२४६

श्रीमहेश्वर उवाच-

विश्वास-प्रस्तुतिः

अथोपनयनं नाम चकारानकदुन्दुभिः
पुत्रयोर्वेदविधिना तस्मिन्वै रामकृष्णयोः ॥ १ ॥

मूलम्

अथोपनयनं नाम चकारानकदुन्दुभिः
पुत्रयोर्वेदविधिना तस्मिन्वै रामकृष्णयोः ॥ १ ॥

विश्वास-प्रस्तुतिः

आचार्येण हि गर्गेण संस्कृतौ रामकेशवौ
पण्डितैर्वैष्णवैर्दिव्यैः स्नापनैर्विमलैः शुभैः ॥ २ ॥

मूलम्

आचार्येण हि गर्गेण संस्कृतौ रामकेशवौ
पण्डितैर्वैष्णवैर्दिव्यैः स्नापनैर्विमलैः शुभैः ॥ २ ॥

विश्वास-प्रस्तुतिः

कृतसंस्कारकर्माणौ रामकृष्णौ महाबलौ
सान्दीपनेर्गृहं गत्वा नमस्कृत्य महात्मनः ॥ ३ ॥

मूलम्

कृतसंस्कारकर्माणौ रामकृष्णौ महाबलौ
सान्दीपनेर्गृहं गत्वा नमस्कृत्य महात्मनः ॥ ३ ॥

विश्वास-प्रस्तुतिः

अधीत्य वेदशास्त्राणि तस्मात्तौ द्विजपुङ्गवात्
मृतं पुत्रं समानीय ददतुस्तस्य दक्षिणाम् ॥ ४ ॥

मूलम्

अधीत्य वेदशास्त्राणि तस्मात्तौ द्विजपुङ्गवात्
मृतं पुत्रं समानीय ददतुस्तस्य दक्षिणाम् ॥ ४ ॥

विश्वास-प्रस्तुतिः

आशिषो वचनं लब्ध्वा गुरोस्तस्मान्महात्मनः
तस्मै प्रणम्य मथुरां जग्मतुर्यदुपुङ्गवौ ॥ ५ ॥

मूलम्

आशिषो वचनं लब्ध्वा गुरोस्तस्मान्महात्मनः
तस्मै प्रणम्य मथुरां जग्मतुर्यदुपुङ्गवौ ॥ ५ ॥

विश्वास-प्रस्तुतिः

अथ कृष्णेन निहतं श्रुत्वा कंसं दुरासदम्
श्वशुरस्तस्य नृपतेर्जरासन्धो महाबलः ॥ ६ ॥

मूलम्

अथ कृष्णेन निहतं श्रुत्वा कंसं दुरासदम्
श्वशुरस्तस्य नृपतेर्जरासन्धो महाबलः ॥ ६ ॥

विश्वास-प्रस्तुतिः

अक्षौहिणीसहस्रैस्तु सेनानीकैर्महाबलैः
कृष्णं हन्तुं समागत्य रुरोध मथुरां पुरीम् ॥ ७ ॥

मूलम्

अक्षौहिणीसहस्रैस्तु सेनानीकैर्महाबलैः
कृष्णं हन्तुं समागत्य रुरोध मथुरां पुरीम् ॥ ७ ॥

विश्वास-प्रस्तुतिः

रामकृष्णौ महावीर्यौ विनिर्गत्य पुरोत्तमात्
गजवाजिसमाकीर्णं तद्बलौघमपश्यताम् ॥ ८ ॥

मूलम्

रामकृष्णौ महावीर्यौ विनिर्गत्य पुरोत्तमात्
गजवाजिसमाकीर्णं तद्बलौघमपश्यताम् ॥ ८ ॥

विश्वास-प्रस्तुतिः

सस्मार वासुदेवस्तु पूर्वं रूपं सनातनम्
तस्य स्मरणमात्रेण दारुको विष्णुसारथिः ॥ ९ ॥

मूलम्

सस्मार वासुदेवस्तु पूर्वं रूपं सनातनम्
तस्य स्मरणमात्रेण दारुको विष्णुसारथिः ॥ ९ ॥

विश्वास-प्रस्तुतिः

सुग्रीवपुष्पकं नाम समानीय महारथम्
वाजिभिर्दिव्यपुष्पाद्यैरुह्यमानं सनातनम् ॥ १० ॥

मूलम्

सुग्रीवपुष्पकं नाम समानीय महारथम्
वाजिभिर्दिव्यपुष्पाद्यैरुह्यमानं सनातनम् ॥ १० ॥

विश्वास-प्रस्तुतिः

दिव्यायुधैरुपेतं तं शङ्खचक्रगदादिभिः
वैनतेयपताकेन शोभितं देवदुर्जयम् ॥ ११ ॥

मूलम्

दिव्यायुधैरुपेतं तं शङ्खचक्रगदादिभिः
वैनतेयपताकेन शोभितं देवदुर्जयम् ॥ ११ ॥

विश्वास-प्रस्तुतिः

अवनीं प्राप्य गोविन्दं प्रणम्य हरिसारथिः
प्रददौ स्यन्दनं शुभ्रं सायुधाश्वसमन्वितम् ॥ १२ ॥

मूलम्

अवनीं प्राप्य गोविन्दं प्रणम्य हरिसारथिः
प्रददौ स्यन्दनं शुभ्रं सायुधाश्वसमन्वितम् ॥ १२ ॥

विश्वास-प्रस्तुतिः

दृष्ट्वा हर्षेण कृष्णोऽपि परिणीय महारथम्
आरुरोहाग्रजेनैव स्तूयमानो मरुद्गणैः ॥ १३ ॥

मूलम्

दृष्ट्वा हर्षेण कृष्णोऽपि परिणीय महारथम्
आरुरोहाग्रजेनैव स्तूयमानो मरुद्गणैः ॥ १३ ॥

विश्वास-प्रस्तुतिः

चतुर्भुजं वपुर्भूत्वा शङ्खचक्रगदासिभृत्
किरीटी कुण्डली स्रग्वी सङ्ग्रामाभिमुखं ययौ ॥ १४ ॥

मूलम्

चतुर्भुजं वपुर्भूत्वा शङ्खचक्रगदासिभृत्
किरीटी कुण्डली स्रग्वी सङ्ग्रामाभिमुखं ययौ ॥ १४ ॥

विश्वास-प्रस्तुतिः

बलदेवोऽपि मुशलं लाङ्गलं गृह्य वीर्यवान्
तत्सैन्यं हन्तुमारेभे महेश्वर इवापरः ॥ १५ ॥

मूलम्

बलदेवोऽपि मुशलं लाङ्गलं गृह्य वीर्यवान्
तत्सैन्यं हन्तुमारेभे महेश्वर इवापरः ॥ १५ ॥

विश्वास-प्रस्तुतिः

दारुकश्च रथं शीघ्रं नोदयामास तद्रणे
तृणगुल्मलताक्रान्ते काननेऽग्निमिवानिलः ॥ १६ ॥

मूलम्

दारुकश्च रथं शीघ्रं नोदयामास तद्रणे
तृणगुल्मलताक्रान्ते काननेऽग्निमिवानिलः ॥ १६ ॥

विश्वास-प्रस्तुतिः

ततो गदाभिः परिघैः शक्तिभिर्मुद्गरैस्तथा
तद्रथं छादयामासुर्जरासन्धस्य सैनिकाः ॥ १७ ॥

मूलम्

ततो गदाभिः परिघैः शक्तिभिर्मुद्गरैस्तथा
तद्रथं छादयामासुर्जरासन्धस्य सैनिकाः ॥ १७ ॥

विश्वास-प्रस्तुतिः

चक्रेणैव हरिस्तूर्णं तानि चिच्छेद लीलया
बहूनि तृणकाष्ठानि महावह्निरिवार्चिषा ॥ १८ ॥

मूलम्

चक्रेणैव हरिस्तूर्णं तानि चिच्छेद लीलया
बहूनि तृणकाष्ठानि महावह्निरिवार्चिषा ॥ १८ ॥

विश्वास-प्रस्तुतिः

ततः शार्ङ्गं समादाय सायकैरक्षयैः शितैः
चिच्छेद तानि सैन्यानि न प्राज्ञायत किञ्चन ॥ १९ ॥

मूलम्

ततः शार्ङ्गं समादाय सायकैरक्षयैः शितैः
चिच्छेद तानि सैन्यानि न प्राज्ञायत किञ्चन ॥ १९ ॥

विश्वास-प्रस्तुतिः

चक्रच्छिन्नास्यकमलाः केचित्तत्र महाबलाः
गदया चूर्णिताः केचित्केचिदन्यैर्महारणे ॥ २० ॥

मूलम्

चक्रच्छिन्नास्यकमलाः केचित्तत्र महाबलाः
गदया चूर्णिताः केचित्केचिदन्यैर्महारणे ॥ २० ॥

विश्वास-प्रस्तुतिः

केचिच्चैवासिनाछिन्नास्तथान्ये शरताडिताः
लाङ्गलाग्रहतग्रीवा मुशलाहतमस्तकाः ॥ २१ ॥

मूलम्

केचिच्चैवासिनाछिन्नास्तथान्ये शरताडिताः
लाङ्गलाग्रहतग्रीवा मुशलाहतमस्तकाः ॥ २१ ॥

विश्वास-प्रस्तुतिः

क्षणेन तद्बलं सर्वं निहत्य मधुसूदनः
शङ्खं दध्मौ यदुश्रेष्ठो लयाशनि निभस्वनम् ॥ २२ ॥

मूलम्

क्षणेन तद्बलं सर्वं निहत्य मधुसूदनः
शङ्खं दध्मौ यदुश्रेष्ठो लयाशनि निभस्वनम् ॥ २२ ॥

विश्वास-प्रस्तुतिः

शङ्खरावविनिर्भिन्नहृदयास्ते महाबलाः
योधाः साश्वाः सनागाश्च पतितास्त्यक्तजीविताः ॥ २३ ॥

मूलम्

शङ्खरावविनिर्भिन्नहृदयास्ते महाबलाः
योधाः साश्वाः सनागाश्च पतितास्त्यक्तजीविताः ॥ २३ ॥

विश्वास-प्रस्तुतिः

अक्षौहिणीसहस्रं तु साश्वं सरथकुञ्जरम्
कृष्णेनैकेन निहतं निःशेषं तदभूद्बलम् ॥ २४ ॥

मूलम्

अक्षौहिणीसहस्रं तु साश्वं सरथकुञ्जरम्
कृष्णेनैकेन निहतं निःशेषं तदभूद्बलम् ॥ २४ ॥

विश्वास-प्रस्तुतिः

निहतं वासुदेवेन प्रहरार्द्धेन शार्ङ्गिणा
ततो देवगणाः सर्वे हर्षनिर्भरचेतसः ॥ २५ ॥

मूलम्

निहतं वासुदेवेन प्रहरार्द्धेन शार्ङ्गिणा
ततो देवगणाः सर्वे हर्षनिर्भरचेतसः ॥ २५ ॥

विश्वास-प्रस्तुतिः

ववृषुः पुष्पवर्षाणि साधुसाध्विति चाब्रुवन्
सर्वमप्यवनीभारं विमुच्य धरणीधरः ॥ २६ ॥

मूलम्

ववृषुः पुष्पवर्षाणि साधुसाध्विति चाब्रुवन्
सर्वमप्यवनीभारं विमुच्य धरणीधरः ॥ २६ ॥

विश्वास-प्रस्तुतिः

संस्तूयमानस्त्रिदशैर्बभौ सङ्ग्राममूर्द्धनि
निहतं स्वबलं दृष्ट्वा जरासन्धोऽतिवीर्यवान् ॥ २७ ॥

मूलम्

संस्तूयमानस्त्रिदशैर्बभौ सङ्ग्राममूर्द्धनि
निहतं स्वबलं दृष्ट्वा जरासन्धोऽतिवीर्यवान् ॥ २७ ॥

विश्वास-प्रस्तुतिः

योद्धुमभ्याययौ तूर्णं बलदेवेन दुर्मतिः
तयोर्युद्धमभूद्धोरं सङ्ग्रामेष्वनिवर्तिनोः ॥ २८ ॥

मूलम्

योद्धुमभ्याययौ तूर्णं बलदेवेन दुर्मतिः
तयोर्युद्धमभूद्धोरं सङ्ग्रामेष्वनिवर्तिनोः ॥ २८ ॥

विश्वास-प्रस्तुतिः

रामो लाङ्गलमादाय रथं तस्य ससारथिम्
विनिपात्य रणे शूरो गृहीत्वा तं महाबलम् ॥ २९ ॥

मूलम्

रामो लाङ्गलमादाय रथं तस्य ससारथिम्
विनिपात्य रणे शूरो गृहीत्वा तं महाबलम् ॥ २९ ॥

विश्वास-प्रस्तुतिः

उद्यम्य मुशलं तूर्णं तं हन्तुमुपचक्रमे
प्राणसंशयमापन्नं जरासन्धं नृपोत्तमम् ॥ ३० ॥

मूलम्

उद्यम्य मुशलं तूर्णं तं हन्तुमुपचक्रमे
प्राणसंशयमापन्नं जरासन्धं नृपोत्तमम् ॥ ३० ॥

विश्वास-प्रस्तुतिः

कृतं रामेण बलिना सिंहेनेव महागजम्
दृष्ट्वा कृष्णोग्रजं प्राह न हन्तव्य इति प्रभुः ॥ ३१ ॥

मूलम्

कृतं रामेण बलिना सिंहेनेव महागजम्
दृष्ट्वा कृष्णोग्रजं प्राह न हन्तव्य इति प्रभुः ॥ ३१ ॥

विश्वास-प्रस्तुतिः

मोचयामास धर्मात्मा जरासन्धं महामतिः
विमुच्य कृष्णवाक्येन शत्रुं सङ्कर्षणोऽव्ययः ॥ ३२ ॥

मूलम्

मोचयामास धर्मात्मा जरासन्धं महामतिः
विमुच्य कृष्णवाक्येन शत्रुं सङ्कर्षणोऽव्ययः ॥ ३२ ॥

विश्वास-प्रस्तुतिः

सानुजो रथमारुह्य मथुरां प्रविवेश ह
स कालयवनं प्राप्य महावीर्यं बलान्वितम् ॥ ३३ ॥

मूलम्

सानुजो रथमारुह्य मथुरां प्रविवेश ह
स कालयवनं प्राप्य महावीर्यं बलान्वितम् ॥ ३३ ॥

विश्वास-प्रस्तुतिः

पुत्रयोर्वसुदेवस्य समाचष्ट पराक्रमम्
दानवानां वधं चैव कंसस्य निधनं तथा ॥ ३४ ॥

मूलम्

पुत्रयोर्वसुदेवस्य समाचष्ट पराक्रमम्
दानवानां वधं चैव कंसस्य निधनं तथा ॥ ३४ ॥

विश्वास-प्रस्तुतिः

अक्षौहिणीनां च वधं तथा स्वस्य पराजयम्
सर्वं निवेदयामास कृष्णस्य चरितं महत् ॥ ३५ ॥

मूलम्

अक्षौहिणीनां च वधं तथा स्वस्य पराजयम्
सर्वं निवेदयामास कृष्णस्य चरितं महत् ॥ ३५ ॥

विश्वास-प्रस्तुतिः

तच्छ्रुत्वा यवनः क्रुद्धो महाबलपराक्रमैः
म्लेच्छकोटिसहस्रैस्तु संवृतो मदसंयुतैः ॥ ३६ ॥

मूलम्

तच्छ्रुत्वा यवनः क्रुद्धो महाबलपराक्रमैः
म्लेच्छकोटिसहस्रैस्तु संवृतो मदसंयुतैः ॥ ३६ ॥

विश्वास-प्रस्तुतिः

मगधाधिपतेस्तस्य सहायार्थं महाबलः
तेनैव सहितस्तूर्णं जगाम मथुरां पुरीम् ॥ ३७ ॥

मूलम्

मगधाधिपतेस्तस्य सहायार्थं महाबलः
तेनैव सहितस्तूर्णं जगाम मथुरां पुरीम् ॥ ३७ ॥

विश्वास-प्रस्तुतिः

बलैराच्छाद्य पृथिवीं नानाजनपदान्विताम्
सन्निवेश्य महासैन्यं रुरोध मथुरां पुरीम् ॥ ३८ ॥

मूलम्

बलैराच्छाद्य पृथिवीं नानाजनपदान्विताम्
सन्निवेश्य महासैन्यं रुरोध मथुरां पुरीम् ॥ ३८ ॥

विश्वास-प्रस्तुतिः

कृष्णोऽपि चिन्तयित्वाऽथ पौराणां कुशलं तदा
ययाचे सागरं भूमिं निवासार्थं जनस्य च ॥ ३९ ॥

मूलम्

कृष्णोऽपि चिन्तयित्वाऽथ पौराणां कुशलं तदा
ययाचे सागरं भूमिं निवासार्थं जनस्य च ॥ ३९ ॥

विश्वास-प्रस्तुतिः

त्रिंशद्योजनविस्तीर्णां ददौ कृष्णस्य सागरः
असृजत्पयसां मध्ये तत्र द्वारवतीं पुरीम् ॥ ४० ॥

मूलम्

त्रिंशद्योजनविस्तीर्णां ददौ कृष्णस्य सागरः
असृजत्पयसां मध्ये तत्र द्वारवतीं पुरीम् ॥ ४० ॥

विश्वास-प्रस्तुतिः

बहुप्रासादसंयुक्तां हेमप्राकारतोरणाम्
नानामणिमयैर्दिव्यैर्गृहपङ्क्तिभिरावृताम् ॥ ४१ ॥

मूलम्

बहुप्रासादसंयुक्तां हेमप्राकारतोरणाम्
नानामणिमयैर्दिव्यैर्गृहपङ्क्तिभिरावृताम् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

उद्यानैश्च तथा रम्यैस्तडागैर्बहुभिर्युताम्
असृजत्पुण्डरीकाक्षो यथेन्द्रस्यामरावतीम् ॥ ४२ ॥

मूलम्

उद्यानैश्च तथा रम्यैस्तडागैर्बहुभिर्युताम्
असृजत्पुण्डरीकाक्षो यथेन्द्रस्यामरावतीम् ॥ ४२ ॥

विश्वास-प्रस्तुतिः

सुषुप्तान्मथुरायां तु पौरांस्तत्र जनार्दनः
उद्धृत्य सहसा रात्रौ द्वारावत्यां निवेशयत् ॥ ४३ ॥

मूलम्

सुषुप्तान्मथुरायां तु पौरांस्तत्र जनार्दनः
उद्धृत्य सहसा रात्रौ द्वारावत्यां निवेशयत् ॥ ४३ ॥

विश्वास-प्रस्तुतिः

प्रबुद्धास्ते जनाः सर्वे पुत्रदारसमन्विताः
हेमहर्म्यतलेविष्टा विस्मयं परमं ययुः ॥ ४४ ॥

मूलम्

प्रबुद्धास्ते जनाः सर्वे पुत्रदारसमन्विताः
हेमहर्म्यतलेविष्टा विस्मयं परमं ययुः ॥ ४४ ॥

विश्वास-प्रस्तुतिः

बहुभिर्धनधान्यैश्च दिव्यवस्त्रविभूषणैः
परिपूर्णैरिवाभोगैर्गृहमुख्यैः समावृताः ॥ ४५ ॥

मूलम्

बहुभिर्धनधान्यैश्च दिव्यवस्त्रविभूषणैः
परिपूर्णैरिवाभोगैर्गृहमुख्यैः समावृताः ॥ ४५ ॥

विश्वास-प्रस्तुतिः

तस्मिन्प्रहृष्टाः सन्तस्थुर्दिवि देवगणा इव
यवनेन तदा योद्धुं रामकृष्णौ महाबलौ ॥ ४६ ॥

मूलम्

तस्मिन्प्रहृष्टाः सन्तस्थुर्दिवि देवगणा इव
यवनेन तदा योद्धुं रामकृष्णौ महाबलौ ॥ ४६ ॥

विश्वास-प्रस्तुतिः

विनिर्ययतुरात्मेशौ मथुराया बहिस्तदा
रामो लाङ्गलमादाय मुशलं च महारथः ॥ ४७ ॥

मूलम्

विनिर्ययतुरात्मेशौ मथुराया बहिस्तदा
रामो लाङ्गलमादाय मुशलं च महारथः ॥ ४७ ॥

विश्वास-प्रस्तुतिः

जघान समरे क्रुद्धो यवनानां महद्बलम्
कृष्णस्तु शार्ङ्गमासज्य बाणैरग्निशिखोपमैः ॥ ४८ ॥

मूलम्

जघान समरे क्रुद्धो यवनानां महद्बलम्
कृष्णस्तु शार्ङ्गमासज्य बाणैरग्निशिखोपमैः ॥ ४८ ॥

विश्वास-प्रस्तुतिः

निर्ददाह बलं सर्वं म्लेच्छानां देवकीसुतः
निहतं स्वबलं दृष्ट्वा स कालयवनो बली ॥ ४९ ॥

मूलम्

निर्ददाह बलं सर्वं म्लेच्छानां देवकीसुतः
निहतं स्वबलं दृष्ट्वा स कालयवनो बली ॥ ४९ ॥

विश्वास-प्रस्तुतिः

युयुधे वासुदेवेन गदया यवनेश्वरः
कृष्णोऽपि कदनं तेन कृत्वा चिरमनामयः ५० 6.246.50
विमुखः प्राद्रवत्तस्मात्सङ्ग्रामात्कमलेक्षणः
सोनुयातोऽतिवेगेन तिष्ठतिष्ठेति चाब्रुवन् ॥ ५१ ॥

मूलम्

युयुधे वासुदेवेन गदया यवनेश्वरः
कृष्णोऽपि कदनं तेन कृत्वा चिरमनामयः ५० 6.246.50
विमुखः प्राद्रवत्तस्मात्सङ्ग्रामात्कमलेक्षणः
सोनुयातोऽतिवेगेन तिष्ठतिष्ठेति चाब्रुवन् ॥ ५१ ॥

विश्वास-प्रस्तुतिः

वेगात्कृष्णो गिरिगुहां प्रविवेश महामतिः
तत्र प्रसुप्तो राजाऽसौ मुचुकुन्दो महामुनिः ॥ ५२ ॥

मूलम्

वेगात्कृष्णो गिरिगुहां प्रविवेश महामतिः
तत्र प्रसुप्तो राजाऽसौ मुचुकुन्दो महामुनिः ॥ ५२ ॥

विश्वास-प्रस्तुतिः

अदृश्यस्तस्य नृपतेः संस्थितो भगवान्हरिः
यवनोऽपि महावीरो गदामुद्यम्य पाणिना ॥ ५३ ॥

मूलम्

अदृश्यस्तस्य नृपतेः संस्थितो भगवान्हरिः
यवनोऽपि महावीरो गदामुद्यम्य पाणिना ॥ ५३ ॥

विश्वास-प्रस्तुतिः

कृष्णं हन्तु समारब्धो गुहां तां प्रविवेश ह
दृष्ट्वा शयानं राजानं मत्वा कृष्णं जनार्दनम् ॥ ५४ ॥

मूलम्

कृष्णं हन्तु समारब्धो गुहां तां प्रविवेश ह
दृष्ट्वा शयानं राजानं मत्वा कृष्णं जनार्दनम् ॥ ५४ ॥

विश्वास-प्रस्तुतिः

पादेन ताडयामास मुचुकुन्दं महामुनिम्
ततः प्रबुद्धो भगवान्मुचुकुन्दो महामुनिः ॥ ५५ ॥

मूलम्

पादेन ताडयामास मुचुकुन्दं महामुनिम्
ततः प्रबुद्धो भगवान्मुचुकुन्दो महामुनिः ॥ ५५ ॥

विश्वास-प्रस्तुतिः

क्रोधात्संरक्तनयनो हुङ्कारं कृतवानसौ
तस्य हुङ्कारशब्देन तथा क्रोधनिरीक्षणात् ॥ ५६ ॥

मूलम्

क्रोधात्संरक्तनयनो हुङ्कारं कृतवानसौ
तस्य हुङ्कारशब्देन तथा क्रोधनिरीक्षणात् ॥ ५६ ॥

विश्वास-प्रस्तुतिः

निर्दग्धो भस्मतां प्राप यवनस्त्यक्तजीवितः
ततस्तु कृष्णो ददृशे राजर्षेः पुरतः प्रभुः ॥ ५७ ॥

मूलम्

निर्दग्धो भस्मतां प्राप यवनस्त्यक्तजीवितः
ततस्तु कृष्णो ददृशे राजर्षेः पुरतः प्रभुः ॥ ५७ ॥

विश्वास-प्रस्तुतिः

नीलोत्पलदलश्यामः पुण्डरीकनिभेक्षणः
शङ्खचक्रगदापाणिः पीतवासा जनार्दनः ॥ ५८ ॥

मूलम्

नीलोत्पलदलश्यामः पुण्डरीकनिभेक्षणः
शङ्खचक्रगदापाणिः पीतवासा जनार्दनः ॥ ५८ ॥

विश्वास-प्रस्तुतिः

दृष्ट्वा तं सहसोत्थाय राजर्षिरमितौजसम्
अहोभाग्यमहोभाग्यमित्युवाच महामुनिः ॥ ५९ ॥

मूलम्

दृष्ट्वा तं सहसोत्थाय राजर्षिरमितौजसम्
अहोभाग्यमहोभाग्यमित्युवाच महामुनिः ॥ ५९ ॥

विश्वास-प्रस्तुतिः

पुलकाङ्कितसर्वाङ्गः सानन्दाश्रुजलाकुलः
स्तुवन्वै जयशब्देन प्रणनाम मुहुर्मुहुः ॥ ६० ॥

मूलम्

पुलकाङ्कितसर्वाङ्गः सानन्दाश्रुजलाकुलः
स्तुवन्वै जयशब्देन प्रणनाम मुहुर्मुहुः ॥ ६० ॥

विश्वास-प्रस्तुतिः

मुचुकुन्द उवाच-
धन्योस्मि कृतकृत्योस्मि दर्शनात्परमेश्वर
अद्य मे सफलं जन्म जीवितं सफलं मम ॥ ६१ ॥

मूलम्

मुचुकुन्द उवाच-
धन्योस्मि कृतकृत्योस्मि दर्शनात्परमेश्वर
अद्य मे सफलं जन्म जीवितं सफलं मम ॥ ६१ ॥

विश्वास-प्रस्तुतिः

नमस्ते वासुदेवाय जगन्नाथाय शार्ङ्गिणे
दामोदराय देवाय तेजसां निधये नमः ॥ ६२ ॥

मूलम्

नमस्ते वासुदेवाय जगन्नाथाय शार्ङ्गिणे
दामोदराय देवाय तेजसां निधये नमः ॥ ६२ ॥

विश्वास-प्रस्तुतिः

अधोक्षजाय हरये नृसिंहवपुषे नमः
राघवाय नमस्तुभ्यं पुण्डरीकेक्षणाय च ॥ ६३ ॥

मूलम्

अधोक्षजाय हरये नृसिंहवपुषे नमः
राघवाय नमस्तुभ्यं पुण्डरीकेक्षणाय च ॥ ६३ ॥

विश्वास-प्रस्तुतिः

अच्युतायाविकाराय तथानन्ताय ते नमः
गोविन्दाय नमस्तुभ्यं विष्णवे जिष्णवे नमः ॥ ६४ ॥

मूलम्

अच्युतायाविकाराय तथानन्ताय ते नमः
गोविन्दाय नमस्तुभ्यं विष्णवे जिष्णवे नमः ॥ ६४ ॥

विश्वास-प्रस्तुतिः

नारायणाय श्रीशाय कृष्णाय परमात्मने
मुकुन्दाय नमस्तुभ्यं चतुर्व्यूहाय ते नमः ॥ ६५ ॥

मूलम्

नारायणाय श्रीशाय कृष्णाय परमात्मने
मुकुन्दाय नमस्तुभ्यं चतुर्व्यूहाय ते नमः ॥ ६५ ॥

विश्वास-प्रस्तुतिः

नमः परमकल्याण नमस्ते परमात्मने
वासुदेवाय शान्ताय यदूनां पतये नमः ॥ ६६ ॥

मूलम्

नमः परमकल्याण नमस्ते परमात्मने
वासुदेवाय शान्ताय यदूनां पतये नमः ॥ ६६ ॥

विश्वास-प्रस्तुतिः

महेश्वर उवाच-
एवं स्तुत्वा तु गोविन्दं प्रणनाम पुनः पुनः
सन्तुष्टो भगवान्प्राह मुचुकुन्दं महामुनिम् ॥ ६७ ॥

मूलम्

महेश्वर उवाच-
एवं स्तुत्वा तु गोविन्दं प्रणनाम पुनः पुनः
सन्तुष्टो भगवान्प्राह मुचुकुन्दं महामुनिम् ॥ ६७ ॥

विश्वास-प्रस्तुतिः

श्रीभगवानुवाच-
वरं वृणीष्व राजर्षे यत्ते मनसि वर्त्तते
महेश्वर उवाच-
सोऽपि मुक्तिं ययाचाथ पुनरावृत्तिवर्जिताम् ॥ ६८ ॥

मूलम्

श्रीभगवानुवाच-
वरं वृणीष्व राजर्षे यत्ते मनसि वर्त्तते
महेश्वर उवाच-
सोऽपि मुक्तिं ययाचाथ पुनरावृत्तिवर्जिताम् ॥ ६८ ॥

विश्वास-प्रस्तुतिः

तस्मै ददौ तदा कृष्णो दिव्यं लोकं सनातनम्
राजा तु मानुषं रूपं विहायाथ महामतिः ॥ ६९ ॥

मूलम्

तस्मै ददौ तदा कृष्णो दिव्यं लोकं सनातनम्
राजा तु मानुषं रूपं विहायाथ महामतिः ॥ ६९ ॥

विश्वास-प्रस्तुतिः

समानं रूपमास्थाय देवस्य परमात्मनः
वैनतेयं समारुह्य शाश्वतं पदमाविशत् ॥ ७० ॥

मूलम्

समानं रूपमास्थाय देवस्य परमात्मनः
वैनतेयं समारुह्य शाश्वतं पदमाविशत् ॥ ७० ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमाहेश्वरसंवादे श्रीकृष्णचरिते मुचुकुन्दमोक्षोनाम षट्चत्वारिंशदधिकद्विशततमोऽध्यायः २४६