श्रीपार्वत्युवाच-
विश्वास-प्रस्तुतिः
रघुनाथस्य चरितं साधूक्तं हि त्वया विभो
श्रुत्वा धन्यास्मि देवेश त्वत्प्रसादान्महेश्वर ॥ १ ॥
मूलम्
रघुनाथस्य चरितं साधूक्तं हि त्वया विभो
श्रुत्वा धन्यास्मि देवेश त्वत्प्रसादान्महेश्वर ॥ १ ॥
विश्वास-प्रस्तुतिः
वसुदेवसुतस्यास्य कृष्णस्य चरितं महत्
श्रोतुमिच्छामि देवेश चरितं कल्मषापहम् ॥ २ ॥
मूलम्
वसुदेवसुतस्यास्य कृष्णस्य चरितं महत्
श्रोतुमिच्छामि देवेश चरितं कल्मषापहम् ॥ २ ॥
विश्वास-प्रस्तुतिः
रुद्र उवाच-
शृणु देवि प्रवक्ष्यामि कृष्णस्यास्य महात्मनः
चरितं वासुदेवस्य सर्वेषां फलदं नृणाम् ॥ ३ ॥
मूलम्
रुद्र उवाच-
शृणु देवि प्रवक्ष्यामि कृष्णस्यास्य महात्मनः
चरितं वासुदेवस्य सर्वेषां फलदं नृणाम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
यदूनामन्वये देवि वसुदेव इतीरितः
देवमीढस्यपुत्रोऽभूत्सर्वधर्मविदांवरः ॥ ४ ॥
मूलम्
यदूनामन्वये देवि वसुदेव इतीरितः
देवमीढस्यपुत्रोऽभूत्सर्वधर्मविदांवरः ॥ ४ ॥
विश्वास-प्रस्तुतिः
देवकस्यैव दुहितां देवकीं देववर्णिनीम्
उपयेमे विधानेन मथुरायां नृपात्मजः ॥ ५ ॥
मूलम्
देवकस्यैव दुहितां देवकीं देववर्णिनीम्
उपयेमे विधानेन मथुरायां नृपात्मजः ॥ ५ ॥
विश्वास-प्रस्तुतिः
उग्रसेनस्य पुत्रोऽभूत्कंसः शूरो महाबलः
तयो रथवरं तत्र चोदयामास सारथिः ॥ ६ ॥
मूलम्
उग्रसेनस्य पुत्रोऽभूत्कंसः शूरो महाबलः
तयो रथवरं तत्र चोदयामास सारथिः ॥ ६ ॥
विश्वास-प्रस्तुतिः
समागतेषु तेष्वेवं पथि रम्ये शुभावहे
अन्तरिक्षेऽशरीरावाक्प्राह गम्भीरया गिरा ॥ ७ ॥
मूलम्
समागतेषु तेष्वेवं पथि रम्ये शुभावहे
अन्तरिक्षेऽशरीरावाक्प्राह गम्भीरया गिरा ॥ ७ ॥
विश्वास-प्रस्तुतिः
आकाशवागुवाच-
अस्यास्तवाष्टमो गर्भः कंस प्राणान्हरिष्यति ॥ ८ ॥
मूलम्
आकाशवागुवाच-
अस्यास्तवाष्टमो गर्भः कंस प्राणान्हरिष्यति ॥ ८ ॥
विश्वास-प्रस्तुतिः
रुद्र उवाच-
तच्छ्रुत्वा हन्तुमारेभे कंसोऽपि भगिनीं तदा
तमब्रवीत्सुसंरब्धं वसुदेवः स्वबुद्धिना ॥ ९ ॥
मूलम्
रुद्र उवाच-
तच्छ्रुत्वा हन्तुमारेभे कंसोऽपि भगिनीं तदा
तमब्रवीत्सुसंरब्धं वसुदेवः स्वबुद्धिना ॥ ९ ॥
विश्वास-प्रस्तुतिः
वसुदेव उवाच-
न हन्तव्या महाभाग भगिनी धर्मतस्त्वया
गर्भानेव समुत्पन्नाञ्जहि राजन्महाबल ॥ १० ॥
मूलम्
वसुदेव उवाच-
न हन्तव्या महाभाग भगिनी धर्मतस्त्वया
गर्भानेव समुत्पन्नाञ्जहि राजन्महाबल ॥ १० ॥
विश्वास-प्रस्तुतिः
रुद्र उवाच-
तथेत्याह तदा कंसो वसुदेवं च देवकीम्
निबध्य स्वगृहे रम्ये सर्वभोगे न्यवेशयत् ॥ ११ ॥
मूलम्
रुद्र उवाच-
तथेत्याह तदा कंसो वसुदेवं च देवकीम्
निबध्य स्वगृहे रम्ये सर्वभोगे न्यवेशयत् ॥ ११ ॥
विश्वास-प्रस्तुतिः
एतस्मिन्नन्तरे देवि पापिभारप्रपीडिता
जगाम धरणीदेवी सहसा ब्रह्मणोन्तिकम् ॥ १२ ॥
मूलम्
एतस्मिन्नन्तरे देवि पापिभारप्रपीडिता
जगाम धरणीदेवी सहसा ब्रह्मणोन्तिकम् ॥ १२ ॥
विश्वास-प्रस्तुतिः
समेत्य जगतामीशं ब्रह्माणं परमेष्ठिनम्
प्राह गम्भीरया वाचा धरणी लोकधारिणी ॥ १३ ॥
मूलम्
समेत्य जगतामीशं ब्रह्माणं परमेष्ठिनम्
प्राह गम्भीरया वाचा धरणी लोकधारिणी ॥ १३ ॥
विश्वास-प्रस्तुतिः
धरण्युवाच-
प्रजापते न शक्तास्मि धर्तुं लोकानिमान्प्रभो
राक्षसाः पापकर्माणः संस्थिता मयि सुव्रत ॥ १४ ॥
मूलम्
धरण्युवाच-
प्रजापते न शक्तास्मि धर्तुं लोकानिमान्प्रभो
राक्षसाः पापकर्माणः संस्थिता मयि सुव्रत ॥ १४ ॥
विश्वास-प्रस्तुतिः
जगतः सकलान्धर्मान्विध्वंसन्तो महाबलाः
अधर्मवर्च्चसः सर्वे नराः पापविमोहिताः ॥ १५ ॥
मूलम्
जगतः सकलान्धर्मान्विध्वंसन्तो महाबलाः
अधर्मवर्च्चसः सर्वे नराः पापविमोहिताः ॥ १५ ॥
विश्वास-प्रस्तुतिः
स्वल्पमल्पतरं धर्मं लोकेऽस्मिन्न च दृश्यते
धर्मेणैव धृता देव सत्यशौचदमेन च
तस्मादधर्मसम्भूतं न लोकं धर्तुमुत्सहे ॥ १६ ॥
मूलम्
स्वल्पमल्पतरं धर्मं लोकेऽस्मिन्न च दृश्यते
धर्मेणैव धृता देव सत्यशौचदमेन च
तस्मादधर्मसम्भूतं न लोकं धर्तुमुत्सहे ॥ १६ ॥
विश्वास-प्रस्तुतिः
रुद्र उवाच-
इत्युक्त्वा धरणीदेवी तत्रैवान्तरधीयत
ततः सुरगणाः सर्वे ब्रह्मरुद्रपुरोगमाः ॥ १७ ॥
मूलम्
रुद्र उवाच-
इत्युक्त्वा धरणीदेवी तत्रैवान्तरधीयत
ततः सुरगणाः सर्वे ब्रह्मरुद्रपुरोगमाः ॥ १७ ॥
विश्वास-प्रस्तुतिः
क्षीराब्धेरुत्तरं कूलमधिगम्य जगत्पतिम्
तुष्टुवुः स्तुतिभिर्दिव्यैर्मुनयश्च महातपाः
ततः प्रसन्नः प्राहेशः सर्वांस्तान्मुनिसत्तमान् ॥ १८ ॥
मूलम्
क्षीराब्धेरुत्तरं कूलमधिगम्य जगत्पतिम्
तुष्टुवुः स्तुतिभिर्दिव्यैर्मुनयश्च महातपाः
ततः प्रसन्नः प्राहेशः सर्वांस्तान्मुनिसत्तमान् ॥ १८ ॥
विश्वास-प्रस्तुतिः
श्रीभगवानुवाच-
भो भो देवगणास्सर्वे किन्निमित्तमिहागताः
रुद्र उवाच-
ततः पितामहः प्राह देवदेवं जनार्दनम् ॥ १९ ॥
मूलम्
श्रीभगवानुवाच-
भो भो देवगणास्सर्वे किन्निमित्तमिहागताः
रुद्र उवाच-
ततः पितामहः प्राह देवदेवं जनार्दनम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
ब्रह्मोवाच-
देवदेव जगन्नाथ पृथिवी भारपीडिता
राक्षसा बहवो लोके समुत्पन्ना दुरासदाः ॥ २० ॥
मूलम्
ब्रह्मोवाच-
देवदेव जगन्नाथ पृथिवी भारपीडिता
राक्षसा बहवो लोके समुत्पन्ना दुरासदाः ॥ २० ॥
विश्वास-प्रस्तुतिः
जरासन्धश्च कंसश्च प्रलम्बो धेनुकादयः
दुरात्मानः प्रबाधन्ते सर्वलोकान्सनातनान् ॥ २१ ॥
मूलम्
जरासन्धश्च कंसश्च प्रलम्बो धेनुकादयः
दुरात्मानः प्रबाधन्ते सर्वलोकान्सनातनान् ॥ २१ ॥
विश्वास-प्रस्तुतिः
भारावतरणं कर्तुं पृथिव्यास्त्वमिहार्हसि
रुद्र उवाच-
एवमुक्तो हृषीकेशो ब्रह्मणा परमेष्ठिना
प्राह गम्भीरया वाचा जगतीपतिरव्ययः ॥ २२ ॥
मूलम्
भारावतरणं कर्तुं पृथिव्यास्त्वमिहार्हसि
रुद्र उवाच-
एवमुक्तो हृषीकेशो ब्रह्मणा परमेष्ठिना
प्राह गम्भीरया वाचा जगतीपतिरव्ययः ॥ २२ ॥
विश्वास-प्रस्तुतिः
श्रीभगवानुवाच-
अवतीर्याथ लोकेस्मिन्यदूनामन्वये सुराः
अवनीभारमव्यग्रमपास्यामि महाबलाः ॥ २३ ॥
मूलम्
श्रीभगवानुवाच-
अवतीर्याथ लोकेस्मिन्यदूनामन्वये सुराः
अवनीभारमव्यग्रमपास्यामि महाबलाः ॥ २३ ॥
विश्वास-प्रस्तुतिः
रुद्र उवाच-
एवमुक्ताः सुरास्सर्वे नमस्कृत्वा जनार्दनम्
स्वान्स्वान्लोकान्समासाद्य परेशं तेन्वचिन्तयन्
ततो नारायणीं मायां परमेशः समब्रवीत् ॥ २४ ॥
मूलम्
रुद्र उवाच-
एवमुक्ताः सुरास्सर्वे नमस्कृत्वा जनार्दनम्
स्वान्स्वान्लोकान्समासाद्य परेशं तेन्वचिन्तयन्
ततो नारायणीं मायां परमेशः समब्रवीत् ॥ २४ ॥
विश्वास-प्रस्तुतिः
श्रीभगवानुवाच-
हिरण्याक्षस्य षट्पुत्रान्समानीयावनीतले
वसुदेवस्य पत्न्यां तु देवक्यां सन्निवेशय ॥ २५ ॥
मूलम्
श्रीभगवानुवाच-
हिरण्याक्षस्य षट्पुत्रान्समानीयावनीतले
वसुदेवस्य पत्न्यां तु देवक्यां सन्निवेशय ॥ २५ ॥
विश्वास-प्रस्तुतिः
अनन्तांशः सप्तमोऽत्र सम्प्रविष्टस्तु माचिरम्
तस्याः सपत्न्यां रोहिण्यां ददस्व शुभदर्शने ॥ २६ ॥
मूलम्
अनन्तांशः सप्तमोऽत्र सम्प्रविष्टस्तु माचिरम्
तस्याः सपत्न्यां रोहिण्यां ददस्व शुभदर्शने ॥ २६ ॥
विश्वास-प्रस्तुतिः
ततोऽष्टमे ममांशस्तु देवक्यां सम्भविष्यति
नन्दगोपस्य पत्न्यां तु यशोदायां सनातनी ॥ २७ ॥
मूलम्
ततोऽष्टमे ममांशस्तु देवक्यां सम्भविष्यति
नन्दगोपस्य पत्न्यां तु यशोदायां सनातनी ॥ २७ ॥
विश्वास-प्रस्तुतिः
तवांशभूता महानिद्रा विन्ध्यं गत्वा महाचलम्
तत्र सम्पूज्यमाना हि देवैरिन्द्र पुरोगमैः
हन्याद्दैत्यान्महावीर्याञ्शुम्भासुरपुरोगमान् ॥ २८ ॥
मूलम्
तवांशभूता महानिद्रा विन्ध्यं गत्वा महाचलम्
तत्र सम्पूज्यमाना हि देवैरिन्द्र पुरोगमैः
हन्याद्दैत्यान्महावीर्याञ्शुम्भासुरपुरोगमान् ॥ २८ ॥
विश्वास-प्रस्तुतिः
रुद्र उवाच-
तथेत्युक्त्वा महामाया हिरण्याक्षसुतांस्तदा
पर्यायेण च देवक्यां षड्गर्भान्सन्न्यवेशयत् ॥ २९ ॥
मूलम्
रुद्र उवाच-
तथेत्युक्त्वा महामाया हिरण्याक्षसुतांस्तदा
पर्यायेण च देवक्यां षड्गर्भान्सन्न्यवेशयत् ॥ २९ ॥
विश्वास-प्रस्तुतिः
ताञ्जघान तदा कंसो जातमात्रान्महाबलः
ततस्तु सप्तमो गर्भो ह्यनन्तांशेन चोदितः ॥ ३० ॥
मूलम्
ताञ्जघान तदा कंसो जातमात्रान्महाबलः
ततस्तु सप्तमो गर्भो ह्यनन्तांशेन चोदितः ॥ ३० ॥
विश्वास-प्रस्तुतिः
वर्धमानं तु गर्भं तं रोहिण्यां समुपानयत्
गर्भसङ्कर्षणात्तस्यां जातः सङ्कर्षणोऽव्ययः ॥ ३१ ॥
मूलम्
वर्धमानं तु गर्भं तं रोहिण्यां समुपानयत्
गर्भसङ्कर्षणात्तस्यां जातः सङ्कर्षणोऽव्ययः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
कृष्णाष्टम्यां तु रोहिण्यां प्रौष्ठपद्यां शुभोदये
रोहिणी जनयामास पुत्रं सङ्कर्षणं प्रभुम् ॥ ३२ ॥
मूलम्
कृष्णाष्टम्यां तु रोहिण्यां प्रौष्ठपद्यां शुभोदये
रोहिणी जनयामास पुत्रं सङ्कर्षणं प्रभुम् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
ततस्तु देवकी गर्भमापेदे भगवान्हरिः
आपन्नगर्भां तां दृष्ट्वा कंसो भयनिपीडितः ॥ ३३ ॥
मूलम्
ततस्तु देवकी गर्भमापेदे भगवान्हरिः
आपन्नगर्भां तां दृष्ट्वा कंसो भयनिपीडितः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
ततः सुरगणाः सर्वे हर्षनिर्भरमानसाः
तुष्टुवुर्देवकीं तत्र विमानस्था नभस्तले ॥ ३४ ॥
मूलम्
ततः सुरगणाः सर्वे हर्षनिर्भरमानसाः
तुष्टुवुर्देवकीं तत्र विमानस्था नभस्तले ॥ ३४ ॥
विश्वास-प्रस्तुतिः
ततस्तु दशमे मासि कृष्णे नभसि पार्वति
अष्टम्यामर्द्धरात्रे च तस्यां जातो जनार्दनः ॥ ३५ ॥
मूलम्
ततस्तु दशमे मासि कृष्णे नभसि पार्वति
अष्टम्यामर्द्धरात्रे च तस्यां जातो जनार्दनः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
इन्दीवरदलश्यामः पद्मपत्रायतेक्षणः
चतुर्भुजः सुन्दराङ्गो दिव्याभरणभूषितः ॥ ३६ ॥
मूलम्
इन्दीवरदलश्यामः पद्मपत्रायतेक्षणः
चतुर्भुजः सुन्दराङ्गो दिव्याभरणभूषितः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
श्रीवत्सकौस्तुभोरस्को वनमालाविभूषितः
वसुदेवस्य जातोऽसौ वासुदेवः सनातनः ॥ ३७ ॥
मूलम्
श्रीवत्सकौस्तुभोरस्को वनमालाविभूषितः
वसुदेवस्य जातोऽसौ वासुदेवः सनातनः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
तं दृष्ट्वा जगतां नाथं कृष्णमानकदुन्दुभिः
उवाच प्राञ्जलिर्भूत्वा नमस्कृत्य जगन्मयम् ॥ ३८ ॥
मूलम्
तं दृष्ट्वा जगतां नाथं कृष्णमानकदुन्दुभिः
उवाच प्राञ्जलिर्भूत्वा नमस्कृत्य जगन्मयम् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
वसुदेव उवाच-
जातोऽसि मे जगन्नाथ भक्तकल्पतरो प्रभो
त्वमेव सर्वदेवानामनादिः पुरुषोत्तमः ॥ ३९ ॥
मूलम्
वसुदेव उवाच-
जातोऽसि मे जगन्नाथ भक्तकल्पतरो प्रभो
त्वमेव सर्वदेवानामनादिः पुरुषोत्तमः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
त्वमचिन्त्यमहद्भूतो योगिध्येयः सनातनः
मम पुत्रत्वमापन्नो धरण्यां धरणीधर ॥ ४० ॥
मूलम्
त्वमचिन्त्यमहद्भूतो योगिध्येयः सनातनः
मम पुत्रत्वमापन्नो धरण्यां धरणीधर ॥ ४० ॥
विश्वास-प्रस्तुतिः
दृष्ट्वैतदद्भुतं रूपमैश्वरं पुरुषोत्तम
दानवाः पापकर्माणो न सहन्ते महौजसः ॥ ४१ ॥
मूलम्
दृष्ट्वैतदद्भुतं रूपमैश्वरं पुरुषोत्तम
दानवाः पापकर्माणो न सहन्ते महौजसः ॥ ४१ ॥
विश्वास-प्रस्तुतिः
रुद्र उवाच-
इत्यर्थितः स्तुतस्तेन पद्मनाभः सनातनः
उपसंहृतवान्रूपं चतुर्भुजसमन्वितम् ॥ ४२ ॥
मूलम्
रुद्र उवाच-
इत्यर्थितः स्तुतस्तेन पद्मनाभः सनातनः
उपसंहृतवान्रूपं चतुर्भुजसमन्वितम् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
मानुषेणैव भावेन द्विभुजेन व्यरोचत
येचाङ्गरक्षकाः सर्वे दानवास्तत्र संस्थिताः ॥ ४३ ॥
मूलम्
मानुषेणैव भावेन द्विभुजेन व्यरोचत
येचाङ्गरक्षकाः सर्वे दानवास्तत्र संस्थिताः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
ते चापि मायया तस्या मोहितास्तमसावृताः
एतस्मिन्नन्तरे देवमादायानकदुन्दुभिः ॥ ४४ ॥
मूलम्
ते चापि मायया तस्या मोहितास्तमसावृताः
एतस्मिन्नन्तरे देवमादायानकदुन्दुभिः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
प्रययौ नगरात्तूर्णं सर्वदेवैरभिष्टुतः
पयोधरे वर्षमाणे नागराजो महाबलः ॥ ४५ ॥
मूलम्
प्रययौ नगरात्तूर्णं सर्वदेवैरभिष्टुतः
पयोधरे वर्षमाणे नागराजो महाबलः ॥ ४५ ॥
विश्वास-प्रस्तुतिः
फणासहस्रेणाच्छाद्य भक्त्या देवं समन्वगात्
तौ गोपुरकपाटौ तु तत्पादस्पर्शनात्तदा ॥ ४६ ॥
मूलम्
फणासहस्रेणाच्छाद्य भक्त्या देवं समन्वगात्
तौ गोपुरकपाटौ तु तत्पादस्पर्शनात्तदा ॥ ४६ ॥
विश्वास-प्रस्तुतिः
भिद्यमानौ सुविवृतौ तत्रस्थाश्च विमोहिताः
स्रोतस्विनी सुपूर्णाया यमुनापि महात्मनः ॥ ४७ ॥
मूलम्
भिद्यमानौ सुविवृतौ तत्रस्थाश्च विमोहिताः
स्रोतस्विनी सुपूर्णाया यमुनापि महात्मनः ॥ ४७ ॥
विश्वास-प्रस्तुतिः
प्रवेशाज्जानुमात्रं तु जलं सा चाप्युपावहत्
उत्तीर्य यमुनां सोथाव्रजत्तत्तीरसंस्थितम् ॥ ४८ ॥
मूलम्
प्रवेशाज्जानुमात्रं तु जलं सा चाप्युपावहत्
उत्तीर्य यमुनां सोथाव्रजत्तत्तीरसंस्थितम् ॥ ४८ ॥
विश्वास-प्रस्तुतिः
संस्तूयमानस्त्रिदशैः प्रविवेश यदूत्तमः
तत्र नन्दस्य पत्नी सा प्रसूता गोव्रजे शुभे ॥ ४९ ॥
मूलम्
संस्तूयमानस्त्रिदशैः प्रविवेश यदूत्तमः
तत्र नन्दस्य पत्नी सा प्रसूता गोव्रजे शुभे ॥ ४९ ॥
विश्वास-प्रस्तुतिः
विमोहिता माययैव सुषुप्ता तमसा वृता
तस्यास्तु शयने देवं विनिक्षिप्य स यादवः ५० 6.245.50
तां कन्यां समुपादाय प्रययौ मथुरां पुनः
पत्न्यै दत्वाऽथ तां बालामुवास सुसमाहितः ॥ ५१ ॥
मूलम्
विमोहिता माययैव सुषुप्ता तमसा वृता
तस्यास्तु शयने देवं विनिक्षिप्य स यादवः ५० 6.245.50
तां कन्यां समुपादाय प्रययौ मथुरां पुनः
पत्न्यै दत्वाऽथ तां बालामुवास सुसमाहितः ॥ ५१ ॥
विश्वास-प्रस्तुतिः
रुरोद बालभावात्सा देवकीशयनं गता
अथ बालाध्वनिं श्रुत्वा तद्गृहं साङ्गरक्षकाः ॥ ५२ ॥
मूलम्
रुरोद बालभावात्सा देवकीशयनं गता
अथ बालाध्वनिं श्रुत्वा तद्गृहं साङ्गरक्षकाः ॥ ५२ ॥
विश्वास-प्रस्तुतिः
कंसायावेदयामासुर्देवकीप्रसवं शुभम्
कंसस्तूर्णमुपेत्यैनां जग्राह बालिकां तदा ॥ ५३ ॥
मूलम्
कंसायावेदयामासुर्देवकीप्रसवं शुभम्
कंसस्तूर्णमुपेत्यैनां जग्राह बालिकां तदा ॥ ५३ ॥
विश्वास-प्रस्तुतिः
चिक्षेप च शिलापृष्ठे सापि तूर्णं वियत्स्थिता
तस्योत्तमाङ्गे स्वपदं दत्वा पूर्णमुखास्थिता ॥ ५४ ॥
मूलम्
चिक्षेप च शिलापृष्ठे सापि तूर्णं वियत्स्थिता
तस्योत्तमाङ्गे स्वपदं दत्वा पूर्णमुखास्थिता ॥ ५४ ॥
विश्वास-प्रस्तुतिः
उवाचाष्टभुजादेवी तदा राक्षसपुङ्गवम्
देव्युवाच-
किं मयाक्षिप्तया मन्द जातो यस्त्वां वधिष्यति ॥ ५५ ॥
मूलम्
उवाचाष्टभुजादेवी तदा राक्षसपुङ्गवम्
देव्युवाच-
किं मयाक्षिप्तया मन्द जातो यस्त्वां वधिष्यति ॥ ५५ ॥
विश्वास-प्रस्तुतिः
सर्वस्य जगतः स्रष्टा धर्ता हर्ता च यः प्रभुः
अस्मिन्लोके समुत्पन्नः स ते प्राणान्हरष्यिति ॥ ५६ ॥
मूलम्
सर्वस्य जगतः स्रष्टा धर्ता हर्ता च यः प्रभुः
अस्मिन्लोके समुत्पन्नः स ते प्राणान्हरष्यिति ॥ ५६ ॥
विश्वास-प्रस्तुतिः
रुद्र उवाच-
इत्युक्त्वा तेजसा देवी सहसा पूरयन्नभः
जगाम देवगन्धर्वैः स्तूयमाना हिमाचलम् ॥ ५७ ॥
मूलम्
रुद्र उवाच-
इत्युक्त्वा तेजसा देवी सहसा पूरयन्नभः
जगाम देवगन्धर्वैः स्तूयमाना हिमाचलम् ॥ ५७ ॥
विश्वास-प्रस्तुतिः
कंसस्तदोद्विग्नमनाः समाहूय स्वदानवान्
प्रलम्बचाणूरमुखानुवाचभय पीडितः ॥ ५८ ॥
मूलम्
कंसस्तदोद्विग्नमनाः समाहूय स्वदानवान्
प्रलम्बचाणूरमुखानुवाचभय पीडितः ॥ ५८ ॥
विश्वास-प्रस्तुतिः
कंस उवाच-
अस्माद्भयात्सुरगणा उपेत्य क्षीरसागरम्
आचचक्षुर्हरेः सर्वं रक्षो विध्वंसनं प्रति ॥ ५९ ॥
मूलम्
कंस उवाच-
अस्माद्भयात्सुरगणा उपेत्य क्षीरसागरम्
आचचक्षुर्हरेः सर्वं रक्षो विध्वंसनं प्रति ॥ ५९ ॥
विश्वास-प्रस्तुतिः
तेषां तु वचनं श्रुत्वा धरण्यां धरणीधरः
मानुषेणैव भावेन समुत्पन्नो हि सोऽव्ययः ॥ ६० ॥
मूलम्
तेषां तु वचनं श्रुत्वा धरण्यां धरणीधरः
मानुषेणैव भावेन समुत्पन्नो हि सोऽव्ययः ॥ ६० ॥
विश्वास-प्रस्तुतिः
तदद्य सर्वे यूयं वै राक्षसाः कामरूपिणः
समुद्रिक्तबलान्बालान्मारयध्वमशङ्किताः ॥ ६१ ॥
मूलम्
तदद्य सर्वे यूयं वै राक्षसाः कामरूपिणः
समुद्रिक्तबलान्बालान्मारयध्वमशङ्किताः ॥ ६१ ॥
विश्वास-प्रस्तुतिः
रुद्र उवाच-
इत्यादिश्य ततः कंसो वसुदेवं च देवकीम्
आश्वास्य मोचयित्वाथ स्ववेश्मान्तर्विवेश ह
वसुदेवस्ततो गत्वा नन्दव्रजमनुत्तमम् ॥ ६२ ॥
मूलम्
रुद्र उवाच-
इत्यादिश्य ततः कंसो वसुदेवं च देवकीम्
आश्वास्य मोचयित्वाथ स्ववेश्मान्तर्विवेश ह
वसुदेवस्ततो गत्वा नन्दव्रजमनुत्तमम् ॥ ६२ ॥
विश्वास-प्रस्तुतिः
तेन सम्पूजितस्तत्र निक्षिप्य तनयं मुदा
उवाच नन्दपत्नीं तां यशोदां यदुनन्दनः ॥ ६३ ॥
मूलम्
तेन सम्पूजितस्तत्र निक्षिप्य तनयं मुदा
उवाच नन्दपत्नीं तां यशोदां यदुनन्दनः ॥ ६३ ॥
विश्वास-प्रस्तुतिः
वसुदेव उवाच-
सुभगे मत्सुतमिमं रोहिणीजठरोद्भवम्
स्वपुत्रमिव रक्षस्व भिया कंसादिहागतम् ॥ ६४ ॥
मूलम्
वसुदेव उवाच-
सुभगे मत्सुतमिमं रोहिणीजठरोद्भवम्
स्वपुत्रमिव रक्षस्व भिया कंसादिहागतम् ॥ ६४ ॥
विश्वास-प्रस्तुतिः
रुद्र उवाच-
तथेत्याह तदा तन्वी नन्दपत्नी दृढव्रता
लब्ध्वैव युगलं पुत्रमुत्पुपोष मुदान्विता ॥ ६५ ॥
मूलम्
रुद्र उवाच-
तथेत्याह तदा तन्वी नन्दपत्नी दृढव्रता
लब्ध्वैव युगलं पुत्रमुत्पुपोष मुदान्विता ॥ ६५ ॥
विश्वास-प्रस्तुतिः
निक्षिप्य तनयौ गेहं नन्दगोपस्य यादवः
विश्रब्धः प्रययौ तूर्णं मथुरां कंसपालिताम् ॥ ६६ ॥
मूलम्
निक्षिप्य तनयौ गेहं नन्दगोपस्य यादवः
विश्रब्धः प्रययौ तूर्णं मथुरां कंसपालिताम् ॥ ६६ ॥
विश्वास-प्रस्तुतिः
ततो गर्गः शुभदिने वसुदेवेन नोदितः
नन्दगोपव्रजं गत्वा तत्रस्थैः पूजितो द्विजः ॥ ६७ ॥
मूलम्
ततो गर्गः शुभदिने वसुदेवेन नोदितः
नन्दगोपव्रजं गत्वा तत्रस्थैः पूजितो द्विजः ॥ ६७ ॥
विश्वास-प्रस्तुतिः
विधिना जातकं कर्म कृत्वा देवस्य गोकुले
नाम चात्राकरोद्दिव्यं पुत्रयोर्वासुदेवयोः ॥ ६८ ॥
मूलम्
विधिना जातकं कर्म कृत्वा देवस्य गोकुले
नाम चात्राकरोद्दिव्यं पुत्रयोर्वासुदेवयोः ॥ ६८ ॥
विश्वास-प्रस्तुतिः
सङ्कर्षणो रौहिणेयो बलभद्रो महाबलः
राम इत्यादिनामानि पूर्वजस्याकरोद्दिवजः ॥ ६९ ॥
मूलम्
सङ्कर्षणो रौहिणेयो बलभद्रो महाबलः
राम इत्यादिनामानि पूर्वजस्याकरोद्दिवजः ॥ ६९ ॥
विश्वास-प्रस्तुतिः
श्रीधरः श्रीकरः श्रीमान्कृष्णोऽनन्तो जगत्पतिः
वासुदेवो हृषीकेश इत्याद्यवरजस्य च ॥ ७० ॥
मूलम्
श्रीधरः श्रीकरः श्रीमान्कृष्णोऽनन्तो जगत्पतिः
वासुदेवो हृषीकेश इत्याद्यवरजस्य च ॥ ७० ॥
विश्वास-प्रस्तुतिः
रामकृष्णाविति ख्यातिमस्मिल्ँलोके गमिष्यतः
एवमुक्त्वा द्विजश्रेष्ठः सम्पूज्य पितृदेवताः ॥ ७१ ॥
मूलम्
रामकृष्णाविति ख्यातिमस्मिल्ँलोके गमिष्यतः
एवमुक्त्वा द्विजश्रेष्ठः सम्पूज्य पितृदेवताः ॥ ७१ ॥
विश्वास-प्रस्तुतिः
सम्पूज्यमानो गोपालैराययौ मथुरां पुनः
कंसेन प्रेषिता रात्रौ पूतनाबालघातिनी ॥ ७२ ॥
मूलम्
सम्पूज्यमानो गोपालैराययौ मथुरां पुनः
कंसेन प्रेषिता रात्रौ पूतनाबालघातिनी ॥ ७२ ॥
विश्वास-प्रस्तुतिः
विषलिप्तं स्तनं दत्वा कृष्णायामिततेजसे
कृष्णस्तु राक्षसीं ज्ञात्वा पपौ गाढं स्तनं भृशम् ॥ ७३ ॥
मूलम्
विषलिप्तं स्तनं दत्वा कृष्णायामिततेजसे
कृष्णस्तु राक्षसीं ज्ञात्वा पपौ गाढं स्तनं भृशम् ॥ ७३ ॥
विश्वास-प्रस्तुतिः
प्राणैः सह महातेजा राक्षस्या यदुपुङ्गवः
सा विह्वलाङ्गी सहसा विच्छिन्नस्नायुबन्धना ॥ ७४ ॥
मूलम्
प्राणैः सह महातेजा राक्षस्या यदुपुङ्गवः
सा विह्वलाङ्गी सहसा विच्छिन्नस्नायुबन्धना ॥ ७४ ॥
विश्वास-प्रस्तुतिः
पपात वेपमाना सा ममार च महास्वना
तस्याः शब्देन महता पूरितं च नभस्तलम् ॥ ७५ ॥
मूलम्
पपात वेपमाना सा ममार च महास्वना
तस्याः शब्देन महता पूरितं च नभस्तलम् ॥ ७५ ॥
विश्वास-प्रस्तुतिः
त्रस्ताः सर्वे ततो गोपा दृष्ट्वा तां पतितां भुवि
कृष्णं च क्रीडमानं तं राक्षस्या महतोरसि ॥ ७६ ॥
मूलम्
त्रस्ताः सर्वे ततो गोपा दृष्ट्वा तां पतितां भुवि
कृष्णं च क्रीडमानं तं राक्षस्या महतोरसि ॥ ७६ ॥
विश्वास-प्रस्तुतिः
समुद्विग्नास्ततस्तूर्णमादाय तनयं तदा
रक्षोभिया तदा तस्मिन्गोपुरीषेण मूर्द्धनि ॥ ७७ ॥
मूलम्
समुद्विग्नास्ततस्तूर्णमादाय तनयं तदा
रक्षोभिया तदा तस्मिन्गोपुरीषेण मूर्द्धनि ॥ ७७ ॥
विश्वास-प्रस्तुतिः
सम्मार्जयामास तदा गोवालेन तदाननम्
नन्दगोपः समभ्येत्य सुतमादाय भामिनि ॥ ७८ ॥
मूलम्
सम्मार्जयामास तदा गोवालेन तदाननम्
नन्दगोपः समभ्येत्य सुतमादाय भामिनि ॥ ७८ ॥
विश्वास-प्रस्तुतिः
भगवन्नामभिस्तस्य सर्वाङ्गेषु प्रमार्जनम्
कृत्वा तां तामसीं भीमां बहिर्विन्यस्य गोव्रजात् ॥ ७९ ॥
मूलम्
भगवन्नामभिस्तस्य सर्वाङ्गेषु प्रमार्जनम्
कृत्वा तां तामसीं भीमां बहिर्विन्यस्य गोव्रजात् ॥ ७९ ॥
विश्वास-प्रस्तुतिः
ददाह गोपवृन्दैश्च त्रासितैस्तत्र गोव्रजे
कदाच्छिकटस्याधः शयानो भगवान्हरिः ॥ ८० ॥
मूलम्
ददाह गोपवृन्दैश्च त्रासितैस्तत्र गोव्रजे
कदाच्छिकटस्याधः शयानो भगवान्हरिः ॥ ८० ॥
विश्वास-प्रस्तुतिः
प्रसार्य चरणौ तत्र रुरोद मधुसूदनः
तस्य पादप्रहारेण शकटं परिवर्तितम् ॥ ८१ ॥
मूलम्
प्रसार्य चरणौ तत्र रुरोद मधुसूदनः
तस्य पादप्रहारेण शकटं परिवर्तितम् ॥ ८१ ॥
विश्वास-प्रस्तुतिः
विध्वस्तकुम्भभाडं तद्विपरीतं पपात वै
ततो गोप्यश्च गोपाश्च दृष्ट्वा तच्छकटं महत् ॥ ८२ ॥
मूलम्
विध्वस्तकुम्भभाडं तद्विपरीतं पपात वै
ततो गोप्यश्च गोपाश्च दृष्ट्वा तच्छकटं महत् ॥ ८२ ॥
विश्वास-प्रस्तुतिः
विस्मयं परमं जग्मुः किमेतदिति शङ्किताः
यशोदा च तदा तूर्णं बालं जग्राह विस्मिता ॥ ८३ ॥
मूलम्
विस्मयं परमं जग्मुः किमेतदिति शङ्किताः
यशोदा च तदा तूर्णं बालं जग्राह विस्मिता ॥ ८३ ॥
विश्वास-प्रस्तुतिः
अल्पेनैव हि कालेन बालकौ तौ यदूत्तमौ
वर्द्धमानौ यशोदायाः स्तनपानेन पोषितौ ॥ ८४ ॥
मूलम्
अल्पेनैव हि कालेन बालकौ तौ यदूत्तमौ
वर्द्धमानौ यशोदायाः स्तनपानेन पोषितौ ॥ ८४ ॥
विश्वास-प्रस्तुतिः
जानुभ्यामथ हस्ताभ्यां रिङ्गमाणौ विरेजतुः
मायावी राक्षसस्तत्र कृतश्च बटुवेषधृक् ॥ ८५ ॥
मूलम्
जानुभ्यामथ हस्ताभ्यां रिङ्गमाणौ विरेजतुः
मायावी राक्षसस्तत्र कृतश्च बटुवेषधृक् ॥ ८५ ॥
विश्वास-प्रस्तुतिः
कृष्णं हन्तुं समारब्धो विचचार महीतले
ज्ञात्वा कृष्णस्तु तं रक्षो निजघान तलेन वै ॥ ८६ ॥
मूलम्
कृष्णं हन्तुं समारब्धो विचचार महीतले
ज्ञात्वा कृष्णस्तु तं रक्षो निजघान तलेन वै ॥ ८६ ॥
विश्वास-प्रस्तुतिः
राक्षसेनैव रूपेण निपपात ममार च
विचचार ततः सर्वं गोव्रजं मधुसूदनः ॥ ८७ ॥
मूलम्
राक्षसेनैव रूपेण निपपात ममार च
विचचार ततः सर्वं गोव्रजं मधुसूदनः ॥ ८७ ॥
विश्वास-प्रस्तुतिः
नवनीतं जहाराशु गोपीनां च गृहे गृहे
तदा यशोदा कुपिता दाम्ना मध्ये उलूखले ॥ ८८ ॥
मूलम्
नवनीतं जहाराशु गोपीनां च गृहे गृहे
तदा यशोदा कुपिता दाम्ना मध्ये उलूखले ॥ ८८ ॥
विश्वास-प्रस्तुतिः
निबध्य कृष्णं प्रययौ विक्रेतुं गोरसादिकम्
कर्षमाणस्ततः कृष्णो दाम्ना बद्ध उलूखले ॥ ८९ ॥
मूलम्
निबध्य कृष्णं प्रययौ विक्रेतुं गोरसादिकम्
कर्षमाणस्ततः कृष्णो दाम्ना बद्ध उलूखले ॥ ८९ ॥
विश्वास-प्रस्तुतिः
यमलार्जुनयोर्मध्ये जगाम धरणीधरः
उलूखलेन गोविन्दः पातयामास तौ द्रुमौ ॥ ९० ॥
मूलम्
यमलार्जुनयोर्मध्ये जगाम धरणीधरः
उलूखलेन गोविन्दः पातयामास तौ द्रुमौ ॥ ९० ॥
विश्वास-प्रस्तुतिः
भग्नस्कन्धौ निपतितौ स्वरेण धरणीतले
तेन शब्देन महता जग्मुस्तत्र महौजसः ॥ ९१ ॥
मूलम्
भग्नस्कन्धौ निपतितौ स्वरेण धरणीतले
तेन शब्देन महता जग्मुस्तत्र महौजसः ॥ ९१ ॥
विश्वास-प्रस्तुतिः
गोपवृद्धास्ततो दृष्ट्वा विस्मयं परमं गताः
यशोदापि समुद्विग्ना विमुच्य धरणीधरम् ॥ ९२ ॥
मूलम्
गोपवृद्धास्ततो दृष्ट्वा विस्मयं परमं गताः
यशोदापि समुद्विग्ना विमुच्य धरणीधरम् ॥ ९२ ॥
विश्वास-प्रस्तुतिः
तं विस्मितं समादाय स्तनं प्रादान्महात्मने
यस्मिन्निबध्यमानस्तु दाम्ना मात्रा जगत्पतिः ॥ ९३ ॥
मूलम्
तं विस्मितं समादाय स्तनं प्रादान्महात्मने
यस्मिन्निबध्यमानस्तु दाम्ना मात्रा जगत्पतिः ॥ ९३ ॥
विश्वास-प्रस्तुतिः
तस्मिन्महर्षिभिः सर्वैर्दामोदर इतीरितः
तौ तु किन्नरतां प्राप्तौ विमुक्तौ यमलार्जुनौ ॥ ९४ ॥
मूलम्
तस्मिन्महर्षिभिः सर्वैर्दामोदर इतीरितः
तौ तु किन्नरतां प्राप्तौ विमुक्तौ यमलार्जुनौ ॥ ९४ ॥
विश्वास-प्रस्तुतिः
गोपवृद्धास्ततः सर्वे नन्दगोपपुरोगमाः
महोत्पातमिमं ज्ञात्वा स्थानान्तरमुपाययुः ॥ ९५ ॥
मूलम्
गोपवृद्धास्ततः सर्वे नन्दगोपपुरोगमाः
महोत्पातमिमं ज्ञात्वा स्थानान्तरमुपाययुः ॥ ९५ ॥
विश्वास-प्रस्तुतिः
वृन्दावने मनोरम्ये यमुनायास्तटे शुभे
निवासं चक्रिरे रम्यं गवाङ्गोपीजनस्य च ॥ ९६ ॥
मूलम्
वृन्दावने मनोरम्ये यमुनायास्तटे शुभे
निवासं चक्रिरे रम्यं गवाङ्गोपीजनस्य च ॥ ९६ ॥
विश्वास-प्रस्तुतिः
तत्र तौ रामकृष्णौ तु वर्द्धमानौ महाबलौ
वत्सपालयुतौ वत्सान्पालयामासतुस्तदा ॥ ९७ ॥
मूलम्
तत्र तौ रामकृष्णौ तु वर्द्धमानौ महाबलौ
वत्सपालयुतौ वत्सान्पालयामासतुस्तदा ॥ ९७ ॥
विश्वास-प्रस्तुतिः
गोवत्समध्यगं कृष्णं बको नाम महासुरः
बकरूपेण तं हन्तुमुद्युक्तोऽत्र यदूत्तमम् ॥ ९८ ॥
मूलम्
गोवत्समध्यगं कृष्णं बको नाम महासुरः
बकरूपेण तं हन्तुमुद्युक्तोऽत्र यदूत्तमम् ॥ ९८ ॥
विश्वास-प्रस्तुतिः
तं दृष्ट्वा वासुदेवोऽपि लोष्टमुद्यम्य लीलया
ताडयामास पक्षान्ते पपातोर्व्यां महासुरः ॥ ९९ ॥
मूलम्
तं दृष्ट्वा वासुदेवोऽपि लोष्टमुद्यम्य लीलया
ताडयामास पक्षान्ते पपातोर्व्यां महासुरः ॥ ९९ ॥
ततः कतिपयाहस्तु गोवत्सान्पालयन्वने
छायायां जम्बुवृक्षस्य प्रसुप्तौ पल्लवे मृदौ १०० 6.245.100
एतस्मिन्नन्तरे देवो ब्रह्मा देवगणैर्वृतः
द्रष्टुं कृष्णं समागम्य सुप्तौ दृष्ट्वा यदूत्तमौ १०१
वत्सान्गोपशिशून्हृत्वा जगाम त्रिदिवं पुनः
प्रबुद्धौ तौ समालोक्य विनष्टाञ्शिशुवत्सकान् १०२
गोवत्सागोपबालाश्च क्व गता इति विस्मितौ
ज्ञात्वा कृष्णस्तु तत्कर्म प्रजापतिकृतं तदा १०३
तथैव ससृजे बालान्गोवत्सांश्च सनातनः
यथातूर्णं यथारूपं तथैव मधुसूदनः १०४
ससर्ज वत्सान्गोपालानविता जगतां प्रभुः
दृष्ट्वा सायाह्नसमये गावस्त्वेषां च मातरः १०५
स्वान्स्वान्वत्सानुपागम्य यथापूर्वं प्रवर्तिताः
एवं संवत्सरे काले गते तत्र महात्मनः १०६
प्रजापतिः पुनस्तस्मै ददौ वत्सान्सबालकान्
कृताञ्जलिपुटो भूत्वा परिणीय प्रणम्य च
भयादुवाच गोविन्दं ब्रह्मा त्रिभुवनेश्वरः १०७
ब्रह्मोवाच-
नमो नमस्ते सर्वात्मंस्तत्वज्ञानस्वरूपिणे
नित्यानन्दस्वरूपाय प्रियतात्मन्महात्मने १०८
अणुर्बृहत्स्थूलतररूपः सर्वगतोऽव्ययः
अनादिमध्यान्तरूप स्वरूपात्मन्नमोस्तु ते १०९
नित्यज्ञानबलैश्वर्य वीर्यतेजोमयस्य च
महाशक्ते नमस्तुभ्यं पूर्णषाड्गुण्यमूर्तये ११०
त्वं वेदपुरुषो ब्रह्मन्महापुरुषएव च
शरीरपुरुषत्वस्य छन्दःपुरुष एव च १११
चत्वारः पुरुषास्त्वं च पुराणः पुरुषोत्तम
विभूतयस्तव ब्रह्मन्पृथिव्यग्न्यनिलादयः ११२
तव वाचा समुद्भूतौ क्ष्मा वह्नी जगदीश्वर
अन्तरिक्षं च वायुश्च सृष्टौ प्राणेन ते विभो ११३
चक्षुषा तव संसृष्टौ द्यौश्चादित्यस्तथाव्यय
दिशश्च चन्द्रमाः सृष्टाः श्रोत्रेण तव चानघ ११४
अपांस्रावश्च वरुणो मनसा ते महेश्वर
उक्ते महति मीमांसे यत्तद्ब्रह्मप्रकाशते ११५
तथैव चाध्वरेष्वेतदेतदेव महाव्रते
छन्दोगे ये नभस्येतद्दिव्ये तद्वायुरेव तत् ११६
आकश एतदेवेदमोषधीष्वेवमेव च
नक्षत्रेषु च सर्वेषु ग्रहेष्वेतद्दिवाकरे ११७
एवम्भूतेष्वेवमेव ब्रह्मेत्याचक्षते श्रुतिः
तदेव परमं ब्रह्म प्रज्ञातं परितोमृतम् ११८
हिरण्मयोऽव्ययो यज्ञः शुचिः शुचिषदित्यपि
वैदिकान्यभिधेयानि तथैतान्यस्य न क्वचित् ११९
चक्षुर्मयं श्रोत्रमयं छन्दोमय मनोमयम्
वाङ्मयं परमात्मानं परेशं शंसति श्रुतिः १२०
इति सर्वोपनिषदामर्थस्त्वं कमलेक्षण
स्तोतुं न शक्तोऽयं त्वां तु सर्ववेदान्तपारगम् १२१
महापराधमेतत्ते वत्सापहरणं मया
कृतं तत्क्षम्यतां नाथ शरणागतवत्सल १२२
महेश्वर उवाच-
एवं स्तुत्वा हरिं वेधाः प्रणम्य च पुनः पुनः
वत्सान्दत्वा पुनस्तस्मै प्रययौ स्वयमालयम् १२३
हृदि कृत्वा सदा देवि बालरूपं हरिं विधिः
उवास त्रिदशैः सार्द्धं हृष्टपुष्टो महातपाः १२४
कृष्णेन सृष्टा वत्सा वै पूर्ववत्सास्तथार्भकाः
अवापुरैक्यतां तत्र पश्यतां त्रिदिवौकसाम् १२५
कृष्णस्तु वत्सपालैर्वै प्रययौ नन्दगोकुलम्
ततः कतिपयाहस्सु गोपालैर्यदुपुङ्गवः १२६
ह्रदं गत्वाऽथ कालिन्द्यास्तत्रस्थं सुमहाविषम्
सहस्रशीर्षबलिनं नागराजानमच्युतः १२७
निष्पिष्य फलसाहस्रं पादेनैकेन लीलया
प्राणसंशयमापन्नं चकार मधुसूदनः १२८
स कालियो लब्धसञ्ज्ञस्तमेव शरणं ययौ
ररक्ष भगवान्कृष्णो नागं त्यक्तविषं तदा १२९
वैनतेयभयाद्भीतं स्वपदेनाङ्क्य मूर्द्धसु
ह्रदाद्विवासयामास कालिन्द्या यदुपुङ्गवः १३०
त्यक्त्वा स तं ह्रदं तूर्णं पुत्रदारसमन्वितः
नमस्कृत्वाथ गोविन्दं प्रययौ कालियस्तदा १३१
विषदग्धास्तु ये पूर्वं तत्तीरस्थाश्च शाखिनः
कृष्णेन वीक्षितास्तूर्णं फलिनः पुष्पिणोऽभवन् १३२
अथ कालेन कौमारमवाप्य मधुसूदनः
गोवृन्दं पालयामास सर्वदेवमयः प्रभुः १३३
स्वसमानवयोभिस्तु गोपालैस्तु यदूत्तमः
वृन्दावने मनोरम्ये सरामो विचचार ह १३४
तत्र हत्वा महाघोरं सर्परूपं महासुरम्
अपहत्य महाकायं मेरुमन्दारगौरवम् १३५
धेनुकस्य वनं प्राप्य तालहिन्तालगह्वरम्
प्रविश्यतद्वनंरम्यम्फलितन्तालगह्वरम्
धेनुकं पर्वताकारं खररूपधरं सदा १३६
पादौ गृह्य समुत्क्षिप्य तालेन विजघान ह
तत्क्षणादेव तत्पालास्तदन्ते रेमिरे तदा १३७
निष्क्रम्य तद्वनात्तूर्णं भाण्डीरं वटमागताः
तत्र ते रामकृष्णाभ्यां चिक्रीडुर्बाललीलया १३८
गोपवेषेण तत्रागात्प्रलम्बोनाम राक्षसः
रामं स्वपृष्ठमारोप्य ययौ तूर्णं नभस्तलम् १३९
मत्वा तं राक्षसं रामो मुष्टिना तस्य मूर्द्धनि
ताडयामास रोषेण विह्वलाङ्गस्ततोऽपतत् १४०
राक्षसेनैव रूपेण विनदन्भैरवं स्वनम्
भिन्नशीर्षतनुस्तत्र ममार रुधिरोक्षितः १४१
ततः प्रदोषसमयेगोव्रजे नन्दनन्दनः
उवासगोपकन्याभिः क्रीडन्कौमोदवर्चसे १४२
अरिष्टनामा दैत्येशो गत्वा तत्र वृषाकृतिः
कृष्णं हन्तुं समागत्य जगर्ज च महास्वनम् १४३
तं दृष्ट्वा विद्रुताः सर्वे गोपाला भयपीडिताः
कृष्णोऽपि दृष्ट्वा तं रौद्रमागतं दनुजाधिपम् १४४
तालवृक्षं समुत्पाट्य शृङ्गमध्ये व्यपीडयत्
स तु भग्नशिरः शृङ्गो वमन्वै रुधिरं बहु १४५
पपात भीमवेगेन निनदंस्त्यक्तजीवितः
इत्थं हत्वा महाकायमरिष्टं दनुजाधिपम् १४६
आहूय गोपबालांश्च तत्रैवोवास गोव्रजे
ततः कतिपयाहस्सु केशी नाम महासुरः १४७
हयकायेन गोविन्दं हन्तुं व्रजमुपाययौ
स गत्वा गोव्रजं रम्यमुच्चैर्हेषामथाकरोत् १४८
तेन शब्देन महता पूरितं भुवनत्रयम्
भीताः सर्वे सुरगणाः शङ्कमाना युगक्षयम् १४९
तत्रस्था मोहिताः सर्वे गोपागोप्यश्च विह्वलाः
लब्धसञ्ज्ञास्तु ते सर्वे विद्रुताश्च समन्ततः १५० 6.245.150
गोप्यस्तु शरणं जग्मुः कृष्णं त्राहीति चाब्रुवन्
न भेतव्यं न भेतव्यमित्याह भक्तवत्सलः १५१
समाश्वास्य ततस्तूर्णं मुष्टिना वासवानुजः
ताडयामास शिरसि तस्य दैत्यस्य लीलया १५२
विभिन्नदन्तनेत्रोऽसौ विननाद महास्वनम्
महाशिलां समुत्क्षिप्य तस्याङ्गे वै न्यपातयत् १५३
स तु चूर्णितसर्वाङ्गो निनदन्भैरवं स्वनम्
पपात सहसा भूमौ ममार च महासुरः १५४
केशिनं निहतं दृष्ट्वा दिवि देवगणा भृशम्
मुमुचुः पुष्पवर्षाणि साधुसाध्विति चाब्रुवन् १५५
इत्थं शिशुत्वे वै दैत्यान्हरिर्हत्वा बलोत्कटान्
स मुमोद सुखेनैव बलरामसमन्वितः १५६
इन्दीवरदलश्यामः पद्मपत्रनिभेक्षणः
पीताम्बरधरः स्रग्वी वनमालाविभूषितः १५७
कौस्तुभोद्भासितोरस्कश्चित्रमाल्यानुलेपनः
विचित्राभरणैर्युक्तः कुण्डलाभ्यां विराजितः १५८
आमुक्ततुलसीमालः कस्तूरीतिलकाञ्चितः
सुस्निग्धनीलकुटिल कबरीकृतकेशवान् १५९
बद्धैर्नानाविधैः पुष्पैर्बर्हिबर्हावतंसकः
रक्तारविन्दसदृश हस्तपादतलाधरः १६०
पक्षमध्यगशीतांशु कलङ्कभ्रूलताननः
हारनूपुरकेयूरैः कटकाभ्यां विराजितः १६१
वृन्दावने महारम्ये फलपुष्पविराजिते
रम्यं निनादयन्वेणुं तत्रास्ते यदुनन्दनः १६२
अवधीरित कन्दर्पकोटिलावण्यमच्युतम्
सर्वागोपस्त्रियो दृष्ट्वा मन्मथास्त्रेण पीडिताः १६३
पुरा महर्षयः सर्वे दण्डकारण्यवासिनः
दृष्ट्वा रामं हरिं तत्र भोक्तुमैच्छत्सुविग्रहम् १६४
ते सर्वे स्त्रीत्वमापन्नाः समुद्भूतास्तु गोकुले
हरिं सम्प्राप्य कामेन ततो मुक्ता भवार्णवात् १६५
क्रोधेनैव यथा दैत्याः समेत्य मधुसूदनम्
निधनं प्राप्य सङ्ग्रामे हता मुक्तिमवाप्नुयुः १६६
कामक्रोधौ नृणां लोके निरयस्यैव कारणम्
हरिं समेत्य भावेन मुक्ता गोप्यः सुरद्विषः १६७
कामाद्भयाद्वा द्वेषाद्वा ये भजन्ति जनार्दनम्
ते प्राप्नुवन्ति वैकुण्ठं किं पुनर्भक्तियोगतः १६८
तस्य वेणुध्वनिं श्रुत्वा रजन्यां बल्लवाङ्गनाः
शयनादुत्थिताः सर्वा विकीर्णाम्बरमूर्द्धजाः १६९
त्यक्त्वा पतीन्सुतान्बधूंस्त्यक्त्वा लज्जां कुलं स्वकम्
जगत्पतिं समाजग्मुः कन्दर्पशरपीडिताः १७०
समेत्य गोप्यः सर्वास्तु भुजैरालिङ्ग्य केशवम्
बुभुजुश्चाधरं देव्यः सुधामृतमिवामराः १७१
ताभिः सर्वाभिरात्मेशः क्रीडयामास गोव्रजे
तेनापि ताः स्त्रियः सर्वा रेमिरे निर्भया व्रजे १७२
इत्येवं रमयामासुरहन्यहनि केशवम्
वृन्दावने मनोरम्ये कालिन्दीपुलिने तथा १७३
पार्वत्युवाच-
धर्मसंरक्षणार्थाय जगत्यामवतीर्य सः
परदाराभिगमनं कथं कुर्याज्जनार्दनः १७४
रुद्र उवाच-
स्वशरीरे परेष्वङ्गभेदो नास्ति शुभानने
सर्वं जगच्च तस्याङ्गं पृथगत्र न विद्यते १७५
स्त्रीपुम्भेदो न वै तस्य पुरुषस्य महात्मनः
नैसर्गिकस्य भर्तृत्वादात्मेशत्वाज्जगत्पतेः १७६
तथापहृतपाप्मत्व सामर्थ्याद्व्यापिनः प्रभोः
दोषोऽत्र नास्ति सुभगे देवस्य परमात्मनः १७७
वसिष्ठ उवाच-
एवमुक्त्वा तु गिरिजां रुद्रः श्रीत्रिपुरान्तकः
कृष्णस्यशेषं चरितमाख्यातुं सम्प्रचक्रमे १७८
रुद्र उवाच-
शरत्काले तु सम्प्राप्ते नन्दगोपपुरोगमाः
गोपा महोत्सवं कर्तुमारब्धास्त्रिदशाम्पतेः १७९
तदुत्सवं तु गोविन्दो निवार्याथ शतक्रतोः
गोवर्द्धनाद्रिराजस्य कारयामास वीर्यवान् १८०
ततः क्रुद्धः सहस्राक्षो नन्दगोपस्य गोव्रजे
ववर्ष च महावृष्टिं सप्तरात्रं निरन्तरम् १८१
गोवर्द्धनं समुत्पाट्य महाशैलं जनार्दनः
गवां संरक्षणार्थाय धारयामास लीलया १८२
तस्यच्छायां गिरेः प्राप्य गोपागोप्यश्च सुव्रते
अवसंश्च सुखेनैव हर्म्यान्तरगता इव १८३
ततः शक्रः सहस्राक्षो भीतः सम्भ्रान्तचेतसा
वारयामास तद्वर्षं ययौ नन्दस्य तद्व्रजम् १८४
कृष्णोऽपि तं महाशैलं यथापूर्वं निवेशयत्
गोपवृद्धाश्च ते सर्वे नन्दगोपपुरोगमाः १८५
परिपूज्य च गोविन्दं परं विस्मयमाययुः
ततः शतक्रतुर्देवः समेत्य मधुसूदनम्
तुष्टाव प्राञ्जलिर्भूत्वा हर्षगद्गदया गिरा १८६
इन्द्र उवाच-
नमस्ते पुण्डरीकाक्ष सर्वज्ञाति त्रिविक्रम
त्रिगुणातीत सर्वेश विश्वस्यात्मन्नमोस्तु ते १८७
त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारः क्रतुर्हविः
त्वमेव सर्वदेवानां पिता माता च केशव १८८
अग्रे हिरण्यगर्भस्त्वं भूतस्य समवर्त्तत
त्वमेवैकः पतिरसि पुरुषस्त्वं हिरण्मयः १८९
पृथिवीं द्यामिमां देव त्वमेव धृतवानसि
आत्मदः फलदो यश्च स्यादेवं जगदीश्वर १९०
अवाप्तं तच्च त्रिदशैः प्रकाशं जगताम्पतेः
अमृतं चैव मृत्युश्च छाया तव सनातन १९१
तस्मै देवाय भवते विधेम हविषा वयम्
हेमवन्त इमे यस्य समुद्भूता हिरण्मयाः १९२
समुद्रा रसना यस्य वाहस्तस्यैव केशव
इमा दिशः प्रतिदिशो वायुर्यस्य तवाव्यय १९३
तस्मै देवाय भवते विधेम हविषा वयम्
येन त्वया समारूढा पृथिवी वर्द्धता पुनः १९४
स्वर्लोकः स्तम्भितो येन त्वया ब्रह्मन्महेश्वर
त्वमन्तरिक्षे रजसोवसानः सर्वगोव्ययः १९५
तस्मै देवाय भवते विधेम हविषा वयम्
यं क्रन्दसि राजमाने तप्तभासे गुणान्विते १९६
अभ्यैक्षेतां च मनसा अवश्यं श्रीश्च सर्वदा
यत्रास्ति सूर उदितो विभाति परमे पदे १९७
तस्मै देवाय भवते विधेम हविषा वयम्
यदापो बृहतीर्विश्व ब्रह्ममायं जनार्दनाः १९८
गर्भं दधानाः सर्गेऽत्र जनयन्तीरघौघकृत्
समवर्तत देवानामसुरेकोऽव्ययो विभुः १९९
तस्मै देवाय भवते विधेम हविषा वयम्
या आपो महिना दक्षं पर्यपश्यत्प्रजापतिम् २०० 6.245.200
यज्ञं दधानास्तत्रादौ जनयन्तीर्हविः पुमान्
यो देवेष्वेक एवासीदधिदेवः परात्परः २०१
तस्मै देवाय भवते विधेम हविषा वयम्
मा नो हिंसीज्जनिता यः पृथिव्या अव्ययः पुमान् २०२
यो वा दिवं सत्यधर्मा जजानाव्यय ईश्वरः
यश्चन्द्रो बृहतीरपो जजान सकलं जगत् २०३
तस्मै देवाय भवते विधेम हविषा वयम्
एतानि विश्वजातानि बभूव परिता प्रभो २०४
त्वदुत्पन्नप्रजाध्यक्ष भविष्यद्भूतमच्युतः
यजामस्त्वां च यत्कामास्तन्नो अस्तु समासतः २०५
त्रयाणां पतयः स्याम तव कारुण्यवीक्षणात्
हिरण्मयाख्यः पुरुषो हिरण्यश्मश्रुकेशवान् २०६
आप्रणखात्सर्वं हिरण्यं सविता तु हिरण्यभाक्
असौ सर्वगतो ब्रह्मा यस्त्वादित्ये व्यवस्थितः २०७
तद्वै देवस्य सवितुर्वरेण्यं भर्ग उत्तमम्
सदा धीमहि ते रूपं धियो यो नः प्रभाति हि २०८
नमस्ते पुण्डरीकाक्ष श्रीश सर्वेश केशव
वेदान्तवेद्य यज्ञेश यज्ञरूप नमोस्तु ते २०९
नमस्ते वासुदेवाय गोपवेषाय ते नमः
तत्सर्वध्वंसनादेव अपराधं मया कृतम् २१०
तत्क्षम्यतां जगन्नाथ घृणाब्धे पुरुषोत्तम
अल्पेनैव हि कालेन जहि कंसं दुरासदम्
देवानां हि हितं कृत्वा सुखेवस्थाय मेदिनीम् २११
महादेव उवाच-
इति संस्तुत्य गोविन्दं सर्वदेवेश्वरो हरिः
सुधामृतेनाभ्यषिञ्चद्दिव्याम्बरविभूषणैः २१२
अर्चयित्वा तु देवेशं जगाम त्रिदिवं पुनः
गोपवृद्धाश्च गोप्यश्च दृष्ट्वा तत्र शतक्रतुम् २१३
तेन ते पूजिताश्चैव प्रहर्षमतुलं ययुः
रामकृष्णौ महावीर्यौ दिव्याभरणभूषितौ २१४
नन्दस्य गोव्रजे रम्ये सुसुखेनैव तस्थतुः
एतस्मिन्नन्तरे देवि नारदो मुनिसत्तमः २१५
सहसा मथुरां गत्वा कंसस्यान्तिकमाविशत्
राज्ञा सम्पूजितास्तत्र समासीनः शुभासने २१६
सर्वं विज्ञापयामास चेष्टितं शार्ङ्गिणस्तदा
देवतानां समुद्योगं जन्म वै केशवस्य च २१७
तथा च वसुदेवेन पुत्रनिक्षेपणं व्रजे
निधनं राक्षसानां च सर्पराजविवासनम् २१८
धारणं गिरिवर्यस्य शतक्रतुसमागमम्
निवेदयित्वा कंसस्य सर्वं निरवशेषतः २१९
प्रययौ ब्रह्मभवनं पूजितस्तेन रक्षसा
कंसः समुद्विग्नमना मन्त्रिभिः परिवेष्टितः २२०
मन्त्रयामास तैः साकमात्मनो निधनं प्रति
तत्र बुद्धिमतां श्रेष्ठमक्रूरं धर्मवत्सलम्
उवाचात्महितं कार्यं दानवेन्द्रो महाबलः २२१
कंस उवाच-
मद्भयात्त्रिदशाः सर्वे शतक्रतुपुरोगमाः
विष्णोः समीपमागत्य भयार्त्ताः शरणं गताः २२२
स तेषामभयं दत्वा भगवान्भूतभावनः
उत्पन्नो देवकीगर्भे मां हन्तुं मधुसूदनः २२३
वसुदेवोऽपि दुष्टात्मा वञ्चयित्वा तु मां निशि
पुत्रं निक्षिप्तवान्गेहे नन्दस्य सुदुरात्मनः २२४
बालेनैव दुराधर्षो विजघान महासुरान्
मां हन्तुमपि सन्नद्धो भवेदेव न संशयः २२५
स तु हन्तुं न वै शक्तः सेन्द्रैरपि सुरासुरैः
उपायेनैव हन्तव्यः समानीय मया तदा २२६
मदोत्कटैस्तु मातङ्गैर्मल्लैश्च वरवाजिभिः
येनकेनाप्युपायेन हन्तुं शक्यमिहैव तु २२७
तस्मात्त्वं गोव्रजं गत्वा कृष्णं रामं च यादव
सर्वान्गोपालवृद्धांश्च नन्दगोपपुरोगमान्
उपभोक्तुं धनुर्यागामिहानय यदूत्तम २२८
महादेव उवाच-
तथेत्युक्त्वा यदुश्रेष्ठो रथमारुह्य वीर्यवान्
प्रययौ गोकुलं रम्यं कृष्णं सन्दर्शनोत्सुकः २२९
महाभागवतश्रेष्ठो गवां मध्ये व्यवस्थितम्
ददर्श कृष्णमक्लिष्टमक्रूरो विनयान्वितः २३०
नीलनीरदसङ्काशं सर्वाभरणभूषितम्
पद्मपत्रं विशालाक्षं दीर्घबाहुमनामयम् २३१
पीतवस्त्रेण संवीतं सर्वावयवसुन्दरम्
कौस्तुभोद्भासितोरस्कं रत्नकुण्डलशोभितम् २३२
तुलसीवनमालाढ्यं वन्यपुष्पावतंसकम्
गोपकन्यापरिवृतं दृष्ट्वा तत्र जनार्दनम् २३३
पुलकाङ्कितसर्वाङ्गो हर्षाश्रुप्लुतलोचनः
अवरुह्य रथात्तस्मात्प्रणनाम यदूद्वहः २३४
हर्षात्समेत्य गोपालं परिणीय प्रणम्य च
रक्तारविन्दसदृशौ वज्रचक्राङ्कचिह्नितौ २३५
स्वमूर्ध्नि धृत्वा पादाब्जौ प्रणनाम पुनः पुनः
कैलासशिखराभासं नीलाम्बरधरं प्रभुम् २३६
शरत्पूर्णेन्दुसदृशं मुक्तादामविभूषितम्
बलरामं ततो दृष्ट्वा प्रणनाम स यादवः २३७
हर्षेणोत्थाप्य तौ वीरौ परिगृह्य यदूत्तमौ
गृहमाजग्मतुर्वीरौ तेनाक्रूरेण वृष्णिना २३८
नन्दगोपस्तु तं दृष्ट्वा यदुश्रेष्ठं समागतम्
अभिगम्य महातेजा निवेश्य परमासने २३९
अर्चयामास विधिवदर्घ्यपाद्यादिभिर्मुदा
वस्त्रैः समर्हणैर्दिव्यैरर्चयामास भक्तितः २४०
अक्रूरो रामकृष्णाभ्यां वस्त्राण्याभरणानि च
प्रददौ नन्दगोपाय यशोदायै च यादवः २४१
पृष्ट्वा कुशलमव्यग्रमासीनस्तु कुशासने
राजकार्याणि सर्वाणि सम्पृष्टोवाच बुद्धिमान् २४२
अक्रूर उवाच-
एष कृष्णो महातेजास्साक्षान्नारायणोऽव्ययः
देवतानां हितार्थाय साधूनां रक्षणाय च २४३
भूभारकविनाशाय धर्मसंस्थापनाय च
कंसादीनां तु दैत्यानां सर्वेषां निधनाय च २४४
सम्प्रार्थितः सुरगणैर्मुनिभिश्च महात्मभिः
देवकीजठरे जातः प्रावृट्काले महानिशि २४५
भयात्कंसस्य देवेशमानीयानकदुन्दुभिः
तव गेहे तदा रात्रौ पुत्रं निःक्षिप्तवान्हरिम् २४६
तस्मिन्नेव तु कालेऽपि यशोदा तु यशस्विनी
कन्यां मायांशसम्भूतां प्रसूता तु शुभाननाम् २४७
तया सम्मोहितं सर्वमिदं व्रजकुलं शुभम्
मूर्च्छिताया यशोदायाः शयने यदुपुङ्गवम् २४८
कृष्णं निक्षिप्य तां कन्यामादाय स्वगृहं ययौ
तां तु निक्षिप्य देवक्याः शयने बहिरागमत् २४९
सा रुरोद ततः क्षिप्र देवकीशयने स्थिता
तच्छ्रुत्वा सहसा कंसः कन्यामादाय सुव्रत २५० 6.245.250
भ्रामयित्वा शिलापृष्ठे चिक्षेपोत्पत्य वीर्यवान्
समुत्थाय च सा कन्या सायुधाष्टभुजान्विता
गगनस्था रुषा कंसं प्राह गम्भीरया गिरा २५१
कन्योवाच-
योऽनन्तः सर्वदेवानामीश्वरः पुरुषोत्तमः
यातस्तव वधार्थाय गोव्रजे दानवाधम २५२
अक्रूर उवाच-
इत्युक्त्वा सा महामाया हिमवन्तं समाययौ
तदाप्रभृति दुष्टात्मा भयादुद्विग्नमानसः २५३
दानवान्प्रेषयामास निधनाय महात्मनः
बालेनैव हताः सर्वे लीलयानेन धीमता २५४
अत्यद्भुतानि कर्माणि कृतवान्परमेश्वरः
गोवर्द्धनादिधरणं नागराजविवासनम् २५५
समागमं महेन्द्रस्य निधनं सर्वरक्षसाम्
श्रुत्वा देवर्षिणा ख्यातमतीव भयपीडितः २५६
इतो नीत्वा महाबाहू रामकृष्णौ दुरासदौ
मदोत्कटैर्महानागैर्मल्लैर्वा हन्तुमुद्यतः २५७
कृष्णस्यानयनार्थाय प्रेरयामास मामिह
वसुदेवस्य दुष्टात्मा निग्रहं कृतवानसौ २५८
एतत्सर्वं समाख्यातं चेष्टितं सुदुरात्मनः
उपभोक्तुं धनुर्यागं यूयं सर्वे व्रजौकसः २५९
दध्याज्यादिगृहीत्वा वै श्वोभूते गन्तुमर्हथ
सहिता रामकृष्णाभ्यां गोपाः सर्वे तदन्तिकम् २६०
कृष्णेन निहतः कंसो भविष्यति न संशयः
परित्यज्य भयं तस्माद्गमिष्यध्वं नृपाज्ञया २६१
ईश्वर उवाच-
इत्युक्त्वा स तदाक्रूरस्तूष्णीमासीत्सुबुद्धिमान्
तस्य तद्वचनं श्रुत्वा दारुणं रोमहर्षणम् २६२
नन्दगोपमुखाः सर्वे गोपवृद्धा भयातुराः
अभाषिरे महादुःखसागरे शोकमोहिताः २६३
तानाश्वास्य हरिस्तत्र दृष्ट्वा कमललोचनः
न भीः कार्येति सम्प्राह राक्षसं प्रति वीर्यवान् २६४
विनाशाय प्रयास्यामि कंसस्यास्य दुरात्मनः
मथुरां सह रामेण भवद्भिः सह सङ्गतः २६५
तत्र हत्वा दुरात्मानं कंसं दानवपुङ्गवम्
सर्वांश्च राक्षसान्हत्वा पालयिष्यामि मेदिनीम् २६६
तस्माच्छोकं परित्यज्य गच्छध्वं मथुरां पुरीम्
एवमुक्तास्तु हरिणा गोपानन्दपुरोगमाः २६७
मुहुर्मुहुः परिष्वज्य मूर्द्धघ्राणं प्रचक्रिरे
अप्रमेयानि कर्माणि विचार्य सुमहात्मनः २६८
अक्रूरवचनाच्चैव गोपाः सर्वे गतव्यथाः
दुग्धदध्याज्ययुक्तानि शुचीनि विविधानि च २६९
पक्वान्नानि सुहृद्यानि स्वादूनि मधुराणि च
अक्रूराय ददौ सौम्यं यशोदा भोजनं बहु २७०
सहितो रामकृष्णाभ्यां नन्दाद्यैर्गोपसत्तमैः
सुहृद्भिर्बालवृद्धैश्च भवने समलङ्कृते २७१
दत्तं यशोदया सौम्यं भोजनं कलुषापहम्
बुभुजे यादवश्रेष्ठो ह्यन्नं रोगापहं शुभम् २७२
भोजयित्वा यथान्यायं दत्त्वा च मनमम्भसा
सकर्पूरं सताम्बूलं ददौ तस्मै दृढव्रता २७३
अस्तंयाते दिनकरे सन्ध्यामन्वास्य यादवः
सहितो रामकृष्णाभ्यां भुक्त्वा क्षीरान्नमुत्तमम् २७४
ताभ्यामेव तदाक्रूरः शयनं समुपाविशत्
तस्मिंस्तु भवने श्रेष्ठे रम्ये दीपविराजिते २७५
श्लक्ष्णे विचित्रपर्यङ्के नानापुष्पविराजिते
तस्मिन्शेते हरिः कृष्णः शेषे नारायणो यथा २७६
तं दृष्ट्वा सहसाऽक्रूरो हर्षाश्रुपुलकाङ्कितः
विहाय तामसीं निद्रां सुश्रेयः समुदीक्ष्य वै २७७
पादसंवाहनं विष्णोश्चक्रे भागवतोत्तमः
एतावता मे साफल्यं जीवितं च सुजीवितम् २७८
इदं त्रैलोक्यमैश्वर्यमिदं वै सुखमुत्तमम्
इदं राज्यमिदं धर्म्यमिदं मोक्षसुखं परम् २७९
न शक्यं मनसा स्मर्तुं शिवब्रह्मादिदैवतैः
सनकाद्यैर्मुनीन्द्रैस्तु वसिष्ठाद्यैर्महर्षिभिः २८०
तच्छ्रीशस्य पदद्वन्द्वं शरदम्बुरुहोज्ज्वलम्
संस्पृष्टमिन्दिरा लक्ष्म्या कराभ्यां सुसुखं परम् २८१
दिष्ट्या लब्धं मया विष्णोः श्रीपादाब्जयुगं शुभम्
व्यतीता सा क्षणाद्रात्रिस्तब्रह्मानन्दगौरवात् २८२
ततः प्रभाते विमले दिवि देवगणोत्तमैः
संस्तूयमानो बुबुधे तस्मात्तु शयनाद्धरिः २८३
उपस्पृश्य यथान्यायं सह रामेण धीमता
पपात पादयोर्मातुः प्रयाणं चाभ्यरोचयत् २८४
समुत्थाप्य यशोदा तु दुःखहर्षसमन्विता
अश्रुपूर्णमुखी पुत्रौ प्रेम्णा सम्परिषस्वजे २८५
आशिषं प्रददौ देवी तनयाभ्यां दृढव्रता
विससर्ज महावीरौ समालिङ्ग्य मुहुर्मुहुः २८६
अक्रूरोऽपि यशोदायै प्रणम्य प्राह साञ्जलि २८७
अक्रूर उवाच-
प्रयास्यामि महाभागे प्रसादं कुरु मेऽनघे
एष कृष्णो महाबाहुः कंसं हत्वा महाबलम् २८८
सर्वस्य जगतो राजा भविष्यति न संशयः
तस्माच्छोकं परित्यज्य सुखी भव वरानने २८९
ईश्वर उवाच-
इत्युक्तया तयाऽक्रूरो विसृष्टो यदुसत्तमः
सहितो रामकृष्णाभ्यामारुरोह रथोत्तमम् २९०
प्रययौ मथुरां शीघ्रं स्तूयमानोऽप्सरोगणैः
नन्दगोपमुखाः सर्वे गोपवृद्धास्तमन्वयुः २९१
पुनर्गृहीत्वा दध्याज्यं फलानि विविधानि च
तं प्रयान्तं हरिं दृष्ट्वा गोकुलाद्गोपयोषितः २९२
अनुजग्मुर्विनिष्क्रान्तं रथस्थं मधुसूदनम्
निवर्त्तयामास हरिस्ताः सर्वा गोपयोषितः २९३
शोकसन्तप्तहृदया विलेपुः कमलेक्षणम्
हा कृष्ण कृष्ण कृष्णेति गोविन्देत्यरुदन्मुहुः २९४
अश्रुपूर्णेक्षणादीना रुदन्त्यस्तत्र संस्थिताः
अथाक्रूरो रथं दिव्यं चोदयामास गोव्रजात् २९५
सहितो रामकृष्णाभ्यां मथुरां प्रति यादवः
उत्तीर्य यमुनां शीघ्रं कूले स्थाप्य रथोत्तमम् २९६
अवरुह्य रथात्तस्मात्स्नातुं तत्रोपचक्रमे
तथा चावश्यकं कर्तुं निमज्ज्याथ जले शुभे २९७
तत्राघमर्षणं सम्यग्जपन्भागवतोत्तमः
ददर्श तौ जले तत्र रामकृष्णौ शुभान्वितौ २९८
शरत्कोटीन्दुसङ्काशं नीलाम्बरधरं प्रभुम्
दिव्यचन्दनदिग्धाङ्गं मौक्तिकाभरणच्छविम् २९९
रक्तारविन्दनयनं पुडंरीकावतंसकम्
रामं ददर्श कृष्णं च नीलनीरदसन्निभम् ३०० 6.245.300
दिव्यपीताम्बरधरं पुण्डरीकायतेक्षणम्
हरिचन्दनलिप्ताङ्गं नानारत्नविभूषितम् ३०१
दृष्ट्वा तत्र यदुश्रेष्ठो विस्मयं परमङ्गतः
उत्थाय स्यन्दने तत्र तौ ददर्श महाबलौ ३०२
पुनरप्यत्र निर्मज्ज्य जपन्मन्त्रद्वयं हरिम्
सुधाब्धौ शेषपर्यङ्के रमया सहितं हरिम् ३०३
सनकाद्यैस्तूयमानं सर्वैर्देवैरुपासितम्
दृष्ट्वा तस्मिन्जले देवं विस्मयं परमं ययौ
तुष्टावाथ यदुश्रेष्ठो हरिं सर्वगमीश्वरम् ३०४
अक्रूर उवाच-
कालात्मने नमस्तुभ्यमनादिनिधनाय च
अव्यक्ताय नमस्तुभ्यमविकाराय ते नमः ३०५
भूतभर्त्रे नमस्तुभ्यं भूतव्याघ्र नमो नमः
नमस्ते सर्वभूतानां नियन्त्रे परमात्मने ३०६
विकारायाविकाराय प्रत्यक्षपुरुषाय च
गुणभर्त्रे नमस्तुभ्यं नियमाय नमो नमः ३०७
देशकालादिनिर्भेदरहिताय परात्मने
अनन्ताय नमस्तुभ्यमच्युताय नमो नमः ३०८
गोविन्दाय नमस्तुभ्यं त्रयीनाथाय शार्ङ्गिणे
नारायणाय विश्वाय वासुदेवाय ते नमः ३०९
विष्णवे पुरुरूपाय शाश्वताय नमो नमः
पद्मनेत्राय नित्याय शङ्खचक्रधराय च ३१०
उद्यत्कोटिरविप्रख्य भूषणाञ्चित वर्चसे
हरये सर्वलोकानामीश्वराय नमो नमः ३११
सवित्रे सर्वजगतां बीजाय परमात्मने
सङ्कर्षणाय कृष्णाय प्रद्युम्नाय नमो नमः ३१२
अनिरुद्धाय धात्रे च विधात्रे विश्वयोनये
सहस्रमूर्त्तये तुभ्यं बहुमूर्द्धाङ्घ्रिबाहवे ३१३
सहस्रनाम्ने नित्याय पुरुषाय नमो नमः
नमस्ते नागपर्यङ्कशायिने सौम्यरूपिणे ३१४
केशवाय नमस्तुभ्यं पीतवस्त्रधराय च
लक्ष्मीघनकुचाश्लेष विमर्दोज्ज्वलवर्चसे
श्रीधराय नमस्तुभ्यं श्रीशायानन्तरूपिणे ३१५
ईश्वर उवाच-
स्नानकाले पठेद्यस्तु देवं ध्यायन्सनातनम्
इमं स्तवं नरो भक्त्या महद्भिर्मुच्यते ह्यघैः ३१६
सर्वतीर्थफलं प्राप्य विष्णुसायुज्यमाप्नुयात्
एवमन्तर्जले देवं स्तुत्वा भागवतोत्तमः ३१७
अर्चयामास स जलैः कुसुमैश्च सुगन्धिभिः
कृतकृत्यस्तदाक्रूरो निर्गत्य यमुनाजलात् ३१८
समेत्य रामकृष्णौ तु प्रणनाम शुभान्वितः
तं दृष्ट्वा प्राह गोविन्दो विनीतं विस्मितं हरिः ३१९
श्रीकृष्ण उवाच-
किमाश्चर्यं जले तस्मिन्दृष्टवानसि यादव
ईश्वर उवाच-
अक्रूरस्तु यदुश्रेष्ठं प्राह कृष्णं सुतेजसम् ३२०
अक्रूर उवाच-
तव सर्वगतस्येश महिम्नो जगतः प्रभो
किमाश्चर्यं हृषीकेश जगत्सर्वं त्वमेव हि ३२१
त्वमापस्त्वं नभो वह्निस्त्वं भूमिरनिलस्तथा
चतुर्विधमिमं सर्वं जगत्स्थावरजङ्गमम् ३२२
त्वत्तो नान्यद्वासुदेव जीमूतादमृतं यथा
त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारो हविस्तथा ३२३
त्वमेव सर्वदेवानामीश्वरः शाश्वतोऽव्ययः
नाकारणात्कारणाद्वा करणाकारणात्परः ३२४
धर्मत्राणाय देवेश शरीरग्रहणं तव
मत्स्यकूर्मवराहादि वैभवत्वमुपागतः ३२५
पासि सर्वमिमं लोकं त्वमेव त्वन्मयं विभो ३२६
ईश्वर उवाच-
इति संस्तुत्य गोविन्दं प्रणम्य जगतां पतिम्
आरुरोह रथं दिव्यं ताभ्यां सह यदूत्तमः ३२७
ततस्तूर्णं समासाद्य मथुरां देवनिर्मिताम्
रामकृष्णौ पुरद्वारि निवेश्यान्तःपुरं ययौ ३२८
तयोरागमनं तस्य निवेद्य नृपतेस्तदा
राज्ञा सम्पूजितस्तेन ततः स्वगृहमाविशत् ३२९
अथ सायाह्नसमये रामकृष्णौ महाबलौ
परस्परं करौ गृह्य मथुरायां समागतौ ३३०
गछन्तौ च महावीर्यौ राजमार्गे यदूत्तमौ
ददृशतुर्महात्मानौ रजकं वस्त्ररञ्जकम् ३३१
दिव्यवस्त्रवृतं राजगेहमायान्तमच्युतः
ययाचे तानि वस्त्राणि सह रामेण वीर्यवान् ३३२
न दत्तवांस्तदा तस्मै रुषा वै वस्त्ररञ्जकः
बहूनि कटुवाक्यानि प्राह तत्राध्वनि स्थितः ३३३
ताडयामास तं कृष्णस्तलेनैव महाबलः
तत्रैव निहतो मार्गे वमन्वै रुधिरं बहु ३३४
तानि वस्त्राणि रम्याणि गोपालैः सह बान्धवैः
धारयामासतुर्वीरौ यथाहं रामकेशवौ ३३५
मालाकारगृहं प्राप्य तेन दृष्टौ नमस्कृतौ
सुगन्धिभिर्दिव्यपुष्पैः पूज्यमानौ मुदान्वितौ ३३६
ददतुस्तौ वरं तस्मै वाञ्छितं यदुपुङ्गवौ
समागतौ पुनर्वीथ्यामायान्तीं च शुभाननाम् ३३७
कुब्जां स्त्रियं महाभागौ धृतचन्दनभाजनाम्
वक्राङ्गपृष्ठां वनितां दृष्ट्वा गन्धमयाचतम् ३३८
प्रहसन्ती तदा ताभ्यां ददौ चन्दनमुत्तमम्
आदाय चन्दनं दिव्यमुपलिप्य यथेच्छया ३३९
तस्यैकान्ततरं रूपं दत्त्वाऽध्वनि समागतौ
निरीक्ष्यमाणौ योषिद्भिः सुकुमारौ शुभाननौ ३४०
विवेशतुर्महात्मानौ यज्ञशालां सहानुगैः
दृष्ट्वा समर्चितं दिव्यं कार्मुकं तत्र केशवः ३४१
लीलयैव गृहीत्वाऽथ बभञ्ज मधुसूदनः
बिभज्यमानं तच्चापं श्रुत्वा कंसः सुविह्वलः ३४२
आहूय मल्लान्सूतांस्तु प्रमुखान्दैत्यपुङ्गवान्
विमृश्य मन्त्रिभिः प्राह चाणूरं दैत्यपुङ्गवः ३४३
कंस उवाच-
रामकृष्णौ समायातौ सर्व दैत्यविनाशकौ
प्रभाते मल्लयुद्धेन हन्यतामविशङ्कया ३४४
येनकेनाप्युपायेन हन्तव्यौ बलदर्पितौ
मदोत्कटैर्गजैर्वापि मल्लमुख्यैश्च यत्नतः ३४५
ईश्वर उवाच-
इत्यादिश्य ततो राजा सानुजः सचिवैः सह
आरुरोह भयात्तूर्णं दिव्यप्रासादमूर्द्धनि ३४६
द्वारेषु सर्वमार्गेषु गजान्मत्तानयोजयत्
मल्लान्मदोत्कटान्नागान्स्थापयामास सर्वतः ३४७
ज्ञात्वा कृष्णोऽपि तत्सर्वं सह रामेण धीमता
उवास रजनीं तत्र यज्ञगेहे सहानुगैः ३४८
ततो रजन्यां व्युष्टायां प्रभाते विमले सति
शयनादुत्थितौ वीरौ रामकृष्णौ कृतोदकौ ३४९
स्वलङ्कृतौ च तौ भुक्त्वा सङ्ग्रामाभिमुखोत्सुकौ
विनिर्गतौ गृहात्तस्मात्सिंहाविव महागुहात् ३५० 6.245.350
राजद्वारि स्थितं नागं हिमाद्रिशिखरोपमम्
नाम्ना कुवलयापीडं कंसस्य जयवर्द्धनम् ३५१
देवकुञ्जरदर्पघ्नं महाकायं मदोत्कटम्
दृष्ट्वा तं च महानागं पञ्चास्य इव केशवः ३५२
करेणैव करं गृह्य सम्यगुत्प्लुत्य लीलया
भ्रामयित्वाथ चिक्षेप धरण्यां धरणीधरः ३५३
स तु चूर्णितसर्वाङ्गो निनदन्भैरवं स्वनम्
पपात सहसा भूमौ ममार च महागजः ३५४
हत्वा दन्तौ समुत्पाट्य गृहीत्वा रामकेशवौ
मल्लैरायोधनं कर्तुं रङ्गं विविशतुस्तदा ३५५
तत्रस्था दानवा दृष्ट्वा गोविन्दस्य पराक्रमम्
भीताः प्रविद्रुताःसर्वे राज्ञोन्तःपुरमाययुः ३५६
कपाटौ सुदृढौ बध्वा तत्र तस्थुः सहस्रशः
दृढबन्धकपाटांस्तु दृष्ट्वा कृष्णस्तु लीलया ३५७
ताडयित्वा पदेनैव पातयामास वीर्यवान्
तौ भग्नौ पातितौ तत्र सेनानीके व्यवस्थिते ३५८
तत्रस्था निहताः सर्वे चूर्णिताङ्गशिरोधराः
ततः प्रविश्य भवनं कंसस्यास्य महाबलौ ३५९
भ्रामयन्तौ महाभाग शृङ्गौ पीनौ रणोत्सुकौ
ददृशाते महात्मानौ मल्लौ चाणूरमुष्टिकौ ३६०
कंसोऽपि दृष्ट्वा गोविन्दं रामं च सुमहाबलम्
भयमाविश्य चाणूरं प्राह मल्लवरं तदा ३६१
कंस उवाच-
अस्मिन्नवसरे मल्ल जहि गोपालबालकौ
विभज्य तव राज्यार्द्धमहं दास्याम्ययत्नतः ३६२
ईश्वर उवाच-
तस्मिन्नवसरे कृष्णो मल्लाभ्यां दृश्यते महान्
मध्ये वने च सङ्ग्रामे महामेरुरिवापरः ३६३
कंसस्य दृष्टिविषये संवर्त्ताग्निरिवाच्युतः
स्त्रीणां च साक्षान्मदनः पित्रोः शिशुरिवापरः ३६४
त्रिदशानां हरिरिव गोपालानां सखा यथा
बहुरूपेण ददृशुस्तत्र सर्वगतं हरिम् ३६५
वसुदेवस्तथाऽक्रूरो नन्दगोपो महामतिः
अन्यं प्रासादमारुह्य ददृशुः कदनं महत् ३६६
स्त्रीभिरन्तःपुरस्थाभिर्देवकी तत्र संस्थिता
मुखं पुत्रस्य ददृशे साश्रुपूर्णेक्षणा शुभा ३६७
ताभिराश्वासिता देवी भवनान्तरमाविशत्
ततो देवगणाः सर्वे विमानस्था नभस्तले ३६८
तुष्टुवुर्जयशब्देन पुण्डरीकाक्षमच्युतम्
जहि कंसमिति प्राहुरुच्चैर्देवा मरुद्गणाः ३६९
एतस्मिन्नन्तरे तत्र तूर्यघोषनिनादिते
आसेदतुर्महामल्लौ यदुसिंहौ महाबलौ ३७०
चाणूरेण तु गोविन्दो मुष्टिकेन हलायुधः
युयुधाते महात्मानौ नीलश्वेताद्रि सन्निभौ ३७१
मल्लयुद्धविधानेन मुष्टिभिः पादताडनैः
बभूव कदनं घोरं देवानां च भयावहम् ३७२
चाणूरेण चिरं कालं क्रीडित्वाऽथ जनार्दनः
निष्पिष्य गान्त्रं मल्लस्य पातयामास लीलया ३७३
स पपात महीपृष्ठे संवमन्रुधिरं बहु
ममार च महामल्लो देवदानवदुःखदः ३७४
मुष्टिकेन तथा रामश्चिरकालमयुध्यत
मुष्टिभिस्ताडयामास तस्य वक्षसि वीर्यवान् ३७५
भिन्नास्थि स्नायुबन्धोऽसौ पपात धरणीतले
ततस्तु दुद्रुवुः सर्वे मल्ला दृष्ट्वा पराक्रमम् ३७६
कंसो महद्भयं तीव्रमाविशद्वेदनातुरः
एतस्मिन्नन्तरे वीरौ रामकृष्णौ दुरासदौ ३७७
आरोहतुर्महात्मानौ चैत्यप्रासादमूर्जितम्
ताडयित्वा तलेनैव कंसं मूर्ध्नि जनार्दनः ३७८
अपातयद्धरा पृष्ठे प्रासादशिखराद्धरिः
स तु निर्भिन्नसर्वाङ्गो धरण्यां त्यक्तजीवितः ३७९
कृष्णेन निहते कंसे रामोऽपि सुमहाबलः
तस्यानुजं सुनामानं मुष्टिनैव जघान ह ३८०
धरण्यां पातयामासानुजं च धरणीधरः
हत्वा कंसं दुरात्मानं सानुजं रामकेशवौ ३८१
पित्रोः समीपमागम्य भक्त्या चैव प्रणेमतुः
देवकीवसुदेवश्च परिष्वज्य मुहुर्मुहुः ३८२
स्नेहेन मूर्ध्न्युपाघ्राणं चक्रतुः पुत्रलालसौ
तयोरुपरि देवक्याः स्तनौ क्षीरं ववर्षतुः ३८३
तत आश्वास्य पितरौ रामकृष्णौ बहिर्गतौ
एतस्मिन्नन्तरे देवि देवदुन्दुभयो दिवि ३८४
विनेदुः पुष्पवर्षाणि ववृषुस्त्रिदशेश्वराः
स्तुत्वा मरुद्गणैर्दिव्यैर्नमस्कृत्य जनार्दनम् ३८५
परं हर्षमनुप्राप्य लोकान्स्वान्स्वान् प्रपेदिरे
नन्दगोपं नमस्कृत्य गोपवृद्धांश्च केशवः ३८६
रामेण सह धर्मात्मा मुदा सम्परिषस्वजे
बहुरत्नधनं तस्मै ददौ प्रीत्या जनार्दनः ३८७
सर्वांस्तान्गोपवृद्धांश्च वस्त्रैराभरणादिभिः
बहुभिर्धनधान्यैश्च पूजयामास केशवः ३८८
विसृष्टास्तेन कृष्णेन नन्दगोपपुरोगमाः
प्रययुर्गोव्रजं दिव्यं हर्षशोकसमन्विताः ३८९
मातामहं समासाद्य रामकृष्णौ दुरासदौ
बन्धाद्विमोचयित्वाथ समाश्वास्य मुहुर्मुहुः ३९०
चक्रे तस्याभिषेकं तु तद्राज्ये मधुसूदनः
अकारयद्द्विजश्रेष्ठैः स कंसस्योर्ध्वदैहिकम् ३९१
अक्रूरप्रमुखान्राज्ये संस्थाप्य यदुपुङ्गवान्
राजानमुग्रसेनं तु कृत्वा धर्मेण मेदिनीम्
पालयामास धर्मात्मा वसुदेवसुतो हरिः ३९२
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वरसंवादे श्रीकृष्णचरिते कंसवधोनाम पञ्चचत्वारिंशदधिकद्विशततमोऽध्यायः २४५