००१

लक्ष्मीनाथपदारविन्दयुगलं

विश्वास-प्रस्तुतिः

ब्रह्मेश्वराद्यामरश्रेणीनम्रशिरोलिरोलिमा अमलं
वन्दामहे सन्ततम्
भक्त्या योगिमनस्तडागसुषमासन्दोहपुष्यत्तमं गङ्गाम्भोमकरं दविन्दुनिकरं संसारदुःखापहम् ॥ १ ॥

मूलम्

यो मूर्तीर्बहुधा विधाय भगवान्रक्षन्नशेषं जगद्यत्पादार्चनतत्परा न हि पुनर्मज्जन्ति विश्वार्णवे
सर्वप्राणिहृदम्बुजेषु वसतिर्यस्य प्रभोः सन्ततं रम्यक्रोडवपुर्धराय हरये देवाय तस्मै नमः ॥ २ ॥

वेदेभ्य उद्धृत्य समस्तधर्मान्योऽयं पुराणेषु जगाद देवः
व्यासस्वरूपेण जगद्धिताय वन्देतमेतं कमला समेतम् ॥ ३ ॥

एकदा मुनयः सर्वे सर्वलोकहितैषिणः
सुरम्ये नैमिषारण्ये गोष्ठीञ्चक्रुर्मनोरमाम् ॥ ४ ॥

तत्रान्तरे महातेजा व्यासशिष्यो महायशाः
सूतः शिष्यगणैर्युक्तः समायातो हरिं स्मरन् ॥ ५ ॥

तमायान्तं समालोक्य सूतं शास्त्रार्थपारगम्
नेमुः सर्वे समुत्थाय शौनकाद्यास्तपोधनाः ॥ ६ ॥

सोऽपि तान्सहसा भक्त्या मुनीन्परमवैष्णवान्
ननाम दण्डवद्भूमौ सर्वधर्मविदांवरः ॥ ७ ॥

वरासने महाबुद्धिस्तैर्द्दत्ते मुनिसत्तमैः
उवास ह मुनिर्मध्ये सर्वैः शिष्यगणैर्वृतः ॥ ८ ॥

तत्रोपविष्टं तं सूतं शौनको मुनिसत्तमः
बद्धाञ्जलिरिमां वाचमुवाच विनयान्वितः ॥ ९ ॥

शौनक उवाच-
महर्षे सूत सर्वज्ञ कलिकाले समागते
केनोपायेन भगवन्भूरिभक्तिर्भवेन्नृणाम् ॥ १० ॥

कलौ सर्वे भविष्यन्ति पापकर्मरता जनाः
वेदविद्याविहीनाश्च तेषां श्रेयः कथं भवेत् ॥ ११ ॥

कलावन्नगताः प्राणा लोकाः स्वल्पायुषस्तथा
निर्धनाश्च भविष्यन्ति नानादुःखप्रपीडिताः ॥ १२ ॥

प्रयाससाध्यं सुकृतं शास्त्रेषु क्रियते द्विज
तस्मात्केऽपि करिष्यन्ति कलौ न सुकृतं जनाः ॥ १३ ॥

सुकृतेषु विनष्टेषु प्रवृत्ते पापकर्मणि
सवंशाः प्रलयं सर्वे गमिष्यन्ति दुराशयाः ॥ १४ ॥

स्वल्पश्रमैरल्पवित्तैरल्पकालैश्च सत्तम
यथा भवेन्महापुण्यं तद्वै कथय सूतज ॥ १५ ॥

यस्योपदेशतः पुण्यं पापं वा कुर्वते जनाः
स तद्भागी भवेन्मर्त्य इति शास्त्रेषु निश्चितम् ॥ १६ ॥

पुण्योपदेशः सदयः कैतवैश्च विवर्जितः
पापमार्गविरोधी च चत्वारः केशवोपमाः ॥ १७ ॥

ज्ञानं सम्प्राप्य संसारे यः परेभ्यो न यच्छति
ज्ञानरूपी हरिस्तस्मै प्रसन्न इव नेक्षते ॥ १८ ॥

ज्ञानरत्नैश्च रत्नैश्च परसन्तोषकृन्नरः
स ज्ञेयः सुमतिर्नूनं नररूपधरो हरिः ॥ १९ ॥

त्वमेव मुनिशार्दूल वेदवेदाङ्गपारगः
त्वदृते न हि वक्ताऽन्यो यतस्त्वं व्यासशासितः ॥ २० ॥

सूत उवाच-
धन्योऽसि त्वं मुनिश्रेष्ठ त्वमेव वैष्णवाग्रणीः
यतः समस्तलोकानां हितं वाञ्छसि सर्वदा ॥ २१ ॥

शृणु शौनक वक्ष्यामि यत्त्वया श्रोतुमिच्छितम्
सर्वलोकहितार्थाय वैष्णवानां विशेषतः ॥ २२ ॥

पृष्टो जैमिनिना सर्वं यदुवाच शृणुष्व तत्
महर्षिर्जैमिनिर्नाम योगाभ्यासरतः सदा ॥ २३ ॥

प्रणम्य शिरसा व्यासं पप्रच्छ मुनिसत्तमः
जैमिनिरुवाच-
भगवन्सर्वधर्मज्ञ व्यास सत्यवती सुत ॥ २४ ॥

कलौ कस्माद्भवेन्मोक्षस्तन्ममाचक्ष्व मूलतः
सूत उवाच-
जैमिनेर्वचनं श्रुत्वा व्यासः सन्तुष्टमानसः ॥ २५ ॥

प्रारेभे मुनिशार्दूल कथां मङ्गलसंयुताम्
व्यास उवाच-
जैमिने मुनिशार्दूल धन्योऽसि त्वं महामते ॥ २६ ॥

नारायणकथां श्रोतुं यतो वाञ्छसि सर्वदा
सत्कथाश्रवणे बुद्धिर्यस्य यस्य प्रवर्तते ॥ २७ ॥

तस्य तस्य भवेज्ज्ञानं ज्ञानं मोक्षप्रदं विदुः
न वैष्णवकथा यस्मै रोचते पापिने भुवि ॥ २८ ॥

वृथैव सृष्ट्वा विधिना भूमिर्भारवती कृता
कथायै जगती वक्तुं श्लाघ्यते वैष्णवैर्जनैः ॥ २९ ॥

तां मिथ्यामिव यो वक्ति स ज्ञेयः पापिनां वरः
यस्मिन्दिने मुनिश्रेष्ठ श्रूयते न हरेः कथा ॥ ३० ॥

तद्दिनं दुर्दिनं मन्ये घनच्छन्नं न दुर्दिनम्
यत्र यत्र महीभागे वैष्णवी वर्तते कथा ॥ ३१ ॥

सान्निध्यं तत्र भगवान्न जहाति कदाचन
यो वैष्णवकथारम्भे विघ्नकृन्मानवो भवेत् ॥ ३२ ॥

तमेव शप्त्वा भगवान्दैवतैः सह गच्छति
प्रभावं वासुदेवस्य श्रुत्वा हृष्यन्ति ये जनाः ॥ ३३ ॥

ज्ञेयास्त एव देवांशाः पूज्या दृश्याश्च सत्तमाः
नारायणप्रभावं ये श्रुत्वा चोपहसन्ति वै ॥ ३४ ॥

ते विज्ञेया दानवांशा नरा नरकभागिनः
तत्र तीर्थानि सर्वाणि गङ्गादीनि द्विजोत्तम ॥ ३५ ॥

देवर्षयश्च देवाश्च मुनयश्च तपोधनाः
शृण्वतां लोकसङ्घानां पापव्याधिविनाशनी ॥ ३६ ॥

नारायणकथा यत्र वर्तते प्रतिवासरम्
मुने क्रियायोगसारं बह्वर्थं पापनाशनम् ॥ ३७ ॥

नारायणकथोपेतं सेतिहासं निशामय ॥ ३८ ॥

मूलम्

नारायणकथोपेतं सेतिहासं निशामय ॥ ३८ ॥

इति श्रीपाद्मे महापुराणे क्रियायोगसारे जैमिनिव्याससंवादे प्रथमोऽध्यायः १