कितानि ममायुधैः
ब्रह्मन्येषां शरीराणि ज्ञेयास्ते वैष्णवा जनाः ॥ ९० ॥

मूलम्

शङ्खचक्रगदापद्मैरङ्कितानि ममायुधैः
ब्रह्मन्येषां शरीराणि ज्ञेयास्ते वैष्णवा जनाः ॥ ९० ॥

विश्वास-प्रस्तुतिः

धात्रीफलस्रजो येषां गलेषु कमलासन
मां पूजयन्ति तत्पत्रैर्ज्ञेयास्ते वैष्णवा जनाः ॥ ९१ ॥

मूलम्

धात्रीफलस्रजो येषां गलेषु कमलासन
मां पूजयन्ति तत्पत्रैर्ज्ञेयास्ते वैष्णवा जनाः ॥ ९१ ॥

विश्वास-प्रस्तुतिः

तुलसीमूलमृद्भिश्च तिलकानि नयन्ति ये
तुलसीकाष्ठपङ्कैश्च ज्ञेयास्ते वैष्णवा जनाः ॥ ९२ ॥

मूलम्

तुलसीमूलमृद्भिश्च तिलकानि नयन्ति ये
तुलसीकाष्ठपङ्कैश्च ज्ञेयास्ते वैष्णवा जनाः ॥ ९२ ॥

विश्वास-प्रस्तुतिः

गङ्गास्नानरता ये च गङ्गानामपरायणाः
गङ्गामाहात्म्यवक्तारो ज्ञेयास्ते वैष्णवा जनाः ॥ ९३ ॥

मूलम्

गङ्गास्नानरता ये च गङ्गानामपरायणाः
गङ्गामाहात्म्यवक्तारो ज्ञेयास्ते वैष्णवा जनाः ॥ ९३ ॥

विश्वास-प्रस्तुतिः

शालग्रामशिला येषां गृहे वसति सर्वदा
शास्त्रं भागवतं चैव ज्ञेयास्ते वैष्णवा जनाः ॥ ९४ ॥

मूलम्

शालग्रामशिला येषां गृहे वसति सर्वदा
शास्त्रं भागवतं चैव ज्ञेयास्ते वैष्णवा जनाः ॥ ९४ ॥

विश्वास-प्रस्तुतिः

सम्मार्जयन्ति ये नित्यं मम स्थानानि सत्तम
दीपं यच्छन्ति तत्रैव ज्ञेयास्ते वैष्णवा जनाः ॥ ९५ ॥

मूलम्

सम्मार्जयन्ति ये नित्यं मम स्थानानि सत्तम
दीपं यच्छन्ति तत्रैव ज्ञेयास्ते वैष्णवा जनाः ॥ ९५ ॥

विश्वास-प्रस्तुतिः

शीर्णं मन्मन्दिरं ये च कुर्वन्ति नूतनं पुनः
तत्रायतनशोभां च ज्ञेयास्ते वैष्णवा जनाः ॥ ९६ ॥

मूलम्

शीर्णं मन्मन्दिरं ये च कुर्वन्ति नूतनं पुनः
तत्रायतनशोभां च ज्ञेयास्ते वैष्णवा जनाः ॥ ९६ ॥

विश्वास-प्रस्तुतिः

अभयं ये च यच्छन्ति भीरुभ्यश्चतुरानन
विद्यादानं च विप्रेभ्यो ज्ञेयास्ते वैष्णवा जनाः ॥ ९७ ॥

मूलम्

अभयं ये च यच्छन्ति भीरुभ्यश्चतुरानन
विद्यादानं च विप्रेभ्यो ज्ञेयास्ते वैष्णवा जनाः ॥ ९७ ॥

विश्वास-प्रस्तुतिः

मत्पादसलिलैर्येषां सिक्तानि मस्तकानि च
मम नैवेद्यमश्नन्ति ज्ञेयास्ते वैष्णवा जनाः ॥ ९८ ॥

मूलम्

मत्पादसलिलैर्येषां सिक्तानि मस्तकानि च
मम नैवेद्यमश्नन्ति ज्ञेयास्ते वैष्णवा जनाः ॥ ९८ ॥

विश्वास-प्रस्तुतिः

क्षुत्तृट्प्रपीडितेभ्यश्च ये यच्छन्त्यन्नमम्बु च
कुर्युर्ये योगशुश्रूषां ज्ञेयास्ते वैष्णवा जनाः ॥ ९९ ॥

मूलम्

क्षुत्तृट्प्रपीडितेभ्यश्च ये यच्छन्त्यन्नमम्बु च
कुर्युर्ये योगशुश्रूषां ज्ञेयास्ते वैष्णवा जनाः ॥ ९९ ॥

आरामकारिणो ये च पिप्पलारोहिणोऽपि च
गोसेवां ये च कुर्वन्ति ज्ञेयास्ते वैष्णवा जनाः १०० 7.2.100
अत्यन्तभक्ता ये ब्रह्मन्पितृयज्ञं प्रकुर्वते
कुर्वन्ति दीनशुश्रूषां ज्ञैयास्ते वैष्णवा जनाः १०१
तडागग्रामकर्तारः कन्यादानरताश्च ये
सेवन्ते श्वशुरौ ये च ज्ञेयास्ते वैष्णवा जनाः १०२
सेवन्ते ज्येष्ठभगिनीं ज्येष्ठभ्रातरमेव च
परनिन्दां न कुर्वन्ति ज्ञेयास्ते वैष्णवा जनाः १०३
वैष्णवेषु गुणाः सर्वे दोषलेशो न विद्यते
तस्माच्चतुर्मुख त्वं च वैष्णवो भव साम्प्रतम् १०४
समाराधय मां नित्यं क्रियायोगैः प्रजापते
सर्वमेवाशु भद्रं ते भविष्यति न संशयः १०५
देवस्वं ब्राह्मणद्रव्यं परस्वं च चतुर्मुख
पश्यन्ति विषवद्ये च ज्ञेयास्ते वैष्णवा जनाः १०६
पाखण्डभक्तिरहिताः शिवभक्तिपरायणाः
चतुर्द्दशीव्रतरता ज्ञेयास्ते वैष्णवा जनाः १०७
बहुनात्र किमुक्तेन भाषितेन पुनः पुनः
ममार्चां ये च कुर्वन्ति विज्ञेयास्ते च वैष्णवाः १०८
भूयः पूर्वस्थितमिव सृज्यतां सकलं जगत्
इत्युक्त्वान्तर्द्दधे देवस्तत्रैव परमेश्वरः १०९
ततस्तु पूर्ववद्ब्रह्मा सृष्टवान्सकलं जगत्
क्रियायोगैर्हरिं चेष्ट्वा जगाम परमं पदम् ११०
ये पठन्ती ममध्यायं भक्त्या नारायणाग्रतः
सर्वपापविनिर्मुक्ता अन्ते यान्ति हरेर्गृहम् १११
इति श्रीपाद्मे महापुराणे क्रियायोगसारे द्वितीयोऽध्यायः २