२४४

शङ्कर उवाच-

विश्वास-प्रस्तुतिः

अथ रामस्तु वैदेह्या राज्यभोगान्मनोरमान्
बुभुजे वर्षसाहस्रं पालयन्सर्वतोदिशः ॥ १ ॥

मूलम्

अथ रामस्तु वैदेह्या राज्यभोगान्मनोरमान्
बुभुजे वर्षसाहस्रं पालयन्सर्वतोदिशः ॥ १ ॥

विश्वास-प्रस्तुतिः

अन्तःपुरजनास्सर्वे राक्षसस्य गृहे स्थिताम्
गर्हयन्ति स्म वैदेहीं तथा जानपदा जनाः ॥ २ ॥

मूलम्

अन्तःपुरजनास्सर्वे राक्षसस्य गृहे स्थिताम्
गर्हयन्ति स्म वैदेहीं तथा जानपदा जनाः ॥ २ ॥

विश्वास-प्रस्तुतिः

लोकापवादभीत्या च रामः शत्रुनिवारकः
दर्शयन्मानुषं धर्ममन्तर्वत्नीं नृपात्मजाम् ॥ ३ ॥

मूलम्

लोकापवादभीत्या च रामः शत्रुनिवारकः
दर्शयन्मानुषं धर्ममन्तर्वत्नीं नृपात्मजाम् ॥ ३ ॥

विश्वास-प्रस्तुतिः

वाल्मीकेराश्रमे पुण्ये गङ्गातीरे महावने
विससर्ज महातेजा गर्भिणीं मुनिसंसदि ॥ ४ ॥

मूलम्

वाल्मीकेराश्रमे पुण्ये गङ्गातीरे महावने
विससर्ज महातेजा गर्भिणीं मुनिसंसदि ॥ ४ ॥

विश्वास-प्रस्तुतिः

सा भर्तुः परतन्त्रा हि उवास मुनिवेश्मनि
अर्चिता मुनिपत्नीभिर्वाल्मीकमुनि रक्षिता ॥ ५ ॥

मूलम्

सा भर्तुः परतन्त्रा हि उवास मुनिवेश्मनि
अर्चिता मुनिपत्नीभिर्वाल्मीकमुनि रक्षिता ॥ ५ ॥

विश्वास-प्रस्तुतिः

तत्रैवासूत यमलौ नाम्ना कुशलवौ सुतौ
तौ च तत्रैव मुनिना संस्कृतौ च ववर्धतुः ॥ ६ ॥

मूलम्

तत्रैवासूत यमलौ नाम्ना कुशलवौ सुतौ
तौ च तत्रैव मुनिना संस्कृतौ च ववर्धतुः ॥ ६ ॥

विश्वास-प्रस्तुतिः

रामोऽपि भ्रातृभिस्सार्द्धं पालयामास मेदिनीम्
यमादिगुणसम्पन्नस्सर्वभोगविवर्जितः ॥ ७ ॥

मूलम्

रामोऽपि भ्रातृभिस्सार्द्धं पालयामास मेदिनीम्
यमादिगुणसम्पन्नस्सर्वभोगविवर्जितः ॥ ७ ॥

विश्वास-प्रस्तुतिः

अर्चयन्सततं विष्णुमनादिनिधनं हरिम्
ब्रह्मचर्यपरो नित्यं शशास पृथिवीं नृपः ॥ ८ ॥

मूलम्

अर्चयन्सततं विष्णुमनादिनिधनं हरिम्
ब्रह्मचर्यपरो नित्यं शशास पृथिवीं नृपः ॥ ८ ॥

विश्वास-प्रस्तुतिः

शत्रुघ्नो लवणं हत्वा मथुरां देवनिर्मिताम्
पालयामास धर्मात्मा पुत्राभ्यां सह राघवः ॥ ९ ॥

मूलम्

शत्रुघ्नो लवणं हत्वा मथुरां देवनिर्मिताम्
पालयामास धर्मात्मा पुत्राभ्यां सह राघवः ॥ ९ ॥

विश्वास-प्रस्तुतिः

गन्धर्वान्भरतो हत्वा सिन्धोरुभयपार्श्वतः
स्वात्मजौ स्थापयामास तस्मिन्देशे महाबलौ ॥ १० ॥

मूलम्

गन्धर्वान्भरतो हत्वा सिन्धोरुभयपार्श्वतः
स्वात्मजौ स्थापयामास तस्मिन्देशे महाबलौ ॥ १० ॥

विश्वास-प्रस्तुतिः

पश्चिमे मद्रदेशे तु मद्रान्हत्वा च लक्ष्मणः
स्वसुतौ च महावीर्यौ अभिषिच्य महाबलः ॥ ११ ॥

मूलम्

पश्चिमे मद्रदेशे तु मद्रान्हत्वा च लक्ष्मणः
स्वसुतौ च महावीर्यौ अभिषिच्य महाबलः ॥ ११ ॥

विश्वास-प्रस्तुतिः

गत्वा पुनरयोध्यां तु रामपादावुपस्पृशत्
ब्राह्मणस्य मृतं बालं कालधर्ममुपागतम् ॥ १२ ॥

मूलम्

गत्वा पुनरयोध्यां तु रामपादावुपस्पृशत्
ब्राह्मणस्य मृतं बालं कालधर्ममुपागतम् ॥ १२ ॥

विश्वास-प्रस्तुतिः

जीवयामास काकुत्स्थः शूद्रं हत्वा च तापसम्
ततस्तु गौतमीतीरे नैमिषे जनसंसदि ॥ १३ ॥

मूलम्

जीवयामास काकुत्स्थः शूद्रं हत्वा च तापसम्
ततस्तु गौतमीतीरे नैमिषे जनसंसदि ॥ १३ ॥

विश्वास-प्रस्तुतिः

इयाज वाजिमेधं च राघवः परवीरहा
काञ्चनीं जानकीं कृत्वा तया सार्द्धं महाबलः ॥ १४ ॥

मूलम्

इयाज वाजिमेधं च राघवः परवीरहा
काञ्चनीं जानकीं कृत्वा तया सार्द्धं महाबलः ॥ १४ ॥

विश्वास-प्रस्तुतिः

चकार यज्ञान्बहुशो राघवः परमार्थवित्
अयुतान्यश्वमेधानि वाजपेयानि च प्रभुः ॥ १५ ॥

मूलम्

चकार यज्ञान्बहुशो राघवः परमार्थवित्
अयुतान्यश्वमेधानि वाजपेयानि च प्रभुः ॥ १५ ॥

विश्वास-प्रस्तुतिः

अग्निष्टोमं विश्वजितं गोमेधं च शतक्रतुम्
चकार विविधान्यज्ञान्परिपूर्णसदक्षिणान् ॥ १६ ॥

मूलम्

अग्निष्टोमं विश्वजितं गोमेधं च शतक्रतुम्
चकार विविधान्यज्ञान्परिपूर्णसदक्षिणान् ॥ १६ ॥

विश्वास-प्रस्तुतिः

एतस्मिन्नन्तरे तत्र वाल्मीकिः सुमहातपाः
सीतामानीय काकुत्स्थमिदं वचनमब्रवीत् ॥ १७ ॥

मूलम्

एतस्मिन्नन्तरे तत्र वाल्मीकिः सुमहातपाः
सीतामानीय काकुत्स्थमिदं वचनमब्रवीत् ॥ १७ ॥

विश्वास-प्रस्तुतिः

वाल्मीकिरुवाच-
अपापां मैथिलीं राम त्यक्तुं नार्हसि सुव्रत
इयं तु विरजा साध्वी भास्करस्य प्रभा यथा
अनन्या तव काकुत्स्थ कस्मात्त्यक्ता त्वयानघ ॥ १८ ॥

मूलम्

वाल्मीकिरुवाच-
अपापां मैथिलीं राम त्यक्तुं नार्हसि सुव्रत
इयं तु विरजा साध्वी भास्करस्य प्रभा यथा
अनन्या तव काकुत्स्थ कस्मात्त्यक्ता त्वयानघ ॥ १८ ॥

विश्वास-प्रस्तुतिः

राम उवाच-
अपापां मैथिलीं ब्रह्मन्जानामि वचनात्तव
रावणेन हृता साध्वी दण्डके विजने पुरा ॥ १९ ॥

मूलम्

राम उवाच-
अपापां मैथिलीं ब्रह्मन्जानामि वचनात्तव
रावणेन हृता साध्वी दण्डके विजने पुरा ॥ १९ ॥

विश्वास-प्रस्तुतिः

तं हत्वा समरे सीतां शुद्धामग्निमुखागताम्
पुनर्यातोस्म्ययोध्यायां सीतामादाय धर्मतः ॥ २० ॥

मूलम्

तं हत्वा समरे सीतां शुद्धामग्निमुखागताम्
पुनर्यातोस्म्ययोध्यायां सीतामादाय धर्मतः ॥ २० ॥

विश्वास-प्रस्तुतिः

लोकापवादः सुमहानभूत्पौरजनेषु च
त्यक्ता मया शुभाचारा तद्भयात्तव सन्निधौ ॥ २१ ॥

मूलम्

लोकापवादः सुमहानभूत्पौरजनेषु च
त्यक्ता मया शुभाचारा तद्भयात्तव सन्निधौ ॥ २१ ॥

विश्वास-प्रस्तुतिः

तस्माल्लोकस्य सन्तुष्ट्यै सीता मम परायणा
पार्थिवानां महर्षीणां प्रत्ययं कर्तुमर्हति ॥ २२ ॥

मूलम्

तस्माल्लोकस्य सन्तुष्ट्यै सीता मम परायणा
पार्थिवानां महर्षीणां प्रत्ययं कर्तुमर्हति ॥ २२ ॥

विश्वास-प्रस्तुतिः

महेश्वर उवाच-
एवमुक्ता तदा सीता मुनिपार्थिवसंसदि
चकारप्रत्ययं देवी लोकाश्चर्यकरं सती ॥ २३ ॥

मूलम्

महेश्वर उवाच-
एवमुक्ता तदा सीता मुनिपार्थिवसंसदि
चकारप्रत्ययं देवी लोकाश्चर्यकरं सती ॥ २३ ॥

विश्वास-प्रस्तुतिः

दर्शयंस्तस्य लोकस्य रामस्यानन्यतां सती
अब्रवीत्प्राञ्जलिः सीता सर्वेषां जनसंसदि ॥ २४ ॥

मूलम्

दर्शयंस्तस्य लोकस्य रामस्यानन्यतां सती
अब्रवीत्प्राञ्जलिः सीता सर्वेषां जनसंसदि ॥ २४ ॥

विश्वास-प्रस्तुतिः

सीतोवाच-
यथाऽहं राघवादन्यं मनसापि न चिन्तये
तथा मे धरणी देवी विवरन्दातुमर्हति ॥ २५ ॥

मूलम्

सीतोवाच-
यथाऽहं राघवादन्यं मनसापि न चिन्तये
तथा मे धरणी देवी विवरन्दातुमर्हति ॥ २५ ॥

विश्वास-प्रस्तुतिः

यथैव सत्यमुक्तं मे वेद्मि रामात्परं न च
तथा स्वपुत्र्यां वैदेह्यां धरणी सहसा इयात् ॥ २६ ॥

मूलम्

यथैव सत्यमुक्तं मे वेद्मि रामात्परं न च
तथा स्वपुत्र्यां वैदेह्यां धरणी सहसा इयात् ॥ २६ ॥

विश्वास-प्रस्तुतिः

महेश्वर उवाच-
ततो रत्नमयं पीठं पृष्ठे धृत्वा खगेश्वरः
रसातलात्तदा वीरो विज्ञाय जननीं तदा ॥ २७ ॥

मूलम्

महेश्वर उवाच-
ततो रत्नमयं पीठं पृष्ठे धृत्वा खगेश्वरः
रसातलात्तदा वीरो विज्ञाय जननीं तदा ॥ २७ ॥

विश्वास-प्रस्तुतिः

ततस्तु धरणीदेवी हस्ताभ्यां गृह्य मैथिलीम्
स्वागतेनाभिनन्द्यैनामासने सन्न्यवेशयत् ॥ २८ ॥

मूलम्

ततस्तु धरणीदेवी हस्ताभ्यां गृह्य मैथिलीम्
स्वागतेनाभिनन्द्यैनामासने सन्न्यवेशयत् ॥ २८ ॥

विश्वास-प्रस्तुतिः

सीतां समागतां दृष्ट्वा दिवि देवगणा भृशम्
पुष्पवृष्टिमविच्छिन्नां दिव्यां सीतामवाकिरन् ॥ २९ ॥

मूलम्

सीतां समागतां दृष्ट्वा दिवि देवगणा भृशम्
पुष्पवृष्टिमविच्छिन्नां दिव्यां सीतामवाकिरन् ॥ २९ ॥

विश्वास-प्रस्तुतिः

सापि दिव्याप्सरोभिस्तु पूज्यमाना सनातनी
वैनतेयं समारुह्य तस्मान्मार्गाद्दिवं ययौ ॥ ३० ॥

मूलम्

सापि दिव्याप्सरोभिस्तु पूज्यमाना सनातनी
वैनतेयं समारुह्य तस्मान्मार्गाद्दिवं ययौ ॥ ३० ॥

विश्वास-प्रस्तुतिः

दासीगणैः पूर्वभागे संवृता जगदीश्वरी
सम्प्राप्य परमं धाम योगिगम्यं सनातनम् ॥ ३१ ॥

मूलम्

दासीगणैः पूर्वभागे संवृता जगदीश्वरी
सम्प्राप्य परमं धाम योगिगम्यं सनातनम् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

रसातलप्रविष्टां तु तां दृष्ट्वा सर्वमानुषाः
साधुसाध्विति सीतेयमुच्चैः सर्वे प्रचुक्रुशुः ॥ ३२ ॥

मूलम्

रसातलप्रविष्टां तु तां दृष्ट्वा सर्वमानुषाः
साधुसाध्विति सीतेयमुच्चैः सर्वे प्रचुक्रुशुः ॥ ३२ ॥

विश्वास-प्रस्तुतिः

रामः शोकसमाविष्टः सङ्गृह्य तनयावुभौ
मुनिभिः पार्थिवेन्द्रैश्च साकेतं प्रविवेश ह ॥ ३३ ॥

मूलम्

रामः शोकसमाविष्टः सङ्गृह्य तनयावुभौ
मुनिभिः पार्थिवेन्द्रैश्च साकेतं प्रविवेश ह ॥ ३३ ॥

विश्वास-प्रस्तुतिः

अथ कालेन महता मातरः संशितव्रताः
कालधर्मं समापन्ना भर्तुः स्वर्गं प्रपेदिरे ॥ ३४ ॥

मूलम्

अथ कालेन महता मातरः संशितव्रताः
कालधर्मं समापन्ना भर्तुः स्वर्गं प्रपेदिरे ॥ ३४ ॥

विश्वास-प्रस्तुतिः

दशवर्षसहस्राणि दशवर्षशतानि च
चकार राज्यं धर्मेण राघवः संशितव्रतः ॥ ३५ ॥

मूलम्

दशवर्षसहस्राणि दशवर्षशतानि च
चकार राज्यं धर्मेण राघवः संशितव्रतः ॥ ३५ ॥

विश्वास-प्रस्तुतिः

कस्यचित्त्वथकालस्य राघवस्य निवेशनम्
कालस्तापसरूपेण सम्प्राप्तो वाक्यमब्रवीत् ॥ ३६ ॥

मूलम्

कस्यचित्त्वथकालस्य राघवस्य निवेशनम्
कालस्तापसरूपेण सम्प्राप्तो वाक्यमब्रवीत् ॥ ३६ ॥

विश्वास-प्रस्तुतिः

काल उवाच-
राम राम महाबाहो धात्रा सम्प्रेषितोऽस्म्यहम्
यद्ब्रवीमि रघुश्रेष्ठ तच्छृणुष्व महामते ॥ ३७ ॥

मूलम्

काल उवाच-
राम राम महाबाहो धात्रा सम्प्रेषितोऽस्म्यहम्
यद्ब्रवीमि रघुश्रेष्ठ तच्छृणुष्व महामते ॥ ३७ ॥

विश्वास-प्रस्तुतिः

द्वन्द्वमेव हि कार्यं स्यादावयोः परिभाषितम्
तदन्तरे प्रविष्टोयस्स वद्ध्यो हि भविष्यति ॥ ३८ ॥

मूलम्

द्वन्द्वमेव हि कार्यं स्यादावयोः परिभाषितम्
तदन्तरे प्रविष्टोयस्स वद्ध्यो हि भविष्यति ॥ ३८ ॥

विश्वास-प्रस्तुतिः

महेश्वर उवाच-
तथेति च प्रतिश्रुत्य रामो राजीवलोचनः
द्वास्थं कृत्वा तु सौमित्रिं कालो वाक्यमभाषत
वैवस्वतोऽब्रवीद्वाक्यं रामं दशरथात्मजम् ॥ ३९ ॥

मूलम्

महेश्वर उवाच-
तथेति च प्रतिश्रुत्य रामो राजीवलोचनः
द्वास्थं कृत्वा तु सौमित्रिं कालो वाक्यमभाषत
वैवस्वतोऽब्रवीद्वाक्यं रामं दशरथात्मजम् ॥ ३९ ॥

विश्वास-प्रस्तुतिः

काल उवाच-
शृणु राम यथावृत्तं समागमनकारणात्
दशवर्षसहस्राणि दशवर्षशतानि च ॥ ४० ॥

मूलम्

काल उवाच-
शृणु राम यथावृत्तं समागमनकारणात्
दशवर्षसहस्राणि दशवर्षशतानि च ॥ ४० ॥

विश्वास-प्रस्तुतिः

वसामि मानुषे लोके हत्वा राक्षसपुङ्गवौ
एवमुक्तः सुरगणैरवतीर्णोसि भूतले ॥ ४१ ॥

मूलम्

वसामि मानुषे लोके हत्वा राक्षसपुङ्गवौ
एवमुक्तः सुरगणैरवतीर्णोसि भूतले ॥ ४१ ॥

विश्वास-प्रस्तुतिः

तदयं समयः प्राप्तः स्वर्लोकं गमितुं त्वया
सनाथा हि सुरास्सर्वे भवन्त्वद्य त्वयानघ ॥ ४२ ॥

मूलम्

तदयं समयः प्राप्तः स्वर्लोकं गमितुं त्वया
सनाथा हि सुरास्सर्वे भवन्त्वद्य त्वयानघ ॥ ४२ ॥

विश्वास-प्रस्तुतिः

महेश्वर उवाच-
एवमस्त्विति काकुत्स्थो रामः प्राह महामुनिम्
एतस्मिन्नन्तरे तत्र दुर्वासास्तु महातपाः ॥ ४३ ॥

मूलम्

महेश्वर उवाच-
एवमस्त्विति काकुत्स्थो रामः प्राह महामुनिम्
एतस्मिन्नन्तरे तत्र दुर्वासास्तु महातपाः ॥ ४३ ॥

विश्वास-प्रस्तुतिः

राजद्वारमुपागम्य लक्ष्मणं वाक्यमब्रवीत्
दुर्वासा उवाच-
मां निवेदय काकुत्स्थं शीघ्रं गत्वा नृपात्मज ॥ ४४ ॥

मूलम्

राजद्वारमुपागम्य लक्ष्मणं वाक्यमब्रवीत्
दुर्वासा उवाच-
मां निवेदय काकुत्स्थं शीघ्रं गत्वा नृपात्मज ॥ ४४ ॥

विश्वास-प्रस्तुतिः

महेश्वर उवाच-
तमब्रवील्लक्ष्मणस्तु असान्निध्यमिति द्विज
ततः क्रोधसमाविष्टः प्राह तं मुनिसत्तमः ॥ ४५ ॥

मूलम्

महेश्वर उवाच-
तमब्रवील्लक्ष्मणस्तु असान्निध्यमिति द्विज
ततः क्रोधसमाविष्टः प्राह तं मुनिसत्तमः ॥ ४५ ॥

विश्वास-प्रस्तुतिः

दुर्वासा उवाच-
शापं दास्यामि काकुत्स्थं रामं न यदि दर्शये
महेश्वर उवाच-
तस्माच्छापभयाद्विप्रं राघवाय न्यवेदयत्
तत्रैवान्तर्दधे कालः सर्वभूतभयावहः ॥ ४६ ॥

मूलम्

दुर्वासा उवाच-
शापं दास्यामि काकुत्स्थं रामं न यदि दर्शये
महेश्वर उवाच-
तस्माच्छापभयाद्विप्रं राघवाय न्यवेदयत्
तत्रैवान्तर्दधे कालः सर्वभूतभयावहः ॥ ४६ ॥

विश्वास-प्रस्तुतिः

पूजयामास तं प्राप्तमृषिं दुर्वाससं नृपः
अग्रजस्य प्रतिज्ञा तं विज्ञाय रघुसत्तमः ॥ ४७ ॥

मूलम्

पूजयामास तं प्राप्तमृषिं दुर्वाससं नृपः
अग्रजस्य प्रतिज्ञा तं विज्ञाय रघुसत्तमः ॥ ४७ ॥

विश्वास-प्रस्तुतिः

तत्याज मानुषं रूपं लक्ष्मणः सरयूजले
विसृज्य मानुषं रूपं प्रविवेश स्वकां तनुम् ॥ ४८ ॥

मूलम्

तत्याज मानुषं रूपं लक्ष्मणः सरयूजले
विसृज्य मानुषं रूपं प्रविवेश स्वकां तनुम् ॥ ४८ ॥

विश्वास-प्रस्तुतिः

फणासहस्रसंयुक्तः कोटीन्दुसमवर्चसः
दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः ॥ ४९ ॥

मूलम्

फणासहस्रसंयुक्तः कोटीन्दुसमवर्चसः
दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः ॥ ४९ ॥

विश्वास-प्रस्तुतिः

नागकन्यासहस्रैस्तु संवृतः समलङ्कृतः
विमानं दिव्यमारुह्य प्रययौ वैष्णवं पदम् ५० 6.244.50
लक्ष्मणस्य गतिं सर्वां विदित्वा रघुसत्तमः
स्वयमप्यथ काकुत्स्थः स्वर्गं गन्तुमभीप्सितः ॥ ५१ ॥

अभिषिच्याथ काकुत्स्थः स्वात्मजौ च कुशीलवौ
विभज्य रथनागाश्वं सधनं प्रददौ तयोः ॥ ५२ ॥

मूलम्

अभिषिच्याथ काकुत्स्थः स्वात्मजौ च कुशीलवौ
विभज्य रथनागाश्वं सधनं प्रददौ तयोः ॥ ५२ ॥

विश्वास-प्रस्तुतिः

कुशवत्यां कुशं तं च शरवत्यां लवं तथा
स्थापयामास धर्मेण राज्ये स्वे रघुसत्तमः ॥ ५३ ॥

मूलम्

कुशवत्यां कुशं तं च शरवत्यां लवं तथा
स्थापयामास धर्मेण राज्ये स्वे रघुसत्तमः ॥ ५३ ॥

विश्वास-प्रस्तुतिः

अभिप्रायं तु विज्ञाय रामस्य विदितात्मनः
आजग्मुर्वानराः सर्वे राक्षसाः सुमहाबलाः ॥ ५४ ॥

मूलम्

अभिप्रायं तु विज्ञाय रामस्य विदितात्मनः
आजग्मुर्वानराः सर्वे राक्षसाः सुमहाबलाः ॥ ५४ ॥

विश्वास-प्रस्तुतिः

विभीषणोऽथ सुग्रीवो जाम्बवान्मारुतात्मजः
नीलो नलः सुषेणश्च निषादाधिपतिर्गुहः ॥ ५५ ॥

मूलम्

विभीषणोऽथ सुग्रीवो जाम्बवान्मारुतात्मजः
नीलो नलः सुषेणश्च निषादाधिपतिर्गुहः ॥ ५५ ॥

विश्वास-प्रस्तुतिः

अभिषिच्य सुतौ वीरौ शत्रुघ्नश्च महामनाः
सर्व एते समाजग्मुरयोध्यां रामपालिताम् ॥ ५६ ॥

मूलम्

अभिषिच्य सुतौ वीरौ शत्रुघ्नश्च महामनाः
सर्व एते समाजग्मुरयोध्यां रामपालिताम् ॥ ५६ ॥

विश्वास-प्रस्तुतिः

ते प्रणम्य महात्मानमूचुः प्राञ्जलयस्तथा
वानरप्रभृतय ऊचुः -
स्वर्लोकं गन्तुमुद्युक्तं ज्ञात्वा त्वां रघुसत्तम ॥ ५७ ॥

मूलम्

ते प्रणम्य महात्मानमूचुः प्राञ्जलयस्तथा
वानरप्रभृतय ऊचुः -
स्वर्लोकं गन्तुमुद्युक्तं ज्ञात्वा त्वां रघुसत्तम ॥ ५७ ॥

विश्वास-प्रस्तुतिः

आगताः स्म वयं सर्वे तवानुगमनं प्रति
न शक्ताः स्म क्षणं राम जीवितुं त्वां विना प्रभो
तस्मात्त्वया विशालाक्ष गच्छामस्त्रिदशालयम् ॥ ५८ ॥

मूलम्

आगताः स्म वयं सर्वे तवानुगमनं प्रति
न शक्ताः स्म क्षणं राम जीवितुं त्वां विना प्रभो
तस्मात्त्वया विशालाक्ष गच्छामस्त्रिदशालयम् ॥ ५८ ॥

विश्वास-प्रस्तुतिः

महेश्वर उवाच-
तैरेवमुक्तः काकुत्स्थो बाढमित्यब्रवीत्ततः
अथोवाच महातेजा राक्षसेन्द्रं विभीषणम् ॥ ५९ ॥

मूलम्

महेश्वर उवाच-
तैरेवमुक्तः काकुत्स्थो बाढमित्यब्रवीत्ततः
अथोवाच महातेजा राक्षसेन्द्रं विभीषणम् ॥ ५९ ॥

विश्वास-प्रस्तुतिः

राम उवाच-
राज्यं प्रशास धर्मेण मा प्रतिज्ञां वृथा कृथाः
यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी
तावद्रमस्व सुप्रीतो काले मम पदं व्रज ॥ ६० ॥

मूलम्

राम उवाच-
राज्यं प्रशास धर्मेण मा प्रतिज्ञां वृथा कृथाः
यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी
तावद्रमस्व सुप्रीतो काले मम पदं व्रज ॥ ६० ॥

विश्वास-प्रस्तुतिः

महेश्वर उवाच-
इत्युक्त्वाथ स काकुत्स्थः स्वाड्गं विष्णुं सनातनम्
श्रीरङ्गशायिनं सौम्यमिक्ष्वाकुकुलदैवतम् ॥ ६१ ॥

मूलम्

महेश्वर उवाच-
इत्युक्त्वाथ स काकुत्स्थः स्वाड्गं विष्णुं सनातनम्
श्रीरङ्गशायिनं सौम्यमिक्ष्वाकुकुलदैवतम् ॥ ६१ ॥

विश्वास-प्रस्तुतिः

सम्प्रीत्या प्रददौ तस्मै रामो राजीवलोचनः
हनुमन्तमथोवाच राघवः शत्रुसूदनः ॥ ६२ ॥

मूलम्

सम्प्रीत्या प्रददौ तस्मै रामो राजीवलोचनः
हनुमन्तमथोवाच राघवः शत्रुसूदनः ॥ ६२ ॥

विश्वास-प्रस्तुतिः

राम उवाच-
मत्कथाः प्रचरिष्यन्ति यावल्लोके हरीश्वर
तावत्त्वमास मेदिन्यां काले मां व्रज सुव्रत ॥ ६३ ॥

मूलम्

राम उवाच-
मत्कथाः प्रचरिष्यन्ति यावल्लोके हरीश्वर
तावत्त्वमास मेदिन्यां काले मां व्रज सुव्रत ॥ ६३ ॥

विश्वास-प्रस्तुतिः

महेश्वर उवाच-
तमेवमुक्त्वा काकुत्स्थो जाम्बवन्तमथाब्रवीत्
राम उवाच-
द्वापरे समनुप्राप्ते यदूनामन्वये पुनः ॥ ६४ ॥

मूलम्

महेश्वर उवाच-
तमेवमुक्त्वा काकुत्स्थो जाम्बवन्तमथाब्रवीत्
राम उवाच-
द्वापरे समनुप्राप्ते यदूनामन्वये पुनः ॥ ६४ ॥

विश्वास-प्रस्तुतिः

भूभारस्य विनाशाय समुत्पत्स्याम्यहं भुवि
करिष्ये तत्र सङ्ग्रामं स्वयं भल्लूकसत्तम ॥ ६५ ॥

मूलम्

भूभारस्य विनाशाय समुत्पत्स्याम्यहं भुवि
करिष्ये तत्र सङ्ग्रामं स्वयं भल्लूकसत्तम ॥ ६५ ॥

विश्वास-प्रस्तुतिः

महेश्वर उवाच-
तमेवमुक्त्वा काकुत्स्थः सर्वांस्तानृक्षवानरान्
उवाच वाचा गच्छध्वमिति रामो महाबलः ॥ ६६ ॥

मूलम्

महेश्वर उवाच-
तमेवमुक्त्वा काकुत्स्थः सर्वांस्तानृक्षवानरान्
उवाच वाचा गच्छध्वमिति रामो महाबलः ॥ ६६ ॥

विश्वास-प्रस्तुतिः

मन्त्रिणो नैगमाश्चैव भरतः कैकयीसुतः
राघवस्यानुगमने निश्चितास्ते समाययुः ॥ ६७ ॥

मूलम्

मन्त्रिणो नैगमाश्चैव भरतः कैकयीसुतः
राघवस्यानुगमने निश्चितास्ते समाययुः ॥ ६७ ॥

विश्वास-प्रस्तुतिः

ततः शुक्लाम्बरधरो ब्रह्मचारी ययौ परम्
कुशान्गृहीत्वा पाणिभ्यां संसक्तः प्रययौ परम् ॥ ६८ ॥

मूलम्

ततः शुक्लाम्बरधरो ब्रह्मचारी ययौ परम्
कुशान्गृहीत्वा पाणिभ्यां संसक्तः प्रययौ परम् ॥ ६८ ॥

विश्वास-प्रस्तुतिः

रामस्य दक्षिणे पार्श्वे पद्महस्ता रमा गता
तथैव धरणीदेवी दक्षिणेतरगा तथा ॥ ६९ ॥

मूलम्

रामस्य दक्षिणे पार्श्वे पद्महस्ता रमा गता
तथैव धरणीदेवी दक्षिणेतरगा तथा ॥ ६९ ॥

विश्वास-प्रस्तुतिः

वेदाः साङ्गाः पुराणानि सेतिहासानि सर्वतः
ॐकारोऽथ वषट्कारः सावित्री लोकपावनी ॥ ७० ॥

मूलम्

वेदाः साङ्गाः पुराणानि सेतिहासानि सर्वतः
ॐकारोऽथ वषट्कारः सावित्री लोकपावनी ॥ ७० ॥

विश्वास-प्रस्तुतिः

अस्त्रशस्त्राणि च तदा धनुराद्यानि पार्वति
अनुजग्मुस्तथा रामं सर्वे पुरुषविग्रहाः ॥ ७१ ॥

मूलम्

अस्त्रशस्त्राणि च तदा धनुराद्यानि पार्वति
अनुजग्मुस्तथा रामं सर्वे पुरुषविग्रहाः ॥ ७१ ॥

विश्वास-प्रस्तुतिः

भरतश्चैव शत्रुघ्नः सर्वे पुरनिवासिनः
सपुत्रदाराः काकुत्स्थमनुजग्मुः सहानुगाः ॥ ७२ ॥

मूलम्

भरतश्चैव शत्रुघ्नः सर्वे पुरनिवासिनः
सपुत्रदाराः काकुत्स्थमनुजग्मुः सहानुगाः ॥ ७२ ॥

विश्वास-प्रस्तुतिः

मन्त्रिणो भृत्यवर्गाश्च किङ्करा नैगमास्तथा
वानराश्चैव ऋक्षाश्च सुग्रीवसहितास्तदा ॥ ७३ ॥

मूलम्

मन्त्रिणो भृत्यवर्गाश्च किङ्करा नैगमास्तथा
वानराश्चैव ऋक्षाश्च सुग्रीवसहितास्तदा ॥ ७३ ॥

विश्वास-प्रस्तुतिः

सपुत्रदाराः काकुत्स्थमन्वगच्छन्महामतिम्
पशवः पक्षिणश्चैव सर्वे स्थावरजङ्गमाः ॥ ७४ ॥

मूलम्

सपुत्रदाराः काकुत्स्थमन्वगच्छन्महामतिम्
पशवः पक्षिणश्चैव सर्वे स्थावरजङ्गमाः ॥ ७४ ॥

विश्वास-प्रस्तुतिः

अनुजग्मुर्महात्मानं समीपस्था नरोत्तमाः
ये च पश्यन्ति काकुत्स्थं स्वपथान्तर्गतं प्रभुम् ॥ ७५ ॥

मूलम्

अनुजग्मुर्महात्मानं समीपस्था नरोत्तमाः
ये च पश्यन्ति काकुत्स्थं स्वपथान्तर्गतं प्रभुम् ॥ ७५ ॥

विश्वास-प्रस्तुतिः

ते तथानुगता रामं निवर्त्तन्ते न केचन
अथ त्रियोजनं गत्वा नदीं पश्चान्मुखीं स्थिताम् ॥ ७६ ॥

मूलम्

ते तथानुगता रामं निवर्त्तन्ते न केचन
अथ त्रियोजनं गत्वा नदीं पश्चान्मुखीं स्थिताम् ॥ ७६ ॥

विश्वास-प्रस्तुतिः

सरयूं पुण्यसलिलां प्रविवेश सहानुगः
ततः पितामहो ब्रह्मा सर्वदेवगणावृतः ॥ ७७ ॥

मूलम्

सरयूं पुण्यसलिलां प्रविवेश सहानुगः
ततः पितामहो ब्रह्मा सर्वदेवगणावृतः ॥ ७७ ॥

विश्वास-प्रस्तुतिः

तुष्टाव रघुशार्दूलमृषिभिः सार्द्धमक्षरैः
अब्रवीत्तत्र काकुत्स्थं प्रविष्टं सरयूजले ॥ ७८ ॥

मूलम्

तुष्टाव रघुशार्दूलमृषिभिः सार्द्धमक्षरैः
अब्रवीत्तत्र काकुत्स्थं प्रविष्टं सरयूजले ॥ ७८ ॥

विश्वास-प्रस्तुतिः

ब्रह्मोवाच-
आगच्छ विष्णो भद्रं ते दिष्ट्या प्राप्तोऽसि मानद
भ्रातृभिस्सहदेवाभैः प्रविशस्व निजां तनुम् ॥ ७९ ॥

मूलम्

ब्रह्मोवाच-
आगच्छ विष्णो भद्रं ते दिष्ट्या प्राप्तोऽसि मानद
भ्रातृभिस्सहदेवाभैः प्रविशस्व निजां तनुम् ॥ ७९ ॥

विश्वास-प्रस्तुतिः

वैष्णवीं तां महातेजां देवाकारां सनातनीम्
त्वं हि लोकगतिर्देव न त्वां केचित्तु जानते ॥ ८० ॥

मूलम्

वैष्णवीं तां महातेजां देवाकारां सनातनीम्
त्वं हि लोकगतिर्देव न त्वां केचित्तु जानते ॥ ८० ॥

विश्वास-प्रस्तुतिः

त्वामचिन्त्यं महात्मानमक्षरं सर्वसङ्ग्रहम्
यमिच्छसि महातेजस्तां तनुं प्रविशस्व भोः ॥ ८१ ॥

मूलम्

त्वामचिन्त्यं महात्मानमक्षरं सर्वसङ्ग्रहम्
यमिच्छसि महातेजस्तां तनुं प्रविशस्व भोः ॥ ८१ ॥

विश्वास-प्रस्तुतिः

महेश्वर उवाच-
तस्मिन्सूर्यकराकीर्णे पुष्पवृष्टिनिपातिते
उत्सृज्य मानुषं रूपं स्वां तनुं प्रविवेश ह ॥ ८२ ॥

मूलम्

महेश्वर उवाच-
तस्मिन्सूर्यकराकीर्णे पुष्पवृष्टिनिपातिते
उत्सृज्य मानुषं रूपं स्वां तनुं प्रविवेश ह ॥ ८२ ॥

विश्वास-प्रस्तुतिः

अंशाभ्यां शङ्खचक्राभ्यां शत्रुघ्नभरतावुभौ
तदा तेन महात्मानौ दिव्यतेजस्समन्वितौ ॥ ८३ ॥

मूलम्

अंशाभ्यां शङ्खचक्राभ्यां शत्रुघ्नभरतावुभौ
तदा तेन महात्मानौ दिव्यतेजस्समन्वितौ ॥ ८३ ॥

विश्वास-प्रस्तुतिः

शङ्खचक्रगदाशार्ङ्गपद्महस्तश्चतुर्भुजः
दिव्याभरणसम्पन्नो दिव्यगन्धानुलेपनः ॥ ८४ ॥

मूलम्

शङ्खचक्रगदाशार्ङ्गपद्महस्तश्चतुर्भुजः
दिव्याभरणसम्पन्नो दिव्यगन्धानुलेपनः ॥ ८४ ॥

विश्वास-प्रस्तुतिः

दिव्यपीताम्बरधरः पद्मपत्रनिभेक्षणः
युवा कुमारः सौम्याङ्गः कोमलावयवोज्ज्वलः ॥ ८५ ॥

मूलम्

दिव्यपीताम्बरधरः पद्मपत्रनिभेक्षणः
युवा कुमारः सौम्याङ्गः कोमलावयवोज्ज्वलः ॥ ८५ ॥

विश्वास-प्रस्तुतिः

सुस्निग्धनीलकुटिलकुन्तलः शुभलक्षणः
नवदूर्वाङ्कुरः श्यामः पूर्णचन्द्र निभाननः ॥ ८६ ॥

मूलम्

सुस्निग्धनीलकुटिलकुन्तलः शुभलक्षणः
नवदूर्वाङ्कुरः श्यामः पूर्णचन्द्र निभाननः ॥ ८६ ॥

विश्वास-प्रस्तुतिः

देवीभ्यां सहितः श्रीमान्विमानमधिरुह्य च
तस्मिन्सिंहासने दिव्ये मूले कल्पतरोः प्रभुः ॥ ८७ ॥

मूलम्

देवीभ्यां सहितः श्रीमान्विमानमधिरुह्य च
तस्मिन्सिंहासने दिव्ये मूले कल्पतरोः प्रभुः ॥ ८७ ॥

विश्वास-प्रस्तुतिः

निषसाद महातेजाः सर्वदेवैरभिष्टुतः
राघवानुगता ये च ऋक्षवानरमानुषाः ॥ ८८ ॥

मूलम्

निषसाद महातेजाः सर्वदेवैरभिष्टुतः
राघवानुगता ये च ऋक्षवानरमानुषाः ॥ ८८ ॥

विश्वास-प्रस्तुतिः

स्पृष्ट्वैव सरयूतोयं सुखेन त्यक्तजीविताः
रामप्रसादात्ते सर्वे दिव्यरूपधराः शुभाः ॥ ८९ ॥

मूलम्

स्पृष्ट्वैव सरयूतोयं सुखेन त्यक्तजीविताः
रामप्रसादात्ते सर्वे दिव्यरूपधराः शुभाः ॥ ८९ ॥

विश्वास-प्रस्तुतिः

दिव्यमाल्याम्बरधरा दिव्यमङ्गलवर्चसः
आरुरोह विमानं तदसङ्ख्यास्तत्र देहिनः ॥ ९० ॥

मूलम्

दिव्यमाल्याम्बरधरा दिव्यमङ्गलवर्चसः
आरुरोह विमानं तदसङ्ख्यास्तत्र देहिनः ॥ ९० ॥

विश्वास-प्रस्तुतिः

सर्वैः परिवृतः श्रीमान्रामो राजीवलोचनः
पूजितः सुरसिद्धौघैर्मुनिभिस्तु महात्मभिः ॥ ९१ ॥

मूलम्

सर्वैः परिवृतः श्रीमान्रामो राजीवलोचनः
पूजितः सुरसिद्धौघैर्मुनिभिस्तु महात्मभिः ॥ ९१ ॥

विश्वास-प्रस्तुतिः

आययौ शाश्वतं दिव्यमक्षरं स्वपदं विभुः
यः पठेद्रामचरितं श्लोकं श्लोकार्धमेव वा ॥ ९२ ॥

मूलम्

आययौ शाश्वतं दिव्यमक्षरं स्वपदं विभुः
यः पठेद्रामचरितं श्लोकं श्लोकार्धमेव वा ॥ ९२ ॥

विश्वास-प्रस्तुतिः

शृणुयाद्वा तथा भक्त्या स्मरेद्वा शुभदर्शने
कोटिजन्मार्जितात्पापाज्ज्ञानतोऽज्ञानतः कृतात् ॥ ९३ ॥

मूलम्

शृणुयाद्वा तथा भक्त्या स्मरेद्वा शुभदर्शने
कोटिजन्मार्जितात्पापाज्ज्ञानतोऽज्ञानतः कृतात् ॥ ९३ ॥

विश्वास-प्रस्तुतिः

विमुक्तो वैष्णवं लोकं पुत्रदारसबान्धवैः
समाप्नुयाद्योगगम्यमनायासेन वै नरः ॥ ९४ ॥

मूलम्

विमुक्तो वैष्णवं लोकं पुत्रदारसबान्धवैः
समाप्नुयाद्योगगम्यमनायासेन वै नरः ॥ ९४ ॥

विश्वास-प्रस्तुतिः

एतत्ते कथितं देवि रामस्य चरितं महत्
धन्योऽस्म्यहं त्वया देवि रामचन्द्रस्य कीर्त्तनात्
किमन्यच्छ्रोतुकामासि तद्ब्रवीमि वरानने ॥ ९५ ॥

मूलम्

एतत्ते कथितं देवि रामस्य चरितं महत्
धन्योऽस्म्यहं त्वया देवि रामचन्द्रस्य कीर्त्तनात्
किमन्यच्छ्रोतुकामासि तद्ब्रवीमि वरानने ॥ ९५ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वरसंवादे श्रीरामचरितकथनन्नाम चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः२४४