२४९

श्रीरुद्र उवाच-

विश्वास-प्रस्तुतिः

सत्राजितस्य तनया नाम्ना सत्या यशस्विनी
पृथिव्यंशेन सम्भूता भार्यां कृष्णस्य वा परा ॥ १ ॥

मूलम्

सत्राजितस्य तनया नाम्ना सत्या यशस्विनी
पृथिव्यंशेन सम्भूता भार्यां कृष्णस्य वा परा ॥ १ ॥

विश्वास-प्रस्तुतिः

वैवस्वती महाभागा कालिन्दी नाम नामतः
तृतीया तस्य भार्या सा लीलांशा समुपस्थिता ॥ २ ॥

मूलम्

वैवस्वती महाभागा कालिन्दी नाम नामतः
तृतीया तस्य भार्या सा लीलांशा समुपस्थिता ॥ २ ॥

विश्वास-प्रस्तुतिः

विन्दानुविन्दस्य सुतां मित्रविन्दां शुचिस्मिताम्
स्वयंवरस्थितां कन्यामुपयेमे जनार्दनः ॥ ३ ॥

मूलम्

विन्दानुविन्दस्य सुतां मित्रविन्दां शुचिस्मिताम्
स्वयंवरस्थितां कन्यामुपयेमे जनार्दनः ॥ ३ ॥

विश्वास-प्रस्तुतिः

पाशेनैकेन बद्ध्वा तान् वृषभान्सप्तदुर्मदान्
तां वीर्यशुल्कां जग्राह पद्मपत्रायतेक्षणः ॥ ४ ॥

मूलम्

पाशेनैकेन बद्ध्वा तान् वृषभान्सप्तदुर्मदान्
तां वीर्यशुल्कां जग्राह पद्मपत्रायतेक्षणः ॥ ४ ॥

विश्वास-प्रस्तुतिः

सत्राजितो महारत्नं स्यमन्ताख्यं महीपतिः
अनुजाय ददौ सोऽयं प्रसेनाय महात्मने ॥ ५ ॥

मूलम्

सत्राजितो महारत्नं स्यमन्ताख्यं महीपतिः
अनुजाय ददौ सोऽयं प्रसेनाय महात्मने ॥ ५ ॥

विश्वास-प्रस्तुतिः

ययाचे तं मणिवरं कदाचिन्मधुसूदनः
उवाच वासुदेवं तं प्रसेनः प्रसभं तदा ॥ ६ ॥

मूलम्

ययाचे तं मणिवरं कदाचिन्मधुसूदनः
उवाच वासुदेवं तं प्रसेनः प्रसभं तदा ॥ ६ ॥

विश्वास-प्रस्तुतिः

प्रसेन उवाच-
भारानष्टसुवर्णानि नित्यं प्रसवते मणिः
तस्मात्कस्य न दातव्यं स्यमन्ताख्यमिदं मया ॥ ७ ॥

मूलम्

प्रसेन उवाच-
भारानष्टसुवर्णानि नित्यं प्रसवते मणिः
तस्मात्कस्य न दातव्यं स्यमन्ताख्यमिदं मया ॥ ७ ॥

विश्वास-प्रस्तुतिः

महादेव उवाच-
कृष्णस्तु तदभिप्रायं ज्ञात्वा तूष्णीमुवास ह
कदाचिन्मृगयां कर्त्तुं कृष्णः सर्वैर्यदूत्तमैः ॥ ८ ॥

मूलम्

महादेव उवाच-
कृष्णस्तु तदभिप्रायं ज्ञात्वा तूष्णीमुवास ह
कदाचिन्मृगयां कर्त्तुं कृष्णः सर्वैर्यदूत्तमैः ॥ ८ ॥

विश्वास-प्रस्तुतिः

प्रविवेश महारण्यं प्रसेनाद्यैर्महाबलैः
प्रत्येकं वै मृगान्हन्तुमनुयाताः सहस्रशः ॥ ९ ॥

मूलम्

प्रविवेश महारण्यं प्रसेनाद्यैर्महाबलैः
प्रत्येकं वै मृगान्हन्तुमनुयाताः सहस्रशः ॥ ९ ॥

विश्वास-प्रस्तुतिः

एक एव महारण्ये प्रसेनो दूरमागतः
तं सिंहो दृष्टमासाद्य हत्वा रत्नं जहार सः ॥ १० ॥

मूलम्

एक एव महारण्ये प्रसेनो दूरमागतः
तं सिंहो दृष्टमासाद्य हत्वा रत्नं जहार सः ॥ १० ॥

विश्वास-प्रस्तुतिः

तं सिंहं जाम्बबान्हत्वा मणिं गृह्य महाबलः
प्रविवेश बिलं तूर्णं दिव्यस्त्रीभिर्निषेवितम् ॥ ११ ॥

मूलम्

तं सिंहं जाम्बबान्हत्वा मणिं गृह्य महाबलः
प्रविवेश बिलं तूर्णं दिव्यस्त्रीभिर्निषेवितम् ॥ ११ ॥

विश्वास-प्रस्तुतिः

तस्मिन्नस्तङ्गते सूर्ये वासुदेवं सहानुगः
चतुर्थ्यामुदितं चन्द्रं दृष्ट्वा स्वं पुरमाविशत् ॥ १२ ॥

मूलम्

तस्मिन्नस्तङ्गते सूर्ये वासुदेवं सहानुगः
चतुर्थ्यामुदितं चन्द्रं दृष्ट्वा स्वं पुरमाविशत् ॥ १२ ॥

विश्वास-प्रस्तुतिः

ततः सर्वे पुरजनाः कृष्णं प्रोचुः परस्परम्
हत्वा प्रसेनं गोविन्दो मृगव्याजेन कानने ॥ १३ ॥

मूलम्

ततः सर्वे पुरजनाः कृष्णं प्रोचुः परस्परम्
हत्वा प्रसेनं गोविन्दो मृगव्याजेन कानने ॥ १३ ॥

विश्वास-प्रस्तुतिः

स्यमन्तकं मणिवरमग्रहीदविशङ्कया
तदाकर्ण्य हरिस्तस्मिन्द्वारकाजनभाषितम् ॥ १४ ॥

मूलम्

स्यमन्तकं मणिवरमग्रहीदविशङ्कया
तदाकर्ण्य हरिस्तस्मिन्द्वारकाजनभाषितम् ॥ १४ ॥

विश्वास-प्रस्तुतिः

अज्ञलोकभयात्सर्वैर्यदुभिर्गहनं ययौ
दर्शयामास तान्सर्वान्सिंहेन निहतं वने ॥ १५ ॥

मूलम्

अज्ञलोकभयात्सर्वैर्यदुभिर्गहनं ययौ
दर्शयामास तान्सर्वान्सिंहेन निहतं वने ॥ १५ ॥

विश्वास-प्रस्तुतिः

लब्धात्मशुद्धिस्तत्रैव संस्थाप्य महतीं चमूम्
एकः शार्ङ्गगदापाणिर्जगाम गहनं वनम् ॥ १६ ॥

मूलम्

लब्धात्मशुद्धिस्तत्रैव संस्थाप्य महतीं चमूम्
एकः शार्ङ्गगदापाणिर्जगाम गहनं वनम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

दृष्ट्वा महाबिलं कृष्णः प्रविवेश विशङ्कितः
तत्र नाना मणिवरद्योतिते विमले गृहे ॥ १७ ॥

मूलम्

दृष्ट्वा महाबिलं कृष्णः प्रविवेश विशङ्कितः
तत्र नाना मणिवरद्योतिते विमले गृहे ॥ १७ ॥

विश्वास-प्रस्तुतिः

सुतं जाम्बवतो धात्री दोलामारोप्य लीलया
दोलामुखे मणिं धृत्वा दोलयन्गायती मुदा ॥ १८ ॥

मूलम्

सुतं जाम्बवतो धात्री दोलामारोप्य लीलया
दोलामुखे मणिं धृत्वा दोलयन्गायती मुदा ॥ १८ ॥

विश्वास-प्रस्तुतिः

सिंहः प्रसेनमवधीत्सिंहो जाम्बवता हतः
सुकुमारक मा रोदीस्तव ह्येष स्यमन्तकः ॥ १९ ॥

मूलम्

सिंहः प्रसेनमवधीत्सिंहो जाम्बवता हतः
सुकुमारक मा रोदीस्तव ह्येष स्यमन्तकः ॥ १९ ॥

विश्वास-प्रस्तुतिः

तच्छ्रुत्वा वासुदेवोऽथ शङ्खं दध्मौ प्रतापवान्
तेन नादेन महता निर्जगामात्र जाम्बवान् ॥ २० ॥

मूलम्

तच्छ्रुत्वा वासुदेवोऽथ शङ्खं दध्मौ प्रतापवान्
तेन नादेन महता निर्जगामात्र जाम्बवान् ॥ २० ॥

विश्वास-प्रस्तुतिः

तयोर्युद्धमभूद्घोरं दशरात्रं निरन्तरम्
मुष्टिभिर्वज्रकल्पैश्च सर्वभूतभयावहम् ॥ २१ ॥

मूलम्

तयोर्युद्धमभूद्घोरं दशरात्रं निरन्तरम्
मुष्टिभिर्वज्रकल्पैश्च सर्वभूतभयावहम् ॥ २१ ॥

विश्वास-प्रस्तुतिः

कृष्णस्य बलवृद्धिं च तथात्मबलसङ्क्षयम्
अवेक्ष्य पूर्ववचनं बुबुधे परमात्मनः ॥ २२ ॥

मूलम्

कृष्णस्य बलवृद्धिं च तथात्मबलसङ्क्षयम्
अवेक्ष्य पूर्ववचनं बुबुधे परमात्मनः ॥ २२ ॥

विश्वास-प्रस्तुतिः

सोऽयं रामोऽवतीर्णोऽत्र धर्मत्राणाय वै पुनः
स आगतो मम स्वामी दातुं मम मनोरथम् ॥ २३ ॥

मूलम्

सोऽयं रामोऽवतीर्णोऽत्र धर्मत्राणाय वै पुनः
स आगतो मम स्वामी दातुं मम मनोरथम् ॥ २३ ॥

विश्वास-प्रस्तुतिः

एवं ज्ञात्वाथ ऋक्षेशो निर्वर्त्य रणकर्म तत्
प्राञ्जलि प्राह गोविन्दं को भवानिति विस्मयात् ॥ २४ ॥

मूलम्

एवं ज्ञात्वाथ ऋक्षेशो निर्वर्त्य रणकर्म तत्
प्राञ्जलि प्राह गोविन्दं को भवानिति विस्मयात् ॥ २४ ॥

विश्वास-प्रस्तुतिः

निवर्त्य कदनं शौरिः प्रोचे गम्भीरया गिरा
श्रीकृष्ण उवाच-
पुत्रोऽहं वसुदेवस्य वासुदेव इतीरितः ॥ २५ ॥

मूलम्

निवर्त्य कदनं शौरिः प्रोचे गम्भीरया गिरा
श्रीकृष्ण उवाच-
पुत्रोऽहं वसुदेवस्य वासुदेव इतीरितः ॥ २५ ॥

विश्वास-प्रस्तुतिः

ममरत्नं स्यमन्ताख्यं हृतवांस्त्वं सुनिर्भयः
तद्दीयतां च शीघ्रं मे अन्यथा वधमेष्यसि ॥ २६ ॥

मूलम्

ममरत्नं स्यमन्ताख्यं हृतवांस्त्वं सुनिर्भयः
तद्दीयतां च शीघ्रं मे अन्यथा वधमेष्यसि ॥ २६ ॥

विश्वास-प्रस्तुतिः

महादेव उवाच-
तच्छ्रुत्वा जाम्बवान्हृष्टः प्रणनामाथ दण्डवत्
परिणीय नमस्कृत्य विनयात्प्राह केशवम् ॥ २७ ॥

मूलम्

महादेव उवाच-
तच्छ्रुत्वा जाम्बवान्हृष्टः प्रणनामाथ दण्डवत्
परिणीय नमस्कृत्य विनयात्प्राह केशवम् ॥ २७ ॥

विश्वास-प्रस्तुतिः

जाम्बवानुवाच-
धन्योस्मि कृतकृत्योस्मि तव सन्दर्शनात्प्रभो
दासोऽहं पूर्वभावेन तव देवकिनन्दन ॥ २८ ॥

मूलम्

जाम्बवानुवाच-
धन्योस्मि कृतकृत्योस्मि तव सन्दर्शनात्प्रभो
दासोऽहं पूर्वभावेन तव देवकिनन्दन ॥ २८ ॥

विश्वास-प्रस्तुतिः

दत्तवानसि गोविन्द कदनं पूर्वकाङ्क्षितम्
मयेदं कदनं मोहाद्यत्कृतं स्वामिना त्वया
तत्क्षम्यतां जगन्नाथ करुणाकर शाश्वत ॥ २९ ॥

मूलम्

दत्तवानसि गोविन्द कदनं पूर्वकाङ्क्षितम्
मयेदं कदनं मोहाद्यत्कृतं स्वामिना त्वया
तत्क्षम्यतां जगन्नाथ करुणाकर शाश्वत ॥ २९ ॥

विश्वास-प्रस्तुतिः

महादेव उवाच-
इत्युक्त्वा प्रणतो भूत्वा नमस्कृत्य पुनः पुनः
नानारत्नमये पीठे निवेश्य विनयात्प्रभुम् ॥ ३० ॥

मूलम्

महादेव उवाच-
इत्युक्त्वा प्रणतो भूत्वा नमस्कृत्य पुनः पुनः
नानारत्नमये पीठे निवेश्य विनयात्प्रभुम् ॥ ३० ॥

विश्वास-प्रस्तुतिः

शारदाब्जनिभौ पादौ प्रक्षाल्य शुभवारिणा
मधुपर्कविधानेन पूजयित्वा यदूद्वहम् ॥ ३१ ॥

मूलम्

शारदाब्जनिभौ पादौ प्रक्षाल्य शुभवारिणा
मधुपर्कविधानेन पूजयित्वा यदूद्वहम् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

वस्त्रैराभरणैर्दिव्यैः पूजयित्वा विधानतः
पुत्रीं जाम्बवतीं नाम कन्यां लावण्यसंयुताम् ॥ ३२ ॥

मूलम्

वस्त्रैराभरणैर्दिव्यैः पूजयित्वा विधानतः
पुत्रीं जाम्बवतीं नाम कन्यां लावण्यसंयुताम् ॥ ३२ ॥

विश्वास-प्रस्तुतिः

कन्यारत्नं ददौ तस्मै भार्यार्थममितौजसे
अन्यैश्च मणिमुख्यैश्च स्यमन्ताख्यं ददौ मणिम् ॥ ३३ ॥

मूलम्

कन्यारत्नं ददौ तस्मै भार्यार्थममितौजसे
अन्यैश्च मणिमुख्यैश्च स्यमन्ताख्यं ददौ मणिम् ॥ ३३ ॥

विश्वास-प्रस्तुतिः

तत्रैवोद्वाह्य तां कन्यां प्रहृष्टपरवीरहा
ददौ तस्मै परां मुक्तिं प्रीत्या जाम्बवते हरिः ॥ ३४ ॥

मूलम्

तत्रैवोद्वाह्य तां कन्यां प्रहृष्टपरवीरहा
ददौ तस्मै परां मुक्तिं प्रीत्या जाम्बवते हरिः ॥ ३४ ॥

विश्वास-प्रस्तुतिः

गृहीत्वा तनयां तस्य कन्यां जाम्बवतीं मुदा
विनिर्गत्य बिलात्तस्मात्प्रययौ द्वारकां पुरीम् ॥ ३५ ॥

मूलम्

गृहीत्वा तनयां तस्य कन्यां जाम्बवतीं मुदा
विनिर्गत्य बिलात्तस्मात्प्रययौ द्वारकां पुरीम् ॥ ३५ ॥

विश्वास-प्रस्तुतिः

सत्राजिते ददौ रत्नं स्यमन्ताख्यं यदूत्तमः
दुहित्रे प्रददौसोऽपि कन्यायै मणिमुत्तमम् ॥ ३६ ॥

मूलम्

सत्राजिते ददौ रत्नं स्यमन्ताख्यं यदूत्तमः
दुहित्रे प्रददौसोऽपि कन्यायै मणिमुत्तमम् ॥ ३६ ॥

विश्वास-प्रस्तुतिः

मासि भाद्रपदे शुक्ले चतुर्थ्यां चन्द्रदर्शनम्
मिथ्याभिदूषणं प्राहुस्तस्मात्तत्परिवर्जयेत् ॥ ३७ ॥

मूलम्

मासि भाद्रपदे शुक्ले चतुर्थ्यां चन्द्रदर्शनम्
मिथ्याभिदूषणं प्राहुस्तस्मात्तत्परिवर्जयेत् ॥ ३७ ॥

विश्वास-प्रस्तुतिः

प्राप्यते दर्शनं तत्र चतुर्थ्यां शीतगोर्नरः
स्यमन्तस्य कथां श्रुत्वा मिथ्यावादात्प्रमुच्यते ॥ ३८ ॥

मूलम्

प्राप्यते दर्शनं तत्र चतुर्थ्यां शीतगोर्नरः
स्यमन्तस्य कथां श्रुत्वा मिथ्यावादात्प्रमुच्यते ॥ ३८ ॥

विश्वास-प्रस्तुतिः

सुलक्ष्मणां नाग्नजितीं सुशीलां च यशस्विनीम्
मद्रराजसुतास्तिस्रः कन्यकास्ताः शुभाननाः ॥ ३९ ॥

मूलम्

सुलक्ष्मणां नाग्नजितीं सुशीलां च यशस्विनीम्
मद्रराजसुतास्तिस्रः कन्यकास्ताः शुभाननाः ॥ ३९ ॥

विश्वास-प्रस्तुतिः

स्वयंवरस्थास्ताः कृष्णं वरयामासुरुज्ज्वलाः
एकस्मिन्दिवसे तास्तु उपयेमे यदूद्वहः ॥ ४० ॥

मूलम्

स्वयंवरस्थास्ताः कृष्णं वरयामासुरुज्ज्वलाः
एकस्मिन्दिवसे तास्तु उपयेमे यदूद्वहः ॥ ४० ॥

विश्वास-प्रस्तुतिः

अष्टौ महिष्यस्ताः सर्वा रुक्मिण्याद्या महात्मनः
रुक्मिणी सत्यभामा च कालिन्दी च शुचिस्मिता ॥ ४१ ॥

मूलम्

अष्टौ महिष्यस्ताः सर्वा रुक्मिण्याद्या महात्मनः
रुक्मिणी सत्यभामा च कालिन्दी च शुचिस्मिता ॥ ४१ ॥

विश्वास-प्रस्तुतिः

मित्रविन्दा जाम्बवती नाग्नजित्यः सुलक्ष्मणा
सुशीला नाम तन्वङ्गी महिषी चाष्टमी स्मृता ॥ ४२ ॥

मूलम्

मित्रविन्दा जाम्बवती नाग्नजित्यः सुलक्ष्मणा
सुशीला नाम तन्वङ्गी महिषी चाष्टमी स्मृता ॥ ४२ ॥

विश्वास-प्रस्तुतिः

भूमिपुत्रो महावीर्यो नरको नाम राक्षसः
जित्वा देवपतिं शक्रं सर्वांश्चैव सुरान्रणे ॥ ४३ ॥

मूलम्

भूमिपुत्रो महावीर्यो नरको नाम राक्षसः
जित्वा देवपतिं शक्रं सर्वांश्चैव सुरान्रणे ॥ ४३ ॥

विश्वास-प्रस्तुतिः

अदित्या देवमातुश्च कुण्डले च सुवर्चसी
बलाज्जग्राह देवानां रत्नानि विविधानि च ॥ ४४ ॥

मूलम्

अदित्या देवमातुश्च कुण्डले च सुवर्चसी
बलाज्जग्राह देवानां रत्नानि विविधानि च ॥ ४४ ॥

विश्वास-प्रस्तुतिः

ऐरावतं महेन्द्रस्य तथैवोच्चैःश्रवं हयम्
माणिक्यादि धनेशस्य शङ्खपद्मनिधिं तथा ॥ ४५ ॥

मूलम्

ऐरावतं महेन्द्रस्य तथैवोच्चैःश्रवं हयम्
माणिक्यादि धनेशस्य शङ्खपद्मनिधिं तथा ॥ ४५ ॥

विश्वास-प्रस्तुतिः

स्त्रियश्चाप्सरसश्चैव हृतवान्क्षितिनन्दनः
वज्रादिहेतीस्तेषां च बलाद्धृत्वा दिवौकसाम् ॥ ४६ ॥

मूलम्

स्त्रियश्चाप्सरसश्चैव हृतवान्क्षितिनन्दनः
वज्रादिहेतीस्तेषां च बलाद्धृत्वा दिवौकसाम् ॥ ४६ ॥

विश्वास-प्रस्तुतिः

तैरेव स सुरान्हत्वा सभां मयविनिर्मिताम्
उवास व्योमगो दिव्यो नगर्यां विमलेम्बरे ॥ ४७ ॥

मूलम्

तैरेव स सुरान्हत्वा सभां मयविनिर्मिताम्
उवास व्योमगो दिव्यो नगर्यां विमलेम्बरे ॥ ४७ ॥

विश्वास-प्रस्तुतिः

ततो देवगणाः सर्वे पुरस्कृत्य शचीपतिम्
भयार्ताः शरणं जग्मुः कृष्णमक्लिष्टकारिणम् ॥ ४८ ॥

मूलम्

ततो देवगणाः सर्वे पुरस्कृत्य शचीपतिम्
भयार्ताः शरणं जग्मुः कृष्णमक्लिष्टकारिणम् ॥ ४८ ॥

विश्वास-प्रस्तुतिः

कृष्णोऽपि तदुपश्रुत्य सर्वं नरकचेष्टितम्
देवानामभयं दत्वा वैनतेयं व्यचिन्तयत् ॥ ४९ ॥

मूलम्

कृष्णोऽपि तदुपश्रुत्य सर्वं नरकचेष्टितम्
देवानामभयं दत्वा वैनतेयं व्यचिन्तयत् ॥ ४९ ॥

विश्वास-प्रस्तुतिः

तस्मिन्क्षणे हरेस्तस्य वैनतेयो महाबलः
प्राञ्जलिः पुरतस्तस्थौ सर्वदेवनमस्कृतः ५० 6.249.50
तमारुह्य द्विजश्रेष्ठं सत्यया सह केशवः
संस्तूयमानो मुनिभिः प्रययौ राक्षसालयम् ॥ ५१ ॥

मूलम्

तस्मिन्क्षणे हरेस्तस्य वैनतेयो महाबलः
प्राञ्जलिः पुरतस्तस्थौ सर्वदेवनमस्कृतः ५० 6.249.50
तमारुह्य द्विजश्रेष्ठं सत्यया सह केशवः
संस्तूयमानो मुनिभिः प्रययौ राक्षसालयम् ॥ ५१ ॥

विश्वास-प्रस्तुतिः

प्रदीप्यमानमाकाशे यथा सूर्यस्य मण्डलम्
राक्षसैर्बहुभिर्युक्तं दिव्यैराभरणैर्युतम् ॥ ५२ ॥

मूलम्

प्रदीप्यमानमाकाशे यथा सूर्यस्य मण्डलम्
राक्षसैर्बहुभिर्युक्तं दिव्यैराभरणैर्युतम् ॥ ५२ ॥

विश्वास-प्रस्तुतिः

ददर्श तत्पुरं कृष्णो दुर्भेद्यं त्रिदशैरपि
तदावरणानि भगवान्वीक्ष्य चक्रेण वीर्यवान् ॥ ५३ ॥

मूलम्

ददर्श तत्पुरं कृष्णो दुर्भेद्यं त्रिदशैरपि
तदावरणानि भगवान्वीक्ष्य चक्रेण वीर्यवान् ॥ ५३ ॥

विश्वास-प्रस्तुतिः

चिच्छेद तेजसा दीप्त्या तमांसि च दिवाकरः
ततस्ते राक्षसाः सर्वे शतशोऽथ सहस्रशः ॥ ५४ ॥

मूलम्

चिच्छेद तेजसा दीप्त्या तमांसि च दिवाकरः
ततस्ते राक्षसाः सर्वे शतशोऽथ सहस्रशः ॥ ५४ ॥

विश्वास-प्रस्तुतिः

उद्यम्य शूलानि तदा युद्धायाभिमुखं ययुः
ततस्तु तोमरैर्दिव्यैर्भिण्डिपालैः सुपट्टिशैः ॥ ५५ ॥

मूलम्

उद्यम्य शूलानि तदा युद्धायाभिमुखं ययुः
ततस्तु तोमरैर्दिव्यैर्भिण्डिपालैः सुपट्टिशैः ॥ ५५ ॥

विश्वास-प्रस्तुतिः

केशवं ताडयामासुः पलालैरिव पावकम्
ततस्तु शार्ङ्गमादाय भगवान्गरुडध्वजः ॥ ५६ ॥

मूलम्

केशवं ताडयामासुः पलालैरिव पावकम्
ततस्तु शार्ङ्गमादाय भगवान्गरुडध्वजः ॥ ५६ ॥

विश्वास-प्रस्तुतिः

दिव्यशस्त्राणि चिच्छेद बाणैरग्निशिखोपमैः
तेषां शिरोधरा नागानश्वांश्चैव तरस्विनः ॥ ५७ ॥

मूलम्

दिव्यशस्त्राणि चिच्छेद बाणैरग्निशिखोपमैः
तेषां शिरोधरा नागानश्वांश्चैव तरस्विनः ॥ ५७ ॥

विश्वास-प्रस्तुतिः

चक्रेणैव प्रचिच्छेद वीर्यवान्पुरुषोत्तमः
केचिच्चक्रेण सञ्छिन्नास्तथान्ये शरताडिताः ॥ ५८ ॥

मूलम्

चक्रेणैव प्रचिच्छेद वीर्यवान्पुरुषोत्तमः
केचिच्चक्रेण सञ्छिन्नास्तथान्ये शरताडिताः ॥ ५८ ॥

विश्वास-प्रस्तुतिः

गदया निहताः केचिद्राक्षसास्तद्रणाजिरे
एवं ते राक्षसाः सर्वे पातिता धरणीतले ॥ ५९ ॥

मूलम्

गदया निहताः केचिद्राक्षसास्तद्रणाजिरे
एवं ते राक्षसाः सर्वे पातिता धरणीतले ॥ ५९ ॥

विश्वास-प्रस्तुतिः

शक्रोत्सृष्टेन वज्रेण निर्भिन्ना इव भूधराः
निहत्य दानवान्सर्वान्पुण्डरीकायतेक्षणः ॥ ६० ॥

मूलम्

शक्रोत्सृष्टेन वज्रेण निर्भिन्ना इव भूधराः
निहत्य दानवान्सर्वान्पुण्डरीकायतेक्षणः ॥ ६० ॥

विश्वास-प्रस्तुतिः

पाञ्चजन्यं महाशङ्खं प्रदध्मौ पुरुषोत्तमः
ततः स नरको दैत्यो धनुरादाय वीर्यवान् ॥ ६१ ॥

मूलम्

पाञ्चजन्यं महाशङ्खं प्रदध्मौ पुरुषोत्तमः
ततः स नरको दैत्यो धनुरादाय वीर्यवान् ॥ ६१ ॥

विश्वास-प्रस्तुतिः

दिव्यं स्यन्दनमारुह्य ययौ युद्धाय केशवम्
तयोर्युद्धमभूद्घोरं तुमुलं लोमहर्षणम् ॥ ६२ ॥

मूलम्

दिव्यं स्यन्दनमारुह्य ययौ युद्धाय केशवम्
तयोर्युद्धमभूद्घोरं तुमुलं लोमहर्षणम् ॥ ६२ ॥

विश्वास-प्रस्तुतिः

बहुभिर्बाणसाहस्रैर्मेघयोरिव वर्षतोः
ततोऽर्द्धचन्द्र बाणेन वासुदेवः सनातनः ॥ ६३ ॥

मूलम्

बहुभिर्बाणसाहस्रैर्मेघयोरिव वर्षतोः
ततोऽर्द्धचन्द्र बाणेन वासुदेवः सनातनः ॥ ६३ ॥

विश्वास-प्रस्तुतिः

तस्य राक्षसमुख्यस्य धनुश्चिच्छेद वीर्यवान्
ससर्जास्त्रं महादिव्यं नरकस्य महोरसि ॥ ६४ ॥

मूलम्

तस्य राक्षसमुख्यस्य धनुश्चिच्छेद वीर्यवान्
ससर्जास्त्रं महादिव्यं नरकस्य महोरसि ॥ ६४ ॥

विश्वास-प्रस्तुतिः

स तेन भिन्नहृदयः पपातोर्व्यां महासुरः
शक्रवज्रेण निर्भिन्नो महाचल इवोन्नदन् ॥ ६५ ॥

मूलम्

स तेन भिन्नहृदयः पपातोर्व्यां महासुरः
शक्रवज्रेण निर्भिन्नो महाचल इवोन्नदन् ॥ ६५ ॥

विश्वास-प्रस्तुतिः

उपगम्य ततः कृष्णः समीपं तस्य रक्षसः
भूम्या सम्प्रार्थितः प्राह वरं वृण्विति राक्षसम्
स चाह राक्षसः कृष्णं गरुडोपरि संस्थितम् ॥ ६६ ॥

मूलम्

उपगम्य ततः कृष्णः समीपं तस्य रक्षसः
भूम्या सम्प्रार्थितः प्राह वरं वृण्विति राक्षसम्
स चाह राक्षसः कृष्णं गरुडोपरि संस्थितम् ॥ ६६ ॥

विश्वास-प्रस्तुतिः

न मे कृत्यं वरेणास्ति नरकोऽहं तथापि च
अन्यलोकहितार्थाय वृणेऽहं वरमुत्तमम् ॥ ६७ ॥

मूलम्

न मे कृत्यं वरेणास्ति नरकोऽहं तथापि च
अन्यलोकहितार्थाय वृणेऽहं वरमुत्तमम् ॥ ६७ ॥

विश्वास-प्रस्तुतिः

मृताहनि तु मे कृष्ण सर्वभूतेश्वरेश्वर
ये नरा मङ्गलस्नानं कुर्वन्ति मधुसूदन
न तेषां निरयप्राप्तिर्भवत्वेवं भयापह ॥ ६८ ॥

मूलम्

मृताहनि तु मे कृष्ण सर्वभूतेश्वरेश्वर
ये नरा मङ्गलस्नानं कुर्वन्ति मधुसूदन
न तेषां निरयप्राप्तिर्भवत्वेवं भयापह ॥ ६८ ॥

विश्वास-प्रस्तुतिः

महादेव उवाच-
एवमस्त्विति गोविन्दो ददौ तस्मै वरं प्रभुः
ततः पश्यन्हरेः साक्षाच्छरदम्बुज सन्निभौ ॥ ६९ ॥

मूलम्

महादेव उवाच-
एवमस्त्विति गोविन्दो ददौ तस्मै वरं प्रभुः
ततः पश्यन्हरेः साक्षाच्छरदम्बुज सन्निभौ ॥ ६९ ॥

विश्वास-प्रस्तुतिः

चरणौ वज्रवैडूर्य्यनूपुराभ्यां विराजितौ
अर्चितौ विधिरुद्राद्यैस्त्रिदशैर्मुनिभिस्तथा ॥ ७० ॥

मूलम्

चरणौ वज्रवैडूर्य्यनूपुराभ्यां विराजितौ
अर्चितौ विधिरुद्राद्यैस्त्रिदशैर्मुनिभिस्तथा ॥ ७० ॥

विश्वास-प्रस्तुतिः

त्यक्त्वा प्राणान्महीपुत्रः सारूप्यमगमद्धरेः
ततो देवगणाः सर्वे हर्षनिर्भरमानसाः ॥ ७१ ॥

मूलम्

त्यक्त्वा प्राणान्महीपुत्रः सारूप्यमगमद्धरेः
ततो देवगणाः सर्वे हर्षनिर्भरमानसाः ॥ ७१ ॥

विश्वास-प्रस्तुतिः

ववृषुः पुष्पवर्षाणि तुष्टुवुश्च महर्षयः
प्रविश्य नगरं तस्य कृष्णः कमललोचनः ॥ ७२ ॥

मूलम्

ववृषुः पुष्पवर्षाणि तुष्टुवुश्च महर्षयः
प्रविश्य नगरं तस्य कृष्णः कमललोचनः ॥ ७२ ॥

विश्वास-प्रस्तुतिः

बलात्तेन गृहीतानि रत्नानि त्रिदिवौकसाम्
कुण्डले देवमातुश्च तथैवोच्चैःश्रवो हयम् ॥ ७३ ॥

मूलम्

बलात्तेन गृहीतानि रत्नानि त्रिदिवौकसाम्
कुण्डले देवमातुश्च तथैवोच्चैःश्रवो हयम् ॥ ७३ ॥

विश्वास-प्रस्तुतिः

ऐरावतं गजश्रेष्ठं प्रदीप्तं मणिपर्वतम्
सर्वमेतद्यदुश्रेष्ठो ददौ शक्राय वज्रिणे ॥ ७४ ॥

मूलम्

ऐरावतं गजश्रेष्ठं प्रदीप्तं मणिपर्वतम्
सर्वमेतद्यदुश्रेष्ठो ददौ शक्राय वज्रिणे ॥ ७४ ॥

विश्वास-प्रस्तुतिः

पार्थिवान्सर्वराष्ट्रेभ्यो जित्वाऽसौ नरको बली
कन्याषोडशसाहस्रं हृतवान्नरकस्तदा ॥ ७५ ॥

मूलम्

पार्थिवान्सर्वराष्ट्रेभ्यो जित्वाऽसौ नरको बली
कन्याषोडशसाहस्रं हृतवान्नरकस्तदा ॥ ७५ ॥

विश्वास-प्रस्तुतिः

सन्निरुद्धास्तु ताः सर्वा नरकान्तःपुरे तदा
दृष्ट्वा कृष्णं महावीर्यं कन्दर्पशतसन्निभम् ॥ ७६ ॥

मूलम्

सन्निरुद्धास्तु ताः सर्वा नरकान्तःपुरे तदा
दृष्ट्वा कृष्णं महावीर्यं कन्दर्पशतसन्निभम् ॥ ७६ ॥

विश्वास-प्रस्तुतिः

भर्तारं वव्रिरे सर्वाः पतिं विश्वस्य सर्वगम्
एतस्मिन्नेव काले तु गोविन्दोऽनन्तरूपवान् ॥ ७७ ॥

मूलम्

भर्तारं वव्रिरे सर्वाः पतिं विश्वस्य सर्वगम्
एतस्मिन्नेव काले तु गोविन्दोऽनन्तरूपवान् ॥ ७७ ॥

विश्वास-प्रस्तुतिः

तासां करग्रहं चक्रे विधिना पुरुषोत्तमः
नरकस्य सुताः सर्वे पुरस्कृत्य महीं तदा ॥ ७८ ॥

मूलम्

तासां करग्रहं चक्रे विधिना पुरुषोत्तमः
नरकस्य सुताः सर्वे पुरस्कृत्य महीं तदा ॥ ७८ ॥

विश्वास-प्रस्तुतिः

गोविन्दं शरणं जग्मुस्तानरक्षद्घृणानिधिः
तद्राज्ये स्थाप्य तान्सर्वान्पृथिव्या वाक्य गौरवात् ॥ ७९ ॥

मूलम्

गोविन्दं शरणं जग्मुस्तानरक्षद्घृणानिधिः
तद्राज्ये स्थाप्य तान्सर्वान्पृथिव्या वाक्य गौरवात् ॥ ७९ ॥

विश्वास-प्रस्तुतिः

ऐन्द्रं विमानमारोप्य ताश्च सर्वा वरस्त्रियः
देवदूतैर्महाभागैर्द्वारवत्यां न्यवेशयत् ॥ ८० ॥

मूलम्

ऐन्द्रं विमानमारोप्य ताश्च सर्वा वरस्त्रियः
देवदूतैर्महाभागैर्द्वारवत्यां न्यवेशयत् ॥ ८० ॥

विश्वास-प्रस्तुतिः

वैनतेयं समारुह्य सत्यया सह केशवः
स्वर्लोकं प्रययौ तूर्णं द्रष्टुं तां देवमातरम् ॥ ८१ ॥

मूलम्

वैनतेयं समारुह्य सत्यया सह केशवः
स्वर्लोकं प्रययौ तूर्णं द्रष्टुं तां देवमातरम् ॥ ८१ ॥

विश्वास-प्रस्तुतिः

प्रविश्य नगरीं तत्र देवराज्ञो जनार्दनः
अवरुह्य द्विजश्रेष्ठात्पत्न्या सह महाबलः ॥ ८२ ॥

मूलम्

प्रविश्य नगरीं तत्र देवराज्ञो जनार्दनः
अवरुह्य द्विजश्रेष्ठात्पत्न्या सह महाबलः ॥ ८२ ॥

विश्वास-प्रस्तुतिः

ववन्दे मातरं तत्र वन्द्यां तां त्रिदिवौकसाम्
सम्परिष्वज्य बाहुभ्यामदितिः पुत्रवत्सला ॥ ८३ ॥

मूलम्

ववन्दे मातरं तत्र वन्द्यां तां त्रिदिवौकसाम्
सम्परिष्वज्य बाहुभ्यामदितिः पुत्रवत्सला ॥ ८३ ॥

विश्वास-प्रस्तुतिः

निवेश्यासनमुख्ये तु पूजयामास भक्तितः
आदित्या वसवो रुद्राः शतक्रतुपुरोगमाः ॥ ८४ ॥

मूलम्

निवेश्यासनमुख्ये तु पूजयामास भक्तितः
आदित्या वसवो रुद्राः शतक्रतुपुरोगमाः ॥ ८४ ॥

विश्वास-प्रस्तुतिः

तत्र सम्पूजयामासुर्यथार्हं परमेश्वरम्
शचीगृहं समागम्य सत्यभामा यशस्विनी ॥ ८५ ॥

मूलम्

तत्र सम्पूजयामासुर्यथार्हं परमेश्वरम्
शचीगृहं समागम्य सत्यभामा यशस्विनी ॥ ८५ ॥

विश्वास-प्रस्तुतिः

तया समर्चिता देव्या समासीना सुखासने
तस्मिन्काले सुपुष्पाणि पारिजातस्य किङ्कराः ॥ ८६ ॥

मूलम्

तया समर्चिता देव्या समासीना सुखासने
तस्मिन्काले सुपुष्पाणि पारिजातस्य किङ्कराः ॥ ८६ ॥

विश्वास-प्रस्तुतिः

शच्यै देव्यै ददुः प्रीत्या सहस्राक्षेण चोदिताः
प्रगृह्य तानि पुष्पाणि शचीदेवी सुमध्यमा ॥ ८७ ॥

मूलम्

शच्यै देव्यै ददुः प्रीत्या सहस्राक्षेण चोदिताः
प्रगृह्य तानि पुष्पाणि शचीदेवी सुमध्यमा ॥ ८७ ॥

विश्वास-प्रस्तुतिः

नीलनिर्मलकेशे च बबन्ध स्वस्य मूर्धनि
अवमान्य शची तत्र सत्यभामां यशस्विनीम् ॥ ८८ ॥

मूलम्

नीलनिर्मलकेशे च बबन्ध स्वस्य मूर्धनि
अवमान्य शची तत्र सत्यभामां यशस्विनीम् ॥ ८८ ॥

विश्वास-प्रस्तुतिः

अनर्हा मानुषी चेयं देवार्हं कुसुमं शुभम्
इति कृत्वा मतिं तस्यै न ददौ कुसुमानि सा ॥ ८९ ॥

मूलम्

अनर्हा मानुषी चेयं देवार्हं कुसुमं शुभम्
इति कृत्वा मतिं तस्यै न ददौ कुसुमानि सा ॥ ८९ ॥

विश्वास-प्रस्तुतिः

विनिष्क्रम्य पुरात्तस्मात्सत्या कोपसमन्विता
समेत्य कृष्णं भर्त्तारमुवाच कमलेक्षणा ॥ ९० ॥

मूलम्

विनिष्क्रम्य पुरात्तस्मात्सत्या कोपसमन्विता
समेत्य कृष्णं भर्त्तारमुवाच कमलेक्षणा ॥ ९० ॥

विश्वास-प्रस्तुतिः

सत्योवाच-
एषा शची यदुश्रेष्ठ पारिजातेन गर्विता
अदत्त्वा मम गोविन्द बबन्ध स्वस्य मूर्द्धनि ॥ ९१ ॥

मूलम्

सत्योवाच-
एषा शची यदुश्रेष्ठ पारिजातेन गर्विता
अदत्त्वा मम गोविन्द बबन्ध स्वस्य मूर्द्धनि ॥ ९१ ॥

विश्वास-प्रस्तुतिः

महादेव उवाच-
सत्यया भाषितं श्रुत्वा वासुदेवो महाबलः
उत्पाट्य पारिजातं तु निवेश्य गरुडोपरि ॥ ९२ ॥

मूलम्

महादेव उवाच-
सत्यया भाषितं श्रुत्वा वासुदेवो महाबलः
उत्पाट्य पारिजातं तु निवेश्य गरुडोपरि ॥ ९२ ॥

विश्वास-प्रस्तुतिः

आरुह्य सत्यया तूर्णं वैनतेयं महाबलम्
प्रययौ द्वारकां रम्यां नगरीं देवकीसुतः ॥ ९३ ॥

मूलम्

आरुह्य सत्यया तूर्णं वैनतेयं महाबलम्
प्रययौ द्वारकां रम्यां नगरीं देवकीसुतः ॥ ९३ ॥

विश्वास-प्रस्तुतिः

ततः कोपसमाविष्टो देवराजः शतक्रतुः
रुद्रैर्वसुभिरादित्यैः साध्यैश्च मरुतां गणैः ॥ ९४ ॥

मूलम्

ततः कोपसमाविष्टो देवराजः शतक्रतुः
रुद्रैर्वसुभिरादित्यैः साध्यैश्च मरुतां गणैः ॥ ९४ ॥

विश्वास-प्रस्तुतिः

ऐरावतं समारुह्य ययौ युद्धाय केशवम्
ततो देवगणाः सर्वे परिवार्य्य जनार्दनम् ॥ ९५ ॥

मूलम्

ऐरावतं समारुह्य ययौ युद्धाय केशवम्
ततो देवगणाः सर्वे परिवार्य्य जनार्दनम् ॥ ९५ ॥

विश्वास-प्रस्तुतिः

ववृषुः शस्त्रवर्षाणि मेघा इव महाचलम्
कृष्णश्चिच्छेद चक्रेण तान्यस्त्राणि दिवौकसाम् ॥ ९६ ॥

मूलम्

ववृषुः शस्त्रवर्षाणि मेघा इव महाचलम्
कृष्णश्चिच्छेद चक्रेण तान्यस्त्राणि दिवौकसाम् ॥ ९६ ॥

विश्वास-प्रस्तुतिः

वैनतयस्तु सङ्क्रुद्धः पक्षपातेन वीर्यवान्
पातयामास तान्देवान्पलालानीव मारुतः ॥ ९७ ॥

मूलम्

वैनतयस्तु सङ्क्रुद्धः पक्षपातेन वीर्यवान्
पातयामास तान्देवान्पलालानीव मारुतः ॥ ९७ ॥

विश्वास-प्रस्तुतिः

ततः क्रुद्धः सहस्राक्षो देवानामीश्वरः प्रभुः
मुमोच सहसा दीप्तं वज्रं कृष्णजिघांसया ॥ ९८ ॥

मूलम्

ततः क्रुद्धः सहस्राक्षो देवानामीश्वरः प्रभुः
मुमोच सहसा दीप्तं वज्रं कृष्णजिघांसया ॥ ९८ ॥

विश्वास-प्रस्तुतिः

जग्राह कृष्णस्तं वज्रं हस्तेनैकेन लीलया
ततो भीतः सहस्राक्षो नागेन्द्रादवरुह्य सः ॥ ९९ ॥

मूलम्

जग्राह कृष्णस्तं वज्रं हस्तेनैकेन लीलया
ततो भीतः सहस्राक्षो नागेन्द्रादवरुह्य सः ॥ ९९ ॥

प्राञ्जलिः पुरतः स्थित्वा नमस्कृत्वा जनार्दनम्
प्राह गद्गदया वाचा स्तुत्वा स्तुतिभिरेव च १०० 6.249.100
इन्द्र उवाच-
देवयोग्यमिदं कृष्ण पारिजातं त्वया पुरा
दत्तो मम सुराणां च कथं स्थास्यति मानुषे १०१
महादेव उवाच-
ततः प्रोवाच भगवान्सहस्राक्षमुपस्थितम्
शच्यावमानिता सत्या तव गेहे सुरेश्वर १०२
अदत्त्वा पारिजातानि सत्यायै सा पुलोमजा
स्वयमेव स्वशिरसि धारयामास ते प्रिया १०३
अस्या निमित्तं देवेन्द्र पारिजातो हृतो मया
अस्यै प्रतिश्रुतं दातुं मया सुरगणेश्वर १०४
तव गेहे पारिजातं स्थापयामीति वासव
तस्मादद्य न दातव्यः पारिजातः सुरेश्वर १०५
देवतानां हितार्थाय प्रापयिष्यामि भूतले
तावत्तिष्ठतु देवेन्द्र पारिजातो ममालये १०६
मयि स्वर्गं गते शक्र गृहाण त्वं यथेच्छया
महादेव उवाच-
एवमुक्त्वा यदुश्रेष्ठस्तस्मै वज्रं ददौ स्वयम् १०७
एवमस्त्विति गोविन्दं नमस्कृत्य स वज्रभृत्
प्रययौ स्वपुरं दिव्यं सह देवगणैर्वृतः १०८
कृष्णोऽपि सत्यया देव्या गरुडोपरि संस्थितः
संस्तूयमानो मुनिभिर्द्वारवत्यां विवेश ह १०९
सत्यया निकटे स्थाप्य पारिजातं सुरद्रुमम्
रमयामास भार्याभिः सर्वाभिः सर्वगो हरिः ११०
निशासु तासां सर्वासां गृहेषु मधुसूदनः
विश्वरूपधरः श्रीमानुवास स सुखप्रदः १११
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे
उमामहेश्वरसंवादे श्रीकृष्णचरिते श्रीवासुदेवविवाहकथनं नामैकोनपञ्चाशदधिकद्विशततमोऽध्यायः २४९