श्रीरुद्र उवाच-
विश्वास-प्रस्तुतिः
अथ पौण्ड्रक वासुदेवः काशिराजो वाराणस्यां विविक्ते द्वादशवर्षं महेशमर्च्चयन्निराहारः पञ्चाक्षरं जजाप ॥ १ ॥
मूलम्

पौरश्चरणकाले शङ्करं स्वनेत्रकमलेन पूजयामास ॥ २ ॥

ततः शूलपाणिरुमापतिः प्रसन्नो वरं वृणीष्वेति तमाह ॥ ३ ॥

असौ पञ्चवक्त्रंसर्वभूतपतिं शिवं प्रसन्नं वरद मम वासुदेवसमानरूपं प्रयच्छेत्युवाच ॥ ४ ॥

शिवस्तस्मै शङ्ख चक्र गदा पद्मयुत चतुर्भुजं पुण्डरीकदलनिभलोचनं वासुदेवसमानकिरीट
ललित कुन्तलं पीतवस्त्रकौस्तुभाभरणादि चिह्नान्यपि मह्यं देहीति याचितः शिवः सर्वमपि तस्मै प्रददौ ॥ ५ ॥

स तु वासुदेवोऽहमिति सर्वलोकान्मोहयामास ॥ ६ ॥

कदाचित्स्वर्गतः मदबलोत्कटं तं काशिपतिं नारदोऽभ्येत्य वसुदेवसुतमजित्वा वासुदेवत्वं न विद्यते इत्युवाच ॥ ७ ॥

स तु तस्मिन्नेव क्षणे गरुडपताकायुतरूपं रथमारोप्य चतुरङ्गाक्षौहिणीबलेन द्वारकामवाप ॥ ८ ॥

तत्र पुरद्वारि स्वर्णयाने संस्थितो वासुदेवोऽहं युद्धार्थं सम्प्राप्तोस्मि मामजित्वात ववासुदेवत्वं नास्तीति दूतं प्रेषयामास ॥ ९ ॥

विष्णुरपि तच्छ्रुत्वा वैनतेयमारुह्य पौण्ड्रकेण योद्धुं पुरद्वारि विनिष्क्रम्याक्षौहिणीबलेन स्यन्दने समासीनं शङ्खचक्रगदापद्महस्तं पौण्ड्रकं ददर्श ॥ १० ॥

कृष्णोऽथ शार्ङ्गमादाय संवर्ताग्निप्रभैर्बाणैस्तथाश्वगजपदातियुक्तं महदक्षौहिणीबलं मुहूर्तमात्रेण निःशेषं ददाह ॥ ११ ॥

शरेणैकेन तस्य हस्तावसक्तशङ्खचक्रगदादिहेतीरपि लीलयैव चिच्छेद ॥ १२ ॥

पवित्रेण सुदर्शनेन किरीटकुण्डलयुतं तस्य शिरः कमलं छित्त्वा वाराणस्यामन्तः पुरे निपातयामास ॥ १३ ॥

तद्दृष्ट्वा सर्वे काशीनिवासिनः किमेतदित्याशङ्क्य विस्मिता बभूवुः ॥ १४ ॥

तस्य पौण्ड्रकस्य सुतो दण्डपाणिरिति वासुदेवेन भगवता निहतं स्वपितरं श्रुत्वा मात्रा मृत्युना समादिष्टः स्वपुरोहितेनाभियुक्तो माहेश्वरेण क्रतुना शङ्करमियाज ॥ १५ ॥

स तु प्रसन्नः कृष्णजिघांसया समर्थां माहेश्वरीं कृत्यां तस्मै सम्प्रीत्या च दत्तवान् ॥ १६ ॥

स काशिराजस्तां महोश्वरीं ज्वालाकुलोपचितविग्रहां सन्दीप्तसटाकलापां पिङ्गलनेत्रां ज्वलत्करालवदनां त्रिशूलहस्तां भस्माङ्गरागलिप्तां नरमुण्डमालाविभूषितां सर्वदेवभयङ्करीं रुद्रदत्तां समीक्ष्य सपुत्रदारबान्धवसहितं कृष्णं जहीति प्रेरयामास ॥ १७ ॥

सा तु सर्वलोकभयावहा सर्वां पृथ्वीं स्वतेजसा निर्दहन्ती प्रलयाशनिनिर्भरस्वनं नदन्ती द्वारकामवाप ॥ १८ ॥

तत्रत्याः सर्वेजनास्तां दृष्ट्वा महाप्रलयमिति मत्वा हाहाकारं कुर्वन्तः कृष्णं निवेदयामासुः ॥ १९ ॥

कृष्णोऽपि तान्सर्वान्न भेतव्यमित्युक्त्वा प्राकारतोरणे स्थितां महारौद्रां कृत्यां तथाविधां दृष्ट्वा सकलशस्त्रास्त्रानिवारणसमर्थं सहस्रारं सुदर्शनं तस्या कृत्यायां सहसा मुमोच ॥ २० ॥

सा तु कल्पान्तार्ककोटिसमवर्चसा शतयोजनोद्गतं सकलदीप्तास्त्रयुतं हिरण्मयं प्रभापूर्णं सकलजगत्प्रलयस्थितिसमर्थं सहस्रारं सर्वदेवनमस्कृतं जगच्छरणभूतं महासुदर्शनं विलोक्य विनष्टतेजा भयार्ता क्रोशन्ती वाराणसीं प्रतिदुद्राव ॥ २१ ॥

सुदर्शनमपि तां कृत्यां भृशमन्वगात् ॥ २२ ॥

सापि भयार्ता क्रोशन्ती काशिपतेस्तस्यान्तःपुरं प्रविवेश ॥ २३ ॥

सुदर्शनोऽपि तां वाराणसीं पुरीं प्राप्य सभृत्यबलवाहनं पौण्ड्रकसुतं दण्डपाणिं नामकाशिराजं बहुप्रासादहर्म्यमालिनीं पुरीं माहेश्वरीमपि भस्मावशेषां कृत्वा सकलदेवमहर्षिभिः पूज्यमानः पुनरेव द्वारवत्यां कृष्णहस्तं सुसौम्यं कल्पमिव आविवेश ॥ २४ ॥

अत्र च श्लोका गीयन्ते
शस्त्रास्त्रमोक्षमजरं दग्ध्वा तद्बलमोजसा
कृत्यां भस्मावशेषं तां ततो वाराणसीं पुरीम् ॥ २५ ॥

प्रभूतरथमातङ्गां साश्वां पुंस्त्रीसमन्विताम्
साशेषकोषकोष्ठां तां दुर्निरीक्ष्यां सुरैरपि ॥ २६ ॥

द्वारोपलक्षिताशेष गृहप्राकारचत्वराम्
प्रददाह हरेश्चक्रं सकलामेव तां पुरीम् ॥ २७ ॥

अक्षीणगतिसामर्थ्यमसाध्यकृतसाधनम्
तच्चक्रं प्रज्वलद्भासं विष्णोरभ्याययौ करम् ॥ २८ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वरसंवादे श्रीकृष्णचरिते पौण्ड्रकपुत्रकृत्याविध्वंसनं नामैकपञ्चाशदधिक द्विशततमोऽध्यायः २५१