ईश्वर उवाच-
विश्वास-प्रस्तुतिः
भृगुपुत्रो महानासीज्जमदग्निर्द्विजोत्तमः
समस्तवेदवेदाङ्गपारगश्च महातपाः ॥ १ ॥
मूलम्

तपस्तेपे सुधर्मात्मा महेन्द्रं प्रति भामिनि
सहस्रवर्षपर्य्यन्तं गङ्गायाः पुलिने शुभे ॥ २ ॥

ततः प्रसन्नः प्राहेदं भगवान्पाकशासनः
इन्द्र उवाच-
वरं वृणीष्व विप्रेन्द्र यत्ते मनसि वर्त्तते ॥ ३ ॥

ततः प्रोवाच विप्रर्षिः परितुष्टं शतक्रतुम्
जमदग्निरुवाच-
सुरभिं देहि मे देव सर्वकामदुघां सदा ॥ ४ ॥

ततः प्रसन्नो देवेशस्तस्मै विप्राय गोत्रभित्
प्रददौ सुरभिं देवीं सर्वकामदुघां तदा ॥ ५ ॥

स लब्ध्वा सुरभीं देवीं जमदग्निर्महातपाः
उवास महदैश्वर्यः शतक्रतुरिवापरः ॥ ६ ॥
मूलम्
स लब्ध्वा सुरभीं देवीं जमदग्निर्महातपाः
उवास महदैश्वर्यः शतक्रतुरिवापरः ॥ ६ ॥
विश्वास-प्रस्तुतिः
रेणुकस्य सुतां रम्यां रेणुकां नामनामतः
उपयेमे विधानेन जमदग्निर्महातपाः ॥ ७ ॥
मूलम्
रेणुकस्य सुतां रम्यां रेणुकां नामनामतः
उपयेमे विधानेन जमदग्निर्महातपाः ॥ ७ ॥
विश्वास-प्रस्तुतिः
तया सह स धर्मात्मा रेमे वर्षाण्यनेकशः
पौलोम्या शुभया देव्या यथा सङ्क्रन्दनो विभुः ॥ ८ ॥

ततः स पुत्रकामत्वादिष्टिं चक्रे सुधार्मिकः
इष्ट्या सन्तोषयामास पाकशासनमीश्वरम् ॥ ९ ॥

परितुष्टः शचीभर्त्ता तस्मै पुत्रं महाबलम्
महौजसं महाबाहुं सर्वशत्रुप्रतापनम् ॥ १० ॥

अथ कालेन विप्रेन्द्रो रेणुकायां शुचिस्मिते
पुत्रमुत्पादयामास महावीर्य्यं बलान्वितम् ॥ ११ ॥

विष्णोरंशांशभागेन सर्वलक्षणलक्षिणम्
तस्मिन्सुते महावीर्य्ये भृगुस्तस्य पितामहः ॥ १२ ॥

नाम चास्मै ददौ हर्षाद्विष्णोरंशोपलक्षितम्
चक्रेऽथ नामधेयं तु राम इत्यस्य शोभनम् ॥ १३ ॥

जमदग्नेः समुत्पन्नो जामदग्न्य इतीरितः
तद्भार्गवान्वयः सोऽपि ववृधे द्विजपुङ्गवः ॥ १४ ॥

उपनीतं स्तुतो येन सर्वविद्याविशारदः
तपस्तप्तुं जगामाथ शालग्रामाचलं प्रति ॥ १५ ॥

ददर्श कश्यपं तत्र ब्रह्मर्षिममितौजसम्
हर्षेण पूरितस्तस्मिन्मरीचितनयो द्विजः ॥ १६ ॥

विधिना प्रददौ तस्मै मन्त्रं वैष्णवमव्ययम्
लब्धमन्त्रस्तदा रामं कश्यपात्तु महात्मनः ॥ १७ ॥

पूजयामास विधिना स तदा कमलापतिम्
षडक्षरं महामन्त्रं जपन्नेव दिवानिशम् ॥ १८ ॥

ध्यायन्कमलपत्राक्षं विष्णुं सर्वगतं हरिम्
तपस्तेपे स धर्मात्मा बहुवर्षाणि भार्गवः ॥ १९ ॥

जितेन्द्रियस्तु यतवाक्तदा तस्थौ महातपाः
जमदग्निस्तु विप्रर्षिः स्थितो गङ्गातटे शुभे ॥ २० ॥

चकार विधिवद्धर्म्यं यज्ञदानादिकं महत्
धेन्वाः प्रसादादिन्द्रस्य सम्पूर्णास्तस्य सम्पदः ॥ २१ ॥

कस्यचित्त्वथकालस्य हैहयाधिपतिः प्रभुः
विजित्वा सर्वराष्ट्राणि सर्वसैन्यसमावृतः ॥ २२ ॥

भार्गवस्याश्रमं प्राप्य जमदग्नेर्महीपतिः
समीक्ष्य तं महाभागं ववन्दे मुनिसत्तमम् ॥ २३ ॥

पृष्ट्वा तु कुशलं तस्य महर्षेर्भावितात्मनः
प्रददौ नृपतिस्तस्मै वस्त्राण्याभरणानि च ॥ २४ ॥

स च सम्पूजयामास राजानं गृहमागतम्
मधुपर्केण विधिना पूजयित्वा नृपोत्तमम् ॥ २५ ॥

ससैन्याय नृपेन्द्राय भोजनं प्रददौ मुनिः
प्रार्थिता सुरभिस्तेन भार्गवेण सुधीमता ॥ २६ ॥

सम्पूर्णमन्नपानादि ससर्ज शबला तदा
अक्षय्यमन्नपानादि तया सृष्टं महातपाः ॥ २७ ॥

ससैन्याय नृपेन्द्राय प्रददौ मुनिसत्तमः
तां दृष्ट्वा शबलां राजा कुतूहलसमन्वितः ॥ २८ ॥

स्पृहां चकारयामास तस्यां गवि सुदुर्मतिः
अयाचत्सुरभिं तत्र जमदग्निं नृपोत्तमः ॥ २९ ॥

कार्त्तवीर्य उवाच-
शबलां देहि मे विप्र कपिलां सर्वकामदाम्
अन्यधेनुसहस्राणि दास्यामि तव सुव्रत ॥ ३० ॥

इत्युक्तस्तेन राज्ञाथ जमदग्निर्महातपाः
जमदग्निरुवाच-
न देया शबला राजन्मया तव महीपते ॥ ३१ ॥
मूलम्
ईश्वर उवाच-
इत्युक्तस्तेन राज्ञाथ जमदग्निर्महातपाः
जमदग्निरुवाच-
न देया शबला राजन्मया तव महीपते ॥ ३१ ॥
विश्वास-प्रस्तुतिः
इयं च देवदेवेन शक्रेण परिपालिता
देवतानां धनं राजन्दातव्यं स्यात्कथं मया ॥ ३२ ॥
मूलम्
इयं च देवदेवेन शक्रेण परिपालिता
देवतानां धनं राजन्दातव्यं स्यात्कथं मया ॥ ३२ ॥
विश्वास-प्रस्तुतिः
ईश्वर उवाच-
इत्युक्तः स तदा राजा क्रोधेन कलुषीकृतः
बलाज्जग्राह शबलां सर्वसैन्यसमावृतः ॥ ३३ ॥

ततः क्रुद्धा महाभागा शबला वरवर्णिनि
जघान तस्य सैन्यानि शृङ्गैः खुरतलैरपि ॥ ३४ ॥

घातयित्वा मुहूर्त्तेन तत्सैन्यं शबला बलात्
अन्तर्द्धानं गता देवी ययौ शक्रान्तिकं क्षणात् ॥ ३५ ॥

स्वसैन्यं निहतं दृष्ट्वा सोऽर्जुनः क्रोधमूर्च्छितः
मुष्टिना ताडयामास भार्गवं द्विजसत्तमम् ॥ ३६ ॥

ताडितस्तेन बहुशो विकलाङ्गः प्रकल्पितः
पपात सहसा भूमौ ममार द्विजसत्तमः ॥ ३७ ॥
मूलम्
ताडितस्तेन बहुशो विकलाङ्गः प्रकल्पितः
पपात सहसा भूमौ ममार द्विजसत्तमः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
हत्वा मुनिवरं तत्र पापत्मा हैहयाधिपः
महासैन्यपरीवारो विवेश नगरं स्वकम् ॥ ३८ ॥

रामस्तु देवदेवेशं पूजयामास भार्गवः
तेन सम्पूजितो देवः प्रसन्नः प्राह केशवः ॥ ३९ ॥

श्रीभगवानुवाच-
प्रीतोस्मि तपसा वत्स भवतो नियतात्मनः
सम्प्रदास्यामि ते विप्र मच्छक्तिं परमां शुभाम् ॥ ४० ॥

आवेशितोऽथ मच्छक्त्या जहि दुष्टान्नृपोत्तमान्
भूभारकविनाशाय देवतानां हिताय वै ॥ ४१ ॥

इत्युक्त्वा प्रददौ देवः परशुं शत्रुधर्षणम्
वैष्णवं च महच्चापं दिव्यान्यस्त्राण्यनेकशः
दत्वा प्रोवाच भगवाञ्जामदग्निं जनार्द्दनः ॥ ४२ ॥

मदोत्कटान्नृपान्हत्वा बहुशः परवीरहा
गृहाण पृथिवीं सर्वां सागरान्तां द्विजोत्तम ॥ ४३ ॥

पालयस्व च धर्मेण वीर्य्येण महता वृतः
कालेन मत्पदं चापि मत्प्रसादाद्गमिष्यसि ॥ ४४ ॥

इत्युक्त्वान्तर्हितो देवो वरं दत्वा द्विजन्मने
रामोऽपि चाथ सहसा प्रययौ पितुराश्रमम् ॥ ४५ ॥

पितरं निहतं दृष्ट्वा भार्गवः क्रोधमूर्च्छितः
निष्क्षत्रां कर्तुमन्विच्छन्महीं नृपसमाकुलाम् ॥ ४६ ॥

जगाम हैहयपतेर्नगरं नृपसंवृतम्
क्रोधावेशज्वलद्गात्रो द्वार्य्यतिष्ठदुदायुधः ॥ ४७ ॥

तं दृष्ट्वा तत्पुरजना जामदग्न्यं महौजसम्
जाज्वल्यमानं वपुषा कालाग्निमिव मेनिरे ॥ ४८ ॥

भयार्ता विद्रुताः सर्वे राजानं हैहयाधिपम्
शशंसुस्तं महासत्वं सर्वायुधसमन्वितम् ॥ ४९ ॥

श्रुत्वा स राजा तद्वाक्यं प्राह विस्मितचेतसा
हैहयाधिप उवाच-
कोऽसौ मम पुरद्वारि सायुधः संस्थितो बलात् ॥ ५० ॥

महेन्द्रो वा यमो वापि रुद्रो वा धनदोऽपि वा
सायुधो मत्पुरद्वारि स्थातुं शक्तो न कर्हिचित् ॥ ५१ ॥

महादेव उवाच-
इत्युक्त्वा पार्थिवेन्द्रो ऽसौ किङ्करान्सुमहाबलान्
प्रेरयामास तं द्रष्टुं गृह्णीतेत्याह दुर्मतिः ॥ ५२ ॥

ते गत्वा ददृशुर्वीरं पुरद्वारि महाबलम्
ज्वलन्तमिव कालाग्निं दुर्निरीक्ष्यं स्वतेजसा ॥ ५३ ॥

तस्य सन्दर्शनेऽप्यत्र न शक्तास्ते महाबलाः
ग्रहीतुकामस्तं वीरं समन्तात्प्रययुर्भृशम् ॥ ५४ ॥

तान्दृष्ट्वा सायुधान्सर्वान्पार्थिवेन्द्रस्य किङ्करान्
प्रहसन्प्राह विप्रेन्द्रो जामदग्निर्महाबलः ॥ ५५ ॥

परशुराम उवाच-
भार्गवस्य सुतो रामः सम्प्राप्तोऽहं नराधमाः
स्वपितुर्निधनात्सर्वान्हनिष्यामि नृपोत्तमान् ॥ ५६ ॥

कार्तवीर्यस्य रुधिरं मत्पित्रे तिलसंयुतम्
दास्यामि पिण्डदानं च तच्छिरः कमलेन वै ॥ ५७ ॥

इत्युक्तास्ते महावीर्य्याः किङ्करास्तस्य भूपतेः
शरैः स्म ताडयामासुः पलालैरिव पावकम् ॥ ५८ ॥

ततः क्रुद्धो महावीर्यो रामस्सत्यपराक्रमः
वैष्णवं चापमाकृष्य ज्यानिनादमथाकरोत् ॥ ५९ ॥

तेन नादेन महता पूरितं भुवनत्रयम्
देवानामपि सन्त्रासो बभूव महदद्भुतम् ॥ ६० ॥

ततः पावकसङ्काशैराशुगैः सुमहाबलः
ताडयामास तान्वीरान्किङ्करान्वै महाबलान् ॥ ६१ ॥

हत्वा तु किङ्करास्तस्य पार्थिवस्य महात्मनः
कालाग्निरिव सन्तस्थौ सर्वभूतभयङ्करः ॥ ६२ ॥

श्रुत्वा तु किङ्करान्स्वस्य हतान्रामेण धीमता
हैहयाधिपतिर्वीरः क्रोधसंरक्तलोचनः ॥ ६३ ॥

निर्य्ययौ सहसैन्येन यत्रास्ते भागवोऽव्ययः
तं दृष्ट्वा घोरसङ्काशं ज्वलन्तं स्वेन तेजसा ॥ ६४ ॥

त्रस्ताः सर्वे जनास्तत्र शङ्कमाना जनक्षयम्
ततो युद्धं महाघोरं रामस्य नृपतेस्तदा ॥ ६५ ॥

शस्त्रास्त्रपातनैर्भीमैर्मेघयोरिव वर्षतोः
ततो रामो महातेजास्तत्सैन्यं नृपतेस्तदा ॥ ६६ ॥

निर्ददाह क्षणात्सर्वं वैष्णवास्त्रेण लीलया
ततः परशुना रामस्तीक्ष्णेनामितविक्रमः ॥ ६७ ॥

चिच्छेद बाहुसाहस्रं कार्त्तवीर्यस्य दुर्मतेः
न शशाक महावीर्यो योद्धुं रामेण भूपतिः ॥ ६८ ॥

नष्टवीर्य्यो बभूवात्र पापेन स्वेन दुर्मतिः
चिच्छेद तच्छिरः क्रुद्धो रेणुकातनयो बली ॥ ६९ ॥

महाद्रिशृड्गंवज्रेण यथा देवपतिर्बली
हत्वा सहस्रबाहुं तं जामदग्न्यः प्रतापवान् ॥ ७० ॥

जघान पार्थिवान्सर्वान्क्रुद्धः परशुना मृधे
रामं दृष्ट्वा महारौद्रं पार्थिवाः पृथिवीतले ॥ ७१ ॥

भयार्त्ता विद्रुताः सर्वे मातङ्गा इव केसरिम्
विद्रुतानपि भूपालान्पितुर्निधनमन्युना ॥ ७२ ॥

जघान भार्गवः क्रुद्धो नागानिव खगेश्वरः
निःक्षत्रं कृतवान्सर्वं जामदग्निः प्रतापवान् ॥ ७३ ॥

ररक्ष भगवानेकमिक्ष्वाकोः सुमहत्कुलम्
मातामहस्यान्वयत्वाद्रेणुकावचनादथ ॥ ७४ ॥
मूलम्
ररक्ष भगवानेकमिक्ष्वाकोः सुमहत्कुलम्
मातामहस्यान्वयत्वाद्रेणुकावचनादथ ॥ ७४ ॥
विश्वास-प्रस्तुतिः
तान्भ्रष्टराज्यान्कृत्वा वै मातामहकुलोद्भवान्
न हत्वा मनुवंशांस्तान्रामो नृपकुलान्तकः ॥ ७५ ॥

सर्वं तु भूभृतां वंशं नाशयामास वीर्य्यवान्
कृत्वा चोर्वीं तु निःक्षत्रां जमदग्निसुतो बली ॥ ७६ ॥

अश्वमेधं महायज्ञं चकार विधिवद्द्विजः
प्रददौ विप्रमुख्येभ्यः सप्तद्वीपवतीं महीम् ॥ ७७ ॥

दत्वा महीं स विप्रेभ्यो जामदग्न्यः प्रतापवान्
तपस्तप्तुं ययौ सोऽथ नरनारायणाश्रमम् ॥ ७८ ॥

एतत्ते कथितं देवि जामदग्नेर्महात्मनः
शक्त्यावेशावतारस्य चरितं शार्ङ्गिणः प्रभोः ॥ ७९ ॥

नोपास्यं हि भवेत्तस्य शक्त्यावेशान्महात्मनः
उपास्यौ भगवद्भक्तैर्विप्रमुख्यैर्महात्मभिः ॥ ८० ॥

रामकृष्णावतारौ तु परिपूर्णौ हि सद्गुणैः
उपास्यमानावृषिभिरपवर्गप्रदौ नृणाम् ॥ ८१ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वरसंवादे परशुरामचरितन्नामैकचत्वारिंशदधिकद्विशततमोऽध्यायः २४१