दिलीप उवाच-
विश्वास-प्रस्तुतिः
कथितं भवता ब्रह्मन्सर्वधर्ममशेषतः
सामान्यं च विशिष्टं च स्वरूपं परजीवयोः ॥ १ ॥
मूलम्
कथितं भवता ब्रह्मन्सर्वधर्ममशेषतः
सामान्यं च विशिष्टं च स्वरूपं परजीवयोः ॥ १ ॥
विश्वास-प्रस्तुतिः
स्वर्गापवर्गौ कथितौ साधनं च तयोरपि
धन्योऽस्म्यहं द्विजश्रेष्ठ त्वत्प्रसादात्सदागुरो ॥ २ ॥
मूलम्
स्वर्गापवर्गौ कथितौ साधनं च तयोरपि
धन्योऽस्म्यहं द्विजश्रेष्ठ त्वत्प्रसादात्सदागुरो ॥ २ ॥
विश्वास-प्रस्तुतिः
एकमन्यं द्विजश्रेष्ठ पृच्छामि त्वां कुतूहलात्
कथयस्व यथातथ्यमपि वात्सल्यगौरवात् ॥ ३ ॥
मूलम्
एकमन्यं द्विजश्रेष्ठ पृच्छामि त्वां कुतूहलात्
कथयस्व यथातथ्यमपि वात्सल्यगौरवात् ॥ ३ ॥
विश्वास-प्रस्तुतिः
महाभागवतश्रेष्ठो रुद्रस्त्रिपुरहन्तकः
कस्माद्विगर्हितं रूपं प्राप्तवान्सह भार्य्यया ॥ ४ ॥
मूलम्
महाभागवतश्रेष्ठो रुद्रस्त्रिपुरहन्तकः
कस्माद्विगर्हितं रूपं प्राप्तवान्सह भार्य्यया ॥ ४ ॥
विश्वास-प्रस्तुतिः
योनिलिङ्गस्वरूपं च कथं स्यात्सुमहात्मनः
पञ्चवक्त्रश्चतुर्बाहुः शूलपाणिस्त्रिलोचनः ॥ ५ ॥
मूलम्
योनिलिङ्गस्वरूपं च कथं स्यात्सुमहात्मनः
पञ्चवक्त्रश्चतुर्बाहुः शूलपाणिस्त्रिलोचनः ॥ ५ ॥
विश्वास-प्रस्तुतिः
कथं विगर्हितं रूपं प्राप्तवान्द्विजपुङ्गव
एवं सर्वं समाचक्ष्व मित्रावरुणनन्दन ॥ ६ ॥
मूलम्
कथं विगर्हितं रूपं प्राप्तवान्द्विजपुङ्गव
एवं सर्वं समाचक्ष्व मित्रावरुणनन्दन ॥ ६ ॥
विश्वास-प्रस्तुतिः
वसिष्ठ उवाच-
शृणु राजन्प्रवक्ष्यामि यन्मां पृच्छसि गौरवात्
विशुद्धहृदये पुंसां बुद्धिः श्रेयसि जायते ॥ ७ ॥
मूलम्
वसिष्ठ उवाच-
शृणु राजन्प्रवक्ष्यामि यन्मां पृच्छसि गौरवात्
विशुद्धहृदये पुंसां बुद्धिः श्रेयसि जायते ॥ ७ ॥
विश्वास-प्रस्तुतिः
स्वायम्भुवो मनुः पूर्वं मन्दरे पर्वतोत्तमे
जगाम मुनिभिः सार्द्धं दीर्घसत्रमनुत्तमम् ॥ ८ ॥
मूलम्
स्वायम्भुवो मनुः पूर्वं मन्दरे पर्वतोत्तमे
जगाम मुनिभिः सार्द्धं दीर्घसत्रमनुत्तमम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
तस्मिन्समागताः सर्वे मुनयः शंसितव्रताः
नानाशास्त्रविदः श्रेष्ठा बालसूर्य्यानलप्रभाः ॥ ९ ॥
मूलम्
तस्मिन्समागताः सर्वे मुनयः शंसितव्रताः
नानाशास्त्रविदः श्रेष्ठा बालसूर्य्यानलप्रभाः ॥ ९ ॥
विश्वास-प्रस्तुतिः
सर्ववेदविदो विप्राः सर्वधर्मपरायणाः
वर्तमाने महासत्रे मुनयः क्षीणकल्मषाः ॥ १० ॥
मूलम्
सर्ववेदविदो विप्राः सर्वधर्मपरायणाः
वर्तमाने महासत्रे मुनयः क्षीणकल्मषाः ॥ १० ॥
विश्वास-प्रस्तुतिः
अन्वेष्टुन्देवतातत्वम्मिथः प्रोचुस्तपोधनाः
विप्राणां वेदविदुषां कः पूज्यो देवता वरः ॥ ११ ॥
मूलम्
अन्वेष्टुन्देवतातत्वम्मिथः प्रोचुस्तपोधनाः
विप्राणां वेदविदुषां कः पूज्यो देवता वरः ॥ ११ ॥
विश्वास-प्रस्तुतिः
ब्रह्मविष्णुमहेशानां कः स्तुतो मुक्तिदो नृणाम्
कस्यपादोदकं सेव्यं भुक्तोच्छिष्टं च पावनम् ॥ १२ ॥
मूलम्
ब्रह्मविष्णुमहेशानां कः स्तुतो मुक्तिदो नृणाम्
कस्यपादोदकं सेव्यं भुक्तोच्छिष्टं च पावनम् ॥ १२ ॥
विश्वास-प्रस्तुतिः
कोऽव्ययः परमं धाम परमात्मा सनातनः
कस्य प्रसादं तीर्थं च पितॄणां तृप्तिदं भवेत् ॥ १३ ॥
मूलम्
कोऽव्ययः परमं धाम परमात्मा सनातनः
कस्य प्रसादं तीर्थं च पितॄणां तृप्तिदं भवेत् ॥ १३ ॥
विश्वास-प्रस्तुतिः
तेषां समुपविष्टानां इति वादो महानभूत्
रुद्रमेकमिति प्रोचुः केचिदत्र महर्षयः ॥ १४ ॥
मूलम्
तेषां समुपविष्टानां इति वादो महानभूत्
रुद्रमेकमिति प्रोचुः केचिदत्र महर्षयः ॥ १४ ॥
विश्वास-प्रस्तुतिः
ब्रह्मैव पूज्य इत्यन्ये वदन्ति मुनिसत्तमाः
सूर्य एवात्मनां पूज्य इत्यन्ये प्राहुरुत्तमाः ॥ १५ ॥
मूलम्
ब्रह्मैव पूज्य इत्यन्ये वदन्ति मुनिसत्तमाः
सूर्य एवात्मनां पूज्य इत्यन्ये प्राहुरुत्तमाः ॥ १५ ॥
विश्वास-प्रस्तुतिः
योऽसो सर्वगतः श्रीमाञ्छ्रीपतिः पुरुषोत्तमः
अव्ययः पुण्डरीकाक्षो वासुदेवः परात्परः ॥ १६ ॥
मूलम्
योऽसो सर्वगतः श्रीमाञ्छ्रीपतिः पुरुषोत्तमः
अव्ययः पुण्डरीकाक्षो वासुदेवः परात्परः ॥ १६ ॥
विश्वास-प्रस्तुतिः
अनादिनिधनो विष्णुः स एव परमेश्वरः
सम्पूज्यो देवताश्रेष्ठ इत्यन्ये चोचिरे द्विजाः ॥ १७ ॥
मूलम्
अनादिनिधनो विष्णुः स एव परमेश्वरः
सम्पूज्यो देवताश्रेष्ठ इत्यन्ये चोचिरे द्विजाः ॥ १७ ॥
विश्वास-प्रस्तुतिः
तेषां विवदतां तत्र मनुः स्वायम्भुवोऽब्रवीत्
शुद्धसत्वमयो योऽसौ कल्याणगुणवान्प्रभुः ॥ १८ ॥
मूलम्
तेषां विवदतां तत्र मनुः स्वायम्भुवोऽब्रवीत्
शुद्धसत्वमयो योऽसौ कल्याणगुणवान्प्रभुः ॥ १८ ॥
विश्वास-प्रस्तुतिः
पुण्डरीकेक्षणः श्रीमाञ्छ्रीपतिः पुरुषोत्तमः
विप्राणां वेदविदुषां एक एवार्चितः प्रभुः ॥ १९ ॥
मूलम्
पुण्डरीकेक्षणः श्रीमाञ्छ्रीपतिः पुरुषोत्तमः
विप्राणां वेदविदुषां एक एवार्चितः प्रभुः ॥ १९ ॥
विश्वास-प्रस्तुतिः
विप्राणां नेतरे पूज्या रजस्तमविमिश्रिताः
इति तस्य वचः श्रुत्वा सर्व एव महर्षयः
भृगुं तपोनिधिं विप्रं प्रोचुः प्राञ्जलयस्तथा ॥ २० ॥
मूलम्
विप्राणां नेतरे पूज्या रजस्तमविमिश्रिताः
इति तस्य वचः श्रुत्वा सर्व एव महर्षयः
भृगुं तपोनिधिं विप्रं प्रोचुः प्राञ्जलयस्तथा ॥ २० ॥
विश्वास-प्रस्तुतिः
ऋषय ऊचुः-
अस्माकं संशयं छेत्तुं त्वं समर्थोऽसि सुव्रत
ब्रह्मविष्णुमहेशानामन्तिकं व्रज सुव्रत ॥ २१ ॥
मूलम्
ऋषय ऊचुः-
अस्माकं संशयं छेत्तुं त्वं समर्थोऽसि सुव्रत
ब्रह्मविष्णुमहेशानामन्तिकं व्रज सुव्रत ॥ २१ ॥
विश्वास-प्रस्तुतिः
गत्वा तेषां समीपं तु तथा दृष्ट्वा तु विग्रहान्
शुद्धसत्वगुणं तेषां यस्मिन्संविद्यते मुने ॥ २२ ॥
मूलम्
गत्वा तेषां समीपं तु तथा दृष्ट्वा तु विग्रहान्
शुद्धसत्वगुणं तेषां यस्मिन्संविद्यते मुने ॥ २२ ॥
विश्वास-प्रस्तुतिः
स एव पूज्यो विप्राणां नेतरस्तु कदाचन
शुद्धसत्वमयः साक्षाद्ब्रह्मण्यः स भविष्यति ॥ २३ ॥
मूलम्
स एव पूज्यो विप्राणां नेतरस्तु कदाचन
शुद्धसत्वमयः साक्षाद्ब्रह्मण्यः स भविष्यति ॥ २३ ॥
विश्वास-प्रस्तुतिः
तीर्थप्रसादवाँल्लोके विप्राणां स भविष्यति
देवतानां पितॄणां च तस्योच्छिष्टं सुपावनम् ॥ २४ ॥
मूलम्
तीर्थप्रसादवाँल्लोके विप्राणां स भविष्यति
देवतानां पितॄणां च तस्योच्छिष्टं सुपावनम् ॥ २४ ॥
विश्वास-प्रस्तुतिः
तस्माद्याहि मुनिश्रेष्ठ विबुधानां निवासनम्
क्षिप्रं कुरु मुनिश्रेष्ठ सर्वलोकहितं प्रभो ॥ २५ ॥
मूलम्
तस्माद्याहि मुनिश्रेष्ठ विबुधानां निवासनम्
क्षिप्रं कुरु मुनिश्रेष्ठ सर्वलोकहितं प्रभो ॥ २५ ॥
विश्वास-प्रस्तुतिः
एवमुक्तस्ततस्तूर्णं कैलासं मुनिसत्तमः
जगाम वामदेवेन यत्रास्ते वृषभध्वजः ॥ २६ ॥
मूलम्
एवमुक्तस्ततस्तूर्णं कैलासं मुनिसत्तमः
जगाम वामदेवेन यत्रास्ते वृषभध्वजः ॥ २६ ॥
विश्वास-प्रस्तुतिः
गृहद्वारमुपागम्य शङ्करस्य महात्मनः
शूलहस्तं महारौद्रं नन्दिं द्दष्ट्वाब्रवीद्दिवजः ॥ २७ ॥
मूलम्
गृहद्वारमुपागम्य शङ्करस्य महात्मनः
शूलहस्तं महारौद्रं नन्दिं द्दष्ट्वाब्रवीद्दिवजः ॥ २७ ॥
विश्वास-प्रस्तुतिः
सम्प्राप्तोऽहं भृगुर्विप्रो हरं द्रष्टुं सुरोत्तमम्
निवेदयस्व मां शीघ्रं शङ्कराय महात्मने ॥ २८ ॥
मूलम्
सम्प्राप्तोऽहं भृगुर्विप्रो हरं द्रष्टुं सुरोत्तमम्
निवेदयस्व मां शीघ्रं शङ्कराय महात्मने ॥ २८ ॥
विश्वास-प्रस्तुतिः
तस्य तद्वचनं श्रुत्वा नन्दी सर्वगणेश्वरः
उवाच परुषं वाक्यं महर्षिममितौजसम् ॥ २९ ॥
मूलम्
तस्य तद्वचनं श्रुत्वा नन्दी सर्वगणेश्वरः
उवाच परुषं वाक्यं महर्षिममितौजसम् ॥ २९ ॥
विश्वास-प्रस्तुतिः
असान्निध्यं प्रभोस्तस्य देव्या क्रीडति शङ्करः
निवर्त्तस्व मुनिश्रेष्ठ यदि जीवितुमिच्छसि ॥ ३० ॥
मूलम्
असान्निध्यं प्रभोस्तस्य देव्या क्रीडति शङ्करः
निवर्त्तस्व मुनिश्रेष्ठ यदि जीवितुमिच्छसि ॥ ३० ॥
विश्वास-प्रस्तुतिः
एवं निराकृतस्तेन तत्रातिष्ठन्महातपाः
बहूनि दिवसान्यस्मिन्गृहद्वारि महेशितुः ॥ ३१ ॥
मूलम्
एवं निराकृतस्तेन तत्रातिष्ठन्महातपाः
बहूनि दिवसान्यस्मिन्गृहद्वारि महेशितुः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
नारीसङ्गममत्तोऽसौ यस्मान्मामवमन्यते
योनिलिङ्गस्वरूपं वै तस्मात्तस्य भविष्यति ॥ ३२ ॥
मूलम्
नारीसङ्गममत्तोऽसौ यस्मान्मामवमन्यते
योनिलिङ्गस्वरूपं वै तस्मात्तस्य भविष्यति ॥ ३२ ॥
विश्वास-प्रस्तुतिः
ब्राह्मणं मावजानाति तमसा समुपागतः
अब्रह्मण्यत्वमापन्नो ह्यपूज्योऽसौ द्विजन्मनाम् ॥ ३३ ॥
मूलम्
ब्राह्मणं मावजानाति तमसा समुपागतः
अब्रह्मण्यत्वमापन्नो ह्यपूज्योऽसौ द्विजन्मनाम् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
तस्मादन्नं जलं पुष्पं तस्मै दत्तं हविस्तथा
निर्माल्यमस्य तत्सर्वं भविष्यति न संशयः ॥ ३४ ॥
मूलम्
तस्मादन्नं जलं पुष्पं तस्मै दत्तं हविस्तथा
निर्माल्यमस्य तत्सर्वं भविष्यति न संशयः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
एवं शप्त्वा महातेजाः शङ्करं लोकपूजितम्
उवाच गणमत्युग्रं नन्दिं शूलधरं नृप ॥ ३५ ॥
मूलम्
एवं शप्त्वा महातेजाः शङ्करं लोकपूजितम्
उवाच गणमत्युग्रं नन्दिं शूलधरं नृप ॥ ३५ ॥
विश्वास-प्रस्तुतिः
रुद्र भक्ताश्च ये लोके भस्मलिङ्गास्थिधारिणः
ते पाखण्डत्वमापन्ना वेदबाह्या भवन्तु वै ॥ ३६ ॥
मूलम्
रुद्र भक्ताश्च ये लोके भस्मलिङ्गास्थिधारिणः
ते पाखण्डत्वमापन्ना वेदबाह्या भवन्तु वै ॥ ३६ ॥
विश्वास-प्रस्तुतिः
एवं शप्त्वा मुनिस्तत्र रुद्रं त्रिपुरहन्तकम्
जगाम ब्रह्मलोकं वै सर्वलोकनमस्कृतम् ॥ ३७ ॥
मूलम्
एवं शप्त्वा मुनिस्तत्र रुद्रं त्रिपुरहन्तकम्
जगाम ब्रह्मलोकं वै सर्वलोकनमस्कृतम् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
तत्र दैवैः सहासीनं ब्रह्माणं परमेष्ठिनम्
दृष्ट्वा प्राञ्जलिना देवं प्रणनाम महामतिः ॥ ३८ ॥
मूलम्
तत्र दैवैः सहासीनं ब्रह्माणं परमेष्ठिनम्
दृष्ट्वा प्राञ्जलिना देवं प्रणनाम महामतिः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
प्रणम्य पुरतस्तस्य तूष्णीमास महातपाः
तं दृष्ट्वा मुनिशार्दूलं रजोगुण समावृतः ॥ ३९ ॥
मूलम्
प्रणम्य पुरतस्तस्य तूष्णीमास महातपाः
तं दृष्ट्वा मुनिशार्दूलं रजोगुण समावृतः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
नार्चयामास धाताऽसौ महर्षिं समुपागतम्
प्रत्युत्थानं प्रियं वाक्यं न कृतं तस्य वेधसा ॥ ४० ॥
मूलम्
नार्चयामास धाताऽसौ महर्षिं समुपागतम्
प्रत्युत्थानं प्रियं वाक्यं न कृतं तस्य वेधसा ॥ ४० ॥
विश्वास-प्रस्तुतिः
ऐश्वर्येणैव महता तस्थौ तत्राम्बुजासनः
तं दृष्ट्वा रजसोद्रिक्तं महर्षिः पङ्कजासनम् ॥ ४१ ॥
मूलम्
ऐश्वर्येणैव महता तस्थौ तत्राम्बुजासनः
तं दृष्ट्वा रजसोद्रिक्तं महर्षिः पङ्कजासनम् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
व्याजहार महातेजा वाक्यं लोकपितामहः
रजसा महतोद्रिक्तो यस्मान्मामवमन्यसे ॥ ४२ ॥
मूलम्
व्याजहार महातेजा वाक्यं लोकपितामहः
रजसा महतोद्रिक्तो यस्मान्मामवमन्यसे ॥ ४२ ॥
विश्वास-प्रस्तुतिः
तस्मात्त्वं सर्वलोकानामपूज्यत्वं समाप्नुहि
एवं शप्त्वा महात्मानं ब्रह्माणं लोकपूजितम् ॥ ४३ ॥
मूलम्
तस्मात्त्वं सर्वलोकानामपूज्यत्वं समाप्नुहि
एवं शप्त्वा महात्मानं ब्रह्माणं लोकपूजितम् ॥ ४३ ॥
विश्वास-प्रस्तुतिः
जगाम सहसा विप्रो भगवन्मन्दिरं भृगुः
प्रविश्य वैष्णवं लोकं क्षीराब्धेरुत्तरे तटे ॥ ४४ ॥
मूलम्
जगाम सहसा विप्रो भगवन्मन्दिरं भृगुः
प्रविश्य वैष्णवं लोकं क्षीराब्धेरुत्तरे तटे ॥ ४४ ॥
विश्वास-प्रस्तुतिः
तत्रस्थितैर्महाभागैः पूज्यमानो यथार्हतः
तत्रानिवार्य्यमाणस्तु प्रविष्टोन्तःपुरं द्विजः ॥ ४५ ॥
मूलम्
तत्रस्थितैर्महाभागैः पूज्यमानो यथार्हतः
तत्रानिवार्य्यमाणस्तु प्रविष्टोन्तःपुरं द्विजः ॥ ४५ ॥
विश्वास-प्रस्तुतिः
प्रविश्य तस्मिन्विमले विमाने रविसन्निभे
शयानं नागपर्यङ्के ददर्श कमलापतिम् ॥ ४६ ॥
मूलम्
प्रविश्य तस्मिन्विमले विमाने रविसन्निभे
शयानं नागपर्यङ्के ददर्श कमलापतिम् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
लक्ष्मीकरसरोजाभ्यां मृज्यमानपदद्वयम्
तं दृष्ट्वा मुनिशार्दूलो भृगुः कोपसमन्वितः ॥ ४७ ॥
मूलम्
लक्ष्मीकरसरोजाभ्यां मृज्यमानपदद्वयम्
तं दृष्ट्वा मुनिशार्दूलो भृगुः कोपसमन्वितः ॥ ४७ ॥
विश्वास-प्रस्तुतिः
सव्यं पादं प्रचिक्षेप विष्णोर्वक्षसि शोभने
तूर्णमुत्थाय भगवान्धन्योस्मीति वदन्मुदा ॥ ४८ ॥
मूलम्
सव्यं पादं प्रचिक्षेप विष्णोर्वक्षसि शोभने
तूर्णमुत्थाय भगवान्धन्योस्मीति वदन्मुदा ॥ ४८ ॥
विश्वास-प्रस्तुतिः
हस्ताभ्यां चरणं तस्य पीडयामास हर्षितः
शनैर्मृदित्वा तत्पादं मधुरं वाक्यमब्रवीत् ॥ ४९ ॥
मूलम्
हस्ताभ्यां चरणं तस्य पीडयामास हर्षितः
शनैर्मृदित्वा तत्पादं मधुरं वाक्यमब्रवीत् ॥ ४९ ॥
विश्वास-प्रस्तुतिः
धन्योस्म्यद्यैव विप्रर्षे कृतकृत्योस्मि सर्वदा
त्वत्पादस्पर्शनाद्देहे मङ्गलं मे भविष्यति ५० 6.255.50
समस्तसम्पत्समवाप्तिहेतवः समुत्थितापत्कुलधूमकेतवः
अपारसंसारसमुद्र सेतवः पुनन्तु मां ब्राह्मणपादपांसवः ॥ ५१ ॥

विप्रपादरजो यस्य देहे तिष्ठति सर्वदा
गङ्गादिसर्वतीर्थानि तस्य तिष्ठन्त्यसंशयम् ॥ ५२ ॥
मूलम्
विप्रपादरजो यस्य देहे तिष्ठति सर्वदा
गङ्गादिसर्वतीर्थानि तस्य तिष्ठन्त्यसंशयम् ॥ ५२ ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वा सहसोत्थाय देव्या सार्द्धं जनार्दनः
भक्त्या समर्चयामास दिव्यस्रक्चन्दनादिभिः ॥ ५३ ॥
मूलम्
इत्युक्त्वा सहसोत्थाय देव्या सार्द्धं जनार्दनः
भक्त्या समर्चयामास दिव्यस्रक्चन्दनादिभिः ॥ ५३ ॥
विश्वास-प्रस्तुतिः
तं दृष्ट्वा मुनिशार्दूलो हर्षपूर्णोऽश्रुलोचनः
उत्थायासनमुख्यात्तं प्रणनाम दयानिधिम्
कृताञ्जलिपुटोभूत्वा हर्षात्प्राह महातपाः ॥ ५४ ॥
मूलम्
तं दृष्ट्वा मुनिशार्दूलो हर्षपूर्णोऽश्रुलोचनः
उत्थायासनमुख्यात्तं प्रणनाम दयानिधिम्
कृताञ्जलिपुटोभूत्वा हर्षात्प्राह महातपाः ॥ ५४ ॥
विश्वास-प्रस्तुतिः
श्रीभृगुरुवाच-
अहोरूपमहोशान्तिरहोज्ञानमहो दया
अहो सुनिर्मला क्षान्तिरहो सत्वगुणं हरेः ॥ ५५ ॥
मूलम्
श्रीभृगुरुवाच-
अहोरूपमहोशान्तिरहोज्ञानमहो दया
अहो सुनिर्मला क्षान्तिरहो सत्वगुणं हरेः ॥ ५५ ॥
विश्वास-प्रस्तुतिः
नैसर्गिकं शुभं सत्वं तथैव गुणवारिधेः
नान्येषां विद्यते किञ्चित्सर्वेषां त्रिदिवौकसाम् ॥ ५६ ॥
मूलम्
नैसर्गिकं शुभं सत्वं तथैव गुणवारिधेः
नान्येषां विद्यते किञ्चित्सर्वेषां त्रिदिवौकसाम् ॥ ५६ ॥
विश्वास-प्रस्तुतिः
ब्रह्मण्यश्च शरण्यश्च त्वमेव पुरुषोत्तमः
ब्राह्मणानां त्वमेवेशो नान्यः पूज्यः सुरः क्वचित् ॥ ५७ ॥
मूलम्
ब्रह्मण्यश्च शरण्यश्च त्वमेव पुरुषोत्तमः
ब्राह्मणानां त्वमेवेशो नान्यः पूज्यः सुरः क्वचित् ॥ ५७ ॥
विश्वास-प्रस्तुतिः
येऽर्चयन्ति सुरानन्यांस्त्वां विना पुरुषोत्तम
ते पाखण्डत्वमापन्नाः सर्वलोकविगर्हिताः ॥ ५८ ॥
मूलम्
येऽर्चयन्ति सुरानन्यांस्त्वां विना पुरुषोत्तम
ते पाखण्डत्वमापन्नाः सर्वलोकविगर्हिताः ॥ ५८ ॥
विश्वास-प्रस्तुतिः
विप्राणां वेदविदुषां त्वमेवेज्यो जनार्दनः
नान्यः कश्चित्सुराणां तु पूजनीयः कदाचन ॥ ५९ ॥
मूलम्
विप्राणां वेदविदुषां त्वमेवेज्यो जनार्दनः
नान्यः कश्चित्सुराणां तु पूजनीयः कदाचन ॥ ५९ ॥
विश्वास-प्रस्तुतिः
अनर्च्याब्रह्मरुद्राद्या रजस्तमोविमिश्रिताः
त्वं शुद्धसत्वगुणवान्पूजनीयोऽग्रजन्मनाम् ॥ ६० ॥
मूलम्
अनर्च्याब्रह्मरुद्राद्या रजस्तमोविमिश्रिताः
त्वं शुद्धसत्वगुणवान्पूजनीयोऽग्रजन्मनाम् ॥ ६० ॥
विश्वास-प्रस्तुतिः
त्वत्पादसलिलं सेव्यं पितॄणां च दिवौकसाम्
सर्वेषां भूसुराणां च मुक्तिदं कल्मषापहम् ॥ ६१ ॥
मूलम्
त्वत्पादसलिलं सेव्यं पितॄणां च दिवौकसाम्
सर्वेषां भूसुराणां च मुक्तिदं कल्मषापहम् ॥ ६१ ॥
विश्वास-प्रस्तुतिः
त्वद्भुक्तोच्छिष्टशेषं वै पितॄणां च दिवौकसाम्
भूसुराणां च सेव्यं स्यान्नान्येषां तु कदाचन ॥ ६२ ॥
मूलम्
त्वद्भुक्तोच्छिष्टशेषं वै पितॄणां च दिवौकसाम्
भूसुराणां च सेव्यं स्यान्नान्येषां तु कदाचन ॥ ६२ ॥
विश्वास-प्रस्तुतिः
इतरेषां तु देवानामन्नं पुष्पं जलं तथा
अस्पृश्यं तु भवेत्सर्वं निर्माल्यं सुरयासमम् ॥ ६३ ॥
मूलम्
इतरेषां तु देवानामन्नं पुष्पं जलं तथा
अस्पृश्यं तु भवेत्सर्वं निर्माल्यं सुरयासमम् ॥ ६३ ॥
विश्वास-प्रस्तुतिः
तस्माद्वै ब्राह्मणो नित्यं पूजयित्वा सनातनम्
त्वत्तीर्थं भुक्तमन्नं च भजेतैवानिशं बुधः ॥ ६४ ॥
मूलम्
तस्माद्वै ब्राह्मणो नित्यं पूजयित्वा सनातनम्
त्वत्तीर्थं भुक्तमन्नं च भजेतैवानिशं बुधः ॥ ६४ ॥
विश्वास-प्रस्तुतिः
नान्यं देवं तु वीक्षेत ब्राह्मणो न च पूजयेत्
नान्यप्रसादं भुञ्जीत नान्यदायतनं विशेत् ॥ ६५ ॥
मूलम्
नान्यं देवं तु वीक्षेत ब्राह्मणो न च पूजयेत्
नान्यप्रसादं भुञ्जीत नान्यदायतनं विशेत् ॥ ६५ ॥
विश्वास-प्रस्तुतिः
न ददातीह यो विप्रः पितॄणां श्राद्धकर्मणि
त्वद्भुक्तमन्नं तीर्थं च तत्सर्वं निष्फलं भवेत् ॥ ६६ ॥
मूलम्
न ददातीह यो विप्रः पितॄणां श्राद्धकर्मणि
त्वद्भुक्तमन्नं तीर्थं च तत्सर्वं निष्फलं भवेत् ॥ ६६ ॥
विश्वास-प्रस्तुतिः
कल्पकोटिसहस्राणि कल्पकोटिशतानि च
पतन्ति पितरस्तस्य नरके पूयशोणिते ॥ ६७ ॥
मूलम्
कल्पकोटिसहस्राणि कल्पकोटिशतानि च
पतन्ति पितरस्तस्य नरके पूयशोणिते ॥ ६७ ॥
विश्वास-प्रस्तुतिः
निवेदितं तव विभो यो जुहोति ददाति वा
देवतानां पितॄणां च तृप्तिरानन्त्यमश्नुते ॥ ६८ ॥
मूलम्
निवेदितं तव विभो यो जुहोति ददाति वा
देवतानां पितॄणां च तृप्तिरानन्त्यमश्नुते ॥ ६८ ॥
विश्वास-प्रस्तुतिः
तस्मात्त्वमेव विप्राणां पूज्यो नान्योस्ति कश्चन
मोहाद्यः पूजयेदन्यान्स पाखण्डी भविष्यति ॥ ६९ ॥
मूलम्
तस्मात्त्वमेव विप्राणां पूज्यो नान्योस्ति कश्चन
मोहाद्यः पूजयेदन्यान्स पाखण्डी भविष्यति ॥ ६९ ॥
विश्वास-प्रस्तुतिः
त्वं हि नारायणः श्रीमान्वासुदेवः सनातनः
विष्णुः सर्वगतो नित्यः परमात्मा महेश्वरः ॥ ७० ॥
मूलम्
त्वं हि नारायणः श्रीमान्वासुदेवः सनातनः
विष्णुः सर्वगतो नित्यः परमात्मा महेश्वरः ॥ ७० ॥
विश्वास-प्रस्तुतिः
त्वमेव सेव्यो विप्राणां ब्रह्मण्यः शुद्धसत्ववान्
पूज्यत्वाद्ब्राह्मणानां वै शुद्धसत्वगुणादपि ॥ ७१ ॥
मूलम्
त्वमेव सेव्यो विप्राणां ब्रह्मण्यः शुद्धसत्ववान्
पूज्यत्वाद्ब्राह्मणानां वै शुद्धसत्वगुणादपि ॥ ७१ ॥
विश्वास-प्रस्तुतिः
सर्वेषामेव देवानां ब्राह्मणत्वमवाप्नुहि
त्वामेव हि सदा विप्रा भजन्ति पुरुषोत्तमम् ॥ ७२ ॥
मूलम्
सर्वेषामेव देवानां ब्राह्मणत्वमवाप्नुहि
त्वामेव हि सदा विप्रा भजन्ति पुरुषोत्तमम् ॥ ७२ ॥
विश्वास-प्रस्तुतिः
ब्राह्मणास्ते बभूवुस्तु नान्यास्तत्र न संशयः
ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः ॥ ७३ ॥
मूलम्
ब्राह्मणास्ते बभूवुस्तु नान्यास्तत्र न संशयः
ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः ॥ ७३ ॥
विश्वास-प्रस्तुतिः
ब्रह्मण्यः पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरच्युतः
ब्रह्मण्यो भगवान्कृष्णो वासुदेवोऽच्युतो हरिः ॥ ७४ ॥
मूलम्
ब्रह्मण्यः पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरच्युतः
ब्रह्मण्यो भगवान्कृष्णो वासुदेवोऽच्युतो हरिः ॥ ७४ ॥
विश्वास-प्रस्तुतिः
ब्रह्मण्यो नारसिंहः स्यात्तथा नारायणोऽव्ययः
ब्रह्मण्यः श्रीधरः श्रीशो गोविन्दो वामनस्तथा ॥ ७५ ॥
मूलम्
ब्रह्मण्यो नारसिंहः स्यात्तथा नारायणोऽव्ययः
ब्रह्मण्यः श्रीधरः श्रीशो गोविन्दो वामनस्तथा ॥ ७५ ॥
विश्वास-प्रस्तुतिः
ब्रह्मण्यो यज्ञवाराहः केशवः पुरुषोत्तमः
ब्रह्मण्यो राघवः श्रीमान्रामो राजीवलोचनः ॥ ७६ ॥
मूलम्
ब्रह्मण्यो यज्ञवाराहः केशवः पुरुषोत्तमः
ब्रह्मण्यो राघवः श्रीमान्रामो राजीवलोचनः ॥ ७६ ॥
विश्वास-प्रस्तुतिः
ब्रह्मण्यः पद्मनाभः स्यात्तथा दामोदरः प्रभुः
ब्रह्मण्यो माधवो यज्ञस्तथा त्रिविक्रमः प्रभुः ॥ ७७ ॥
मूलम्
ब्रह्मण्यः पद्मनाभः स्यात्तथा दामोदरः प्रभुः
ब्रह्मण्यो माधवो यज्ञस्तथा त्रिविक्रमः प्रभुः ॥ ७७ ॥
विश्वास-प्रस्तुतिः
ब्रह्मण्यश्च हृषीकेशः पीतवासा जनार्दनः
नमो ब्रह्मण्यदेवाय वासुदेवाय शार्ङ्गिणे ॥ ७८ ॥
मूलम्
ब्रह्मण्यश्च हृषीकेशः पीतवासा जनार्दनः
नमो ब्रह्मण्यदेवाय वासुदेवाय शार्ङ्गिणे ॥ ७८ ॥
विश्वास-प्रस्तुतिः
नारायणाय श्रीशाय पुण्डरीकेक्षणाय च
नमो ब्रह्मण्यदेवाय वासुदेवाय विष्णवे ॥ ७९ ॥
मूलम्
नारायणाय श्रीशाय पुण्डरीकेक्षणाय च
नमो ब्रह्मण्यदेवाय वासुदेवाय विष्णवे ॥ ७९ ॥
विश्वास-प्रस्तुतिः
कल्याणगुणपूर्णाय नमस्ते परमात्मने
नमो ब्रह्मण्यदेवाय सर्वदेवस्वरूपिणे ॥ ८० ॥
मूलम्
कल्याणगुणपूर्णाय नमस्ते परमात्मने
नमो ब्रह्मण्यदेवाय सर्वदेवस्वरूपिणे ॥ ८० ॥
विश्वास-प्रस्तुतिः
वाराहवपुषे नित्यं त्रयीनाथाय ते नमः
नमो ब्रह्मण्यदेवाय नागपर्य्यङ्कशायिने ॥ ८१ ॥
मूलम्
वाराहवपुषे नित्यं त्रयीनाथाय ते नमः
नमो ब्रह्मण्यदेवाय नागपर्य्यङ्कशायिने ॥ ८१ ॥
विश्वास-प्रस्तुतिः
राजीवदलनेत्राय राघवाय नमो नमः
मायया मोहिताः सर्वे देवाश्च ऋषयस्तव ॥ ८२ ॥
मूलम्
राजीवदलनेत्राय राघवाय नमो नमः
मायया मोहिताः सर्वे देवाश्च ऋषयस्तव ॥ ८२ ॥
विश्वास-प्रस्तुतिः
न जानन्ति महात्मानं सर्वलोकेश्वरं प्रभो
त्वां न जानन्ति भगवन्सर्ववेदविदोऽपि हि ॥ ८३ ॥
मूलम्
न जानन्ति महात्मानं सर्वलोकेश्वरं प्रभो
त्वां न जानन्ति भगवन्सर्ववेदविदोऽपि हि ॥ ८३ ॥
विश्वास-प्रस्तुतिः
नामरूपगुणैः श्रीश चारित्रैरपि दुष्कृतैः
परत्वसूचकं सत्वं तव वेदितुमीश्वरः ॥ ८४ ॥
मूलम्
नामरूपगुणैः श्रीश चारित्रैरपि दुष्कृतैः
परत्वसूचकं सत्वं तव वेदितुमीश्वरः ॥ ८४ ॥
विश्वास-प्रस्तुतिः
महर्षिभिः प्रेषितोऽहमागतोस्मि तवान्तिकम्
तव शीलगुणाञ्ज्ञातुं चरणं मम केशव ॥ ८५ ॥
मूलम्
महर्षिभिः प्रेषितोऽहमागतोस्मि तवान्तिकम्
तव शीलगुणाञ्ज्ञातुं चरणं मम केशव ॥ ८५ ॥
विश्वास-प्रस्तुतिः
दत्तं वक्षसि गोविन्द तत्क्षन्तव्यं कृपानिधे
एवमुक्त्वा भृगुर्देवं प्रणम्य च मुहुर्मुहुः ॥ ८६ ॥
मूलम्
दत्तं वक्षसि गोविन्द तत्क्षन्तव्यं कृपानिधे
एवमुक्त्वा भृगुर्देवं प्रणम्य च मुहुर्मुहुः ॥ ८६ ॥
विश्वास-प्रस्तुतिः
दिव्यैर्महर्षिभिस्तत्र पूज्यमानो महात्मभिः
पुनर्जगाम हृष्टात्मा यज्ञभूमिं शुभाह्वयाम् ॥ ८७ ॥
मूलम्
दिव्यैर्महर्षिभिस्तत्र पूज्यमानो महात्मभिः
पुनर्जगाम हृष्टात्मा यज्ञभूमिं शुभाह्वयाम् ॥ ८७ ॥
विश्वास-प्रस्तुतिः
समागतं महात्मानं तत्र दृष्ट्वा महर्षयः
प्रत्युत्थाय नमस्कृत्वा पूजां चक्रुर्विधानतः ॥ ८८ ॥
मूलम्
समागतं महात्मानं तत्र दृष्ट्वा महर्षयः
प्रत्युत्थाय नमस्कृत्वा पूजां चक्रुर्विधानतः ॥ ८८ ॥
विश्वास-प्रस्तुतिः
तेषां विज्ञापयामास तत्सर्वं मुनिपुङ्गवः
रजस्तमगुणोद्रिक्तो विधीशानौ सुरोत्तमौ ॥ ८९ ॥
मूलम्
तेषां विज्ञापयामास तत्सर्वं मुनिपुङ्गवः
रजस्तमगुणोद्रिक्तो विधीशानौ सुरोत्तमौ ॥ ८९ ॥
विश्वास-प्रस्तुतिः
शप्तौ मया न पूज्यौ तौ विप्राणामृषिसत्तमाः
अब्रह्मण्यत्वमापन्नो गर्हितं रूपमास्थितः ॥ ९० ॥
मूलम्
शप्तौ मया न पूज्यौ तौ विप्राणामृषिसत्तमाः
अब्रह्मण्यत्वमापन्नो गर्हितं रूपमास्थितः ॥ ९० ॥
विश्वास-प्रस्तुतिः
शप्तः कैलासशिखरे शङ्करस्तमसावृतः
शुद्धसत्वमयो विष्णुः कल्याणगुणसागरः ॥ ९१ ॥
मूलम्
शप्तः कैलासशिखरे शङ्करस्तमसावृतः
शुद्धसत्वमयो विष्णुः कल्याणगुणसागरः ॥ ९१ ॥
विश्वास-प्रस्तुतिः
नारायणः परं ब्रह्म विप्राणां दैवतं हरिः
ब्रह्मण्यः श्रीपतिर्विष्णुर्वासुदेवो जनार्दनः ॥ ९२ ॥
मूलम्
नारायणः परं ब्रह्म विप्राणां दैवतं हरिः
ब्रह्मण्यः श्रीपतिर्विष्णुर्वासुदेवो जनार्दनः ॥ ९२ ॥
विश्वास-प्रस्तुतिः
ब्रह्मण्यः पुण्डरीकाक्षो गोविन्दो हरिरच्युतः
स एव पूज्यो विप्राणां नेतरः पुरुषर्षभाः ॥ ९३ ॥
मूलम्
ब्रह्मण्यः पुण्डरीकाक्षो गोविन्दो हरिरच्युतः
स एव पूज्यो विप्राणां नेतरः पुरुषर्षभाः ॥ ९३ ॥
विश्वास-प्रस्तुतिः
मोहाद्यः पूजयेदन्यं स पाखण्डी भविष्यति
स्मरणादेव कृष्णस्य विमुक्तिः पापिनामपि ॥ ९४ ॥
मूलम्
मोहाद्यः पूजयेदन्यं स पाखण्डी भविष्यति
स्मरणादेव कृष्णस्य विमुक्तिः पापिनामपि ॥ ९४ ॥
विश्वास-प्रस्तुतिः
तस्य पादोदकं सेव्यं भुक्तोच्छिष्टं च पावनम्
स्वर्गापवर्गदं नॄणां ब्राह्मणानां विशेषतः ॥ ९५ ॥
मूलम्
तस्य पादोदकं सेव्यं भुक्तोच्छिष्टं च पावनम्
स्वर्गापवर्गदं नॄणां ब्राह्मणानां विशेषतः ॥ ९५ ॥
विश्वास-प्रस्तुतिः
विष्णोर्निवेदितं नित्यं देवेभ्यो जुहुयाद्धविः
पितृभ्यश्चैव तद्दद्यात्सर्वमानन्त्यमश्नुते ॥ ९६ ॥
मूलम्
विष्णोर्निवेदितं नित्यं देवेभ्यो जुहुयाद्धविः
पितृभ्यश्चैव तद्दद्यात्सर्वमानन्त्यमश्नुते ॥ ९६ ॥
विश्वास-प्रस्तुतिः
यो न दद्याद्धरेर्भुक्तं पितॄणां श्राद्धकर्मणि
अश्नन्ति पितरस्तस्य विण्मूत्रं सततं द्विजाः ॥ ९७ ॥
मूलम्
यो न दद्याद्धरेर्भुक्तं पितॄणां श्राद्धकर्मणि
अश्नन्ति पितरस्तस्य विण्मूत्रं सततं द्विजाः ॥ ९७ ॥
विश्वास-प्रस्तुतिः
तस्माद्विष्णोः प्रसादो वै सेवितव्यो द्विजन्मनाम्
इतरेषां तु देवानां निर्माल्यं गर्हितं भवेत् ॥ ९८ ॥
मूलम्
तस्माद्विष्णोः प्रसादो वै सेवितव्यो द्विजन्मनाम्
इतरेषां तु देवानां निर्माल्यं गर्हितं भवेत् ॥ ९८ ॥
विश्वास-प्रस्तुतिः
सकृदेव हि योश्नाति ब्राह्मणो ज्ञानदुर्बलः
निर्माल्यं शङ्करादीनां स चाण्डालो भवेद्ध्रुवम् ॥ ९९ ॥
मूलम्
सकृदेव हि योश्नाति ब्राह्मणो ज्ञानदुर्बलः
निर्माल्यं शङ्करादीनां स चाण्डालो भवेद्ध्रुवम् ॥ ९९ ॥
कल्पकोटिसहस्राणि पच्यते नरकाग्निना
निर्माल्यं भो द्विजश्रेष्ठा रुद्रादीनां दिवौकसाम् १०० 6.255.100
रक्षोयक्षपिशाचान्नं मद्यमांससमं स्मृतम्
तद्ब्राह्मणैर्न भोक्तव्यं देवानां भुञ्जितं हविः १०१
तस्मादन्यं परित्यज्य विष्णुमेव सनातनम्
पूजयध्वं द्विजश्रेष्ठा यावज्जीवमतन्द्रिताः १०२
तद्विष्णोः परमं धाममन्यन्तो गतसंशयाः
तापादिपञ्चसंस्कारैरन्विष्टाः शुभचेतसः १०३
अप्राकृतं हरिं सम्यगर्चयध्वं द्विजर्षभाः
चक्राङ्कितभुजा विप्रा भवन्त्यप्राकृताः शुभाः १०४
चक्रलाञ्छनहीनास्तु प्राकृतास्तामसा स्मृताः
तस्मात्प्राकृतसंसर्ग पापौघ दहनं हरेः १०५
प्रतप्तं बिभृयाच्चक्रं शङ्खं च भुजमूलयोः
उर्द्ध्वपुण्ड्राणि चाङ्गेषु धृत्वा शास्त्रोक्तमार्गतः १०६
अर्चयेन्मन्त्ररत्नेन विधिना पुरुषोत्तमम्
तस्य प्रसादसेवां च कुर्य्यान्नित्यमतन्द्रितः १०७
तस्यावरणपूजायां त्रिदशानर्चयेत्सदा
तमेव सर्वयज्ञानां भोक्तारं परमेश्वरम् १०८
ज्ञात्वा वै जुहुयाद्दद्याज्जपेद्वै सततं द्विजाः १०९
वसिष्ठ उवाच-
एवमुक्तास्तु ते सर्वे ऋषयः क्षीणकल्मषाः
नमस्कृत्य भृगुं सम्यगूचुः प्राञ्जलयस्तदा ११०
ऋषय ऊचुः
भगवन्संशयछेत्ता त्वमेव द्विजसत्तम
त्वं वै लोकगतिर्ब्रह्मंस्त्वमेव परमा गतिः १११
त्वमेव परमोधर्मस्त्वमेव परमं तपः
त्वत्प्रसादाद्वयं विप्र भविष्यामो हि नान्यथा ११२
वसिष्ठ उवाच-
एवं स्तुत्वा भृगुं विप्रं सर्व एव महर्षयः
तस्मात्सम्प्राप्तमन्त्रा वै पूजयामासुरच्युतम् ११३
एतत्ते सर्वमाख्यातं प्रसङ्गात्पार्थिवोत्तम
रामस्य हस्तकमलस्पर्शनाद्वै नृपोत्तम ११४
भविष्यत्यमलं तच्च रूपं लोकविगर्हितम्
राघवः सर्वदेवानां पावनः पुरुषोत्तमः ११५
स्पृष्टा दृष्टाश्च तेनैव विमलाः शङ्करादयः
सर्वेषामपि देवानां पिता माता जनार्दनः ११६
त्राता च सर्वलोकानां वात्सल्यगुणसागरः
तमेव शरणं गच्छ यदीच्छेत्परमं पदम् ११७
एतत्ते सर्वमाख्यातं पुराणं वेदसम्मितम्
ब्रह्मणा कथितं राजन्मनु स्वायम्भुवोन्तरे ११८
विष्णुभक्तिविनीतस्य शुद्धसत्वस्य नान्यथा
तस्य संश्रावयेन्नित्यं विमुक्ता सा हरेः कथा ११९
शङ्खचक्रोर्द्ध्वपुण्ड्रादि विहितो वाचकः पुमान्
तन्मुखाच्छ्रूयतां नित्यं पुत्री भवसि नान्यथा १२०
यस्त्विदं श्रावयेन्नित्यं पठेद्वा सुसमाहितः
अनन्यभक्तिः श्रीशस्य जायते तस्य सर्वदा १२१
विद्यार्थी लभते विद्यां धर्मार्थी धर्ममाप्नुयात्
मोक्षार्थी लभते मोक्षं कामार्थी लभते सुखम् १२२
द्वादश्यां श्रवणार्के च सङ्क्रान्तौ ग्रहणे तथा
अमावस्यां पौर्णमास्यां पठेद्भक्तिसमन्वितः १२३
श्लोकार्द्धं श्लोकपादं वा पठेद्यस्तु समाहितः
अश्वमेधसहस्रस्य फलं प्राप्नोत्यसंशयः १२४
इत्येतत्कथितं गुह्यं पुराणं संहितात्मकम्
अर्चयस्व हृषीकेशं यदीच्छसि परमं पदम् १२५
सूत उवाच-
एवमुक्तो वसिष्ठेन गुरुणा नृपसत्तमः
प्रणम्य च गुरुं राजा पूजयित्वा यथार्हतः १२६
तस्मात्सम्प्राप्तमन्त्रोऽसौ विधिना द्विजसत्तमात्
अर्चयित्वा हृषीकेशं यावज्जीवमतन्द्रितः
काले हरिपदं प्राप योगिगम्यं सनातनम् १२७
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायां वैयासिक्यामुत्तरखण्डे भृगुपरीक्षाकथनन्नाम पञ्चपञ्चाशदधिकद्विशततमोऽध्यायः २५५
इति श्रीपाद्मे महापुराणे षष्ठमुत्तरखण्डं समाप्तम्