रुद्र उवाच-
विश्वास-प्रस्तुतिः
स्वायम्भुवो मनुः पूर्वं द्वाशार्णं महामनुम्
जजाप गोमतीतीरे नैमिषे विमले शुभे ॥ १ ॥
मूलम्
स्वायम्भुवो मनुः पूर्वं द्वाशार्णं महामनुम्
जजाप गोमतीतीरे नैमिषे विमले शुभे ॥ १ ॥
विश्वास-प्रस्तुतिः
तेन वर्षसहस्रेण पूजितः कमलापतिः
मत्तो वरं वृणीष्वेति तं प्राह भगवान्हरिः ॥ २ ॥
मूलम्
तेन वर्षसहस्रेण पूजितः कमलापतिः
मत्तो वरं वृणीष्वेति तं प्राह भगवान्हरिः ॥ २ ॥
विश्वास-प्रस्तुतिः
ततः प्रोवाच हर्षेण मनुः स्वायम्भुवो हरिम्
मनुरुवाच-
पुत्रत्वं भज देवेश त्रीणि जन्मानि चाच्युत ॥ ३ ॥
मूलम्
ततः प्रोवाच हर्षेण मनुः स्वायम्भुवो हरिम्
मनुरुवाच-
पुत्रत्वं भज देवेश त्रीणि जन्मानि चाच्युत ॥ ३ ॥
विश्वास-प्रस्तुतिः
त्वां पुत्रलालसत्वेन भजामि पुरुषोत्तमम्
रुद्र उवाच-
इत्युक्तस्तेन लक्ष्मीशः प्रोवाच सुमहागिरा ॥ ४ ॥
मूलम्
त्वां पुत्रलालसत्वेन भजामि पुरुषोत्तमम्
रुद्र उवाच-
इत्युक्तस्तेन लक्ष्मीशः प्रोवाच सुमहागिरा ॥ ४ ॥
विश्वास-प्रस्तुतिः
विष्णुरुवाच-
भविष्यति नृपश्रेष्ठ यत्ते मनसि काङ्क्षितम्
ममैव च महत्प्रीतिस्तव पुत्रत्वहेतवे ॥ ५ ॥
मूलम्
विष्णुरुवाच-
भविष्यति नृपश्रेष्ठ यत्ते मनसि काङ्क्षितम्
ममैव च महत्प्रीतिस्तव पुत्रत्वहेतवे ॥ ५ ॥
विश्वास-प्रस्तुतिः
स्थितिप्रयोजने काले तत्र तत्र नृपोत्तम
त्वयि जाते त्वहमपि जातोस्मि तव सुव्रत ॥ ६ ॥
मूलम्
स्थितिप्रयोजने काले तत्र तत्र नृपोत्तम
त्वयि जाते त्वहमपि जातोस्मि तव सुव्रत ॥ ६ ॥
विश्वास-प्रस्तुतिः
परित्राणाय साधूनां विनाशाय च दुष्कृताम्
धर्मसंस्थापनार्थाय सम्भवामि तवानघ ॥ ७ ॥
मूलम्
परित्राणाय साधूनां विनाशाय च दुष्कृताम्
धर्मसंस्थापनार्थाय सम्भवामि तवानघ ॥ ७ ॥
विश्वास-प्रस्तुतिः
रुद्र उवाच-
एवं दत्वा वरं तस्मै तत्रैवान्तर्दधे हरिः
अस्याभूत्प्रथमं जन्म मनोः स्वायम्भुवस्य च ॥ ८ ॥
मूलम्
रुद्र उवाच-
एवं दत्वा वरं तस्मै तत्रैवान्तर्दधे हरिः
अस्याभूत्प्रथमं जन्म मनोः स्वायम्भुवस्य च ॥ ८ ॥
विश्वास-प्रस्तुतिः
रघूणामन्वये पूर्वं राजा दशरथो ह्यभूत्
द्वितीयो वसुदेवोऽभूद्वृष्णीनामन्वये विभुः ॥ ९ ॥
मूलम्
रघूणामन्वये पूर्वं राजा दशरथो ह्यभूत्
द्वितीयो वसुदेवोऽभूद्वृष्णीनामन्वये विभुः ॥ ९ ॥
विश्वास-प्रस्तुतिः
कलेर्दिव्यसहस्राब्दप्रमाणस्यान्त्यपादयोः
शम्भलग्रामकं प्राप्य ब्राह्मणः सञ्जनिष्यति ॥ १० ॥
मूलम्
कलेर्दिव्यसहस्राब्दप्रमाणस्यान्त्यपादयोः
शम्भलग्रामकं प्राप्य ब्राह्मणः सञ्जनिष्यति ॥ १० ॥
विश्वास-प्रस्तुतिः
कौशल्या समभूत्पत्नी राज्ञो दशरथस्य हि
यदोर्वंशस्य सेवार्थं देवकी नाम विश्रुता ॥ ११ ॥
मूलम्
कौशल्या समभूत्पत्नी राज्ञो दशरथस्य हि
यदोर्वंशस्य सेवार्थं देवकी नाम विश्रुता ॥ ११ ॥
विश्वास-प्रस्तुतिः
हरिव्रतस्य विप्रस्य भार्य्या देवप्रभा पुनः
एवं मातृत्वमापन्ना त्रीणि जन्मानि शार्ङ्गिणः ॥ १२ ॥
मूलम्
हरिव्रतस्य विप्रस्य भार्य्या देवप्रभा पुनः
एवं मातृत्वमापन्ना त्रीणि जन्मानि शार्ङ्गिणः ॥ १२ ॥
विश्वास-प्रस्तुतिः
पूर्वं रामस्य चरितं वक्ष्यामि तव सुव्रते
यस्य स्मरणमात्रेण विमुक्तिः पापिनामपि ॥ १३ ॥
मूलम्
पूर्वं रामस्य चरितं वक्ष्यामि तव सुव्रते
यस्य स्मरणमात्रेण विमुक्तिः पापिनामपि ॥ १३ ॥
विश्वास-प्रस्तुतिः
हिरण्यकहिरण्याक्षौ द्वितीयं जन्मसंश्रितौ
कुम्भकर्ण दशग्रीवावजायेतां महाबलौ ॥ १४ ॥
मूलम्
हिरण्यकहिरण्याक्षौ द्वितीयं जन्मसंश्रितौ
कुम्भकर्ण दशग्रीवावजायेतां महाबलौ ॥ १४ ॥
विश्वास-प्रस्तुतिः
पुलस्त्यस्य सुतो विप्रो विश्रवानाम धार्मिकः
तस्य पत्नी विशालाक्षी राक्षसेन्द्र सुताऽनघे ॥ १५ ॥
मूलम्
पुलस्त्यस्य सुतो विप्रो विश्रवानाम धार्मिकः
तस्य पत्नी विशालाक्षी राक्षसेन्द्र सुताऽनघे ॥ १५ ॥
विश्वास-प्रस्तुतिः
सुकेशितनया सा स्यात्सुमाली दानवस्य च
केकसी नाम कन्यासीत्तस्य भार्या दृढव्रता ॥ १६ ॥
मूलम्
सुकेशितनया सा स्यात्सुमाली दानवस्य च
केकसी नाम कन्यासीत्तस्य भार्या दृढव्रता ॥ १६ ॥
विश्वास-प्रस्तुतिः
कामोद्रिक्ता तु सा देवी सन्ध्याकाले महामुनिम्
रमयामास तन्वङ्गी यथेष्टं शुभदर्शना ॥ १७ ॥
मूलम्
कामोद्रिक्ता तु सा देवी सन्ध्याकाले महामुनिम्
रमयामास तन्वङ्गी यथेष्टं शुभदर्शना ॥ १७ ॥
विश्वास-प्रस्तुतिः
कामात्सन्ध्याभवाद्यत्वात्तस्यां जातौ महाबलौ
रावणः कुम्भकर्णश्च राक्षसौ लोकविश्रुतौ ॥ १८ ॥
मूलम्
कामात्सन्ध्याभवाद्यत्वात्तस्यां जातौ महाबलौ
रावणः कुम्भकर्णश्च राक्षसौ लोकविश्रुतौ ॥ १८ ॥
विश्वास-प्रस्तुतिः
कन्या शूर्पणखा नाम जातातिविकृतानना
कस्यचित्त्वथ कालस्य तस्यां जातो विभीषणः ॥ १९ ॥
मूलम्
कन्या शूर्पणखा नाम जातातिविकृतानना
कस्यचित्त्वथ कालस्य तस्यां जातो विभीषणः ॥ १९ ॥
विश्वास-प्रस्तुतिः
सुशीलो भगवद्भक्तः सत्यवाग्धर्मवाञ्शुचिः
रावणः कुम्भकर्णश्च हिमवत्पर्वतोत्तमे ॥ २० ॥
मूलम्
सुशीलो भगवद्भक्तः सत्यवाग्धर्मवाञ्शुचिः
रावणः कुम्भकर्णश्च हिमवत्पर्वतोत्तमे ॥ २० ॥
विश्वास-प्रस्तुतिः
महोग्रतपसा मां वै पूजयामासतुर्भृशम्
रावणस्त्वथ दुष्टात्मा स्वशिरःकमलैः शुभैः ॥ २१ ॥
मूलम्
महोग्रतपसा मां वै पूजयामासतुर्भृशम्
रावणस्त्वथ दुष्टात्मा स्वशिरःकमलैः शुभैः ॥ २१ ॥
विश्वास-प्रस्तुतिः
पूजयामास मां देवि दारुणेनैव कर्मणा
ततस्तमब्रुवं सुभ्रूः प्रहृष्टेनान्तरात्मना ॥ २२ ॥
मूलम्
पूजयामास मां देवि दारुणेनैव कर्मणा
ततस्तमब्रुवं सुभ्रूः प्रहृष्टेनान्तरात्मना ॥ २२ ॥
विश्वास-प्रस्तुतिः
वरं वृणीष्व मे वत्स यत्ते मनसि वर्त्तते
ततः प्रोवाच दुष्टात्मा देवदानव रक्षसाम् ॥ २३ ॥
मूलम्
वरं वृणीष्व मे वत्स यत्ते मनसि वर्त्तते
ततः प्रोवाच दुष्टात्मा देवदानव रक्षसाम् ॥ २३ ॥
विश्वास-प्रस्तुतिः
अवध्यत्वं प्रदेहीति सर्वलोकजिगीषया
ततोऽहं दत्तवांस्तस्मै राक्षसाय दुरात्मने ॥ २४ ॥
मूलम्
अवध्यत्वं प्रदेहीति सर्वलोकजिगीषया
ततोऽहं दत्तवांस्तस्मै राक्षसाय दुरात्मने ॥ २४ ॥
विश्वास-प्रस्तुतिः
देवदानवयक्षाणामवध्यत्वं वरानने
राक्षसोऽसौ महावीर्यो वरदानात्तु गर्वितः ॥ २५ ॥
मूलम्
देवदानवयक्षाणामवध्यत्वं वरानने
राक्षसोऽसौ महावीर्यो वरदानात्तु गर्वितः ॥ २५ ॥
विश्वास-प्रस्तुतिः
त्रींल्लोकान्पीडयामास देवदानवमानुषान्
तेन सम्बाध्यमानाश्च देवा ब्रह्मपुरोगमाः ॥ २६ ॥
मूलम्
त्रींल्लोकान्पीडयामास देवदानवमानुषान्
तेन सम्बाध्यमानाश्च देवा ब्रह्मपुरोगमाः ॥ २६ ॥
विश्वास-प्रस्तुतिः
भयार्त्ताः शरणं जग्मुरीश्वरं कमलापतिम्
ज्ञात्वाथ वेदनां तेषामभयाय सनातनः ॥ २७ ॥
मूलम्
भयार्त्ताः शरणं जग्मुरीश्वरं कमलापतिम्
ज्ञात्वाथ वेदनां तेषामभयाय सनातनः ॥ २७ ॥
विश्वास-प्रस्तुतिः
उवाच त्रिदशान्सर्वान्ब्रह्मरुद्रपुरोगमान्
श्रीभगवानुवाच-
राज्ञो दशरथस्याहमुत्पत्स्यामि रघोः कुले ॥ २८ ॥
मूलम्
उवाच त्रिदशान्सर्वान्ब्रह्मरुद्रपुरोगमान्
श्रीभगवानुवाच-
राज्ञो दशरथस्याहमुत्पत्स्यामि रघोः कुले ॥ २८ ॥
विश्वास-प्रस्तुतिः
वधिष्यामि दुरात्मानं रावणं सह बान्धवम्
मानुषं वपुरास्थाय हन्मि दैवतकण्टकम् ॥ २९ ॥
मूलम्
वधिष्यामि दुरात्मानं रावणं सह बान्धवम्
मानुषं वपुरास्थाय हन्मि दैवतकण्टकम् ॥ २९ ॥
विश्वास-प्रस्तुतिः
नन्दिशापाद्भवन्तोऽपि वानरत्वमुपागताः
कुरुध्वं मम साहाय्यं गन्धर्वाप्सरसोत्तमाः ॥ ३० ॥
मूलम्
नन्दिशापाद्भवन्तोऽपि वानरत्वमुपागताः
कुरुध्वं मम साहाय्यं गन्धर्वाप्सरसोत्तमाः ॥ ३० ॥
विश्वास-प्रस्तुतिः
रुद्र उवाच-
इत्युक्ता देवतास्सर्वा देवदेवेन विष्णुना
वानरत्वमुपागम्य जज्ञिरे पृथिवीतले ॥ ३१ ॥
मूलम्
रुद्र उवाच-
इत्युक्ता देवतास्सर्वा देवदेवेन विष्णुना
वानरत्वमुपागम्य जज्ञिरे पृथिवीतले ॥ ३१ ॥
विश्वास-प्रस्तुतिः
भार्गवेण प्रदत्ता तु महीसागरमेखला
दत्ता महर्षिभिः पूर्वं रघूणां सुमहात्मनाम् ॥ ३२ ॥
मूलम्
भार्गवेण प्रदत्ता तु महीसागरमेखला
दत्ता महर्षिभिः पूर्वं रघूणां सुमहात्मनाम् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
वैवस्वतमनोः पुत्रो राज्ञां श्रेष्ठो महाबलः
इक्ष्वाकुरिति विख्यातस्सर्वधर्मविदांवरः ॥ ३३ ॥
मूलम्
वैवस्वतमनोः पुत्रो राज्ञां श्रेष्ठो महाबलः
इक्ष्वाकुरिति विख्यातस्सर्वधर्मविदांवरः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
तदन्वये महातेजा राजा दशरथो बली
अजस्य नृपतेः पुत्रः सत्यवान्शीलवान्शुचिः ॥ ३४ ॥
मूलम्
तदन्वये महातेजा राजा दशरथो बली
अजस्य नृपतेः पुत्रः सत्यवान्शीलवान्शुचिः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
स राजा पृथिवीं सर्वां पालयामास वीर्य्यतः
राज्येषु स्थापयामास सर्वान्पार्थिवसत्तमान् ॥ ३५ ॥
मूलम्
स राजा पृथिवीं सर्वां पालयामास वीर्य्यतः
राज्येषु स्थापयामास सर्वान्पार्थिवसत्तमान् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
कोशलस्य नृपस्याथ पुत्री सर्वाङ्गशोभना
कौशल्या नाम तां कन्यामुपयेमे स पार्थिवः ॥ ३६ ॥
मूलम्
कोशलस्य नृपस्याथ पुत्री सर्वाङ्गशोभना
कौशल्या नाम तां कन्यामुपयेमे स पार्थिवः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
मागधस्य नृपस्याथ तनया च शुचिस्मिता
सुमित्रा नाम नाम्ना च द्वितीया तस्य भामिनी ॥ ३७ ॥
मूलम्
मागधस्य नृपस्याथ तनया च शुचिस्मिता
सुमित्रा नाम नाम्ना च द्वितीया तस्य भामिनी ॥ ३७ ॥
विश्वास-प्रस्तुतिः
तृतीया केकयस्याथ नृपतेर्दुहिता तथा
भार्य्याभूत्पद्मपत्राक्षी केकयी नाम नामतः ॥ ३८ ॥
मूलम्
तृतीया केकयस्याथ नृपतेर्दुहिता तथा
भार्य्याभूत्पद्मपत्राक्षी केकयी नाम नामतः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
ताभिः स्म राजा भार्याभिस्तिसृभिर्धर्मसंयुतः
रमयामास काकुत्स्थः पृथिवीं चानुपालयन् ॥ ३९ ॥
मूलम्
ताभिः स्म राजा भार्याभिस्तिसृभिर्धर्मसंयुतः
रमयामास काकुत्स्थः पृथिवीं चानुपालयन् ॥ ३९ ॥
विश्वास-प्रस्तुतिः
अयोध्यानाम नगरी सरयूतीर संस्थिता
सर्वरत्नसुसम्पूर्णा धनधान्यसमाकुला ॥ ४० ॥
मूलम्
अयोध्यानाम नगरी सरयूतीर संस्थिता
सर्वरत्नसुसम्पूर्णा धनधान्यसमाकुला ॥ ४० ॥
विश्वास-प्रस्तुतिः
प्राकारगोपुरैर्जुष्टा हेमप्राकारसङ्कुला
उत्तमैर्नागतुरगैर्महेन्द्रस्य यथा पुरी ॥ ४१ ॥
मूलम्
प्राकारगोपुरैर्जुष्टा हेमप्राकारसङ्कुला
उत्तमैर्नागतुरगैर्महेन्द्रस्य यथा पुरी ॥ ४१ ॥
विश्वास-प्रस्तुतिः
तस्यां राजा स धर्मात्मा उवास मुनिसत्तमैः
पुरोहितेन विप्रेण वसिष्ठेन महात्मना ॥ ४२ ॥
मूलम्
तस्यां राजा स धर्मात्मा उवास मुनिसत्तमैः
पुरोहितेन विप्रेण वसिष्ठेन महात्मना ॥ ४२ ॥
विश्वास-प्रस्तुतिः
राज्यं चकारयामास सर्वं निहतकण्टकम्
यस्मादुत्पत्स्यते तस्यां भगवान्पुरुषोत्तमः ॥ ४३ ॥
मूलम्
राज्यं चकारयामास सर्वं निहतकण्टकम्
यस्मादुत्पत्स्यते तस्यां भगवान्पुरुषोत्तमः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
तस्मात्तु नगरी पुण्या साप्ययोध्येति कीर्तिता
नगरस्य परं धाम्नो नाम तस्याप्यभूच्छुभे ॥ ४४ ॥
मूलम्
तस्मात्तु नगरी पुण्या साप्ययोध्येति कीर्तिता
नगरस्य परं धाम्नो नाम तस्याप्यभूच्छुभे ॥ ४४ ॥
विश्वास-प्रस्तुतिः
यत्रास्ते भगवान्विष्णुस्तदेव परमं पदम्
तत्र सद्यो भवेन्मोक्षः सर्वकर्मनिकृन्तनः ॥ ४५ ॥
मूलम्
यत्रास्ते भगवान्विष्णुस्तदेव परमं पदम्
तत्र सद्यो भवेन्मोक्षः सर्वकर्मनिकृन्तनः ॥ ४५ ॥
विश्वास-प्रस्तुतिः
जाते तत्र महाविष्णौ नराः सर्वे मुदं ययुः
स राजा पृथिवीं सर्वां पालयित्वा शुभानने ॥ ४६ ॥
मूलम्
जाते तत्र महाविष्णौ नराः सर्वे मुदं ययुः
स राजा पृथिवीं सर्वां पालयित्वा शुभानने ॥ ४६ ॥
विश्वास-प्रस्तुतिः
अयजद्वैष्णवेष्ट्या च पुत्रार्थी हरिमच्युतम्
तेन सम्पूजितः श्रीशो राजा सर्वगतो हरिः ॥ ४७ ॥
मूलम्
अयजद्वैष्णवेष्ट्या च पुत्रार्थी हरिमच्युतम्
तेन सम्पूजितः श्रीशो राजा सर्वगतो हरिः ॥ ४७ ॥
विश्वास-प्रस्तुतिः
वैष्णवेन तु यज्ञेन वरदः प्राह केशवः
तस्मिन्नाविरभूदग्नौ यज्ञरूपो हरिस्तदा ॥ ४८ ॥
मूलम्
वैष्णवेन तु यज्ञेन वरदः प्राह केशवः
तस्मिन्नाविरभूदग्नौ यज्ञरूपो हरिस्तदा ॥ ४८ ॥
विश्वास-प्रस्तुतिः
शुद्धजाम्बूनदप्रख्यः शङ्खचक्रगदाधरः
शुक्लाम्बरधरः श्रीमान्सर्वभूषणभूषितः ॥ ४९ ॥
मूलम्
शुद्धजाम्बूनदप्रख्यः शङ्खचक्रगदाधरः
शुक्लाम्बरधरः श्रीमान्सर्वभूषणभूषितः ॥ ४९ ॥
विश्वास-प्रस्तुतिः
श्रीवत्सकौस्तुभोरस्को वनमालाविभूषितः
पद्मपत्रविशालाक्षश्चतुर्बाहुरुदारधीः ॥ ५० ॥
मूलम्
श्रीवत्सकौस्तुभोरस्को वनमालाविभूषितः
पद्मपत्रविशालाक्षश्चतुर्बाहुरुदारधीः ॥ ५० ॥
विश्वास-प्रस्तुतिः
सव्याङ्कस्थ श्रिया सार्द्धमाविरासीद्रमेश्वरः
वरदोस्मीति तं प्राह राजानं भक्तवत्सलः ॥ ५१ ॥
मूलम्
सव्याङ्कस्थ श्रिया सार्द्धमाविरासीद्रमेश्वरः
वरदोस्मीति तं प्राह राजानं भक्तवत्सलः ॥ ५१ ॥
विश्वास-प्रस्तुतिः
तं दृष्ट्वा सर्वलोकेशं राजा हर्षसमाकुलः
ववन्दे भार्य्यया सार्द्धं प्रहृष्टेनान्तरात्मना ॥ ५२ ॥
मूलम्
तं दृष्ट्वा सर्वलोकेशं राजा हर्षसमाकुलः
ववन्दे भार्य्यया सार्द्धं प्रहृष्टेनान्तरात्मना ॥ ५२ ॥
विश्वास-प्रस्तुतिः
प्राञ्जलिः प्रणतो भूत्वा हर्षगद्गदया गिरा
पुत्रत्वं मे भजेत्याह देवदेवं जनार्दनम् ॥ ५३ ॥
मूलम्
प्राञ्जलिः प्रणतो भूत्वा हर्षगद्गदया गिरा
पुत्रत्वं मे भजेत्याह देवदेवं जनार्दनम् ॥ ५३ ॥
विश्वास-प्रस्तुतिः
ततः प्रसन्नो भगवान्प्राह राजानमच्युतः
विष्णुरुवाच-
उत्पत्स्येऽहं नृपश्रेष्ठ देवलोकहिताय वै ॥ ५४ ॥
मूलम्
ततः प्रसन्नो भगवान्प्राह राजानमच्युतः
विष्णुरुवाच-
उत्पत्स्येऽहं नृपश्रेष्ठ देवलोकहिताय वै ॥ ५४ ॥
विश्वास-प्रस्तुतिः
परित्राणाय साधूनां राक्षसानां वधाय च
मुक्तिं प्रदातुं लोकानां धर्मसंस्थापनाय च ॥ ५५ ॥
मूलम्
परित्राणाय साधूनां राक्षसानां वधाय च
मुक्तिं प्रदातुं लोकानां धर्मसंस्थापनाय च ॥ ५५ ॥
विश्वास-प्रस्तुतिः
महादेव उवाच-
इत्युक्त्वा पायसं दिव्यं हेमपात्रस्थितं शृतम्
लक्ष्म्याहस्तस्थितं शुभ्रं पार्थिवाय ददौ हरिः ॥ ५६ ॥
मूलम्
महादेव उवाच-
इत्युक्त्वा पायसं दिव्यं हेमपात्रस्थितं शृतम्
लक्ष्म्याहस्तस्थितं शुभ्रं पार्थिवाय ददौ हरिः ॥ ५६ ॥
विश्वास-प्रस्तुतिः
विष्णुरुवाच-
इदं वै पायसं राजन्पत्नीभ्यस्तव सुव्रत
देहि ते तनयास्तासु उत्पत्स्यन्ते मदङ्गजाः ॥ ५७ ॥
मूलम्
विष्णुरुवाच-
इदं वै पायसं राजन्पत्नीभ्यस्तव सुव्रत
देहि ते तनयास्तासु उत्पत्स्यन्ते मदङ्गजाः ॥ ५७ ॥
विश्वास-प्रस्तुतिः
महादेव उवाच-
इत्युक्त्वा मुनिभिः सर्वैः स्तूयमानो जनार्दनः
स्वात्मानं दर्शयित्वाथ तथैवान्तरधीयत ॥ ५८ ॥
मूलम्
महादेव उवाच-
इत्युक्त्वा मुनिभिः सर्वैः स्तूयमानो जनार्दनः
स्वात्मानं दर्शयित्वाथ तथैवान्तरधीयत ॥ ५८ ॥
विश्वास-प्रस्तुतिः
स राजा तत्र दृष्ट्वा च पत्नीं ज्येष्ठां कनीयसीम्
विभज्य पायसं दिव्यं प्रददौ सुसमाहितः ॥ ५९ ॥
मूलम्
स राजा तत्र दृष्ट्वा च पत्नीं ज्येष्ठां कनीयसीम्
विभज्य पायसं दिव्यं प्रददौ सुसमाहितः ॥ ५९ ॥
विश्वास-प्रस्तुतिः
एतस्मिन्नन्तरे पत्नी सुमित्रा तस्य मध्यमा
तत्समीपं प्रयाता सा पुत्रकामा सुलोचना ॥ ६० ॥
मूलम्
एतस्मिन्नन्तरे पत्नी सुमित्रा तस्य मध्यमा
तत्समीपं प्रयाता सा पुत्रकामा सुलोचना ॥ ६० ॥
विश्वास-प्रस्तुतिः
तां दृष्ट्वा तत्र कौशल्या कैकेयी च सुमध्यमा
अर्द्धमर्द्धं प्रददतुस्ते तस्यै पायसं स्वकम् ॥ ६१ ॥
मूलम्
तां दृष्ट्वा तत्र कौशल्या कैकेयी च सुमध्यमा
अर्द्धमर्द्धं प्रददतुस्ते तस्यै पायसं स्वकम् ॥ ६१ ॥
विश्वास-प्रस्तुतिः
तत्प्राश्य पायसं दिव्यं राजपत्न्यः सुमध्यमाः
सम्पन्नगर्भाः सर्वास्ता विरेजुः शुभ्रवर्च्चसः ॥ ६२ ॥
मूलम्
तत्प्राश्य पायसं दिव्यं राजपत्न्यः सुमध्यमाः
सम्पन्नगर्भाः सर्वास्ता विरेजुः शुभ्रवर्च्चसः ॥ ६२ ॥
विश्वास-प्रस्तुतिः
तासां स्वप्नेषु देवेशः पीतवासा जनार्दनः
शङ्खचक्रगदापाणिराविर्भूतस्तदा हरिः ॥ ६३ ॥
मूलम्
तासां स्वप्नेषु देवेशः पीतवासा जनार्दनः
शङ्खचक्रगदापाणिराविर्भूतस्तदा हरिः ॥ ६३ ॥
विश्वास-प्रस्तुतिः
अस्मिन्काले मनोरम्ये मधुमासि शुचिस्मिते
शुक्ले नवम्यां विमले नक्षत्रेऽदितिदैवते ॥ ६४ ॥
मूलम्
अस्मिन्काले मनोरम्ये मधुमासि शुचिस्मिते
शुक्ले नवम्यां विमले नक्षत्रेऽदितिदैवते ॥ ६४ ॥
विश्वास-प्रस्तुतिः
मध्याह्नसमये लग्ने सर्वग्रहशुभान्विते
कौसल्या जनयामास पुत्रं लोकेश्वरं हरिम् ॥ ६५ ॥
मूलम्
मध्याह्नसमये लग्ने सर्वग्रहशुभान्विते
कौसल्या जनयामास पुत्रं लोकेश्वरं हरिम् ॥ ६५ ॥
विश्वास-प्रस्तुतिः
इन्दीवरदलश्यामं कोटिकन्दर्प्पसन्निभम्
पद्मपत्रविशालाक्षं सर्वाभरणशोभितम् ॥ ६६ ॥
मूलम्
इन्दीवरदलश्यामं कोटिकन्दर्प्पसन्निभम्
पद्मपत्रविशालाक्षं सर्वाभरणशोभितम् ॥ ६६ ॥
विश्वास-प्रस्तुतिः
श्रीवत्सकौस्तुभोरस्कं सर्वाभरणभूषितम्
उद्यद्दिनकरप्रख्यकुण्डलाभ्यां विराजितम् ॥ ६७ ॥
मूलम्
श्रीवत्सकौस्तुभोरस्कं सर्वाभरणभूषितम्
उद्यद्दिनकरप्रख्यकुण्डलाभ्यां विराजितम् ॥ ६७ ॥
विश्वास-प्रस्तुतिः
अनेकसूर्य्यसङ्काशं तेजसा महता वृतम्
परेशस्य तनो रम्यं दीपादुत्पन्नदीपवत् ॥ ६८ ॥
मूलम्
अनेकसूर्य्यसङ्काशं तेजसा महता वृतम्
परेशस्य तनो रम्यं दीपादुत्पन्नदीपवत् ॥ ६८ ॥
विश्वास-प्रस्तुतिः
ईशानं सर्वलोकानां योगिध्येयं सनातनम्
सर्वोपनिषदामर्थमनन्तं परमेश्वरम् ॥ ६९ ॥
मूलम्
ईशानं सर्वलोकानां योगिध्येयं सनातनम्
सर्वोपनिषदामर्थमनन्तं परमेश्वरम् ॥ ६९ ॥
विश्वास-प्रस्तुतिः
जगत्सर्गस्थितिलये हेतुभूतमनामयम्
शरण्यं सर्वभूतानां सर्वभूतमयं विभुम् ॥ ७० ॥
मूलम्
जगत्सर्गस्थितिलये हेतुभूतमनामयम्
शरण्यं सर्वभूतानां सर्वभूतमयं विभुम् ॥ ७० ॥
विश्वास-प्रस्तुतिः
समुत्पन्ने जगन्नाथे देवदुन्दुभयो दिवि
विनेदुः पुष्पवर्षाणि ववर्षुः सुरसत्तमाः ॥ ७१ ॥
मूलम्
समुत्पन्ने जगन्नाथे देवदुन्दुभयो दिवि
विनेदुः पुष्पवर्षाणि ववर्षुः सुरसत्तमाः ॥ ७१ ॥
विश्वास-प्रस्तुतिः
प्रजापतिमुखा देवा विमानस्था नभस्तले
तुष्टुवुर्मुनिभिः सार्द्धं हर्षपूर्णाङ्गविह्वलाः ॥ ७२ ॥
मूलम्
प्रजापतिमुखा देवा विमानस्था नभस्तले
तुष्टुवुर्मुनिभिः सार्द्धं हर्षपूर्णाङ्गविह्वलाः ॥ ७२ ॥
विश्वास-प्रस्तुतिः
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः
ववुः पुण्यशिवा वाताः सुप्रभोभूद्दिवाकरः ॥ ७३ ॥
मूलम्
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः
ववुः पुण्यशिवा वाताः सुप्रभोभूद्दिवाकरः ॥ ७३ ॥
विश्वास-प्रस्तुतिः
जज्वलुश्चाग्नयः शान्ता विमलाश्च दिशोदश
ततस्स राजा हर्षेण पुत्रं दृष्ट्वा सनातनम् ॥ ७४ ॥
मूलम्
जज्वलुश्चाग्नयः शान्ता विमलाश्च दिशोदश
ततस्स राजा हर्षेण पुत्रं दृष्ट्वा सनातनम् ॥ ७४ ॥
विश्वास-प्रस्तुतिः
पुरोधसा वसिष्ठेन जातकर्मतदाऽकरोत्
नाम चास्मै ददौ रम्यं वसिष्ठो भगवांस्तदा ॥ ७५ ॥
मूलम्
पुरोधसा वसिष्ठेन जातकर्मतदाऽकरोत्
नाम चास्मै ददौ रम्यं वसिष्ठो भगवांस्तदा ॥ ७५ ॥
विश्वास-प्रस्तुतिः
श्रियः कमलवासिन्या रमणोऽयं महान्प्रभुः
तस्माच्छ्रीराम इत्यस्य नाम सिद्धं पुरातनम् ॥ ७६ ॥
मूलम्
श्रियः कमलवासिन्या रमणोऽयं महान्प्रभुः
तस्माच्छ्रीराम इत्यस्य नाम सिद्धं पुरातनम् ॥ ७६ ॥
विश्वास-प्रस्तुतिः
सहस्रनाम्नां श्रीशस्य तुल्यं मुक्तिप्रदं नृणाम्
विष्णुना स समुत्पन्नो विष्णुरित्यभिधीयते ॥ ७७ ॥
मूलम्
सहस्रनाम्नां श्रीशस्य तुल्यं मुक्तिप्रदं नृणाम्
विष्णुना स समुत्पन्नो विष्णुरित्यभिधीयते ॥ ७७ ॥
विश्वास-प्रस्तुतिः
एवं नामास्य दत्वाथ वसिष्ठो भगवानृषिः
परिणीय नमस्कृत्य स्तुत्वा स्तुतिभिरेव च ॥ ७८ ॥
मूलम्
एवं नामास्य दत्वाथ वसिष्ठो भगवानृषिः
परिणीय नमस्कृत्य स्तुत्वा स्तुतिभिरेव च ॥ ७८ ॥
विश्वास-प्रस्तुतिः
सङ्कीर्त्य नामसाहस्रं मङ्गलार्थं महात्मनः
विनिर्ययौ महातेजास्तस्मात्पुण्यतमाद्गृहात् ॥ ७९ ॥
मूलम्
सङ्कीर्त्य नामसाहस्रं मङ्गलार्थं महात्मनः
विनिर्ययौ महातेजास्तस्मात्पुण्यतमाद्गृहात् ॥ ७९ ॥
विश्वास-प्रस्तुतिः
राजाथ विप्रमुख्येभ्यो ददौ बहुधनं मुदा
गवामयुतदानं च कारयामास धर्मतः ॥ ८० ॥
मूलम्
राजाथ विप्रमुख्येभ्यो ददौ बहुधनं मुदा
गवामयुतदानं च कारयामास धर्मतः ॥ ८० ॥
विश्वास-प्रस्तुतिः
ग्रामाणां शतसाहस्रं ददौ रघुकुलोत्तमः
वस्त्रैराभरणैर्दिव्यैरसङ्ख्येयैर्धनैरपि ॥ ८१ ॥
मूलम्
ग्रामाणां शतसाहस्रं ददौ रघुकुलोत्तमः
वस्त्रैराभरणैर्दिव्यैरसङ्ख्येयैर्धनैरपि ॥ ८१ ॥
विश्वास-प्रस्तुतिः
विष्णोस्सन्तुष्टये तत्र तर्प्पयामास भूसुरान्
कौसल्या च सुतं दृष्ट्वा रामं राजीवलोचनम् ॥ ८२ ॥
मूलम्
विष्णोस्सन्तुष्टये तत्र तर्प्पयामास भूसुरान्
कौसल्या च सुतं दृष्ट्वा रामं राजीवलोचनम् ॥ ८२ ॥
विश्वास-प्रस्तुतिः
फुल्लहस्तारविन्दाभं पद्महस्ताम्बुजान्वितम्
तस्य श्रीपादकमले पद्माब्जे च वरानने ॥ ८३ ॥
मूलम्
फुल्लहस्तारविन्दाभं पद्महस्ताम्बुजान्वितम्
तस्य श्रीपादकमले पद्माब्जे च वरानने ॥ ८३ ॥
विश्वास-प्रस्तुतिः
शङ्खचक्रगदापद्मध्वजवस्त्रादिचिह्निते
दृष्ट्वा वक्षसि श्रीवत्सं कौस्तुभं वनमालया ॥ ८४ ॥
मूलम्
शङ्खचक्रगदापद्मध्वजवस्त्रादिचिह्निते
दृष्ट्वा वक्षसि श्रीवत्सं कौस्तुभं वनमालया ॥ ८४ ॥
विश्वास-प्रस्तुतिः
तस्याङ्गे सा जगत्सर्वं सदेवासुरमानुषम्
स्मितवक्त्रे विशालाक्षी भुवनानि चतुर्दश ॥ ८५ ॥
मूलम्
तस्याङ्गे सा जगत्सर्वं सदेवासुरमानुषम्
स्मितवक्त्रे विशालाक्षी भुवनानि चतुर्दश ॥ ८५ ॥
विश्वास-प्रस्तुतिः
निश्वासे तस्य वेदांश्च सेतिहासान्महात्मनः
द्वीपानब्धीन्गिरींस्तस्य जघने वरवर्णिनि ॥ ८६ ॥
मूलम्
निश्वासे तस्य वेदांश्च सेतिहासान्महात्मनः
द्वीपानब्धीन्गिरींस्तस्य जघने वरवर्णिनि ॥ ८६ ॥
विश्वास-प्रस्तुतिः
नाभ्यां ब्रह्मशिवौ तस्य कर्णयोश्च दिशः शुभाः
नेत्रयोर्वह्निसूर्यौ च घ्राणे वायुं महाजवम् ॥ ८७ ॥
मूलम्
नाभ्यां ब्रह्मशिवौ तस्य कर्णयोश्च दिशः शुभाः
नेत्रयोर्वह्निसूर्यौ च घ्राणे वायुं महाजवम् ॥ ८७ ॥
विश्वास-प्रस्तुतिः
सर्वोपनिषदामर्थं दृष्ट्वा तस्य विभूतयः
कृत्स्ना भीता वरारोहा प्रणम्य च पुनः पुनः
हर्षाश्रुपूर्णनयना प्राञ्जलिर्वाक्यमब्रवीत् ॥ ८८ ॥
मूलम्
सर्वोपनिषदामर्थं दृष्ट्वा तस्य विभूतयः
कृत्स्ना भीता वरारोहा प्रणम्य च पुनः पुनः
हर्षाश्रुपूर्णनयना प्राञ्जलिर्वाक्यमब्रवीत् ॥ ८८ ॥
विश्वास-प्रस्तुतिः
कौशल्योवाच-
धन्यास्मि देवदेवेश लब्ध्वा त्वां तनयं प्रभो
प्रसीद मे जगन्नाथ पुत्रस्नेहं प्रदर्शय ॥ ८९ ॥
मूलम्
कौशल्योवाच-
धन्यास्मि देवदेवेश लब्ध्वा त्वां तनयं प्रभो
प्रसीद मे जगन्नाथ पुत्रस्नेहं प्रदर्शय ॥ ८९ ॥
विश्वास-प्रस्तुतिः
ईश्वर उवाच-
एवमुक्तो हृषीकेशो मात्रा सर्वगतो हरिः
मायामानुषतां प्राप्य शिशुभावाद्रुरोद सः ॥ ९० ॥
मूलम्
ईश्वर उवाच-
एवमुक्तो हृषीकेशो मात्रा सर्वगतो हरिः
मायामानुषतां प्राप्य शिशुभावाद्रुरोद सः ॥ ९० ॥
विश्वास-प्रस्तुतिः
अथ प्रमुदिता देवी कौशल्या शुभलक्षणा
पुत्रमालिङ्ग्य हर्षेण स्तन्यं प्रादात्सुमध्यमा ॥ ९१ ॥
मूलम्
अथ प्रमुदिता देवी कौशल्या शुभलक्षणा
पुत्रमालिङ्ग्य हर्षेण स्तन्यं प्रादात्सुमध्यमा ॥ ९१ ॥
विश्वास-प्रस्तुतिः
तस्याः स्तन्यं पपौ देवो बालभावात्सनातनः
उवास मातुरुत्सङ्गे जगद्भर्ता महाविभुः ॥ ९२ ॥
मूलम्
तस्याः स्तन्यं पपौ देवो बालभावात्सनातनः
उवास मातुरुत्सङ्गे जगद्भर्ता महाविभुः ॥ ९२ ॥
विश्वास-प्रस्तुतिः
देशे तस्मिञ्छुशुभे रम्ये सर्वकामप्रदे नृणाम्
उत्सवं चक्रिरे पौरा हृष्टा जनपदा नराः ॥ ९३ ॥
मूलम्
देशे तस्मिञ्छुशुभे रम्ये सर्वकामप्रदे नृणाम्
उत्सवं चक्रिरे पौरा हृष्टा जनपदा नराः ॥ ९३ ॥
विश्वास-प्रस्तुतिः
कैकेय्यां भरतो जज्ञे पाञ्चजन्यांशचोदितः
सुमित्रा जनयामास लक्ष्मणं शुभलक्षणम् ॥ ९४ ॥
मूलम्
कैकेय्यां भरतो जज्ञे पाञ्चजन्यांशचोदितः
सुमित्रा जनयामास लक्ष्मणं शुभलक्षणम् ॥ ९४ ॥
विश्वास-प्रस्तुतिः
शत्रुघ्नं च महाभागा देवशत्रुप्रतापनम्
अनन्तांशेन सम्भूतो लक्ष्मणः परवीरहा ॥ ९५ ॥
मूलम्
शत्रुघ्नं च महाभागा देवशत्रुप्रतापनम्
अनन्तांशेन सम्भूतो लक्ष्मणः परवीरहा ॥ ९५ ॥
विश्वास-प्रस्तुतिः
सुदर्शनांशाच्छत्रुघ्नः सञ्जज्ञेऽमितविक्रमः
ते सर्वे ववृधुस्तत्र वैवस्वतमनोः कुले ॥ ९६ ॥
मूलम्
सुदर्शनांशाच्छत्रुघ्नः सञ्जज्ञेऽमितविक्रमः
ते सर्वे ववृधुस्तत्र वैवस्वतमनोः कुले ॥ ९६ ॥
विश्वास-प्रस्तुतिः
संस्कृतास्ते सुताः सम्यग्वसिष्ठेन महौजसा
अधीतवेदास्ते सर्वे श्रुतवन्तस्तथा नृपाः ॥ ९७ ॥
मूलम्
संस्कृतास्ते सुताः सम्यग्वसिष्ठेन महौजसा
अधीतवेदास्ते सर्वे श्रुतवन्तस्तथा नृपाः ॥ ९७ ॥
विश्वास-प्रस्तुतिः
सर्वशास्त्रार्थतत्वज्ञा धनुर्वेदे च निष्ठिताः
बभूवुः परमोदारा लोकानां हर्षवर्द्धनाः ॥ ९८ ॥
मूलम्
सर्वशास्त्रार्थतत्वज्ञा धनुर्वेदे च निष्ठिताः
बभूवुः परमोदारा लोकानां हर्षवर्द्धनाः ॥ ९८ ॥
विश्वास-प्रस्तुतिः
युग्मं बभूवतुस्तत्र राजानौ रामलक्ष्मणौ
तथा भरतशत्रुघ्नौ तयोर्युग्मं बभूव ह ॥ ९९ ॥
मूलम्
युग्मं बभूवतुस्तत्र राजानौ रामलक्ष्मणौ
तथा भरतशत्रुघ्नौ तयोर्युग्मं बभूव ह ॥ ९९ ॥
अथ लोकेश्वरी लक्ष्मीर्जनकस्य निवेशने
शुभक्षेत्रे हलोद्धाते सुनासीरे शुभेक्षणे १००
बालार्ककोटिसङ्काशा रक्तोत्पलकराम्बुजा
सर्वलक्षणसम्पन्ना सर्वाभरणभूषिता १०१
धृत्वा वक्षसि चार्वङ्गी मालामम्लानपङ्कजाम्
सीतामुखे समुत्पन्ना बालभावेन सुन्दरी १०२
तां दृष्ट्वा जनको राजा कन्यां वेदमयीं शुभाम्
उद्धृत्यापत्यभावेन पुपोष मिथिलापतिः १०३
जनकस्य गृहे रम्ये सर्वलोकेश्वरप्रिया
ववृधे सर्वलोकस्य रक्षणार्थं सुरेश्वरी १०४
एतस्मिन्नन्तरे देवि कौशिको लोकविश्रुतः
सिद्धाश्रमे महापुण्ये भागीरथ्यास्तटे शुभे १०५
क्रतुप्रवरमारेभे यष्टुं तत्र महामुनिः
वर्त्तमानस्य तस्यास्य यज्ञस्याथ द्विजन्मनः १०६
क्रतुविध्वंसिनोऽभूवन्रावणस्य निशाचराः
कौशिकश्चिन्तयित्वाथ रघुवंशोद्भवं हरिम् १०७
आनेतुमैच्छद्धर्मात्मा लोकानां हितकाम्यया
स गत्वा नगरीं रम्यामयोध्यां रघुपालिताम् १०८
नृपश्रेष्ठं दशरथं ददर्श मुनिसत्तमः
राजापि कौशिकं दृष्ट्वा प्रत्युत्थाय कृताञ्जलिः १०९
पुत्रैः सह महातेजा ववन्दे मुनिसत्तमम्
धन्योऽहमस्मीति वदन्हर्षेण रघुनन्दनं ११०
अर्चयामास विधिना निवेश्य परमासने
परिणीय नमस्कृत्य किं करोमीत्युवाच तम् १११
ततः प्रोवाच हृष्टात्मा विश्वामित्रो महातपाः
विश्वामित्र उवाच-
देहि मे राघवं राजन्रक्षणार्थं क्रतोर्मम ११२
साफल्यमस्तु मे यज्ञे राघवस्य समीपतः
तस्माद्रामं रक्षणार्थं दातुमर्हसि भूपते ११३
ईश्वर उवाच-
तच्छ्रुत्वा मुनिवर्य्यस्य वाक्यं सर्वविदां वरः
प्रददौ मुनिवर्य्याय राघवं सह लक्ष्मणम् ११४
आदाय राघवं तत्र विश्वामित्रो महातपाः
स्वमाश्रममभिप्रीतः प्रययौ द्विजसत्तमः ११५
ततः प्रहृष्टास्त्रिदशाः प्रयाते रघुसत्तमे
ववृषुः पुष्पवर्षाणि तुष्टुवुश्च महौजसः ११६
अथाजगाम हृष्टात्मा वैनतेयो महाबलः
अदृश्यभूतो भूतानां सम्प्राप्य रघुसत्तमम् ११७
ताभ्यां दिव्ये च धनुषी तूणौ चाक्षयसायकौ
दिव्यान्यस्त्राणि शस्त्राणि दत्वा च प्रययौ द्विजः ११८
तौ रामलक्ष्मणौ वीरौ कौशिकेन महात्मना
गच्छन्ती ज्ञापितारण्ये राक्षसी घोरदर्शना ११९
नाम्ना तु ताडका देवि भार्या सुन्दस्य रक्षसः
जघ्नतुस्तां महावीरौ बाणैर्दिव्यधनुश्च्युतैः १२०
निहता राघवेणाथ राक्षसी घोरदर्शना
त्यक्त्वा तनुं घोररूपां दिव्यरूपा बभूव सा १२१
जाज्वल्यमानावपुषा सर्वाभरणविभूषिता
प्रययौ वैष्णवं लोकं प्रणम्य च रघूत्तमौ १२२
तां हत्वा राघवः श्रीमान्कौशिकस्याश्रमं शुभम्
प्रविवेश महातेजा लक्ष्मणेन महात्मना १२३
ततः प्रहृष्टा मुनयः प्रत्युद्गम्य रघूत्तमम्
निवेश्य पूजयामासुरर्घाद्यैः परमात्मने १२४
कौशिकः कृतदीक्षस्तु यंष्टुं यज्ञमनुत्तमम्
आरेभे मुनिभिः सार्द्धं विधिना मुनिसत्तमः १२५
वर्त्तमाने महायज्ञे मारीचो नाम राक्षसः
भ्रात्रा सुबाहुना तत्र विघ्नं कर्तुमवस्थितः १२६
दृष्ट्वा तौ राक्षसौ घोरौ राघवः परवीरहा
जघानैकेन बाणेन सुबाहुं राक्षसेश्वरम् १२७
पवनास्त्रेण महता मारीचं स निशाचरम्
सागरे पातयामास शुष्कपर्णमिवानिलः १२८
स रामस्य महावीर्य्यं दृष्ट्वा राक्षससत्तमः
न्यस्तशस्त्रस्तपस्तप्तुं प्रययौ महादाश्रमम् १२९
विश्वामित्रो महातेजाः समाप्ते महति क्रतौ
प्रहृष्टमनसा तत्र पूजयामास राघवम् १३०
समाश्लिष्य महात्मानं काकपक्षधरं हरिम्
नीलोत्पलदलश्यामं पद्मपत्रायतेक्षणम् १३१
उपाघ्राय तदा मूर्ध्नि तुष्टाव मुनिसत्तमः
एतस्मिन्नन्तरे राजा मिथिलाया अधीश्वरः १३२
वाजपेयं क्रतुं यष्टुमारेभे मुनिसत्तमैः
तं द्रष्टुं प्रययुस्सर्वे विश्वामित्रपुरोगमाः १३३
मुनयो रघुशार्दूल सहिताः पुण्यचेतसः
गच्छतस्तस्य रामस्य पदाब्जेन महात्मनः १३४
अभूत्सा पावनी भूमिः समाक्रान्ता महाशिला
सापि शप्ता पुरा भर्त्रा गौतमेन द्विजन्मना १३५
अहल्या रघुनाथस्य पादस्पर्शाच्छुभाऽभवत्
अथ सम्प्राप्य नगरीं मिथिलां मुनिसत्तमाः १३६
राघवाभ्यां तु सहिता बभूवुः प्रीतमानसाः
समागतान्महाभागान्दृष्ट्वा राजा महाबलः १३७
प्रत्युद्गम्य प्रणम्याथ पूजयामास मैथिलः
रामं पद्मविशालाक्षमिन्दीवरदलप्रभम् १३८
पीताम्बरधरं श्लक्ष्णं कोमलावयवोज्ज्वलम्
अवधीरित कन्दर्प्पकोटिलावण्यमुत्तमम् १३९
सर्वलक्षणसम्पन्नं सर्वाभरणभूषितम्
स्वस्य हृत्पद्ममध्ये यः परेशस्य तनुर्हरिः १४०
उत्पन्नो दीपवद्दीपात्सौशील्यादिगुणैः परैः
तं दृष्ट्वा रघुनाथं स जनको हृष्टमानसः १४१
परेशमेव तं मेने रामं दशरथात्मजम्
पूजयामास काकुत्स्थं धन्योस्मीति ब्रुवन्नृपः १४२
प्रसादं वासुदेवस्य विष्णोर्मेने नरेश्वरः
प्रदातुं दुहितां तस्मै मनसा चिन्तयन्प्रभुः १४३
आत्मजौ रघुवंशस्य ज्ञात्वा तत्र नृपोत्तमः
पूजयामास धर्मेण वस्त्रैराभरणैः शुभैः १४४
ऋषीन्समर्चयामास मधुपर्कादिपूजनैः
ततोऽवसाने यज्ञस्य रामो राजीवलोचनः १४५
भङ्क्त्वा शैवं धनुर्दिव्यं जितवान्जनकात्मजाम्
अथासौ वीर्यशुल्केन महता परितोषितः १४६
मुदा धरणिजां तस्मै प्रददौ मिथिलाधिपः
केशवाय श्रियमिव यथापूर्वं महार्णवः १४७
स दूतं प्रेषयामास राघवं मिथिलाधिपः
पुत्राभ्यां सह धर्मात्मा मिथिलायां विवेश ह १४८
वसिष्ठवामदेवाद्यैः प्रीतैः सह महीपतिः
उवास नगरे रम्ये जनकस्य रघूत्तमः १४९
तस्मिन्नेव शुभे काले रामस्य धरणीसुताम्
विवाहमकरोद्राजा मिथिलेन समर्चितः १५०
लक्ष्मणस्योर्मिलां नाम कन्यां जनकसम्भवाम्
जनकस्यानुजस्याथ तनये शुभवर्चसी १५१
माण्डवी श्रुतकीर्त्तिश्च सर्वलक्षणलक्षिते
भरतस्य च सौमित्रेर्विवाहमकरोन्नृपः १५२
निर्वर्त्यौद्वाहिकं तत्र राजा दशरथो बली
अयोध्यां प्रस्थितः श्रीमान्पौरैर्जनपदैर्वृतः १५३
पारिबर्हं समादाय मैथिलेन च पूजितः
ससुतः सस्नुषः साश्वः सगजः सबलानुगः १५४
तदध्वनि महावीर्य्यो जामदग्निः प्रतापवान्
गृहीत्वा परशुं चापं सङ्क्रुद्ध इव केसरी १५५
अभ्यधावच्च काकुत्स्थं योद्धुकामो नृपान्तकः
सम्प्राप्य राघवं दृष्ट्वा वचनं प्राह भार्गवः १५६
परशुराम उवाच-
रामराम महाबाहो शृणुष्व वचनं मम
बहुशः पार्थिवान्हत्वा संयुगे भूरिविक्रमान् १५७
ब्राह्मणेभ्यो महीं दत्वा तपस्तप्तुमहं गतः
तव वीर्यबलं श्रुत्वा त्वया योद्धुमिहागतः १५८
इक्ष्वाकवो न वध्या मे मातामहकुलोद्भवाः
वीर्य्यं क्षत्रबलं श्रुत्वा न शक्यं सहितुं मम १५९
रौद्रं चापं दुराधर्षं भज्यमानां त्वया नृप
तस्माद्वदान्य युद्धं मे दीयतां रघुसत्तम १६०
इदं तु वैष्णवं चापं तेन तुल्यमरिन्दम
आरोपय स्ववीर्येण निर्जितोस्मि त्वयैव हि १६१
अथवा त्यज शस्त्राणि पुरस्ताद्बलिनो मम
शरणं भज काकुत्स्थ कातरोस्यथ चेतसी १६२
ईश्वर उवाच-
एवमुक्तस्तु काकुत्स्थो भार्गवेण प्रतापवान्
तच्चापं तस्य जग्राह तच्छक्तिं वैष्णवीमपि १६३
शक्त्या वियुक्तस्स तदा जामदग्निः प्रतापवान्
निर्वीर्यो नष्टतेजाभूत्कर्महीनो यथा द्विजः १६४
विनष्टतेज सन्दृष्ट्वा भार्गवं नृपसत्तमाः
साधुसध्विति काकुत्स्थं प्रशशंसुर्मुहुर्मुहुः १६५
काकुत्स्थस्तन्महच्चापं गृहीत्वारोप्य लीलया
सन्धाय बाणं तच्चापे भार्गवं प्राह विस्मितम् १६६
राम उवाच-
अनेन शरमुख्येन किं कर्त्तव्यं तव द्विज
छेद्मि लोकमिमं चाधः स्वर्गं वा हन्मि ते तपः १६७
ईश्वर उवाच-
तन्दृष्ट्वा घोरसङ्काशं बाणं रामस्य भार्गवः
ज्ञात्वा तं परमात्मानं प्रहृष्टो राममब्रवीत् १६८
परशुराम उवाच-
रामराम महाबाहो न वेद्मि त्वां सनातनम्
जानाम्यद्यैव काकुत्स्थ तव वीर्य्यगुणादिभिः १६९
त्वमादिपुरुषः साक्षात्परब्रह्मपरोऽव्ययः
त्वमनन्तो महाविष्णुर्वासुदेवः परात्परः १७०
नारायणस्त्वं श्रीशस्त्वमीश्वरस्त्वं त्रयीमयः
त्वं कालस्त्वं जगत्सर्वमकाराख्यस्त्वमेव च १७१
स्रष्टा धाता च संहर्त्ता त्वमेव परमेश्वरः
त्वमचिन्त्यो महद्भूतरूपस्त्वं तु मनुर्महान् १७२
चतुःषट्पञ्चगुणवांस्त्वमेव पुरुषोत्तमः
त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारस्त्रयीमयः १७३
व्यक्ताव्यक्तस्वरूपस्त्वं गुणभृन्निर्ग्गुणः परः
स्तोतुं त्वाहमशक्तश्च वेदानामप्यगोचरम् १७४
यच्चापलत्वं कृतवांस्त्वां युयुत्सुतया प्रभो
तत्क्षन्तव्यं त्वया नाथ कृपया केवलेन तु १७५
तव शक्त्या नृपान्सर्वाञ्जित्वा दत्वा महीं द्विजान्
त्वत्प्रसादवशादेव शान्तिमाप्नोति नैष्ठिकीम् १७६
ईश्वर उवाच-
एवमुक्त्वा तु काकुत्स्थं जामदग्निर्महातपाः
परिणीय नमस्कृत्वा राघवं लोकरक्षकम् १७७
शतक्रतुकृतं स्वर्गं तदस्त्राय न्यवेदयत्
राघवोऽथ महातेजा ववन्दे तं महामुनिम् १७८
विधिवत्पूजयामास पाद्यार्घाचमनादिभिः
तेन सम्पूजितस्तत्र जामदग्निर्महातपाः १७९
तपस्तप्तुं ययौ रम्यं नरनारायणाश्रमम्
राजा दशरथः सोऽथ पुत्रैर्दारसमन्वितैः १८०
स्वां पुरीं सुमुहूर्त्तेन प्रविवेश महाबलः
राघवो लक्ष्मणश्चैव शत्रुघ्नो भरतस्तथा १८१
स्वान्स्वान्दारानुपागम्य रेमिरे हृष्टमानसाः
तत्र द्वादश वर्षाणि सीतया सह राघवः १८२
रमयामास धर्मात्मा नारायण इव श्रिया
तस्मिन्नेव तु राजाथ काले दशरथः सुतम् १८३
ज्येष्ठं राज्येन संयोक्तुमैच्छत्प्रीत्या महीपतिः
तस्य भार्याथ कैकेयी पुरा दत्तवरा प्रिया १८४
अयाचत नृपश्रेष्ठं भरतस्याभिषेचनम्
विवासनं च रामस्य वत्सराणि चतुर्दश १८५
स राजा सत्यवचनाद्रामं राज्यादथोः सुतम्
विवासयामास तदा दुःखेन हतचेतनः १८६
शक्तोऽपि राघवस्तस्मिन्राज्यं सन्त्यज्य धर्मतः
दशग्रीववधार्थाय पितुर्वचनहेतुना १८७
वनं जगाम काकुत्स्थो लक्ष्मणेन च सीतया
राजा पुत्रवियोगार्त्तः शोकेन च ममार सः १८८
नियुज्यमानो भरतस्तस्मिन्राज्ये समन्त्रिभिः
नैच्छद्राज्यं स धर्मात्मा सौभ्रात्रमनुदर्शयन् १८९
वनमागम्य काकुत्स्थमयाचद्भ्रातरं ततः
रामस्तु पितुरादेशान्नैच्छद्राज्यमरिन्दमः १९०
स्वपादुके ददौ तस्मै भक्त्या सोऽप्यग्रहीत्तथा
रामस्य पादुके राज्यमवाप्य भरतः शुभे १९१
प्रत्यहं गन्धपुष्पैश्च पूजयन्कैकयीसुतः
तपश्चरणयुक्तेन तस्मिंस्तस्थौ नृपोत्तमः १९२
यावदागमनं तस्य राघवस्य महात्मनः
तावद्व्रतपराः सर्वे बभूवुः पुरवासिनः १९३
राघवश्चित्रकूटाद्रौ भरद्वाजाश्रमे शुभे
रमयामास वैदेह्या मन्दाकिन्या जले शुभे १९४
कदाचिदङ्के वैदेह्याः शेते रामो महामनाः
ऐन्द्रिः काकस्समागम्य तस्मिन्नेव चचार ह १९५
स दृष्ट्वा जानकीं तत्र कन्दर्प्पशरपीडितः
विददार नखैस्तीक्ष्णैः पीनोन्नतपयोधरम् १९६
तं दृष्ट्वा वायसं रामः कुशं जग्राह पाणिना
ब्रह्मणास्त्रेण संयोज्य चिक्षेप धरणीधरः १९७
तं तृणं घोरसङ्काशं ज्वालारचितविग्रहम्
दृष्ट्वा काकः प्रदुद्राव विमुञ्चन्कातरं स्वरम् १९८
तं काकं प्रत्यनुययौ रामस्यास्त्रं सुदारुणम्
वायसस्त्रिषुलोकेषु बभ्राम भयपीडितः १९९
यत्र यत्र ययौ काकः शरणार्थी स वायसः
तत्र तत्र तदस्त्रं तु प्रविवेश भयावहम् २००
ब्रह्माणमिन्द्रं रुद्रं च यमं वरुणमेव च
शरणार्थी जगामाशु वायसः शस्त्रपीडितः २०१
तं दृष्ट्वा वायसं सर्वे रुद्राद्या देव दानवाः
न शक्ताः स्म वयं त्रातुमिति प्राहुर्मनीषिणः
अथ प्रोवाच भगवान्ब्रह्मा त्रिभुवनेश्वरः २०२
ब्रह्मोवाच-
भो भो बलिभुजां श्रेष्ठ तमेव शरणं व्रज
स एव रक्षकः श्रीमान्सर्वेषां करुणानिधिः २०३
रक्षत्येव क्षमासारो वत्सलं शरणागतान्
ईश्वरः सर्वभूतानां सौशील्यादिगुणान्वितः २०४
रक्षिता जीवलोकस्य पिता माता सखा सुहृत्
शरणं व्रज देवेशं नान्यत्र शरणं द्विज २०५
महादेव उवाच-
इत्युक्तस्तेन बलिभुग्ब्रह्मणा रघुनन्दनम्
उपेत्य सहसा भूमौ निपपात भयातुरः २०६
प्राणसंशयमापन्नं दृष्ट्वा सीताथ वायसम्
त्राहित्राहीति भर्तारमुवाच विनयाद्विभुम् २०७
पुरतः पतितं देवी धरण्यां वायसं तदा
तच्छिरः पादयोस्तस्य योजयामास जानकी २०८
समुत्थाप्य करेणाथ कृपापीयूषसागरः
ररक्ष रामो गुणवान् वायसं दययार्दितः २०९
तमाह वायसं रामो मा भैरिति दयानिधिः
अभयं ते प्रदास्यामि गच्छ गच्छ यथासुखम् २१०
प्रणम्य राघवायाथ सीतायै च मुहुर्मुहुः
स्वर्ल्लोकं प्रययावाशु राघवेण च रक्षितः २११
ततो रामस्तु वैदेह्या लक्ष्मणेन च धीमता
उवास चित्रकूटाद्रौ स्तूयमानो महर्षिभिः २१२
तस्मिन्सम्पूज्यमानस्तु भरद्वाजेन राघवः
जगामात्रेस्सुविपुलमाश्रमं रघुसत्तमः २१३
समागतं रघुवरं दृष्ट्वा मुनिवरोत्तमः
भार्यया सह धर्मात्मा प्रत्युद्गम्य मुदा युतः २१४
आसने सुशुभे मुख्ये निवेश्य सह सीतया
अर्घ्यपाद्याचमनीयं च वस्त्राणि विविधानि च २१५
मधुपर्कन्ददौ प्रीत्या भूषणं चानुलेपनम्
तस्य पत्न्यनसूया तु दिव्याम्बरमनुत्तमम् २१६
सीतायै प्रददौ प्रीत्या भूषणानि द्युमन्ति च
दिव्यान्नपानभक्षाद्यैर्भोजयामास राघवम् २१७
तेन सम्पूजितस्तत्र भक्त्या परमया नृपः
उवास दिवसं तत्र प्रीत्या रामस्सलक्ष्मणः २१८
प्रभाते विमले रामः समुत्थाय महामुनिम्
परिणीय प्रणम्याथ गमनायोपचक्रमे २१९
अनुज्ञातस्ततस्तेन रामो राजीवलोचनः
प्रययौ दण्डकारण्यं महर्षिकुलसङ्कुलम् २२०
तत्रातिभीषणं घोरं विराधं नाम राक्षसम्
हत्वाथ शरभङ्गस्य प्रविवेशाश्रमं शुभम् २२१
स तु दृष्ट्वाथ काकुत्स्थं सद्यः सङ्क्षीणकल्मषः
प्रययौ ब्रह्मलोकं तु गन्धर्वाप्सरसान्वितम् २२२
सुतीक्ष्णस्याप्यगस्त्यस्य ह्यगस्त्यभ्रातुरेव च
क्रमेण प्रययौ रामस्तैश्च सम्पूजितस्तथा २२३
पञ्चवट्यां ततो रामो गोदावर्यास्तटे शुभे
उवास सुचिरं कालं सुखेन परमेण च २२४
तत्र गत्वा मुनिश्रेष्ठास्तापसा धर्मचारिणः
पूजयामासुरात्मेशं रामं राजीवलोचनम् २२५
भयं विज्ञापयामासुस्तं च रक्षोगणेरितम्
तानाश्वास्य तु काकुस्थो ददौ चाभयदक्षिणाम् २२६
ते तु सम्पूजितास्तेन स्वाश्रमान्सम्प्रपेदिरे
तस्मिंस्त्रयोदशाब्दानि रामस्य परिनिर्य्ययुः २२७
गोदावर्य्यास्तटे रम्ये पञ्चवट्यां मनोरमे
कस्यचित्त्वथ कालस्य राक्षसी घोररूपिणी २२८
रावणस्य स्वसा तत्र प्रविवेश दुरासदा
सा तु दृष्ट्वा रघुवरं कोटिकन्दर्प्पसन्निभम् २२९
इन्दीवरदलश्यामं पद्मपत्रायतेक्षणम्
प्रोन्नतांसं महाबाहुं कम्बुग्रीवं महाहनुम् २३०
सम्पूर्णचन्द्रसदृशं सस्मिताननपङ्कजम्
भृङ्गावलिनिभैः स्निग्धैः कुटिलैः शीर्षजैर्वृतम् २३१
रक्तारविन्दसदृशं पद्महस्ततलाङ्कितम्
निष्कलङ्केन्दुसदृशं नखपङ्क्तिविराजितम् २३२
स्निग्धकोमलदूर्वाभं सौकुमार्य्यनिधिं शुभम्
पीतकौशेयवसनं सर्वाभरणभूषितम् २३३
युवाकुमारवयसं जगन्मोहनविग्रहम्
दृष्ट्वा तं राक्षसी रामं कन्दर्प्पशरपीडिता २३४
अब्रवीत्समुपेत्याथ रामं कमललोचनम्
राक्षस्युवाच-
कस्त्वं तापसवेषेण वर्त्तसे दण्डके वने २३५
आगतोऽसि किमर्थं च राक्षसानां दुरासदे
शीघ्रमाचक्ष्व तत्त्वेन नानृतं वक्तुमर्हसि २३६
महेश्वर उवाच-
इत्युक्तः स तदा रामः सम्प्रहस्याब्रवीद्वचः
राम उवाच-
राज्ञो दशरथस्याहं पुत्रो राम इतीरितः
असौ ममानुजो धन्वी लक्ष्मणो नाम चानघः २३७
पत्नी चेयं च मे सीता जनकस्यात्मजा प्रिया
पितुर्वचननिर्देशादहं वनमिहागतः २३८
विचरामो महारण्यमृषीणां हितकाम्यया
आगतासि किमर्थं त्वमाश्रमं मम सुन्दरि २३९
का त्वं कस्य कुले जाता सर्वं सत्यं वदस्व मे
महेश्वर उवाच-
इत्युक्ता सा तु रामेण प्राह वाक्यमशङ्किता २४०
राक्षस्युवाच-
अहं विश्रवसः पुत्री रावणस्य स्वसा नृप
नाम्ना शूर्पणखा नाम त्रिषु लोकेषु विश्रुता २४१
इदं च दण्डकारण्यं भ्रात्रा दत्तं मम प्रभो
भक्षयन्नृषिसङ्घान्वै विचरामि महावने २४२
त्वां तु दृष्ट्वा मुनिवरं कन्दर्पशरपीडिता
रन्तुकामा त्वया सार्द्धमागतास्मि सुनिर्भया २४३
मम त्वं नृपशार्दूल भर्ता भवितुमर्हसि
इमां तव सतीं सीतां ग्रसितुं भूप कामये २४४
वनेषु गिरिमुख्येषु रमयामि त्वया सह
महेश्वर उवाच-
इत्युक्त्वा राक्षसी सीतां ग्रसितुं वीक्ष्य चोद्यताम् २४५
श्रीरामः खड्गमुद्यम्य नासाकर्णौ प्रचिच्छिदे २४६
रुदन्ती सभयं शीघ्रं राक्षसी विकृतानना
खरालयं प्रविश्याह तस्य रामस्य चेष्टितम् २४७
स तु राक्षससाहस्रैर्दूषणत्रिशिरो वृतः
आजगाम भृशं योद्धुं राघवं शत्रुसूदनः २४८
तान्रामः कानने घोरे बाणः कालान्तकोपमैः
निजघान महाकायान्राक्षसांस्तत्र लीलया २४९
खरं त्रिशिरसं चैव दूषणं तु महाबलम्
रणे निपातयामास बाणैराशीविषोपमैः २५०
निहत्य राक्षसान्सर्वान्दण्डकारण्यवासिनः
पूजितः सुरसङ्घैश्च स्तूयमानो महर्षिभिः २५१
उवास दण्डकारण्ये सीतया लक्ष्मणेन च
राक्षसानां वधं श्रुत्वा रावणः क्रोधमूर्च्छितः २५२
आजगाम जनस्थानं मारीचेन दुरात्मना
सम्प्राप्य पञ्चवट्यां तु दशग्रीवः स राक्षसः २५३
मायाविना मरीचेन मृगरूपेण रक्षसः
अपहृत्याश्रमाद्दूरे तौ तु दशरथात्मजौ २५४
जहार सीतां रामस्य भार्यां स्ववधकाङ्क्षया
ह्रियमाणां तु तां दृष्ट्वा जटायुर्गृध्रराड्बली २५५
रामस्य सौहृदात्तत्र युयुधे तेन रक्षसा
तं हत्वा बाहुवीर्येण रावणं शत्रुवारणः २५६
प्रविवेश पुरीं लङ्कां राक्षसैर्बहुभिर्वृताम्
अशोकवनिकामध्ये निःक्षिप्य जनकात्मजाम् २५७
निधनं रामबाणेन काङ्क्षयन्स्वगृहं विशत्
रामस्तु राक्षसं हत्वा मारीचं मृगरूपिणम् २५८
पुनराविश्य तत्राथ भ्रात्रा सौमित्रिणा ततः
राक्षसापहृतां भार्यां ज्ञात्वा दशरथात्मजः २५९
प्रभूतशोकसन्तप्तो विललाप महामतिः
मार्गमाणो वने सीतां पथि गृध्रं महाबलम् २६०
विच्छिन्नपादपक्षं च पतितं धरणीतले
रुधिरापूर्णसर्वाङ्गं दृष्ट्वा विस्मयमागतः २६१
पप्रच्छ राघवं श्रीमान्केन किं त्वं जिघांसितः
गृध्रस्तु राघवं दृष्ट्वा मन्दमन्दमुवाच ह २६२
गृध्र उवाच-
रावणेन हृता राम तव भार्यां बलीयसा
तेन राक्षसमुख्येन सङ्ग्रामे निहतोस्म्यहम् २६३
महेश्वर उवाच-
इत्युक्त्वा राघवस्याग्रे सहसा त्यक्तजीवितः
संस्कारमकरोद्रामस्तस्य ब्रह्मविधानतः २६४
स्वपदं च ददौ तस्मै योगिगम्यं सनातनम्
राघवस्य प्रसादेन स गृध्रः परमं पदम् २६५
हरेः सामान्यरूपेण मुक्तिं प्राप खगोत्तमः
माल्यवन्तं ततो गत्वा मतङ्गस्याश्रमे शुभे २६६
अभिगम्य महाभागां शबरीं धर्मचारिणीम्
सा तु भागवतश्रेष्ठा दृष्ट्वा तौ रामलक्ष्मणौ २६७
प्रत्युद्गम्य नमस्कृत्वा निवेश्य कुशविष्टरे
पादप्रक्षालनं कृत्वा वन्यैः पुष्पैः सुगन्धिभिः २६८
अर्चयामास भक्त्या वै हर्षनिर्भरमानसा
फलानि च सुगन्धीनि मूलानि मधुराणि च २६९
निवेदयामास तदा राघवाभ्यां दृढव्रता
फलान्यास्वाद्य काकुत्स्थस्तस्यै मुक्तिं ददौ पराम् २७०
ततः पम्पासरो गत्वा राघवः शत्रुसूदनः
जघान राक्षसं तत्र कबन्धं घोररूपिणम् २७१
तं निहत्य महावीर्यो ददाह स्वर्गतश्च सः
ततो गोदावरीं गत्वा रामो राजीवलोचनः २७२
पप्रच्छ सीतां गङ्गे त्वं किं तां जानासि मे प्रियाम्
न शशंस तदा तस्मै सा गङ्गा तमसावृता २७३
शशाप राघवः क्रोधाद्रक्ततोया भवेति ताम्
ततो भयात्समुद्विग्ना पुरस्कृत्य महामुनीन् २७४
कृताञ्जलिपुटा दीना राघवं शरणं गता
ततो महर्षयस्सर्वे रामं प्राहुस्सनातनम् २७५
ऋषय ऊचुः-
त्वत्पादकमलोद्भूता गङ्गा त्रैलोक्यपावनी
त्वमेव हि जगन्नाथ तां शापान्मोक्तुमर्हसि २७६
महेश्वर उवाच-
ततः प्रोवाच धर्मात्मा रामः शरणवत्सलः
राम उवाच-
शबर्याः स्नानमात्रेण सङ्गता शुभवारिणा
मुक्ता भवतु मच्छापाद्गङ्गेयं पापनाशिनी २७७
एवमुक्त्वा तु काकुत्स्थः शबरीतीर्थमुत्तमम्
गङ्गा गयासमं चक्रे शार्ङ्गकोट्या महाबलः २७८
महाभागवतानां च तीर्थं यस्योदकेऽभवत्
तच्छरीरं जगद्वन्द्यं भविष्यति न संशयः २७९
एवमुक्त्वा तु काकुत्स्थ ऋष्यमूकं गिरिं ययौ
ततः पम्पासरस्तीरे वानरेण हनूमता २८०
सङ्गतस्तस्य वचनात्सुग्रीवेण समागतः
सुग्रीववचनाद्धत्वा वालिनं वानरेश्वरम् २८१
सुग्रीवमेव तद्राज्ये रामोसावभ्यषेचयत्
स तु सम्प्रेषयामास दिदृक्षुर्जनकात्मजाम् २८२
हनुमत्प्रमुखान्वीरान्वानरान्वानराधिपः
स लङ्घयित्वा जलधिं हनूमान्मारुतात्मजः २८३
प्रविश्य नगरीं लङ्कां दृष्ट्वा सीतां दृढव्रताम्
उपवासकृशां दीनां भृशं शोकपरायणाम् २८४
मलपङ्केन दिग्धाङ्गीं मलिनाम्बरधारिणीम्
निवेदयित्वाऽभिज्ञानं प्रवृत्तिं च निवेद्य ताम् २८५
सप्तमन्त्रिसुतांस्तत्र रावणस्य सुतं तथा
तोरणस्तम्भमुत्पाट्य निजघान स्वयं कपिः २८६
समाश्वास्य च वैदेहीं बभञ्जोपवनं तदा
वनपालान्किङ्करांश्च पञ्चसेनाग्रनायकान् २८७
रावणस्य सुतेनाथ निगृहीतो यदृच्छया
दृष्ट्वा च राक्षसेन्द्रं तु सम्भाषित्वा तथैव च २८८
ददाह नगरीं लङ्कां स्वलाङ्गूलाग्निना कपिः
तया दत्तमभिज्ञानं गृहीत्वा पुनरागमत् २८९
सोऽभिगम्य महातेजा रामं कमललोचनम्
न्यवेदयद्वानरेन्द्रो दृष्टा सीतेति तत्वतः २९०
सुग्रीवसहितो रामो वानरैर्बहुभिर्वृतः
महोदधेस्तटं गत्वा तत्रानीकं न्यवेशयत् २९१
रावणस्यानुजो भ्राता विभीषण इतीरितः
धर्मात्मा सत्यसन्धश्च महाभागवतोत्तमः२९२
ज्ञात्वा समागतं रामं परित्यज्य स्वपूर्वजम्
राज्यं सुतांश्च दारांश्च राघवं शरणं ययौ २९३
परिगृह्य च तं रामो मारुतेर्वचनात्प्रभुः
तस्मै दत्वाऽभयं सौम्यं रक्षो राज्येऽभ्यषेचयत् २९४
ततस्समुद्रं काकुत्स्थस्तर्तुकामः प्रपद्य वै
सुप्रसन्नजलं तं तु दृष्ट्वा रामो महाबलः २९५
शार्ङ्गमादाय बाणौघैः शोषयामास वारिधिम्
ततस्तु सरितामीशः काकुत्स्थं करुणानिधिम् २९६
प्रपद्य शरणं देवमर्चयामास वारिधिः
पुनरापूर्य जलधिं वरुणास्त्रेण राघवः २९७
उदधेर्वचनात्सेतुं सागरे मकरालये
गिरिभिर्वानरानीतैर्नलः सेतुमकारयत् २९८
ततो गत्वा पुरीं लङ्कां सन्निवेश्य महाबलम्
सम्यगायोधनं चक्रे वानराणां च रक्षसाम् २९९
ततो दशास्यतनयः शक्रजिद्राक्षसो बली
बबन्ध नागपाशैश्च तावुभौ रामलक्ष्मणौ ३००
वैनतेयः समागत्य तान्यस्त्राणि प्रमोचयत्
राक्षसा निहतास्सर्वे वानरैश्च महाबलैः ३०१
रावणस्यानुजं वीरं कुम्भकर्णं महाबलम्
निजघान रणे रामो बाणैरग्निशिखोपमैः ३०२
ब्रह्मास्त्रेणेन्द्रजित्क्रुद्धः पातयामास वानरान्
हनूमता समानीतो महौषधि महीधरः ३०३
तस्यानीतस्य च स्पर्शात्सर्व एव समुत्थिताः
ततो रामानुजो वीरः शक्रजेतारमाहवे ३०४
निपातयामास शरैर्वृत्रं वज्रधरो यथा
निर्ययावथ पौलस्त्यो योद्धुं रामेण संयुगे ३०५
चतुरङ्गबलैः सार्द्धं मन्त्रिभिश्च महाबलः
समन्ततोभवद्युद्धं वानराणां च रक्षसाम् ३०६
रामरावणयोश्चैव तथा सौमित्रिणा सह
शक्त्या निपातयामास लक्ष्मणं राक्षसेश्वरः ३०७
ततः क्रुद्धो महातेजा राघवो राक्षसान्तकः
जघान राक्षसान्वीराञ्शरैः कालान्तकोपमैः ३०८
प्रदीप्तैर्बाणसाहस्रैः कालदण्डोपमैर्भृशम्
छादयामास काकुत्स्थो दशग्रीवं च राक्षसम् ३०९
स तु निर्भिन्नसर्वाङ्गो राघवास्त्रैर्निशाचरः
भयात्प्रदुद्राव रणाल्लङ्कां प्रति निशाचरः ३१०
जगद्राममयं पश्यन्निर्वेदाद्गृहमाविशत्
ततो हनूमता नीतो महौषधिमहागिरिः ३११
तेन रामानुजस्तूर्णं लब्धसञ्ज्ञोऽभवत्तदा
दशग्रीवस्ततो होममारेभे जयकाङ्क्षया ३१२
ध्वंसितं वानरेन्द्रैस्तदभिचारात्मकं रिपोः
पुनर्युद्धाय पौलस्त्यो रामेण सह निर्ययौ ३१३
दिव्यस्यन्दनमारुह्य राक्षसैर्बहुभिर्युतः
ततः शतमखो दिव्यं रथं हर्यश्वसंयुतम् ३१४
राघवाय ससूतं हि प्रेषयामास बुद्धिमान्
रथं मातलिना नीतं समारुह्य रघूत्तमः ३१५
स्तूयमानं सुरगणैर्युयुधे तेन रक्षसा
ततो युद्धमभूद्धोरं रामरावणयोर्महत् ३१६
सप्ताह्निकमहोरात्रं शस्त्रास्त्रैरतिभीषणम्
विमानस्थाः सुरास्सर्वे ददृशुस्तत्र संयुगम् ३१७
दशग्रीवस्य चिच्छेद शिरांसि रघुसत्तमः
समुत्थितानि बहुशो वरदानात्कपर्दिनः ३१८
ब्राह्ममस्त्रं महारौद्रं वधायास्य दुरात्मनः
ससर्ज राघवस्तूर्णं कालाग्निसदृशप्रभम् ३१९
तदस्त्रं राघवोत्सृष्टं रावणस्य स्तनान्तरम्
विदार्य धरणीं भित्त्वा रसातलतले गतम् ३२०
सम्पूज्यमानं भुजगै राघवस्य करं ययौ
स गतासुर्महादैत्यः पपात च ममार च ३२१
ततो देवगणास्सर्वे हर्षनिर्भरमानसाः
ववृषुः पुष्पवर्षाणि महात्मनि जगद्गुरौ ३२२
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः
ववुः पुण्यास्तथा वाताः सुप्रभोऽभूद्दिवाकरः ३२३
तुष्टुवुर्मुनयः सिद्धा देवगन्धर्वकिन्नराः
लङ्कायां राक्षसश्रेष्ठमभिषिच्य विभीषणम् ३२४
कृतकृत्यमिवात्मानं मेने रघुकुलोत्तमः
रामस्तत्राब्रवीद्वाक्यमभिषिच्य विभीषणम् ३२५
राम उवाच-
यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी
यावन्ममकथालोके तावद्राज्यं विभीषणे ३२६
गत्वा मम पदं दिव्यं योगिगम्यं सनातनम्
सपुत्रपौत्रः सगणः सम्प्राप्नुहि महाबलः ३२७
ईश्वर उवाच-
एवं दत्वा वरं तस्मै राक्षसाय महाबलः
सम्प्राप्य मैथिलीं तत्र परुषं जनसंसदि ३२८
उवाच राघवः सीतां गर्हितं वचनं बहु
सा तेन गर्हिता साध्वी विवेश चानलं महत् ३२९
ततो देवगणास्सर्वे शिवब्रह्मपुरोगमाः
दृष्ट्वा तु मातरं वह्नौ प्रविशन्तीं भयातुराः
समागम्य रघुश्रेष्ठं सर्वे प्राञ्जलयोऽब्रुवन् ३३०
देवा ऊचुः-
रामराम महाबाहो शृणु त्वं चातिविक्रम
सीतातिविमला साध्वी तव नीत्यानपायिनी ३३१
अत्याज्या तु वृथा सा हि भास्करेण प्रभा यथा
सेयं लोकहितार्थाय समुत्पन्ना महीतले ३३२
माता सर्वस्य जगतः समस्तजगदाश्रया
रावणः कुम्भकर्णश्च भृत्यौ पूर्वपरायणौ ३३३
शापात्तौ सनकादीनां समुत्पन्नौ महीतले
तयोर्विमुक्त्यै वैदेही गृहीता दण्डके वने ३३४
तावुभौ वै वधं प्राप्तौ त्वया राक्षसपुङ्गवौ
तौ विमुक्तौ दिवं यातौ पुत्रपौत्रसहानुगौ ३३५
त्वं विष्णुस्त्वं परं ब्रह्म योगिध्येयः सनातनः
त्वमेव सर्वदेवानामनादिनिधनोऽव्ययः ३३६
त्वं हि नारायणः श्रीमान्सीता लक्ष्मीः सनातनी
माता सा सर्वलोकानां पिता त्वं परमेश्वर ३३७
नित्यैवैष जगन्माता तव नित्यानपायिनी
यथा सर्वगतस्त्वं हि तथा चेयं रघूत्तम ३३८
तस्माच्छुद्धसमाचारां सीतां साध्वीं दृढव्रताम्
गृहाण सौम्य काकुत्स्थ क्षीराब्धेरिव मा चिरम् ३३९
ईश्वर उवाच-
एतस्मिन्नन्तरे तत्र लोकसाक्षी स पावकः
आदाय सीतां रामाय प्रददौ सुरसन्निधौ
अब्रवीत्तत्र काकुत्स्थं वह्निः सर्वशरीरगः ३४०
वह्निरुवाच-
इयं शुद्धसमाचारा सीता निष्कल्मषा विभो
गृहाण मा चिरं राम सत्यं सत्यं तवाब्रुवन् ३४१
ईश्वर उवाच-
ततोऽग्निवचनात्सीतां परिगृह्य रघूद्वहः
बभूव रामः संहृष्टः पूज्यमानः सुरोत्तमैः ३४२
राक्षसैर्निहता ये तु सङ्ग्रामे वानरोत्तमाः
पितामहवरात्तूर्णं जीवमानाः समुत्थिताः ३४३
ततस्तु पुष्पकं नाम विमानं सूर्यसन्निभम्
भ्रात्रा गृहीतं सङ्ग्रामे कौबेरं राक्षसेश्वरः ३४४
तद्राघवाय प्रददौ वस्त्राण्याभरणानि च
तेन सम्पूजितः श्रीमान्रामचन्द्रः प्रतापवान् ३४५
आरुरोह विमानाग्र्यं वैदेह्या भार्यया सह
लक्ष्मणेन च शूरेण भ्रात्रा दशरथात्मजः ३४६
ऋक्षवानरसङ्घातैः सुग्रीवेण महात्मना
विभीषणेन शूरेण राक्षसैश्च महाबलैः ३४७
यथाविमाने वैकुण्ठे नित्यमुक्तैर्महात्मभिः
तथा सर्वे समारुह्य ऋक्षवानरराक्षसाः ३४८
अयोध्यां प्रस्थितो रामः स्तूयमानः सुरोत्तमैः
भरद्वाजाश्रमं गत्वा रामः सत्यपराक्रमः ३४९
भरतस्यान्तिके तत्र हनूमन्तं व्यसर्जयत्
स निषादालयं गत्वा गुहं दृष्ट्वाऽथ वैष्णवम् ३५०
राघवागमनं तस्मै प्राह वानरपुङ्गवः
नन्दिग्रामं ततो गत्वा दृष्ट्वा तं राघवानुजम् ३५१
न्यवेदयत्तथा तस्मै रामस्यागमनोत्सवम्
भरतश्चागतं श्रुत्वा वानरेण रघूत्तमम् ३५२
प्रर्हर्षमतुलं लेभे सानुजः ससुहृज्जनः
पुनरागत्य काकुत्स्थं हनूमान्मारुतात्मजः ३५३
सर्वं शशंस रामाय भरतस्य च वर्तितम्
राघवस्तु विमानाग्र्यादवरुह्य सहानुजः ३५४
ववन्दे भार्यया सार्द्धं भारद्वाजं तपोनिधिम्
स तु सम्पूजयामास काकुत्स्थं सानुजं मुनिः ३५५
पक्वान्नैः फलमूलाद्यैर्वस्त्रैराभरणैरपि
तेन सम्पूजितस्तत्र प्रणम्य मुनिसत्तमम् ३५६
अनुज्ञातः समारुह्य पुष्पकं सानुगस्तदा
नन्दिग्रामं ययौ रामः पुष्पकेण सुहृद्वृतः ३५७
मन्त्रिभिः पौरमुख्यैश्च सानुजः केकयीसुतः
प्रत्युद्ययौ नृपवरैः सबलैः पूर्वजं मुदा ३५८
सम्प्राप्य रघुशार्दूलं ववन्दे सानुगैर्वृतः
पुष्पकादवरुह्याथ राघवः शत्रुतापनः ३५९
भरतं चैव शत्रुघ्नमुपसम्परिषस्वजे
पुरोहितं वसिष्ठं च मातृवृद्धांश्च बान्धवान् ३६०
प्रणनाम महातेजाः सीतया लक्ष्मणेन च
विभीषणं च सुग्रीवं जाम्बवन्तं तथाङ्गदम् ३६१
हनुमन्तं सुषेणं च भरतः परिषस्वजे
भ्रातृभिः सानुगैस्तत्र मङ्गलस्नानपूर्वकम् ३६२
दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः
आरुरोह रथं दिव्यं सुमन्त्राधिष्ठितं शुभम् ३६३
संस्तूयमानस्त्रिदशैर्वैदेह्या लक्ष्मणेन च
भरतश्चैव सुग्रीवः शत्रुघ्नश्च विभीषणः ३६४
अङ्गदश्च सुषेणश्च जाम्बवान्मारुतात्मजः
नीलो नलश्च सुभगः शरभो गन्धमादनः ३६५
अन्ये च कपयः शूरा निषादाधिपतिर्गुहः
राक्षसाश्च महावीर्याः पार्थिवेन्द्रा महाबलाः ३६६
गजानश्वानथो सम्यगारुह्य बहुशः शुभान्
नानामङ्गलवादित्रैः स्तुतिभिः पुष्कलैस्तथा ३६७
ऋक्षवानररक्षोभिर्निषादवरसैनिकैः
प्रविवेश महातेजाः साकेतं पुरमव्ययम् २६८
आलोक्य राजनगरीं पथि राजपुत्रो राजानमेव पितरं परिचिन्तयानः
सुग्रीवमारुतिविभीषणपुण्यपादसञ्चारपूतभवनं प्रविवेश रामः ३६९
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वरसंवादे रामस्यायोध्याप्रवेशोनाम द्विचत्वारिंशदधिकद्विशततमोऽध्यायः २४२