२५४

वसिष्ठ उवाच-

विश्वास-प्रस्तुतिः

एवमुक्ता तु सा देवि पतिना शूलपाणिना
प्रणिपत्य महात्मानमुवाच प्राञ्जलिस्तदा ॥ १ ॥

मूलम्

एवमुक्ता तु सा देवि पतिना शूलपाणिना
प्रणिपत्य महात्मानमुवाच प्राञ्जलिस्तदा ॥ १ ॥

विश्वास-प्रस्तुतिः

पार्वत्युवाच-
साधूक्तं हि त्वया नाथ वैष्णवं धर्ममुत्तमम्
गुह्याद्गुह्यतमं विष्णोः स्वरूपं परमात्मनः ॥ २ ॥

मूलम्

पार्वत्युवाच-
साधूक्तं हि त्वया नाथ वैष्णवं धर्ममुत्तमम्
गुह्याद्गुह्यतमं विष्णोः स्वरूपं परमात्मनः ॥ २ ॥

विश्वास-प्रस्तुतिः

धन्यास्मि कृतकृत्यास्मि सर्वदेवनमस्कृत
तव प्रसादाद्देवेशमर्चयामि सनातनम् ॥ ३ ॥

मूलम्

धन्यास्मि कृतकृत्यास्मि सर्वदेवनमस्कृत
तव प्रसादाद्देवेशमर्चयामि सनातनम् ॥ ३ ॥

विश्वास-प्रस्तुतिः

वसिष्ठउवाच-
ततस्तद्वचनं श्रुत्वा स भवस्त्रिपुरान्तकः
समाश्लिष्यावदद्देवीं प्रहृष्टेनान्तरात्मनाः ॥ ४ ॥

मूलम्

वसिष्ठउवाच-
ततस्तद्वचनं श्रुत्वा स भवस्त्रिपुरान्तकः
समाश्लिष्यावदद्देवीं प्रहृष्टेनान्तरात्मनाः ॥ ४ ॥

विश्वास-प्रस्तुतिः

रुद्र उवाच-
साधुसाधु महादेवि साधुसाधु वरानने
अर्चयस्व हृषीकेशं लक्ष्मीभर्त्तारमच्युतम् ॥ ५ ॥

मूलम्

रुद्र उवाच-
साधुसाधु महादेवि साधुसाधु वरानने
अर्चयस्व हृषीकेशं लक्ष्मीभर्त्तारमच्युतम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

कृतकृत्योऽस्म्यहं भद्रे वैष्णव्या भार्यया त्वया
गुरुणा तव चार्वङ्गि वामदेवेन धीमता ॥ ६ ॥

मूलम्

कृतकृत्योऽस्म्यहं भद्रे वैष्णव्या भार्यया त्वया
गुरुणा तव चार्वङ्गि वामदेवेन धीमता ॥ ६ ॥

विश्वास-प्रस्तुतिः

अनुज्ञातार्चयस्वेशं पुराणं पुरुषोत्तमम्
गुरूपदेशमार्गेण पूजयित्वैव केशवम्
प्राप्नोति वाछितं सर्वं नान्यथा भूधरात्मजे ॥ ७ ॥

मूलम्

अनुज्ञातार्चयस्वेशं पुराणं पुरुषोत्तमम्
गुरूपदेशमार्गेण पूजयित्वैव केशवम्
प्राप्नोति वाछितं सर्वं नान्यथा भूधरात्मजे ॥ ७ ॥

विश्वास-प्रस्तुतिः

वसिष्ठ उवाच-
एवमुक्ता तदा देवि वामदेवान्तिकं नृप
जगाम सहसा हृष्टा विष्णुपूजनलालसा ॥ ८ ॥

मूलम्

वसिष्ठ उवाच-
एवमुक्ता तदा देवि वामदेवान्तिकं नृप
जगाम सहसा हृष्टा विष्णुपूजनलालसा ॥ ८ ॥

विश्वास-प्रस्तुतिः

समेत्य तं गुरुं देवि पूजयित्वा प्रणम्य च
विनीता प्राञ्जलिर्भूत्वा उवाच मुनिसत्तमम् ॥ ९ ॥

मूलम्

समेत्य तं गुरुं देवि पूजयित्वा प्रणम्य च
विनीता प्राञ्जलिर्भूत्वा उवाच मुनिसत्तमम् ॥ ९ ॥

विश्वास-प्रस्तुतिः

पार्वत्युवाच-
भगवंस्त्वत्प्रसादेन सम्यगाराधनं हरेः
करिष्यामि द्विजश्रेष्ठ त्वमनुज्ञातुमर्हसि ॥ १० ॥

मूलम्

पार्वत्युवाच-
भगवंस्त्वत्प्रसादेन सम्यगाराधनं हरेः
करिष्यामि द्विजश्रेष्ठ त्वमनुज्ञातुमर्हसि ॥ १० ॥

विश्वास-प्रस्तुतिः

वसिष्ठ उवाच-
इत्युक्तस्तु तया देव्या वामदेवो महामुनिः
तस्यै मन्त्रवरं श्रेष्ठं ददौ स विधिना गुरुः ॥ ११ ॥

मूलम्

वसिष्ठ उवाच-
इत्युक्तस्तु तया देव्या वामदेवो महामुनिः
तस्यै मन्त्रवरं श्रेष्ठं ददौ स विधिना गुरुः ॥ ११ ॥

विश्वास-प्रस्तुतिः

नाम्नां सहस्रं विष्णोश्च प्रोक्तवान्मुनिसत्तमः
निवेदयित्वा पूजाया विधानमपि देशिकः
उवाच परमप्रीत्या पार्वतीं संशितव्रताम् ॥ १२ ॥

मूलम्

नाम्नां सहस्रं विष्णोश्च प्रोक्तवान्मुनिसत्तमः
निवेदयित्वा पूजाया विधानमपि देशिकः
उवाच परमप्रीत्या पार्वतीं संशितव्रताम् ॥ १२ ॥

विश्वास-प्रस्तुतिः

वामदेव उवाच-
अर्चयित्वा हृषीकेशं प्रातर्नित्यं वरानने
सहस्रनामपठनं कुरुष्व तदनन्तरम् ॥ १३ ॥

मूलम्

वामदेव उवाच-
अर्चयित्वा हृषीकेशं प्रातर्नित्यं वरानने
सहस्रनामपठनं कुरुष्व तदनन्तरम् ॥ १३ ॥

विश्वास-प्रस्तुतिः

वसिष्ठ उवाच-
द्वत्युक्ता तेन गुरुणा प्रहृष्टेनान्तरात्मना
पूजयित्वा नमस्कृत्य पुनरायात्स्वमालयम् ॥ १४ ॥

मूलम्

वसिष्ठ उवाच-
द्वत्युक्ता तेन गुरुणा प्रहृष्टेनान्तरात्मना
पूजयित्वा नमस्कृत्य पुनरायात्स्वमालयम् ॥ १४ ॥

विश्वास-प्रस्तुतिः

शिक्षिता गुरुणा तेन वामदेवेन पार्वती
ततः कतिपयाहस्तु द्वादश्यां वृषभध्वजः ॥ १५ ॥

मूलम्

शिक्षिता गुरुणा तेन वामदेवेन पार्वती
ततः कतिपयाहस्तु द्वादश्यां वृषभध्वजः ॥ १५ ॥

विश्वास-प्रस्तुतिः

कैलासशिखरे रम्ये विष्णुमाराध्य शङ्करः
उपविष्टस्ततो भोक्तुं पार्वतीं शङ्करोऽब्रवीत् ॥ १६ ॥

मूलम्

कैलासशिखरे रम्ये विष्णुमाराध्य शङ्करः
उपविष्टस्ततो भोक्तुं पार्वतीं शङ्करोऽब्रवीत् ॥ १६ ॥

विश्वास-प्रस्तुतिः

शङ्कर उवाच-
पार्वत्ये हिमया सार्द्धं भोक्तुं भुवनवन्दिते
वसिष्ठ उवाच-
तमाह पार्वती देवी जप्त्वा नामसहस्रकम् ॥ १७ ॥

मूलम्

शङ्कर उवाच-
पार्वत्ये हिमया सार्द्धं भोक्तुं भुवनवन्दिते
वसिष्ठ उवाच-
तमाह पार्वती देवी जप्त्वा नामसहस्रकम् ॥ १७ ॥

विश्वास-प्रस्तुतिः

ततो भोक्ष्याम्यहं देव भुज्यतां भवता प्रभो
ततस्तां पार्वतीं प्राह प्रहसन्परमेश्वरः ॥ १८ ॥

मूलम्

ततो भोक्ष्याम्यहं देव भुज्यतां भवता प्रभो
ततस्तां पार्वतीं प्राह प्रहसन्परमेश्वरः ॥ १८ ॥

विश्वास-प्रस्तुतिः

शङ्कर उवाच-
धन्यासि कृतकृत्यासि विष्णुभक्तासि पार्वति
दुर्लभा वैष्णवी भक्तिर्भागधेयं विनेश्वरि ॥ १९ ॥

मूलम्

शङ्कर उवाच-
धन्यासि कृतकृत्यासि विष्णुभक्तासि पार्वति
दुर्लभा वैष्णवी भक्तिर्भागधेयं विनेश्वरि ॥ १९ ॥

विश्वास-प्रस्तुतिः

रामरामेति रामेति रमे रामे मनोरमे
सहस्रनामतत्तुल्यं रामनाम वरानने ॥ २० ॥

मूलम्

रामरामेति रामेति रमे रामे मनोरमे
सहस्रनामतत्तुल्यं रामनाम वरानने ॥ २० ॥

विश्वास-प्रस्तुतिः

रकारादीनि नामानि शृण्वतो मम पार्वति
मनः प्रसन्नतां याति रामनामाभिशङ्कया ॥ २१ ॥

मूलम्

रकारादीनि नामानि शृण्वतो मम पार्वति
मनः प्रसन्नतां याति रामनामाभिशङ्कया ॥ २१ ॥

विश्वास-प्रस्तुतिः

रामेत्युक्त्वा महादेवि भुङ्क्ष्व सार्धं मयाधुना
वसिष्ठ उवाच-
ततो रामेति नामोक्त्वा सह भुङ्क्त्वाऽथ पार्वती ॥ २२ ॥

मूलम्

रामेत्युक्त्वा महादेवि भुङ्क्ष्व सार्धं मयाधुना
वसिष्ठ उवाच-
ततो रामेति नामोक्त्वा सह भुङ्क्त्वाऽथ पार्वती ॥ २२ ॥

विश्वास-प्रस्तुतिः

रामेत्युक्ता महादेवी शम्भुना सह संस्थिता
पप्रच्छ शङ्करं देवं प्रीतिप्रणवमानसा ॥ २३ ॥

मूलम्

रामेत्युक्ता महादेवी शम्भुना सह संस्थिता
पप्रच्छ शङ्करं देवं प्रीतिप्रणवमानसा ॥ २३ ॥

विश्वास-प्रस्तुतिः

पार्वत्युवाच-
सहस्रनामभिस्तुल्यं रामनाम त्वयोदितम्
तस्यापराणि नामानि सन्ति चेद्रावणद्विषः
कथ्यतां मम देवेश तत्र मे भक्तिरुत्थिता ॥ २४ ॥

मूलम्

पार्वत्युवाच-
सहस्रनामभिस्तुल्यं रामनाम त्वयोदितम्
तस्यापराणि नामानि सन्ति चेद्रावणद्विषः
कथ्यतां मम देवेश तत्र मे भक्तिरुत्थिता ॥ २४ ॥

विश्वास-प्रस्तुतिः

श्रीमहादेव उवाच-
शृणु नामानि वक्ष्यामि रामचन्द्रस्य पार्वति
लौकिका वैदिकाः शब्दाः ये केचित्सन्ति पार्वति ॥ २५ ॥

मूलम्

श्रीमहादेव उवाच-
शृणु नामानि वक्ष्यामि रामचन्द्रस्य पार्वति
लौकिका वैदिकाः शब्दाः ये केचित्सन्ति पार्वति ॥ २५ ॥

विश्वास-प्रस्तुतिः

नामानि रामचन्द्रस्य सहस्रं तेषु चाधिकम्
तेषु चात्यन्तमुख्यं हि नाम्नामष्टोत्तरं शतम् ॥ २६ ॥

मूलम्

नामानि रामचन्द्रस्य सहस्रं तेषु चाधिकम्
तेषु चात्यन्तमुख्यं हि नाम्नामष्टोत्तरं शतम् ॥ २६ ॥

विश्वास-प्रस्तुतिः

विष्णोरेकैकनामैव सर्ववेदाधिकं मतम्
तादृङ्नामसहस्राणि रामनामसमानि च ॥ २७ ॥

मूलम्

विष्णोरेकैकनामैव सर्ववेदाधिकं मतम्
तादृङ्नामसहस्राणि रामनामसमानि च ॥ २७ ॥

विश्वास-प्रस्तुतिः

यत्फलं सर्ववेदानां मन्त्राणां जपतः प्रिये
तत्फलं कोटिगुणितं रामनाम्नैव लभ्यते ॥ २८ ॥

मूलम्

यत्फलं सर्ववेदानां मन्त्राणां जपतः प्रिये
तत्फलं कोटिगुणितं रामनाम्नैव लभ्यते ॥ २८ ॥

विश्वास-प्रस्तुतिः

नामानि शृणु रामस्य मुख्यानि शुभदर्शने
ऋषिभिः परिगीतानि तानि वक्ष्यामि ते प्रिये ॥ २९ ॥

मूलम्

नामानि शृणु रामस्य मुख्यानि शुभदर्शने
ऋषिभिः परिगीतानि तानि वक्ष्यामि ते प्रिये ॥ २९ ॥

विश्वास-प्रस्तुतिः

ॐ श्रीरामो रामचन्द्रश्च रामभद्रश्च शाश्वतः
राजीवलोचनः श्रीमान्राजेन्द्रो रघुपुङ्गवः ॥ ३० ॥

मूलम्

ॐ श्रीरामो रामचन्द्रश्च रामभद्रश्च शाश्वतः
राजीवलोचनः श्रीमान्राजेन्द्रो रघुपुङ्गवः ॥ ३० ॥

विश्वास-प्रस्तुतिः

जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः
विश्वामित्रप्रियो दान्तः शरण्य त्राणतत्परः ॥ ३१ ॥

मूलम्

जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः
विश्वामित्रप्रियो दान्तः शरण्य त्राणतत्परः ॥ ३१ ॥

विश्वास-प्रस्तुतिः

वालिप्रमथनो वाग्मी सत्यवाक्सत्यविक्रमः
सत्यव्रतो व्रतफलः सदा हनुमदाश्रयः ॥ ३२ ॥

मूलम्

वालिप्रमथनो वाग्मी सत्यवाक्सत्यविक्रमः
सत्यव्रतो व्रतफलः सदा हनुमदाश्रयः ॥ ३२ ॥

विश्वास-प्रस्तुतिः

कौशलेयः खरध्वंसी विराधवधपण्डितः
विभीषणपरित्राता दशग्रीवशिरोहरः ॥ ३३ ॥

मूलम्

कौशलेयः खरध्वंसी विराधवधपण्डितः
विभीषणपरित्राता दशग्रीवशिरोहरः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

सप्ततालप्रभेत्ता च हरकोदण्ड खण्डनः
जामदग्नि महादर्प्पदलनस्ताडकान्तकृत् ॥ ३४ ॥

मूलम्

सप्ततालप्रभेत्ता च हरकोदण्ड खण्डनः
जामदग्नि महादर्प्पदलनस्ताडकान्तकृत् ॥ ३४ ॥

विश्वास-प्रस्तुतिः

वेदान्तपारो वेदात्मा भवबन्धैकभेषजम्
दूषणत्रिशिरोरिश्च त्रिमूर्त्तिस्त्रिगुणस्त्रयी ॥ ३५ ॥

मूलम्

वेदान्तपारो वेदात्मा भवबन्धैकभेषजम्
दूषणत्रिशिरोरिश्च त्रिमूर्त्तिस्त्रिगुणस्त्रयी ॥ ३५ ॥

विश्वास-प्रस्तुतिः

त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्त्तनः
त्रिलोकरक्षको धन्वी दण्डकारण्यवासकृत् ॥ ३६ ॥

मूलम्

त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्त्तनः
त्रिलोकरक्षको धन्वी दण्डकारण्यवासकृत् ॥ ३६ ॥

विश्वास-प्रस्तुतिः

अहल्यापावनश्चैव पितृभक्तो वरप्रदः
जितेन्द्रियो जितक्रोधो जितलोभो जगद्गुरुः ॥ ३७ ॥

मूलम्

अहल्यापावनश्चैव पितृभक्तो वरप्रदः
जितेन्द्रियो जितक्रोधो जितलोभो जगद्गुरुः ॥ ३७ ॥

विश्वास-प्रस्तुतिः

ऋक्षवानरसङ्घाती चित्रकूटसमाश्रयः
जयन्तत्राणवरदः सुमित्रापुत्रसेवितः ॥ ३८ ॥

मूलम्

ऋक्षवानरसङ्घाती चित्रकूटसमाश्रयः
जयन्तत्राणवरदः सुमित्रापुत्रसेवितः ॥ ३८ ॥

विश्वास-प्रस्तुतिः

सर्वदेवाधिदेवश्च मृतवानरजीवनः
मायामारीचहन्ता च महाभागो महाभुजः ॥ ३९ ॥

मूलम्

सर्वदेवाधिदेवश्च मृतवानरजीवनः
मायामारीचहन्ता च महाभागो महाभुजः ॥ ३९ ॥

विश्वास-प्रस्तुतिः

सर्वदेवस्तुतः सौम्यो ब्रह्मण्यो मुनिसत्तमः
महायोगी महोदारः सुग्रीवस्थिरराज्यदः ॥ ४० ॥

मूलम्

सर्वदेवस्तुतः सौम्यो ब्रह्मण्यो मुनिसत्तमः
महायोगी महोदारः सुग्रीवस्थिरराज्यदः ॥ ४० ॥

विश्वास-प्रस्तुतिः

सर्वपुण्याधिकफलः स्मृतः सर्वाघनाशनः
आदिपुरुषो महापुरुषः परमः पुरुषस्तथा ॥ ४१ ॥

मूलम्

सर्वपुण्याधिकफलः स्मृतः सर्वाघनाशनः
आदिपुरुषो महापुरुषः परमः पुरुषस्तथा ॥ ४१ ॥

विश्वास-प्रस्तुतिः

पुण्योदयो महासारः पुराणपुरुषोत्तमः
स्मितवक्त्रो मितभाषी पूर्वभाषी च राघवः ॥ ४२ ॥

मूलम्

पुण्योदयो महासारः पुराणपुरुषोत्तमः
स्मितवक्त्रो मितभाषी पूर्वभाषी च राघवः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

अनन्तगुणगम्भीरो धीरो दान्तगुणोत्तरः
मायामानुषचारित्रो महादेवाधिपूजितः ॥ ४३ ॥

मूलम्

अनन्तगुणगम्भीरो धीरो दान्तगुणोत्तरः
मायामानुषचारित्रो महादेवाधिपूजितः ॥ ४३ ॥

विश्वास-प्रस्तुतिः

सेतुकृज्जितवारीशः सर्वतीर्थमयो हरिः
श्यामाङ्गः सुन्दरः शूरः पीतवासा धनुर्द्धरः ॥ ४४ ॥

मूलम्

सेतुकृज्जितवारीशः सर्वतीर्थमयो हरिः
श्यामाङ्गः सुन्दरः शूरः पीतवासा धनुर्द्धरः ॥ ४४ ॥

विश्वास-प्रस्तुतिः

सर्वयज्ञाधिपो यज्ञो जरामरणवर्जितः
शिवलिङ्गप्रतिष्ठाता सर्वाद्यगुणवर्जितः ॥ ४५ ॥

मूलम्

सर्वयज्ञाधिपो यज्ञो जरामरणवर्जितः
शिवलिङ्गप्रतिष्ठाता सर्वाद्यगुणवर्जितः ॥ ४५ ॥

विश्वास-प्रस्तुतिः

परमात्मा परब्रह्म सच्चिदानन्दविग्रहः
परञ्ज्योतिः परन्धाम पराकाशः परात्परः ॥ ४६ ॥

मूलम्

परमात्मा परब्रह्म सच्चिदानन्दविग्रहः
परञ्ज्योतिः परन्धाम पराकाशः परात्परः ॥ ४६ ॥

विश्वास-प्रस्तुतिः

परेशः पारगः पारः सर्वभूतात्मकः शिवः
इति श्रीरामचन्द्रस्य नाम्नामष्टोत्तरं शतम् ॥ ४७ ॥

मूलम्

परेशः पारगः पारः सर्वभूतात्मकः शिवः
इति श्रीरामचन्द्रस्य नाम्नामष्टोत्तरं शतम् ॥ ४७ ॥

विश्वास-प्रस्तुतिः

गुह्याद्गुह्यतरं देवि तव स्नेहात्प्रकीर्तितम्
यः पठेच्छृणुयाद्वापि भक्तियुक्तेन चेतसा ॥ ४८ ॥

मूलम्

गुह्याद्गुह्यतरं देवि तव स्नेहात्प्रकीर्तितम्
यः पठेच्छृणुयाद्वापि भक्तियुक्तेन चेतसा ॥ ४८ ॥

विश्वास-प्रस्तुतिः

सर्वैः प्रमुच्यते पापैः कल्पकोटिशतोद्भवैः
जलानि स्थलतां यान्ति शत्रवो यान्ति मित्रताम् ॥ ४९ ॥

मूलम्

सर्वैः प्रमुच्यते पापैः कल्पकोटिशतोद्भवैः
जलानि स्थलतां यान्ति शत्रवो यान्ति मित्रताम् ॥ ४९ ॥

विश्वास-प्रस्तुतिः

राजानो दासतां यान्ति वह्नयो यान्ति सौम्यताम्
आनुकूल्यं च भूतानि स्थैर्यं यान्ति चलाः श्रियः ५० 6.254.50
अनुग्रहं ग्रहा यान्ति शान्तिमायान्त्युपद्रवाः
पठतो भक्तिभावेन नरस्य गिरिसम्भवे ॥ ५१ ॥

पठेत्परमया भक्त्या तस्य वश्यं जगत्त्रयम्
यंयं कामं प्रकुरुते तन्तमाप्नोति कीर्त्तनात् ॥ ५२ ॥

मूलम्

पठेत्परमया भक्त्या तस्य वश्यं जगत्त्रयम्
यंयं कामं प्रकुरुते तन्तमाप्नोति कीर्त्तनात् ॥ ५२ ॥

विश्वास-प्रस्तुतिः

कल्पकोटिसहस्राणि कल्पकोटिशतानि च
वैकुण्ठे मोदते नित्यं दशपूर्वैर्दशापरैः ॥ ५३ ॥

मूलम्

कल्पकोटिसहस्राणि कल्पकोटिशतानि च
वैकुण्ठे मोदते नित्यं दशपूर्वैर्दशापरैः ॥ ५३ ॥

विश्वास-प्रस्तुतिः

रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम्
स्तुवन्ति नामभिर्द्दिव्यैर्न ते संसारिणो जनाः ॥ ५४ ॥

मूलम्

रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम्
स्तुवन्ति नामभिर्द्दिव्यैर्न ते संसारिणो जनाः ॥ ५४ ॥

विश्वास-प्रस्तुतिः

रामाय रामभद्राय रामचन्द्राय वेधसे
रघुनाथाय नाथाय सीतायाः पतये नमः ॥ ५५ ॥

मूलम्

रामाय रामभद्राय रामचन्द्राय वेधसे
रघुनाथाय नाथाय सीतायाः पतये नमः ॥ ५५ ॥

विश्वास-प्रस्तुतिः

इमं मन्त्रं महादेवि जपन्नेव दिवानिशम्
सर्वपापविनिर्मुक्तो विष्णुसायुज्यमाप्नुयात् ॥ ५६ ॥

मूलम्

इमं मन्त्रं महादेवि जपन्नेव दिवानिशम्
सर्वपापविनिर्मुक्तो विष्णुसायुज्यमाप्नुयात् ॥ ५६ ॥

विश्वास-प्रस्तुतिः

इति ते रामचन्द्रस्य माहात्म्यं वेदसम्मितम्
कथितं वै मया सुभ्रूस्तव प्रीत्या शुभाह्वयम् ॥ ५७ ॥

मूलम्

इति ते रामचन्द्रस्य माहात्म्यं वेदसम्मितम्
कथितं वै मया सुभ्रूस्तव प्रीत्या शुभाह्वयम् ॥ ५७ ॥

विश्वास-प्रस्तुतिः

वसिष्ठ उवाच-
तच्छ्रत्वा शङ्करेणोक्तं माहात्म्यं परमात्मनः
प्रहर्षमतुलं लेभे आनन्दाश्रुजलाप्लुता ॥ ५८ ॥

मूलम्

वसिष्ठ उवाच-
तच्छ्रत्वा शङ्करेणोक्तं माहात्म्यं परमात्मनः
प्रहर्षमतुलं लेभे आनन्दाश्रुजलाप्लुता ॥ ५८ ॥

विश्वास-प्रस्तुतिः

प्रणम्य प्राह देवेशं भर्तारं वृषभध्वजम्
पार्वत्युवाच-
अहो माहात्म्यमतुलं रामस्य परमात्मनः
श्रोत्रतृप्तिर्हि मे न स्यात्कल्पायुतशतैरपि ॥ ५९ ॥

मूलम्

प्रणम्य प्राह देवेशं भर्तारं वृषभध्वजम्
पार्वत्युवाच-
अहो माहात्म्यमतुलं रामस्य परमात्मनः
श्रोत्रतृप्तिर्हि मे न स्यात्कल्पायुतशतैरपि ॥ ५९ ॥

विश्वास-प्रस्तुतिः

धन्याहं कृतकृत्यास्मि सर्वमुक्तं त्वयानघ
त्वत्प्रसादाद्धरेर्भक्तिर्जन्मजन्मनि चास्तु मे ॥ ६० ॥

मूलम्

धन्याहं कृतकृत्यास्मि सर्वमुक्तं त्वयानघ
त्वत्प्रसादाद्धरेर्भक्तिर्जन्मजन्मनि चास्तु मे ॥ ६० ॥

विश्वास-प्रस्तुतिः

वसिष्ठ उवाच-
एवमुक्त्वा स्वभर्तारं गौरी भागवतोत्तमा
रामाय रामभद्राय रामचन्द्राय वेधसे
रघुनाथाय नाथाय सीतायाः पतये नमः ॥ ६१ ॥

मूलम्

वसिष्ठ उवाच-
एवमुक्त्वा स्वभर्तारं गौरी भागवतोत्तमा
रामाय रामभद्राय रामचन्द्राय वेधसे
रघुनाथाय नाथाय सीतायाः पतये नमः ॥ ६१ ॥

विश्वास-प्रस्तुतिः

इममेव जपन्मन्त्रं सर्वावस्थासु पार्वती
उवास च सुखेनैव कैलासे पतिना सह ॥ ६२ ॥

मूलम्

इममेव जपन्मन्त्रं सर्वावस्थासु पार्वती
उवास च सुखेनैव कैलासे पतिना सह ॥ ६२ ॥

विश्वास-प्रस्तुतिः

एतत्ते सर्वमाख्यातं गुह्याद्गुह्यतमं नृप
रुद्रप्रोक्तानि शास्त्राणि तामसान्येव पार्थिव ॥ ६३ ॥

मूलम्

एतत्ते सर्वमाख्यातं गुह्याद्गुह्यतमं नृप
रुद्रप्रोक्तानि शास्त्राणि तामसान्येव पार्थिव ॥ ६३ ॥

विश्वास-प्रस्तुतिः

सम्मोहनार्थं लोकानां प्रोक्तवान्वृषभध्वजः
रहसि प्रोक्तवान्देव्या इदमेकं हरः प्रभुः ॥ ६४ ॥

मूलम्

सम्मोहनार्थं लोकानां प्रोक्तवान्वृषभध्वजः
रहसि प्रोक्तवान्देव्या इदमेकं हरः प्रभुः ॥ ६४ ॥

विश्वास-प्रस्तुतिः

यथार्थमर्थं गुह्यं च सारं मन्त्रस्य भूपते
देव्या प्रीत्यै महादेवः कथयामास तत्परः ॥ ६५ ॥

मूलम्

यथार्थमर्थं गुह्यं च सारं मन्त्रस्य भूपते
देव्या प्रीत्यै महादेवः कथयामास तत्परः ॥ ६५ ॥

विश्वास-प्रस्तुतिः

उमामहेश्वरं राजन्संवादमिममद्भुतम्
यः पठेच्छृणुयाद्वापि भक्तियुक्तेन चेतसा ॥ ६६ ॥

मूलम्

उमामहेश्वरं राजन्संवादमिममद्भुतम्
यः पठेच्छृणुयाद्वापि भक्तियुक्तेन चेतसा ॥ ६६ ॥

विश्वास-प्रस्तुतिः

स सर्ववन्द्यः सर्वज्ञो महाभागवतो भवेत्
सर्वधर्मविनिर्मुक्तः प्राप्नोति परमं पदम् ॥ ६७ ॥

मूलम्

स सर्ववन्द्यः सर्वज्ञो महाभागवतो भवेत्
सर्वधर्मविनिर्मुक्तः प्राप्नोति परमं पदम् ॥ ६७ ॥

विश्वास-प्रस्तुतिः

धन्यः खलु भवान्लोके पार्थिवेन्द्र महाबल
त्वदन्वये हरिः श्रीमान्पुराणः पुरुषोत्तमः ॥ ६८ ॥

मूलम्

धन्यः खलु भवान्लोके पार्थिवेन्द्र महाबल
त्वदन्वये हरिः श्रीमान्पुराणः पुरुषोत्तमः ॥ ६८ ॥

विश्वास-प्रस्तुतिः

उत्पत्स्यते दाशरथिः सर्वलोकहिताय वै
तस्मादिक्ष्वाकवः पूज्याः सुराणामपि पार्थिव ॥ ६९ ॥

मूलम्

उत्पत्स्यते दाशरथिः सर्वलोकहिताय वै
तस्मादिक्ष्वाकवः पूज्याः सुराणामपि पार्थिव ॥ ६९ ॥

येषां जातो हि भगवान्रामो राजीवलोचनः
इति श्रीपाद्मे महापुराणे पञ्चपचाशत्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वरसंवादे रामचन्द्राष्टोत्तरशतनामकथनं नाम चतुःपञ्चाशदधिक द्विशततमोऽध्यायः २५४