२४८

रुद्र उवाच-

विश्वास-प्रस्तुतिः

अथ कृष्णस्तु रामेण रुक्मिण्या दारुकेण च
दिव्यं स्यन्दनमारुह्य ययौ तूर्णं स्वमालयम् ॥ १ ॥

मूलम्

अथ कृष्णस्तु रामेण रुक्मिण्या दारुकेण च
दिव्यं स्यन्दनमारुह्य ययौ तूर्णं स्वमालयम् ॥ १ ॥

विश्वास-प्रस्तुतिः

ततः प्रविश्य नगरीं द्वारकां देवकीसुतः
शुभेह्रि शुभलग्ने वै वेदोक्तविधिना हरिः ॥ २ ॥

मूलम्

ततः प्रविश्य नगरीं द्वारकां देवकीसुतः
शुभेह्रि शुभलग्ने वै वेदोक्तविधिना हरिः ॥ २ ॥

विश्वास-प्रस्तुतिः

उपयेमे नृपसुतां रुक्मिणीं रुक्मभूषिताम्
तस्मिन्नुद्वाहसमये देवदुन्दुभयो दिवि ॥ ३ ॥

मूलम्

उपयेमे नृपसुतां रुक्मिणीं रुक्मभूषिताम्
तस्मिन्नुद्वाहसमये देवदुन्दुभयो दिवि ॥ ३ ॥

विश्वास-प्रस्तुतिः

विनेदुः पुष्पवर्षाणि ववृषुः सुरसत्तमाः
वसुदेवोग्रसेनौ च तथाक्रूरो यदूत्तमः ॥ ४ ॥

मूलम्

विनेदुः पुष्पवर्षाणि ववृषुः सुरसत्तमाः
वसुदेवोग्रसेनौ च तथाक्रूरो यदूत्तमः ॥ ४ ॥

विश्वास-प्रस्तुतिः

बलभद्रो महातेजा ये चान्ये यदुपुङ्गवाः
चक्रुः कृष्णस्य रुक्मिण्या विवाहं सुसुखं यथा ॥ ५ ॥

मूलम्

बलभद्रो महातेजा ये चान्ये यदुपुङ्गवाः
चक्रुः कृष्णस्य रुक्मिण्या विवाहं सुसुखं यथा ॥ ५ ॥

विश्वास-प्रस्तुतिः

नन्दगोपोथ गोपालैर्गोपवृन्दैः समागतः
स्वलङ्कृताभिर्योषाभिर्यशोदा च समागता ॥ ६ ॥

मूलम्

नन्दगोपोथ गोपालैर्गोपवृन्दैः समागतः
स्वलङ्कृताभिर्योषाभिर्यशोदा च समागता ॥ ६ ॥

विश्वास-प्रस्तुतिः

वसुदेवस्त्रियः सर्वा देवकीप्रमुखास्तथा
रेवती रोहिणी देवी याश्चान्याः पुरयोषितः ॥ ७ ॥

मूलम्

वसुदेवस्त्रियः सर्वा देवकीप्रमुखास्तथा
रेवती रोहिणी देवी याश्चान्याः पुरयोषितः ॥ ७ ॥

विश्वास-प्रस्तुतिः

सर्वाण्युद्वाहकर्माणि चक्रुर्हर्षसमन्विताः
सुराणामर्चनं प्रीत्या कर्त्तव्यं तत्र देवकी ॥ ८ ॥

मूलम्

सर्वाण्युद्वाहकर्माणि चक्रुर्हर्षसमन्विताः
सुराणामर्चनं प्रीत्या कर्त्तव्यं तत्र देवकी ॥ ८ ॥

विश्वास-प्रस्तुतिः

वृद्धाभिर्नृपयोषिद्भिश्चकार विधिना तदा
सर्वमौद्वाहिकं कर्म उत्सवं हि द्विजोत्तमैः ॥ ९ ॥

मूलम्

वृद्धाभिर्नृपयोषिद्भिश्चकार विधिना तदा
सर्वमौद्वाहिकं कर्म उत्सवं हि द्विजोत्तमैः ॥ ९ ॥

विश्वास-प्रस्तुतिः

ब्राह्मणान्भोजयामास वस्त्रैराभरणैः शुभैः
उग्रसेनादयस्तत्र राजानश्च सुपूजिताः ॥ १० ॥

मूलम्

ब्राह्मणान्भोजयामास वस्त्रैराभरणैः शुभैः
उग्रसेनादयस्तत्र राजानश्च सुपूजिताः ॥ १० ॥

विश्वास-प्रस्तुतिः

नन्दगोपादयो गोपा यशोदाद्याश्च योषितः
बहुभिः स्वर्णरत्नाद्यैर्वासोभिः सविभूषणैः ॥ ११ ॥

मूलम्

नन्दगोपादयो गोपा यशोदाद्याश्च योषितः
बहुभिः स्वर्णरत्नाद्यैर्वासोभिः सविभूषणैः ॥ ११ ॥

विश्वास-प्रस्तुतिः

पूजिताः सम्प्रहृष्टास्ते तद्विवाहमहोत्सवे
तौ दम्पती समाश्लिष्य प्रणतौ जातवेदसम् ॥ १२ ॥

मूलम्

पूजिताः सम्प्रहृष्टास्ते तद्विवाहमहोत्सवे
तौ दम्पती समाश्लिष्य प्रणतौ जातवेदसम् ॥ १२ ॥

विश्वास-प्रस्तुतिः

वेदविद्भिर्विप्रमुख्यैराशीर्भिरभिनन्दितौ
तस्यां विवाहवेद्यां तु शुशुभाते वधूवरौ ॥ १३ ॥

मूलम्

वेदविद्भिर्विप्रमुख्यैराशीर्भिरभिनन्दितौ
तस्यां विवाहवेद्यां तु शुशुभाते वधूवरौ ॥ १३ ॥

विश्वास-प्रस्तुतिः

ब्राह्मणेभ्योऽथ वृद्धेभ्यो राजन्यः सह भार्य्यया
ववन्दे देवकीपुत्रो ज्येष्ठस्य भ्रातुरेव च ॥ १४ ॥

मूलम्

ब्राह्मणेभ्योऽथ वृद्धेभ्यो राजन्यः सह भार्य्यया
ववन्दे देवकीपुत्रो ज्येष्ठस्य भ्रातुरेव च ॥ १४ ॥

विश्वास-प्रस्तुतिः

एवमौद्वाहिकं सर्वं निर्वर्त्य मधुसूदनः
व्यसर्जयन्नृपान्सर्वान्ये च तत्र समागताः ॥ १५ ॥

मूलम्

एवमौद्वाहिकं सर्वं निर्वर्त्य मधुसूदनः
व्यसर्जयन्नृपान्सर्वान्ये च तत्र समागताः ॥ १५ ॥

विश्वास-प्रस्तुतिः

प्रस्थिता हरिणा तत्र पूजिता नृपपुङ्गवाः
ब्राह्मणाः सुमहात्मानो निर्ययुः स्वकमालयम् ॥ १६ ॥

मूलम्

प्रस्थिता हरिणा तत्र पूजिता नृपपुङ्गवाः
ब्राह्मणाः सुमहात्मानो निर्ययुः स्वकमालयम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

रुक्मिण्या सह धर्मात्मा देवकीनन्दनोऽव्ययः
उवास सुसुखेनैव दिव्यहर्म्यतले शुभे ॥ १७ ॥

मूलम्

रुक्मिण्या सह धर्मात्मा देवकीनन्दनोऽव्ययः
उवास सुसुखेनैव दिव्यहर्म्यतले शुभे ॥ १७ ॥

विश्वास-प्रस्तुतिः

तया वै रमयामास नारायण इव श्रिया
संस्तूयमानो मुनिभिर्दिवि देवगणैरपि ॥ १८ ॥

मूलम्

तया वै रमयामास नारायण इव श्रिया
संस्तूयमानो मुनिभिर्दिवि देवगणैरपि ॥ १८ ॥

विश्वास-प्रस्तुतिः

अहन्यहनि हृष्टात्मा सुखेनैव जनार्दनः
अथोवास सुशोभायां द्वारवत्यां सनातनः ॥ १९ ॥

मूलम्

अहन्यहनि हृष्टात्मा सुखेनैव जनार्दनः
अथोवास सुशोभायां द्वारवत्यां सनातनः ॥ १९ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वरसंवादे श्रीकृष्णचरिते रुक्मिणीविवाहकथनन्नाम अष्टाचत्वारिंशदधिकद्विशततमोऽध्यायः २४८