श्रीरुद्र उवाच-
विश्वास-प्रस्तुतिः
रुक्मिण्यां कृष्णस्य प्रद्युम्नो मदनांशेन जज्ञे ॥ १ ॥
मूलम्

असौ मदनसम्भूतो महाबलः शम्बरं जघ्निवान् ॥ २ ॥

तस्य रुक्मिणः सुतायामनिरुद्धो जज्ञे ॥ ३ ॥

सोऽपि बाणपुत्रीमुषां नाम कन्यामुपयेमे ॥ ४ ॥

सा तु स्वप्ने नीलोत्पलदलश्यामं पुण्डरीकनिभेक्षणं महाबाहुं विचित्राभरणोपेतं षोडशसमायथावदुपभुज्य प्रबुध्य तं पुरतो न दृष्ट्वा मदनेनपीडिता भ्रान्तचित्ता मां तु त्यक्त्वा वयस्कं रक्तारविन्दवक्त्रं क्वासि क्व यासीति बहुधा विललाप ॥ ५ ॥

ततस्तस्याः सखी चित्रलेखेति नाम कन्यां तादृशीमवस्थां गतां विलोक्य किन्निमित्त विभ्रान्तचित्तासीति पप्रच्छ ॥ ६ ॥

सापि स्वप्नलब्धं पतिं यथावदाचष्ट ॥ ७ ॥
मूलम्
सापि स्वप्नलब्धं पतिं यथावदाचष्ट ॥ ७ ॥
विश्वास-प्रस्तुतिः
सापि सकलदेवमानुषादिश्रेष्ठान्पटे विलिख्य तस्यै दर्शयामास ॥ ८ ॥

यदुवंशसम्भूतान्कृष्णसङ्कर्षणप्रद्युम्नानिरुद्धादीनपि सम्यङिनवेदयामास ॥ ९ ॥

सा तेषां कृष्णमनुमान्य प्रद्युम्नानन्तरमनिरुद्धं दृष्ट्वा स इत्येष इत्यालिलिङ्ग ॥ १० ॥

अथ चित्रलेखा बह्वीभिर्मायावतीभिर्दैत्यस्त्रीभिर्द्वारवतीं गत्वा रात्रावन्तःपुरे सुप्तमनिरुद्धं
दृष्ट्वा गृहीत्वा मोहयित्वा माहिष्मत्यां बाणस्यान्तःपुरे चैत्यप्रासादादियुक्ते तस्या बाणपुत्र्याः शय्यायां चिक्षेप ॥ ११ ॥

सोऽपि प्रबुद्धोतिरम्येऽनङ्गपावके संस्थितामुषां सर्वलक्षणलक्षितां विचित्राभरणवसनगन्धमाल्यालङ्कृतां काञ्चनवर्णां सुकेशीं सुजातस्तनीं दृष्ट्वा गाढमालिङ्ग्य करिण्या गन्धहस्तीव तयातिप्रीतिसंयुक्तया यथासुखं रमयामास ॥ १२ ॥

एवं मासमात्रं निरन्तरतयानिरुद्धं रममाणं कदाचिदन्तःपुरनिवासिन्यो वृद्धा दैत्यस्त्रियो ज्ञात्वा राज्ञे निवेदयामासुः ॥ १३ ॥

स राजा क्रोधताम्राक्षः परं विस्मयं गत्वा तमिहानयतेति पुरः किङ्करान्प्रेषयामास ॥ १४ ॥

तेऽपि तूर्णं नृपप्रासादमारुह्य राजपुत्र्याः शयने संस्थितमनिरुद्धं ग्रहीतुमाजग्मुः ॥ १५ ॥

स तान्समारब्धान्दृष्ट्वा प्रासादस्तम्भमेकं हेलयोत्पाट्य नियुतसङ्ख्याकान् किङ्करान्मुहूर्तमात्रणैव स्तम्भेन चूर्णितमात्रं चकार ॥ १६ ॥

अथ दैत्यपतिर्निहतान्किङ्करान्दृष्ट्वा कौतूहलं गत्वा असौ श्रीकृष्णपौत्र इति देवर्षिणा प्रोक्तो धनुरादाय स्वयमेवानिरुद्धं ग्रहीतुं तत्समीपमाजगाम ॥ १७ ॥

अनिरुद्धोऽपि योद्भुमायान्तं सहस्रबाहुं राजानं दृष्ट्वा तत्परिघं भ्रामयित्वा बाणस्योपरि चिक्षेप ॥ १८ ॥

स्वचापनिर्मुक्तेन बाणेन तं परिघं चिच्छेद ॥ १९ ॥

अनन्तरमुरगास्त्रेण अनिरुद्धं निबिडं बद्ध्वा स्वान्तःपुरे निवेशयामास ॥ २० ॥

अथ कृष्णोप्येवंविधमेव देवर्षिणा ज्ञात्वा बलदेवप्रद्युम्नसहितः स्वसेनया विहङ्गमेन्द्रमारुह्य तस्यबाणस्य भुजवनं छेत्तुमाजगाम ॥ २१ ॥

बलिपुत्रेण पुरा शङ्करोऽर्चितः प्रसन्नो वरं वृणीष्वेत्युवाच ॥ २२ ॥

तमीश्वरं बाणो मम पुरद्वारिरक्षार्थं सर्वदोपविश्य समागतं परसैन्यं जहीत्येवं वरमयाचत॥ २३ ॥

तं तथेत्युक्त्वा शङ्करोऽपि तस्य पुरद्वारि सायुधः सपुत्रः सगणः समासीनस्तस्मिन्नेव काले रुषा स्वसेनया समागतं वासुदेवं दृष्ट्वा वृषमारुह्य सर्वायुधोपेतः स्वपुत्रगणसंवृतो योद्धुं निश्चक्राम ॥ २४ ॥

कृष्णोऽपि तं भूतपतिं गजचर्मकपालभस्मधरं ज्वलितोरगाकल्पं पिङ्गलं त्रिलोचनं त्रिशूलधरं सर्वभूतगणसंहृतिकर्त्तारं सर्वभूतभयावहं संवर्त्ताग्निप्रभं पुत्रद्वयसमन्वितं समस्तगणावृतं त्रिपुरान्तकं दृष्ट्वा सेनां सुदूरे पृष्ठतो निवेश्य बलभद्र प्रद्युम्नसहितस्तेन रुद्रे ण सह प्रहसन्निव योद्धुमारेभे ॥ २५ ॥

प्रथमं तदभूद्घोरं कृष्णशङ्करयोस्तदा
पिनाकशार्ङ्गनिर्मुक्तैर्बाणैः संवर्त्तकोपमैः ॥ २६ ॥

रामोऽपि चक्रे बाणेन प्रद्युम्नः षण्मुखेन च
युयुधाते महावीर्यौ सिंहाविव बलोत्कटौ ॥ २७ ॥

विनायकः स्वदन्तेन जघानोरसि यादवम्
रामो मुशलमादाय तस्य दन्तमताडयत् ॥ २८ ॥
मूलम्
विनायकः स्वदन्तेन जघानोरसि यादवम्
रामो मुशलमादाय तस्य दन्तमताडयत् ॥ २८ ॥
विश्वास-प्रस्तुतिः
निर्भिन्नदन्तः सहसा प्रदुद्रावाखुवाहनः
तदाप्रभृति लोकेऽस्मिन्हतदन्तो गणेश्वरः ॥ २९ ॥

देवदानवगन्धर्वैरेकदन्तइतीरितः
प्रद्युम्नेन समं युद्धं चकार शिखिवाहनः ॥ ३० ॥

गणान्विद्रावयामास मुशलेन हलायुधः
कृष्णेन सुचिरं कालं युद्धासौ नीललोहितः ॥ ३१ ॥

तापज्वरं महादीप्तमस्मिन्संयोज्य सायके
कोपान्मुमोच तदसौ भृशं संरक्तलोचनः ॥ ३२ ॥

तदस्त्रं वारयामास कृष्णः शीतज्वरेण तु
ताभ्यां हरिहराभ्यां तु विसृष्टौ ताविमौ ज्वरौ ॥ ३३ ॥

विशतुर्मानुषे लोके तयोरेवाज्ञया भृशम्
हरिशङ्करयोर्युद्धं ये तु शृण्वन्ति मानवाः ॥ ३४ ॥

ते सर्वे ज्वरनिर्मुक्ताः प्राप्नुवन्ति निरामयम्
ततः स तु हृषीकेशो मोहनास्त्रं दुरासदम् ॥ ३५ ॥

नियुज्य बाणं भूतेशे मुमोच मधुसूदनः
मुहुर्मुहुर्व्यजृम्भद्वै तेनास्त्रेण विमोहितः ॥ ३६ ॥

पपात मूर्च्छितो भूमौ शङ्करस्त्रिदशेश्वरः
पितरं मोहितं दृष्ट्वा शक्तिमुद्यम्य वीर्यवान् ॥ ३७ ॥

योद्धुमभ्याययौ कृष्णं षण्मुखः शिखिवाहनः
हुङ्कारेणैव तं कृष्णश्चकारात्र पराङ्मुखम् ॥ ३८ ॥

एवं जित्वा यदुश्रेष्ठः शूलपाणिं त्रिलोचनम्
महास्वनं पाञ्चजन्यं शङ्खं दध्मौ प्रतापवान् ॥ ३९ ॥

कृष्णेन निर्जितं श्रुत्वा सात्मजं शङ्करं तदा
बाणः स्यन्दनमास्थाय ययौ युद्धाय केशवम् ॥ ४० ॥

स दृष्ट्वा सहसा कृष्णं गरुडोपरिसंस्थितम्
छादयामास गोविन्दं बहुशस्त्रास्त्रवृष्टिभिः ॥ ४१ ॥

गदाभिः परिघैः शूलैः शक्तिभिस्तोमरैरपि
भिण्डिपालैश्च खङ्गैश्च चक्रैर्बाणैर्निरन्तरम् ॥ ४२ ॥

तानि सर्वाणि चिच्छेद चक्रेणैव जनार्दनः
ससर्ज तस्य बाहूनां छेदनार्थं सुदर्शनम् ॥ ४३ ॥

मुक्तं दनुजराजस्य सहस्रारं सुदर्शनम्
तद्बाहुकाननं तूर्णं छिन्नं चक्रे सहस्रधा ॥ ४४ ॥

एतस्मिन्नन्तरे देवि पार्वती संशितव्रता
हरेः समीपमागत्य कृताञ्जलिरभाषत ॥ ४५ ॥
मूलम्
एतस्मिन्नन्तरे देवि पार्वती संशितव्रता
हरेः समीपमागत्य कृताञ्जलिरभाषत ॥ ४५ ॥
विश्वास-प्रस्तुतिः
पार्वत्युवाच-
कृष्णकृष्ण जगन्नाथ नारायण दयानिधे
दास्यस्मि तव देवेश पूर्वभावे यदूत्तम ॥ ४६ ॥

त्वया दत्तं वरं मह्यं तदा कौशलपर्वते
सौभाग्यं शाश्वतं सौम्य प्रसन्नेन महात्मना ॥ ४७ ॥

तव मुख्यं सहस्रस्य नाम्नामन्यतमं विभो
गौरीसौभाग्यदातेति मुनिभिः परिकीर्तितम् ॥ ४८ ॥

तत्सत्यं कुरु गोविन्द गरुडारूढ शाश्वत
तस्मान्मम पतिं देव त्वं जीवयितुमर्हसि ॥ ४९ ॥

रुद्र उवाच-
एवमुक्तस्ततो देव्या कृष्णः कमललोचनः
अस्त्रं संहारयामास येनासौ मोहितः पतिः ५० 6.250.50
कृष्णास्त्रेण विनिर्मुक्तः सर्वभूतपतिः शिवः
उत्थाय प्राञ्जलिर्भूत्वा तुष्टाव जगतां पतिम् ॥ ५१ ॥

शङ्कर उवाच-
कृष्णकृष्ण जगन्नाथ भगवन्पुरुषोत्तम
परेश परमेशान अनादिनिधनाव्यय ॥ ५२ ॥
मूलम्
शङ्कर उवाच-
कृष्णकृष्ण जगन्नाथ भगवन्पुरुषोत्तम
परेश परमेशान अनादिनिधनाव्यय ॥ ५२ ॥
विश्वास-प्रस्तुतिः
तीव्रवीर्यं मनुष्येषु शरीरग्रहणात्मिका
सर्वस्य तव चेष्टेयं मानलक्षणमेव तत् ॥ ५३ ॥

प्रसीद मे नमस्तुभ्यं प्रसीद मम शाश्वत
प्रसीद मे जगत्स्वामिन्प्रसीदाच्युत केशव ॥ ५४ ॥

त्वमेव जगतां स्रष्टा धाता हर्त्ता जगद्गुरुः
त्वमेव चिदचिद्वस्तुरूपं ब्रह्म सुरेश्वर ॥ ५५ ॥

त्वमादिस्त्वमनादिस्त्वमीश्वरः शेष एव च
त्वं महत्त्वं परं ब्रह्म प्रत्यगात्मा त्वमेव हि ॥ ५६ ॥

समस्तामरवर्य्यस्त्वममर्त्यस्त्वं सुरेश्वर
त्वं मर्त्त्येशः सयोनिस्त्वं सौशील्येन तव प्रभो ॥ ५७ ॥

तव श्वाससमुत्पन्नौ परजीवौ सनातनौ
ततश्च पाल्यते चैव तव वात्सल्यगौरवात् ॥ ५८ ॥

क्षराक्षरे परे धाम्नि रुचो नित्यं सुराश्रये
अधि विश्वे निधेषि त्वां दास्यकर्मणि नान्यथा ॥ ५९ ॥

यस्त्वां न वेदलोकेऽस्मिन्स मूढः सर्वभावनः
परावरेश्वरं धाम विदुर्दास्ये मनीषिणः ॥ ६० ॥

ते वै समासते युक्तास्तत्पदं त्रिदशैः समम्
सामान्यो भजते दूरेनन्तुं नित्यं पदं तव ॥ ६१ ॥

तस्य तुर्या चारुकेशी चावस्था घटते तव
मिथुनानि तवाध्यक्ष ब्रुवते यदुशाश्वत ॥ ६२ ॥

तव नामानि कर्माणि गुणानि शाश्वतानि च
ऐश्वर्याणि गुणातीत ब्रुवते चोत्तमे इमे ॥ ६३ ॥

कर्मज्ञानमये रूपे इमे पूर्वोत्तरे श्रुते
ससुतौ युवतीशस्य स्तोतारौ तव केशव ॥ ६४ ॥

त्वं प्रज्ञानं परं ब्रह्म त्वया प्राज्ञेन शाश्वत
जीवयैतेन प्रज्ञेन परेणैवात्मना त्वया ॥ ६५ ॥

तस्माच्छरीरादुत्क्रम्य कृपया तव केवलम्
आमुष्मिके परे स्वर्गे त्वया दत्तात्मबोधवान् ॥ ६६ ॥

प्रज्ञानं चैव विज्ञानं मेधां दृष्टिं तथा धृतिम्
सर्वान्कामानवाप्नोति अमृतं स भवेत्तदा ॥ ६७ ॥

एतत्सञ्ज्ञानमात्मानं यदेतद्धृदि यन्मनः
मनीषा चैव युक्तिश्च स्मृतिः सङ्कल्प एव च ॥ ६८ ॥

तपश्च क्रतवः कामो दश इत्यादि ते प्रभो
भवन्ति नामधेयानि प्रज्ञानस्य घृणानिधेः ॥ ६९ ॥

एष त्वं परमं ब्रह्म एष त्वं वै प्रजापतिः
एष त्वमिन्द्रो रुद्रश्च एष त्वं सर्वदेवताः ॥ ७० ॥

एतानि सर्वभूतानि त्वमेव परमेश्वर
सुत मित्राणि जीवायुस्तथान्यानि सनातन ॥ ७१ ॥

जरायुजाण्डजातानि स्वेदजोद्भिद्यजानि च
अश्वा गावश्च पुरुषा हस्तिनश्चेतराणि च ॥ ७२ ॥

यत्किञ्चित्प्राणिजातं च जङ्गमाश्चैव जन्तवः
स्थावरा ये च वै नाथ सर्वे त्वत्तो भवन्ति च ॥ ७३ ॥

त्वां हि सर्वं गतं चेत्थं वदन्ति श्रुतयो हरिम्
त्वयैव प्रेरिता लोकाश्चेष्टन्ते साध्वसाधुषु ॥ ७४ ॥

तस्मान्मया कृतं यच्च अपराधमिदं प्रभो
क्षमस्व करुणासिन्धो गुणैः शुभतमैस्तव ॥ ७५ ॥

नमस्ते पुण्डरीकाक्ष गोविन्दाच्युत माधव
वासुदेव जगद्वन्द्य नारायण नमोस्तु ते ॥ ७६ ॥

नमस्यामि जगत्स्वामिन्नृसिंहकरुणाकर
श्रीश सर्वगत श्रीमन्परमात्मन्नमोस्तु ते ॥ ७७ ॥

निजावसथवैकुण्ठ नित्यमुक्तार्चितप्रभो
त्रयीनाथ नमस्तुभ्यं रामराजीवलोचन ॥ ७८ ॥
मूलम्
निजावसथवैकुण्ठ नित्यमुक्तार्चितप्रभो
त्रयीनाथ नमस्तुभ्यं रामराजीवलोचन ॥ ७८ ॥
विश्वास-प्रस्तुतिः
भूभारकविनाशाय कृष्णानन्दस्वरूपिणे
विष्णवे जिष्णवे तुभ्यं नमस्ते यदुनन्दन ॥ ७९ ॥

एवं स्तुत्वाथ गोविन्दं प्रणिपत्य उमापतिः
प्राञ्जलिः प्राह भूतेशो वाक्यं गम्भीरया गिरा ॥ ८० ॥

मया दत्तवरो ह्येष बाणो बलिसुतः प्रभो
अहं च दत्तवांस्तस्मै पुरानेनार्थितो वरम् ॥ ८१ ॥

अमरत्वं यदुश्रेष्ठ सर्वं कर्तुं त्वमर्हसि
तस्मादेनं बलिसुतं त्रातुमर्हसि मे प्रियम् ॥ ८२ ॥

तथेत्युक्त्वा च भगवान्बाणं बलिसुतं तदा
प्राणसंशयमापन्नं च्छिन्नबाहुमसृक्चितम् ॥ ८३ ॥

संहृत्य चक्रं गोविन्दो मुमोच करुणानिधिः
मोचयित्वा बलिसुतं शङ्करः संशितव्रतः ॥ ८४ ॥

वृषभेन्द्रं समारुह्य पार्वत्यासहितः प्रभुः
ययौ च वसतिस्थानं कैलासं धरणीधरम् ॥ ८५ ॥

स तु बाणो नमस्कृत्य रामकृष्णौ महाबलौ
ताभ्यां वै नगरीं गत्वा मुमोच मदनात्मजम् ॥ ८६ ॥

वस्त्रैराभरणैर्दिव्यैः पूजयित्वा यथार्हतः
उषां सम्प्रददौ तस्मै कृष्णपौत्राय शौरये ॥ ८७ ॥

उद्वाह्य रामकृष्णौ तमनिरुद्धं यथाविधि
बाणेन पूजितौ तत्र प्रद्युम्नसहितौ तदा ॥ ८८ ॥

उषयासहितं तत्रानिरुद्धं वै जनार्दनः
आरोप्य स्यन्दने दिव्ये ययौ द्वारवतीं तदा ॥ ८९ ॥

रामप्रद्युम्नसहितः सेनया सहितो हरिः
प्रविवेश पुरीं रम्यां त्रिदशैर्मघवानिव ॥ ९० ॥

अनिरुद्धो बाणपुत्र्या नानारत्नमये गृहे
अनिशं रमयामास नानाभोगैर्मुदान्वितः ॥ ९१ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमा
महेश्वरसंवादे बाणासुरसङ्ग्रामकथनन्नाम पञ्चाशदधिकद्विशततमोऽध्यायः२५०