श्रीरुद्र उवाच-
विश्वास-प्रस्तुतिः
अथ मगधाधिपः कंसवधानन्तरं द्विषन्नेव यादवान्सदा पीडयामास ते दुःखिताः कृष्णमूचुः ॥ १ ॥
मूलम्

स च भीमार्जुनावाहूय सम्मन्त्रयामास कृष्णः अनेन रुद्र पूःजितस्तत्प्रसादाच्छस्त्रैरवध्यः परं केनापिप्रकारेण हन्तव्य इति ॥ २ ॥

अथ विचार्य भीममाह एनं प्रतिमल्लयुद्धं कुरु तत्तेन प्रतिज्ञातम् ॥ ३ ॥

अथ सकल चराचरजगद्वन्द्यो वासुदेवो भीमार्जुनसहितो जरासन्धस्य पुरीं गत्वा विप्रवेषेण तस्यान्तःपुरमवाप ॥ ४ ॥

सोऽपि महावीर्यान्क्षत्त्रियान्युद्धे निर्जित्य बलाद्गृहीत्वा स्ववेश्मनि निरुध्य मासिमासि कृष्णचतुर्दश्यामेकैकं हत्वा तद्रक्तेनैव बलिं भैरवायाकरोत् ॥ ५ ॥

एवंविधं सकलजनपार्थिववधं कुर्वतो जरासन्धस्य समुद्यमानो भीमार्जुनसहितस्तस्य गृहे विप्रवेषेणैव प्रविवेश ॥ ६ ॥

स तु तान्दृष्ट्वा दण्डवत्प्रणतो भूत्वा यथोचितासनेषु निवेश्य मधुपर्कविधानेन सम्पूज्य धन्योस्मि कृतकृत्योस्मि किमर्थं भवन्तो मे समीप आगतास्तद्वक्तव्यमहं तत्सर्वं भवद्भ्यो दास्यामीत्युवाच ॥ ७ ॥

तेषां वासुदेवः प्रहसन्पार्थिवं तमुवाच कृष्णभीमार्जुना युद्धार्थमागताः स्म अस्माकमन्यतमं द्वन्द्वयुद्धार्थं वृणीष्वेत्यवदत् ॥ ८ ॥

सोऽपि तथेत्यवदत्ततो द्वन्द्वयुद्धार्थं मारुतिं वरयामास ॥ ९ ॥

ततो भीमजरासन्धयोरभितो भयङ्करं मल्लयुद्धं निरन्तरं पञ्चविंशतिवासरमभूत् ॥ १० ॥

ततः कृष्णेनैव सञ्चोदितो वायुपुत्रस्तस्य शरीरं द्विधाकृत्य भूमौ निपातयामास ।
एवं जरासन्धं पाण्डुपुत्रेण हत्वा तान्जरासन्धनिरोधितान्वासुदेवोऽपि पार्थिवान्मोचयामास ॥ ११ ॥

निहत्य वायुपुत्रेण जरांसन्धं यदूद्वहः
तद्गृहे सन्निरुद्धांस्तु मोचयामास पार्थिवान् ॥ १२ ॥

ते च तत्र नमस्कृत्य स्तुत्वा च मधुसूदनम्
स्वान्स्वान्जनपदान्सर्वे जग्मुः कृष्णेन रक्षिताः ॥ १३ ॥

अथ ताभ्यामिन्द्रप्रस्थं गत्वा वासुदेवस्तत्र महाक्रतुं राजसूयं युधिष्ठिरं कारयामास ॥ १४ ॥

तत्र समाप्ते क्रतौ अग्रपूजां भीष्मानुमतेन कृष्णाय दत्तवान् ॥ १५ ॥

तत्र शिशुपालः कृष्णं बहून्याक्षेपवाक्यान्युक्तवान् ॥ १६ ॥

कृष्णोऽपि सुदर्शनेन तस्य शिरश्चिच्छेद ॥ १७ ॥

असौ जन्मत्रयावसाने हरेः सारूप्यमगमत् ॥ १८ ॥

अथ शिशुपालं निहतं श्रुत्वा दन्तवक्त्रः कृष्णेन योद्धुं मथुरामाजगाम ॥ १९ ॥

कृष्णस्तु तच्छ्रुत्वा रथमारुह्य तेन योद्धुं मथुरामाययौ ॥ २० ॥

दन्तवक्त्रवासुदेवयोरहोरात्रं मथुरापुरद्वारि यमुनातीरे सङ्ग्रामः समवर्त्तत कृष्णस्तु गदया तं जघान ॥ २१ ॥

स तु चूर्णितसर्वाङ्गो वज्रनिर्भिन्न महीधर इव गतासुरवनितले पपात ॥ २२ ॥

सोऽपि हरेः सायुज्यं योगिगम्यं नित्यानन्दसुखं शाश्वतं परमं पदमवाप ॥ २३ ॥

इत्थं जयविजयौ सनकादिशापव्याजेन केवलं भगवतोलीलार्थं संसृताववतीर्य जन्मत्रयेऽपि तेनैव निहतौ जन्मत्रयावसाने मुक्तिमवाप्तौ ॥ २४ ॥

कृष्णोऽपि तं हत्वा यमुनामुत्तीर्य नन्दव्रजं गत्वा प्राक्तनौ पितरावभिवाद्य आश्वास्य ताभ्यां साश्रुकण्ठमालिगितः सकलगोपवृद्धान्प्रणम्याश्वास्य रत्नाभरणादिभिस्तत्रस्थान्सन्तर्पयामास ॥ २५ ॥

कालिन्द्याः पुलिने रम्ये पुण्यवृक्षसमावृते
गोपनारीभिरनिशं क्रीडयामास केशवः ॥ २६ ॥

रम्यकेलिसुखेनैव गोपवेषधरो हरिः
बद्धप्रेमरसेनात्र मासद्वयमुवास ह ॥ २७ ॥
मूलम्
रम्यकेलिसुखेनैव गोपवेषधरो हरिः
बद्धप्रेमरसेनात्र मासद्वयमुवास ह ॥ २७ ॥
विश्वास-प्रस्तुतिः
अथ तत्रस्था नन्दगोपादयः सर्वेजनाः पुत्रदारसहिताः पशुपक्षिमृगादयश्च वासुदेवप्रसादेन दिव्यरूपधरा विमानमारूढाः परमं वैकुण्ठलोकमवापुः ॥ २८ ॥

कृष्णस्तु नन्दगोपव्रजौकसां सर्वेषां परमं निरामयं स्वपदं दत्वा दिवि देवगणैः संस्तूयमानो द्वारवतीं श्रीमतीं विवेश ॥ २९ ॥

तत्र वसुदेवोग्रसेनसङ्कर्षणप्रद्युम्नानिरुद्धाक्रूरादिभिः प्रत्यहं सम्पूजित षोडशसहस्रभार्याभिरष्टाभिर्दिव्यमहिषीभिश्च विश्वरूपधरो दिव्यरत्नमय नानागृहान्तरेषु सुतकुसुमाञ्चित श्लक्ष्णतरपर्यङ्केषु रमयामास ॥ ३० ॥

अथ रामकृष्णसतीर्थ्यो विप्रो बालसखा सदात्यन्तदारिद्र्यपीडितो मुष्टिमात्रान्याचनाप्तपृथुकाञ्जीर्णवाससि निबध्य वासुदेवं द्रष्टुं श्रीमतीं द्वारकानगरीमाजगाम ॥ ३१ ॥

स तु रुक्मिण्यन्तःपुरद्वारि क्षणं तूष्णीं तस्थौ ॥ ३२ ॥

कृष्णोऽपि समागतं ब्राह्मणं ज्ञात्वा प्रद्युम्नेन नमस्कृत्वा वामकरं गृहीत्वा गृहान्तरे स्वासने निवेश्य भयाद्वेपमानं तं रुक्मिणीहस्तगतसुवर्णकलशजलेन पादौ प्रक्षाल्य मधुपर्केण पूजयामास ॥ ३३ ॥

सुधामृतोपमैरन्नपानाद्यैस्तर्पयित्वा तस्य जीर्णवस्त्रान्तरे याचनाप्तपृथुकान्स्वयमेव हस्तेन गृहीत्वा प्रहसन्जग्रास ॥ ३४ ॥

कृष्णेन पृथुके भक्षिते तस्मिन्नेव क्षणे तस्य बहुधनधान्यवस्त्राभरणसम्भूतं महदैश्वर्यमभूत् ॥ ३५ ॥

स तु कृष्णेन विसृष्टो मम किञ्चिद्वस्त्रं वा धनं वा कृष्णेन न दत्तमिति मन्यमानः स्वपुरं विवेश ॥ ३६ ॥

अथ बहुधनधान्ययुतं स्वगृहं दृष्ट्वा तत्प्रसादादिदं लब्धमिति वदन्प्रहृष्टेनान्तरात्मना दिव्य वस्त्राभरणादिना भार्यया सह सर्वान्कामान्भुक्त्वा हरिसन्तुष्ट्यै बहुयज्ञानिष्ट्वा तत्प्रसादेन परमं नित्यं स्वर्गसुखमवाप ॥ ३७ ॥

अथ धृतराष्ट्रतनयो दुर्योधनः पाण्डुतनयान्कपटद्यूतव्याजेन राज्यमपहृत्य स्वराष्ट्राद्विवासयामास ॥ ३८ ॥

ते तु युधिष्ठिरभीमार्जुननकुलसहदेवाः सुपत्न्या द्रौ पद्या सह महारण्यं गत्वा तत्र द्वादशाब्दान्स्थित्वा संवत्सरपर्यन्तमज्ञाताः सर्वे मत्स्यदेशाधिपतेर्विराटस्य निवेशने स्थित्वा वासुदेवेन सहायेन धार्तराष्ट्रान्योद्धुमाजग्मुः ॥ ३९ ॥

तेषां धार्तराष्ट्रपाण्डुपुत्राणां नानादेशाधिपनृपैः कुरुक्षेत्रमहापुण्ये देवानामपि भयङ्करो महासङ्ग्रामोऽभवत् ॥ ४० ॥

अथ श्रीकृष्णोऽप्यर्जुनसारथ्यं कुर्वन्नर्जुने स्वशक्तिमावेश्य तेन दुर्योधनभीष्मद्रो- णप्रमुखान्सर्वान्पार्थिवानेकादशाक्षौहिणीबलसहितान्कुरुक्षेत्रे हत्वा पाण्डवान्राज्ये स्थापयित्वा निःशेषेण सर्वभूभारमपास्य स्वां पुरीं प्रविवेश ॥ ४१ ॥

कस्यचित्त्वथकालस्य कतिपयाहनि वैदिको ब्राह्मणो मृतं पञ्चवार्षिकं बालमादाय राजद्वारि निधाय बहुशो विलपन्बहून्याक्रोशवाक्यानि कृष्णं जगाद ॥ ४२ ॥

कृष्णस्तमाक्रोशं श्रुत्वा तूष्णीमुवास ॥ ४३ ॥

स तु मम पञ्चपुत्राः पूर्वं हता अयं तु षष्ठः एनं कृष्णो न जीवयिष्यति तर्हि राजद्वारि मरिष्यामीत्युवाच ॥ ४४ ॥

तस्मिन्काले अर्जुनः कृष्णं द्रष्टुमागतस्तथाविधं तं पुत्रशोकेन विलपन्तं ददर्श ॥ ४५ ॥

अर्जुनोऽपि कालधर्ममुपागतं पञ्चवार्षिकं बालकं दृष्ट्वा कृपयाविष्टस्तव पुत्रमहञ्जीवयिष्यामीति ब्राह्मणायाभयं दत्वा प्रतिश्रुतवान् ॥ ४६ ॥

ब्राह्मणस्तु तेनाश्वासितो हृष्टवान् ॥ ४७ ॥

अथैतं ब्राह्मणशिशुं बहुभिः सञ्जीविनास्त्रैरभिमन्त्र्य अलब्धजीवितं दृष्ट्वा वृथा प्रतिज्ञामवाप्य बहुशोकसमन्वितस्तेनैव प्राणांस्त्यक्तुमैच्छत् ॥ ४८ ॥

कृष्णस्तु तत्सर्वं ज्ञात्वान्तःपुराद्विनिष्क्रम्य तं वैदिकं प्राह तवपुत्रान्सर्वानहं दास्यामीत्युक्त्वाश्वास्य वैनतेयमारुह्यार्जुनसहितो वैष्णवं लोकमाजगाम ॥ ४९ ॥

तत्र दिव्यमणिमण्डपोद्देशे देव्या सह समासीनं नारायणं दृष्ट्वा कृष्णार्जुनौ नमश्चक्रतुः ५० 6.252.50
स तौ बाहुभ्यां परिष्वज्य किमर्थमागतावित्युवाच ॥ ५१ ॥

कृष्णश्च भगवन्वैदिकस्य तनयान्मम देहीत्युवाच ॥ ५२ ॥

स तु नारायणस्तादृग्वयसि संस्थितान्ब्राह्मणपुत्रान्कृष्णाय सन्ददौ ॥ ५३ ॥

श्रीकृष्णोऽपि तान्वैनतेयस्कन्धे समारोप्य हर्षसमन्वितोऽर्जुनसहितः स्वयमप्यारुह्य दिवि देवगणैः संस्तूयमानो द्वारवतीमाविवेश ॥ ५४ ॥

तस्मै ब्राह्मणाय पञ्चवर्षवयःस्थान्षट्पुत्रान्ददौ सोऽप्यत्यन्तर्हषसमन्वितः कृष्णं वर्द्धयस्वेत्याशिषं प्रायच्छत् ॥ ५५ ॥

अर्जुनस्तु सफलां प्रतिज्ञामवाप्य कृष्णं नमस्कृत्य युधिष्ठिरपालितां स्वां पुरीमाजगाम ॥ ५६ ॥

कृष्णस्य षोडशसहस्रभार्यास्वयुतसाहस्रपुत्रा जज्ञिरे तेषां पुत्रपौत्रसङ्ख्यां वक्तुं न शक्यते ॥ ५७ ॥

अत्रापि श्लोकः
अष्टौशतानि पुत्राणां सहस्राण्ययुतं तथा
प्रद्युम्नः प्रथमस्तेषां सर्वेषां रुक्मिणीसुतः ॥ ५८ ॥

असङ्ख्यैस्तैर्यादवैरियं पृथिवी संवृताऽभवत् ॥ ५९ ॥

पुनरप्यवनीभारशङ्कया कृष्णस्तु तानृषिशापव्याजेन संहर्तुमैच्छत् ॥ ६० ॥

कदाचित्सर्वे कुमारा नर्मदायां विहर्तुमाजग्मुः ॥ ६१ ॥

तत्र तपन्तं कण्वं महर्षिं दृष्ट्वा जाम्बवत्याः
पुत्रं योषिद्वेषं कृत्वा तस्योदरे कात्वायसं मुसलं बद्ध्वा ऋषेः
समीपमागत्य सर्वे नमस्कृत्वा पत्नीरूपं साम्बं कुमारं तस्य पुरतो निधाय
अस्या गर्भे स्त्री वा पुरुषो वा भविष्तीति ब्रूहीत्यूचुः ॥ ६२ ॥

स तु मनसा तद्विज्ञाय तानमर्षमाणः सर्वाननेन मुसलेन यूयं सर्वे निहता भवतेत्युवाच ॥ ६३ ॥

सर्वे समुद्विग्नमनसः कृष्णं समेत्य महर्षिणोक्तं तत्कर्म निवेदयामासुः ॥ ६४ ॥

कृष्णोऽपि तदायसं मुसलं चूर्णीभूतं ह्रदे निपातयामास ॥ ६५ ॥

तदयश्चूर्णीभूतबीजसमुद्भूता वज्रसन्निभा महाकाशाः सम्बभूवुः ॥ ६६ ॥

तत्र तं मुसलावशिष्टं कनिष्ठाङ्गुलिमात्रं मत्स्यो जग्रास तं मत्स्यं निषादो गृहीत्वा तदुदरस्थं मुशलखण्डमादाय बाणाग्रे फलकमकरोत् ॥ ६७ ॥

कदाचित्सर्वे यादवा रामकृष्णप्रद्युम्नादयो मघवता प्रेषितां वारुणीं पीत्वा मत्ता बभूवुः॥ ६८ ॥

परस्परं वीरणं नीत्वा बहून्याक्रोशवाक्यानि वदन्तो युद्धं चक्रुः क्षयं च गताः ॥ ६९ ॥

कृष्णस्तु युद्धश्रान्तः कल्पतरुच्छायायां शयनं चकार स निषादो धनुर्बाणं गृहीत्वा खेटकवृत्तिं जगाम ॥ ७० ॥

एवं निःशेषं त्यक्तजीविता बभूवुस्ते सर्वे स्वान्स्वांस्त्रिदशान्प्रपेदिरे ॥ ७१ ॥

एवं मुशलेन संहृत्य सर्वं स्वयमेको देवो बहुगुल्मसमाकीर्णमहाद्रुमछायायां सुप्तश्चतुर्विधव्यूहगतं वासुदेवात्मकमात्मानं चिन्तयञ्जानूपरिपदं निधायात्मनो मानुषंवपुस्त्यक्तुमनुनिषसाद ॥ ७२ ॥

एतस्मिनन्तरे मृगयाजीविको हरेः स तदा कालप्रभावेन चक्रवज्रध्वजाङ्कुशादिचिह्नितमतिरक्ततमं हरेः पादकमलं दृष्ट्वा विव्याध ॥ ७३ ॥

तदनन्तरं श्रीकृष्णं ज्ञात्वा सुमहाभयार्तः प्रवेपमानः कृताञ्जलिपुटो महदपराधः सकलोपह्रियतामिति तं प्रणनाम ॥ ७४ ॥

श्रीकृष्णस्तथाभूतं दृष्ट्वा सुधामयकराभ्यां तमुत्थाप्य भवतानापराद्धं कृतमिति वदन्महाभयपीडितमाश्वासयन्नुवाच ॥ ७५ ॥

ततो योगिगम्यमपुनरावृत्तिशाश्वतं सर्वोपनिषदमयं वैष्णवं लोकं प्रददौ ॥ ७६ ॥

असौ तस्मिन्नेव मुहूर्ते मानुषं रूपं विहाय पञ्चोपनिषन्मयं सकलपुत्रदारसहितो दीप्तिमयं वैष्णवं लोकं दिव्यं विमानमास्थाय सहस्रार्कद्युतिसदृशं दिव्याप्सरोगणाकीर्णं हिरण्मयं वासुदेवेत्येकं जगाम ॥ ७७ ॥

तस्मिन्काले दारुको रथमारुह्य विष्णोः समीपं विवेश ॥ ७८ ॥

कृष्णोऽपि मत्स्वरूपमर्जुनं पूर्वमानयस्वेति प्रेषयामास ॥ ७९ ॥

स तु मनोजवस्यन्दनमारुह्यार्जुनसमीपमाजगाम ॥ ८० ॥

एतस्मिन्नन्तरे देव्यर्जुनस्तदारुह्य परिणीय नमस्कृत्वा किं करोमीति पुटाञ्जलिरुवाच ॥ ८१ ॥

कृष्णस्तु तमाह पार्थाहं स्वलोकं यास्यामि त्वं तु द्वारवतीं गत्वा तत्रस्था रुक्मिण्याद्यष्टभार्या आनीय मम शरीरे प्रेषय ॥ ८२ ॥

स दारुकेण सहितो नगरीमाजगाम ॥ ८३ ॥
मूलम्
स दारुकेण सहितो नगरीमाजगाम ॥ ८३ ॥
विश्वास-प्रस्तुतिः
एतस्मिन्नन्तरे देवा विमानस्था नभसि संस्थिताः स्वर्लोकं यियान्तं कृष्णं दृष्ट्वा ऋषिभिः सार्द्धं स्तुत्वा पुष्पवर्षाणि ववृषुः ॥ ८४ ॥

कृष्णोऽपि मानुषदेहं- सन्न्यस्यसकलजगत्स्थितिसंहारहेतुभूतं सकलक्षेत्रज्ञमन्तर्यामियोगिध्येयमनामयं वासुदेवात्मकं देहं धृत्वा वैनतेयमारुह्य महर्षिभिस्तूयमानो जगाम ॥ ८५ ॥

अर्जुनो वसुदेवोग्रसेनाभ्यां रुक्मिण्यादिमहिषीभ्यस्तत्सर्वं कथयामास ॥ ८६ ॥

तच्छ्रुत्वा सर्वे पौरजनाः स्त्रियश्च द्वारवतीमुत्सृज्यान्तःपुराद्बहिर्निष्क्रम्य सर्वास्ताः कृष्णवल्लभा वसुदेवोग्रसेनसहिताः शीघ्रमेव हरेः समीपं जग्मुः ॥ ८७ ॥

ते सर्वे वसुदेवोग्रसेनाक्रूराः सर्वे यदुवृद्धा वपुस्त्यक्त्वा सनातनवासुदेवं समाजग्मुः॥ ८८ ॥

रेवतीच बलभद्रशरीरं परिष्वज्याग्निं प्रविश्य तस्मिन्देहं प्राप्य दिव्यविमानारूढा भर्तुः स्थानं सङ्कर्षणलोकं दिव्यमवाप ॥ ८९ ॥

तथैव प्रद्युम्नेन सह रुक्मपुत्री तथानिरुद्धेनोषापि सर्वाश्च यादवस्त्रियः स्वस्वभर्तुः शरीराणि सम्पूज्याग्निप्रवेशं चक्रुः ॥ ९० ॥

तेषां सर्वेषामर्जुनऔर्द्ध्वदैहिकं कृतवान् ॥ ९१ ॥

तस्मिन्काले दिव्यवाजिसमायुक्तं सुग्रीवाख्यकं सर्वरत्नोपेतं दिव्यं स्यन्दनमारुह्य दारुकोप्याजगाम ॥ ९२ ॥

पारिजाततरुर्देवसभासुधर्मात्रिदशेन्द्रलोकमयाताम् ॥ ९३ ॥

तस्मिन्समये द्वारवतीपुरी महोदधौ निमग्नाभूत् ॥ ९४ ॥

ततः सर्वाः षोडशसहस्रभार्य्या अर्जुनेनसहेन्द्रप्रस्थं गच्छन्तीर्दस्यवो जगृहुः ॥ ९५ ॥

पूर्वं देवगन्धर्वयोषितो ह्यष्टावक्रं महामुनिं दृष्ट्वा जहसुस्ततस्तेन शप्ता वेश्या भविष्यथ ततस्ताभि प्रसादितः पूजितश्च तत्प्रसादात्सर्वलोकैश्च नमस्कृतं वासुदेवं भर्तारमवाप्यापि तेनैव दस्युहस्तं गता अभवन् ॥ ९६ ॥

अर्जुनोऽपि दस्युभिर्निर्जितः शोकसमाविष्टो मम भुजबलं सवीर्यं कृष्णेनैव सह सर्वमैश्वर्यं निर्यातमिति मत्वा अद्य मम भाग्य क्षय इति वदन्सायं सन्ध्यारविरिव निःशेषविनष्टतेजाः स्वां पुरीं समाजगाम ॥ ९७ ॥

एवं हितार्थाय सर्वदेवानां समस्तभूभारविनाशाय यदुवंशेऽवतीर्य सकलराक्षसविनाशं कृत्वा महान्तमपि चोर्वीभारं नाशयित्वा नन्दव्रजद्वारकामथुरानिवासिनः सर्वान्स्थावरजङ्गमान्कालभवबन्धैर्मोचयित्वा परमैश्वर्गे शाश्वते योगिगम्ये हिरण्मये रम्ये सात्विके संस्थाप्य नित्यं दिव्यमहिष्यादिसंसेव्यमानो वासुदेव उवास ॥ ९८ ॥

अत्र श्लोकाः -
अन्ये सर्वेऽवताराः स्युः कृष्णस्य चरितं महत्
भूभारकविनाशाय प्रादुर्भूतो रमापतिः ॥ ९९ ॥

एतत्कृष्णस्य चरितं दुष्टानां नाशहेतवे
श्रीकृष्णः करुणासिन्धुर्वैकुण्ठे मोदते सदा १०० 6.252.100
अत्यद्भुतमिदं देवि कृष्णस्य चरितं शुभम्
सङ्ग्रहेण मयैवोक्तं तव सर्वफलप्रदम् १०१
वासुदेवस्य चरितं यः पठेद्धरिसन्निधौ
स्मरेद्वा शृणुयाद्भक्त्या स याति परमं पदम् १०२
महापातकयुक्तो वा तथोपपातकसंयुतः
बालकृष्णस्य चरितं श्रुत्वा पापैः प्रमुच्यते १०३
द्वारवत्यां समासीनं रुक्मिणीसहितं हरिम्
स्मरन्वै महदैश्वर्यमनेनाप्नोत्यसंशयः १०४
सङ्ग्रामे सङ्कटे दुर्गे शत्रुभिः परिवेष्टिते
नेतारं सर्वदेवानां ध्यात्वा सुविजयी भवेत् १०५
यः स्मरेद्गोपकन्याभिः क्रीडन्तं गोव्रजे शुभे
सर्वकामानवाप्नोति सौभाग्यं चैव विन्दति १०६
महोपसर्गरोगाद्यैर्युक्तो यस्तु सनातनम्
जेतारं च महारौद्रीं कृत्यां काशीपुरे स्थिताम् १०७
किमत्र बहुनोक्तेन सर्वकालेषु चाप्सु भे
कृष्णाय नम इत्येवं मन्त्रमुच्चारयेद्बुधः १०८
कृष्णाय वासुदेवाय हरये परमात्मने
प्रणतः क्लेशनाशाय गोविन्दाय नमोनमः १०९
इमं मन्त्रं जपन्देवि भक्त्या प्रतिदिनं नरः
सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्नुयात् ११०
सर्वेषामेव देवानामीश्वरोऽसौ जनार्दनः
रक्षणाय च लोकानामवस्थान्तरमेति वै १११
त्रिपुरं हन्तुकामेन मया सम्पूजितो हरिः
बुद्धरूपधरः श्रीमान्मोहयामास तद्रिपून् ११२
मोहितास्तेन शास्त्रेण सर्वधर्मविवर्जिताः
नारायणास्त्रेण मया निहता देवशत्रवः ११३
अवतीर्य कलावन्ते ब्राह्मणस्य निवेशने
हनिष्यति तथा रौद्रान्म्लेच्छान्सर्वाञ्जनार्दनः ११४
तैस्तैर्भावैर्मयावस्थाः सर्वाः प्रोक्ता जगत्पतेः
किमन्यच्छ्रोतुकामासि तद्ब्रवीमि शुभानने ११५
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे
उमामहेश्वरसंवादे श्रीकृष्णचरिते श्रीकृष्णस्वधामगमननिरूपणन्नाम द्विपञ्चाशदधिकद्विशततमोऽध्यायः २५२