शङ्कर उवाच-
विश्वास-प्रस्तुतिः
अथ तस्मिन्दिने पुण्ये शुभलग्ने शुभान्विते
मङ्गलस्याभिषेकार्थं मङ्गलं चक्रिरे जनाः ॥ १ ॥
मूलम्

वसिष्ठो वामदेवश्च जाबालिरथ कश्यपः
मार्कण्डेयश्च मौद्गल्यः पर्वतो नारदस्तथा ॥ २ ॥

एते महर्षयस्तत्र जपहोमपुरस्सरम्
अभिषेकं शुभं चक्रुर्मुनयो राजसत्तमम् ॥ ३ ॥

नानारत्नमये दिव्ये हेमपीठे शुभान्विते
निवेश्य सीतया सार्द्धं श्रिया इव जनार्दनम् ॥ ४ ॥

सौवर्णकलशैर्दिव्यैर्नानारत्नमयैः शुभैः
सर्वतीर्थोदकैः पुण्यैर्माङ्गल्यद्रव्यसंयुतैः ॥ ५ ॥

दूर्वाग्रतुलसीपत्रपुष्पगन्धसमन्वितैः
मन्त्रपूतजलैः शुद्धैर्मुनयः संशितव्रताः ॥ ६ ॥

अजपन्वैष्णवान्सूक्तान्चतुर्वेदमयान्शुभान्
अभिषेकं शुभं चक्रुः काकुत्स्थं जगतः पतिम् ॥ ७ ॥

तस्मिन्शुभतमे लग्ने देवदुन्दुभयो दिवि
विनेदुः पुष्पवर्षाणि ववृषुश्च समन्ततः ॥ ८ ॥

दिव्याम्बरैर्भूषणैश्च दिव्यगन्धानुलेपनैः
पुष्पैर्नानाविधैर्दिव्यैर्देव्या सह रघूद्वहः ॥ ९ ॥

अलङ्कृतश्च शुशुभे मुनिभिर्वेदपारगैः
छत्रं च चामरं दिव्यं धृतवान्लक्ष्मणस्तदा ॥ १० ॥

पार्श्वे भरतशत्रुघ्नौ तालवृन्तौ विरेजतुः
दर्पणं प्रददौ श्रीमान्राक्षसेन्द्रो विभीषणः ॥ ११ ॥

दधार पूर्णकलशं सुग्रीवो वानरेश्वरः
जाम्बवांश्च महातेजाः पुष्पमालां मनोहराम् ॥ १२ ॥

वालिपुत्रस्तु ताम्बूलं सकर्पूरं ददौ हरेः
हनुमान्दीपकां दिव्यां सुषेणश्च ध्वजं शुभम् ॥ १३ ॥

परिवार्य महात्मानं मन्त्रिणः समुपासिरे
सृष्टिर्जयन्तो विजयः सौराष्ट्रो राष्ट्रवर्द्धनः ॥ १४ ॥

अकोपो धर्मपालश्च सुमन्त्रो मन्त्रिणः स्मृताः
राजानश्च नरव्याघ्रा नानाजनपदेश्वराः ॥ १५ ॥

पौराश्च नैगमा वृद्धा राजानं पर्युपासत
ऋक्षैश्च वानरेन्द्रैश्च मन्त्रिभिः पृथिवीश्वरैः ॥ १६ ॥

राक्षसैर्द्विजमुख्यैश्च किङ्करैश्च समावृतः
परे व्योम्नि यथा लीनो दैवतैः कमलापतिः ॥ १७ ॥

तथा नृपवरः श्रीमान्साकेते शुशुभे तदा
इन्दीवरदलश्यामं पद्मपत्रनिभेक्षणम् ॥ १८ ॥

आजानुबाहुं काकुत्स्थं पीतवस्त्रधरं हरिम्
कम्बुग्रीवं महोरस्कं विचित्राभरणैर्युतम् ॥ १९ ॥

देव्या सह समासीनमभिषिक्तं रघूत्तमम्
विमानस्थाः सुरगणा हर्षनिर्भरमानसाः ॥ २० ॥

तुष्टुवुर्जयशब्देन गन्धर्वाप्सरसां गणाः
अभिषिक्तस्ततो रामो वसिष्ठाद्यैर्महर्षिभिः ॥ २१ ॥

शुशुभे सीतया देव्या नारायण इव श्रिया
अतिमर्त्यतयाभीत उपासितुं पदाम्बुजम् ॥ २२ ॥

दृष्ट्वा तुष्टाव हृष्टात्मा शङ्करो हृष्टमागतः
कृताञ्जलिपुटो भूत्वा सानन्दो गद्गदाकुलः
हर्षयन्सकलान्देवान्मुनीनपि च वानरान् ॥ २३ ॥

महादेव उवाच-
नमो मूलप्रकृतये नित्याय परमात्मने
सच्चिदानन्दरूपाय विश्वरूपाय वेधसे ॥ २४ ॥

नमो निरन्तरानन्द कन्दमूलाय विष्णवे
जगत्त्रयकृतानन्द मूर्त्तये दिव्यमूर्त्तये ॥ २५ ॥

नमो ब्रह्मेन्द्रपूज्याय शङ्कराभयदाय च
नमो विष्णुस्वरूपाय सर्वरूपनमोनमः ॥ २६ ॥
मूलम्
नमो ब्रह्मेन्द्रपूज्याय शङ्कराभयदाय च
नमो विष्णुस्वरूपाय सर्वरूपनमोनमः ॥ २६ ॥
विश्वास-प्रस्तुतिः
उत्पत्तिस्थितिसंहारकारिणे त्रिगुणात्मने
नमोस्तु निर्गतोपाधिस्वरूपाय महात्मने ॥ २७ ॥

अनया विद्यया देव्या सीतयोपाधिकारिणे
नमः पुम्प्रकृतिभ्यां च युवाभ्यां जगतां कृते ॥ २८ ॥

जगन्मातापितृभ्यां च जनन्यै राघवाय च
नमः प्रपञ्चरूपिण्यै निष्प्रपञ्चस्वरूपिणे ॥ २९ ॥

नमो ध्यानस्वरूपिण्यै योगिध्येयात्ममूर्त्तये
परिणामापरीणामरिक्ताभ्यां च नमोनमः ॥ ३० ॥

कूटस्थबीजरूपिण्यै सीतायै राघवाय च
सीता लक्ष्मीर्भवान्विष्णुः सीता गौरी भवान्शिवः ॥ ३१ ॥

सीता स्वयं हि सावित्रि भवान्ब्रह्मा चतुर्मुखः
सीता शची भवान्शक्रः सीता स्वाहानलो भवान् ॥ ३२ ॥

सीता संहारिणी देवी यमरूपधरो भवान्
सीता हि सर्वसम्पत्तिः कुबेरस्त्वं रघूत्तम ॥ ३३ ॥

सीता देवी च रुद्राणी भवान्रुद्रो महाबलः
सीता तु रोहिणी देवी चन्द्रस्त्वं लोकसौख्यदः ॥ ३४ ॥

सीता सञ्ज्ञा भवान्सूर्यः सीता रात्रिर्दिवा भवान्
सीतादेवी महाकाली महाकालो भवान्सदा ॥ ३५ ॥

स्त्रीलिङ्गेषु त्रिलोकेषु यत्तत्सर्वं हि जानकी
पुन्नाम लाञ्छितं यत्तु तत्सर्वं हि भवान्प्रभो ॥ ३६ ॥

सर्वत्र सर्वदेवेश सीता सर्वत्र धारिणी
तदात्वमपिचत्रातुन्तच्छक्तिर्विश्वधारिणी ॥ ३७ ॥

तस्मात्कोटिगुणं पुण्यं युवाभ्यां परिचिह्नितम्
चिह्नितं शिवशक्तिभ्यां चरितं तव शान्तिदम् ॥ ३८ ॥

आवां राम जगत्पूज्यौ मम पूज्यौ सदा युवाम्
त्वन्नामजापिनी गौरी त्वन्मन्त्रजपवानहम् ॥ ३९ ॥

मुमूर्षोर्मणिकर्ण्यां तु अर्द्धोदकनिवासिनः
अहं दिशामि ते मन्त्रं तारकं ब्रह्मदायकम् ॥ ४० ॥

अतस्त्वं जानकीनाथ परब्रह्मासि निश्चितम्
त्वन्मायामोहितास्सर्वे न त्वां जानन्ति तत्वतः ॥ ४१ ॥

ईश्वर उवाच-
इत्युक्तः शम्भुना रामः प्रसादप्रवणोऽभवत्
दिव्यरूपधरः श्रीमानद्भुताद्भुतदर्शनः ॥ ४२ ॥

तथा तं रूपमालोक्य नरवानरदेवताः
न द्रष्टुमपिशक्तास्ते तेजसं महदद्भुतम् ॥ ४३ ॥

भयाद्वै त्रिदशश्रेष्ठाः प्रणेमुश्चातिभक्तितः
भीता विज्ञाय रामोऽपि नरवानरदेवताः
मायामानुषतां प्राप्य स देवानब्रवीत्पुनः ॥ ४४ ॥

रामचन्द्र उवाच-
शृणुध्वं देवता यो मां प्रत्यहं संस्तुविष्यति
स्तवेन शम्भुनोक्तेन देवतुल्यो भवेन्नरः ॥ ४५ ॥

विमुक्तः सर्वपापेभ्यो मत्स्वरूपं समश्नुते
रणे जयमवाप्नोति न क्वचित्प्रतिहन्यते ॥ ४६ ॥

भूतवेतालकृत्याभिर्ग्रहैश्चापि न बाध्यते
अपुत्रो लभते पुत्रं पतिं विन्दति कन्यका ॥ ४७ ॥

दरिद्रः श्रियमाप्नोति सत्ववाञ्शीलवान्भवेत्
आत्मतुल्यबलः श्रीमाञ्जायते नात्र संशयः ॥ ४८ ॥

निर्विघ्नं सर्वकार्येषु सर्वारम्भेषु वै नृणाम्
यंयं कामयते मर्त्यः सुदुर्लभमनोरथम् ॥ ४९ ॥

षण्मासात्सिद्धिमाप्नोति स्तवस्यास्य प्रसादतः
यत्पुण्यं सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम्
तत्फलं कोटिगुणितं स्तवेनानेन लभ्यते ॥ ५० ॥

इत्युक्त्वा रामचन्द्रोऽसौ विससर्ज महेश्वरम्
ब्रह्मादि त्रिदशान्सर्वान्विससर्ज समागतान् ॥ ५१ ॥

अर्चिता मानवाः सर्वे नरवानरदेवताः
विसृष्टा रामचन्द्रेण प्रीत्या परमया युताः ॥ ५२ ॥

इत्थं विसृष्टाः खलु ते च सर्वे सुखं तदा जग्मुरतीवहृष्टाः
परं पठन्तः स्तवमीश्वरोक्तं रामं स्मरन्तो वरविश्वरूपम् ५३