२४७

रुद्र उवाच-

विश्वास-प्रस्तुतिः

हत्वाथ यवनं तत्र मुचुकुन्देन धीमता
दत्त्वा तस्मै वरं मुक्तिं निष्क्रान्तो यदुनन्दनः ॥ १ ॥

मूलम्

हत्वाथ यवनं तत्र मुचुकुन्देन धीमता
दत्त्वा तस्मै वरं मुक्तिं निष्क्रान्तो यदुनन्दनः ॥ १ ॥

विश्वास-प्रस्तुतिः

हतं च यवनं श्रुत्वा जरासन्धः सुदुर्मतिः
ययुधे रामकृष्णाभ्यां स्वबलेन समावृतः ॥ २ ॥

मूलम्

हतं च यवनं श्रुत्वा जरासन्धः सुदुर्मतिः
ययुधे रामकृष्णाभ्यां स्वबलेन समावृतः ॥ २ ॥

विश्वास-प्रस्तुतिः

कृष्णेन निहतं सैन्यं सर्वं तस्य दुरात्मनः
स पपात महीपृष्ठे मूर्च्छितो मगधाधिपः ॥ ३ ॥

मूलम्

कृष्णेन निहतं सैन्यं सर्वं तस्य दुरात्मनः
स पपात महीपृष्ठे मूर्च्छितो मगधाधिपः ॥ ३ ॥

विश्वास-प्रस्तुतिः

चिरेण लब्ध्वा सञ्ज्ञां तु विह्वलाङ्गो भयातुरः
न शशाक रणे योद्धुं रामेण मगधेश्वरः ॥ ४ ॥

मूलम्

चिरेण लब्ध्वा सञ्ज्ञां तु विह्वलाङ्गो भयातुरः
न शशाक रणे योद्धुं रामेण मगधेश्वरः ॥ ४ ॥

विश्वास-प्रस्तुतिः

विमुखः प्राद्रवत्तूर्णं हतशेषबलानुगः
अजेयाविति तौ मत्वा रामकृष्णौ महाबलौ ॥ ५ ॥

मूलम्

विमुखः प्राद्रवत्तूर्णं हतशेषबलानुगः
अजेयाविति तौ मत्वा रामकृष्णौ महाबलौ ॥ ५ ॥

विश्वास-प्रस्तुतिः

तयोर्विरोधं त्यक्त्वाथ नगरीं स्वां विवेश ह
अथ तौ वसुदेवस्य तनयौ सह सेनया ॥ ६ ॥

मूलम्

तयोर्विरोधं त्यक्त्वाथ नगरीं स्वां विवेश ह
अथ तौ वसुदेवस्य तनयौ सह सेनया ॥ ६ ॥

विश्वास-प्रस्तुतिः

मथुरां त्यज्य नगरीं प्रविष्टौ द्वारिकां पुरीम्
इन्द्रेण प्रेषितो वायुः सभां तत्र दिवौकसाम् ॥ ७ ॥

मूलम्

मथुरां त्यज्य नगरीं प्रविष्टौ द्वारिकां पुरीम्
इन्द्रेण प्रेषितो वायुः सभां तत्र दिवौकसाम् ॥ ७ ॥

विश्वास-प्रस्तुतिः

कृष्णाय प्रददौ प्रीत्या निर्मितां विश्वकर्मणा
वज्रवैडूर्यरचितां बह्वासनविचित्रिताम् ॥ ८ ॥

मूलम्

कृष्णाय प्रददौ प्रीत्या निर्मितां विश्वकर्मणा
वज्रवैडूर्यरचितां बह्वासनविचित्रिताम् ॥ ८ ॥

विश्वास-प्रस्तुतिः

नानारत्नमयैर्दिव्यैः स्वर्णच्छत्रैर्विराजिताम्
तां प्राप्य रम्यां तु सभामुग्रसेनादयो नृपाः ॥ ९ ॥

मूलम्

नानारत्नमयैर्दिव्यैः स्वर्णच्छत्रैर्विराजिताम्
तां प्राप्य रम्यां तु सभामुग्रसेनादयो नृपाः ॥ ९ ॥

विश्वास-प्रस्तुतिः

मोदन्ते नैगमैः सार्द्धं दिवि देवगणा इव
इक्ष्वाकुवंशसम्भूतो रैवतो नाम पार्थिवः ॥ १० ॥

मूलम्

मोदन्ते नैगमैः सार्द्धं दिवि देवगणा इव
इक्ष्वाकुवंशसम्भूतो रैवतो नाम पार्थिवः ॥ १० ॥

विश्वास-प्रस्तुतिः

कन्यां दुहितरं स्वस्य सर्वलक्षणसंयुताम्
रामाय प्रददौ प्रीत्या रेवती नाम नामतः ॥ ११ ॥

मूलम्

कन्यां दुहितरं स्वस्य सर्वलक्षणसंयुताम्
रामाय प्रददौ प्रीत्या रेवती नाम नामतः ॥ ११ ॥

विश्वास-प्रस्तुतिः

उपयेमे विधानेन स रामस्तां च रेवतीम्
रमयामास च तया शच्या इव सुरेश्वरः ॥ १२ ॥

मूलम्

उपयेमे विधानेन स रामस्तां च रेवतीम्
रमयामास च तया शच्या इव सुरेश्वरः ॥ १२ ॥

विश्वास-प्रस्तुतिः

विदर्भराजो धर्मात्मा भीष्मको नाम धार्मिकः
बभूवुस्तस्य पुत्रास्तु रुक्मप्रभृतयः शुभाः ॥ १३ ॥

मूलम्

विदर्भराजो धर्मात्मा भीष्मको नाम धार्मिकः
बभूवुस्तस्य पुत्रास्तु रुक्मप्रभृतयः शुभाः ॥ १३ ॥

विश्वास-प्रस्तुतिः

तेषामवरजा कन्या रुक्मिणी वरवर्णिनी
कमलांशेन सम्भूता सर्वलक्षणसंयुता ॥ १४ ॥

मूलम्

तेषामवरजा कन्या रुक्मिणी वरवर्णिनी
कमलांशेन सम्भूता सर्वलक्षणसंयुता ॥ १४ ॥

विश्वास-प्रस्तुतिः

राघवत्वेभवत्सीता रुक्मिणी कृष्णजन्मनि
अन्येष्वेवावतारेषु विष्णोरेषा सहायिनी ॥ १५ ॥

मूलम्

राघवत्वेभवत्सीता रुक्मिणी कृष्णजन्मनि
अन्येष्वेवावतारेषु विष्णोरेषा सहायिनी ॥ १५ ॥

विश्वास-प्रस्तुतिः

हिरण्यक हिरण्याक्षौ सम्भूतौ द्वापरे पुनः
शिशुपालो दन्तवक्त्र इति नाम समन्वितौ ॥ १६ ॥

मूलम्

हिरण्यक हिरण्याक्षौ सम्भूतौ द्वापरे पुनः
शिशुपालो दन्तवक्त्र इति नाम समन्वितौ ॥ १६ ॥

विश्वास-प्रस्तुतिः

चैद्यान्वये समुद्भूतौ महाबलपराक्रमौ
रुक्मिणी शिशुपालाय दातुमैच्छत्तदात्मजः ॥ १७ ॥

मूलम्

चैद्यान्वये समुद्भूतौ महाबलपराक्रमौ
रुक्मिणी शिशुपालाय दातुमैच्छत्तदात्मजः ॥ १७ ॥

विश्वास-प्रस्तुतिः

तं नेच्छती पतिं सा तु शिशुपालं शुभानना
बाल्यात्प्रभृति वै विष्णुमनुरक्ता दृढव्रता ॥ १८ ॥

मूलम्

तं नेच्छती पतिं सा तु शिशुपालं शुभानना
बाल्यात्प्रभृति वै विष्णुमनुरक्ता दृढव्रता ॥ १८ ॥

विश्वास-प्रस्तुतिः

उद्दिश्य कृष्णं भर्त्तारं सुराणामर्चनं सदा
चकार रुक्मिणी कन्या दानानि विविधानि च ॥ १९ ॥

मूलम्

उद्दिश्य कृष्णं भर्त्तारं सुराणामर्चनं सदा
चकार रुक्मिणी कन्या दानानि विविधानि च ॥ १९ ॥

विश्वास-प्रस्तुतिः

व्रतचर्यापराभूत्वा ध्यायन्ती पुरुषोत्तमम्
आत्मेशं स्वस्य भर्तारमुवास पितृमन्दिरे ॥ २० ॥

मूलम्

व्रतचर्यापराभूत्वा ध्यायन्ती पुरुषोत्तमम्
आत्मेशं स्वस्य भर्तारमुवास पितृमन्दिरे ॥ २० ॥

विश्वास-प्रस्तुतिः

कर्त्तुं तां शिशुपालाय विवाहं पार्थिवोत्तमः
चकार यत्नं पुत्रेण रुक्मिणा सविधीमता ॥ २१ ॥

मूलम्

कर्त्तुं तां शिशुपालाय विवाहं पार्थिवोत्तमः
चकार यत्नं पुत्रेण रुक्मिणा सविधीमता ॥ २१ ॥

विश्वास-प्रस्तुतिः

पुरोहितसुतं विप्रं प्रेषयामास रुक्मिणी
उद्दिश्य कृष्णं भर्त्तारं स तूर्णं द्वारकां ययौ ॥ २२ ॥

मूलम्

पुरोहितसुतं विप्रं प्रेषयामास रुक्मिणी
उद्दिश्य कृष्णं भर्त्तारं स तूर्णं द्वारकां ययौ ॥ २२ ॥

विश्वास-प्रस्तुतिः

समेत्य कृष्णं रामं च ताभ्यां विधिवदर्चितः
एकान्ते सर्वमाचष्ट रुक्मिणीभाषितं तयोः ॥ २३ ॥

मूलम्

समेत्य कृष्णं रामं च ताभ्यां विधिवदर्चितः
एकान्ते सर्वमाचष्ट रुक्मिणीभाषितं तयोः ॥ २३ ॥

विश्वास-प्रस्तुतिः

तच्छ्रुत्वा रामकृष्णौ तु तेन विप्रेण धीमता
सर्वशस्त्रास्त्रसम्पूर्णं रथमाकाशगं प्रभुः ॥ २४ ॥

मूलम्

तच्छ्रुत्वा रामकृष्णौ तु तेन विप्रेण धीमता
सर्वशस्त्रास्त्रसम्पूर्णं रथमाकाशगं प्रभुः ॥ २४ ॥

विश्वास-प्रस्तुतिः

आरुह्य सूतमुख्येन दारुकेण महात्मना
विदर्भनगरीं तूर्णं जग्मतुः पुरुषोत्तमौ ॥ २५ ॥

मूलम्

आरुह्य सूतमुख्येन दारुकेण महात्मना
विदर्भनगरीं तूर्णं जग्मतुः पुरुषोत्तमौ ॥ २५ ॥

विश्वास-प्रस्तुतिः

राजानः सर्वराष्ट्रेभ्यो विवाहं द्रष्टुमागताः
जरासन्धमुखाः सर्वे शिशुपालस्य धीमतः ॥ २६ ॥

मूलम्

राजानः सर्वराष्ट्रेभ्यो विवाहं द्रष्टुमागताः
जरासन्धमुखाः सर्वे शिशुपालस्य धीमतः ॥ २६ ॥

विश्वास-प्रस्तुतिः

तस्मिन्नुद्वाहसमये रुक्मिणी रुक्मभूषणा
दुर्गां निःसृतार्चयितुं सखीभिर्नगराद्बहिः ॥ २७ ॥

मूलम्

तस्मिन्नुद्वाहसमये रुक्मिणी रुक्मभूषणा
दुर्गां निःसृतार्चयितुं सखीभिर्नगराद्बहिः ॥ २७ ॥

विश्वास-प्रस्तुतिः

एतस्मिन्नेव काले तु सम्प्राप्तो देवकीसुतः
रथस्थां तां च जग्राह बलवान्मधुसूदनः ॥ २८ ॥

मूलम्

एतस्मिन्नेव काले तु सम्प्राप्तो देवकीसुतः
रथस्थां तां च जग्राह बलवान्मधुसूदनः ॥ २८ ॥

विश्वास-प्रस्तुतिः

सहसा रथमारोप्य ययौ तूर्णं स्वमालयम्
ततः क्रोधसमाविष्टा जरासन्धमुखा नृपाः ॥ २९ ॥

मूलम्

सहसा रथमारोप्य ययौ तूर्णं स्वमालयम्
ततः क्रोधसमाविष्टा जरासन्धमुखा नृपाः ॥ २९ ॥

विश्वास-प्रस्तुतिः

रुक्मिणा राजपुत्रेण युद्धाय समुपस्थिताः
अनुयाता हरिं क्रुद्धाश्चतुरङ्गबलान्विताः ॥ ३० ॥

मूलम्

रुक्मिणा राजपुत्रेण युद्धाय समुपस्थिताः
अनुयाता हरिं क्रुद्धाश्चतुरङ्गबलान्विताः ॥ ३० ॥

विश्वास-प्रस्तुतिः

बलभद्रो महाबाहुरवरुह्य रथोत्तमात्
लाङ्गलं मुशलं गृह्य निजघान क्षणादरीन् ॥ ३१ ॥

मूलम्

बलभद्रो महाबाहुरवरुह्य रथोत्तमात्
लाङ्गलं मुशलं गृह्य निजघान क्षणादरीन् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

रथानश्वान्महानागांस्तथा पादचरानपि
लाङ्गलमुशलाम्यां वै निजघान बलाद्रणे ॥ ३२ ॥

मूलम्

रथानश्वान्महानागांस्तथा पादचरानपि
लाङ्गलमुशलाम्यां वै निजघान बलाद्रणे ॥ ३२ ॥

विश्वास-प्रस्तुतिः

तस्य लाङ्गलपातेन चूर्णिता रथपङ्क्तयः
नागाश्च पतिता भूमौ वज्रेणेव महीधराः ॥ ३३ ॥

मूलम्

तस्य लाङ्गलपातेन चूर्णिता रथपङ्क्तयः
नागाश्च पतिता भूमौ वज्रेणेव महीधराः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

निर्भिन्नमस्तकाः सर्वे वमन्तो रुधिरं बहु
क्षणेनैव हतं सैन्यं बलरामेण वै तदा ॥ ३४ ॥

मूलम्

निर्भिन्नमस्तकाः सर्वे वमन्तो रुधिरं बहु
क्षणेनैव हतं सैन्यं बलरामेण वै तदा ॥ ३४ ॥

विश्वास-प्रस्तुतिः

साश्वं सनागं सरथं सपदातिं महारणे
समन्तात्समरे तत्र सुस्रुवुः शोणितापगाः ॥ ३५ ॥

मूलम्

साश्वं सनागं सरथं सपदातिं महारणे
समन्तात्समरे तत्र सुस्रुवुः शोणितापगाः ॥ ३५ ॥

विश्वास-प्रस्तुतिः

प्रभग्नाः पार्थिवाः सर्वे दुद्रुवुर्भयपीडिताः
कृष्णेन कदनं चक्रे रुक्मी क्रोधवशाद्बली ॥ ३६ ॥

मूलम्

प्रभग्नाः पार्थिवाः सर्वे दुद्रुवुर्भयपीडिताः
कृष्णेन कदनं चक्रे रुक्मी क्रोधवशाद्बली ॥ ३६ ॥

विश्वास-प्रस्तुतिः

धनुरुद्यम्य बाणौघैस्ताडयामास शार्ङ्गिणम्
ततः प्रहस्य गोविन्दः शार्ङ्गमादाय लीलया ॥ ३७ ॥

मूलम्

धनुरुद्यम्य बाणौघैस्ताडयामास शार्ङ्गिणम्
ततः प्रहस्य गोविन्दः शार्ङ्गमादाय लीलया ॥ ३७ ॥

विश्वास-प्रस्तुतिः

जघानैकेनबाणेन रथाश्वांस्तस्य सारथिम्
रथन्ध्वजं पताकां च चिच्छेद धरणीधरः ॥ ३८ ॥

मूलम्

जघानैकेनबाणेन रथाश्वांस्तस्य सारथिम्
रथन्ध्वजं पताकां च चिच्छेद धरणीधरः ॥ ३८ ॥

विश्वास-प्रस्तुतिः

विरथः खङ्गमादाय धरण्यां स उपस्थितः
कृष्णस्तु खङ्गं चिच्छेद बाणेनैकेन वीर्यवान् ॥ ३९ ॥

मूलम्

विरथः खङ्गमादाय धरण्यां स उपस्थितः
कृष्णस्तु खङ्गं चिच्छेद बाणेनैकेन वीर्यवान् ॥ ३९ ॥

विश्वास-प्रस्तुतिः

ततः स मुष्टिमुद्यम्य कृष्णं वक्षस्यताडयत्
तं जग्राह रणे वीरं निबध्य निबिडं हरिः ॥ ४० ॥

मूलम्

ततः स मुष्टिमुद्यम्य कृष्णं वक्षस्यताडयत्
तं जग्राह रणे वीरं निबध्य निबिडं हरिः ॥ ४० ॥

विश्वास-प्रस्तुतिः

तीक्ष्णं क्षुरप्रमादाय प्रहसन्मधुसूदनः
शिरसो मुण्डनं कृत्वा मुमोच च जनार्दनः ॥ ४१ ॥

मूलम्

तीक्ष्णं क्षुरप्रमादाय प्रहसन्मधुसूदनः
शिरसो मुण्डनं कृत्वा मुमोच च जनार्दनः ॥ ४१ ॥

विश्वास-प्रस्तुतिः

स तु शोकसमाविष्टो निःश्वसन्नुरगो यथा
आविवेश पुरं स्वीयं स तु तत्रैव चावसत् ॥ ४२ ॥

मूलम्

स तु शोकसमाविष्टो निःश्वसन्नुरगो यथा
आविवेश पुरं स्वीयं स तु तत्रैव चावसत् ॥ ४२ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वरसंवादे श्रीकृष्णचरिते विदर्भसेनाविध्वंसनन्नाम सप्तचत्वारिंशदधिकद्विशततमोऽध्यायः २४७