श्रीमहादेव उवाच-
विश्वास-प्रस्तुतिः
अथ वर्षसहस्रान्ते सर्वलोकमहेश्वरम्
अदितिर्जनयामास वामनं विष्णुमच्युतम् ॥ १ ॥
मूलम्

श्रीवत्सकौस्तुभोरस्कं पूर्णेन्दुसदृशद्युतिम्
सुन्दरं पुण्डरीकाक्षमतिखर्वतनुं हरिम् ॥ २ ॥

वटुवेषधरं देवं सर्ववेदाङ्गगोचरम्
मेखलाजिनदण्डादि चिह्नैरङ्कितमीश्वरम् ॥ ३ ॥

तं दृष्ट्वा देवताः सर्वे शतक्रतुपुरोगमाः
स्तुत्वा महर्षिभिः सार्द्धं नमश्चक्रुर्महौजसम् ॥ ४ ॥

ततः प्रसन्नो भगवान्प्रोवाच सुरसत्तमान्
वामन उवाच-
किं कर्तव्यं मया चाद्य तद्ब्रवीथ सुरोत्तमाः ॥ ५ ॥

श्रीशङ्कर उवाच-
ततः प्रहृष्टास्त्रिदशास्तमूचुः परमेश्वरम्
देवा ऊचुः
अस्मिन्काले बलेर्यज्ञो वर्त्तते मधुसूदन ॥ ६ ॥

अप्रत्याख्यानकालोऽयं तस्य दैत्यपतेः प्रभो
याचित्वा त्रिदिवं लोकं तन्नस्त्वं दातुमर्हसि ॥ ७ ॥

शङ्कर उवाच-
इत्युक्तास्त्रिदशैस्सर्वैराजगाम बलिं हरिः
यागदेशे समासीनमृषिभिस्सार्द्धमष्टभिः ॥ ८ ॥

अभ्यागतं तु तं दृष्ट्वा सहसोत्थाय दैत्यराट्
अभ्यागतः स्वयं विष्णुरितिहास समन्वितः ॥ ९ ॥

पूजयामास विधिना निवेश्य कुसुमासने
प्रणिपत्य नमस्कृत्य प्राह गद्गदया गिरा ॥ १० ॥

बलिरुवाच-
धन्योऽस्मि कृतकृत्योस्मि सफलं मम जीवितम्
त्वामर्च्चयित्वा विप्रेन्द्र किं करोमि तव प्रियम् ॥ ११ ॥

आगतोऽसि यदर्थं त्वं मामुद्दिश्य द्विजोत्तमः
तत्प्रयच्छामि ते शीघ्रं ब्रूहि वेदविदां वर ॥ १२ ॥

ततः प्रहृष्टमनसा तमुवाच महीपतिम्
वामन उवाच-
शृणु राजेन्द्र वक्ष्यामि ममागमनकारणम् ॥ १३ ॥

अग्निकुण्डस्य पृथिवीं देहि दैत्यपते मम
मम त्रिविक्रमपदां नान्यदिच्छामि मानद ॥ १४ ॥

सर्वेषामेव दानानां भूमिदानमनुत्तमम्
यो ददाति महीं राजा विप्रायाकिञ्चनाय वै ॥ १५ ॥

अङ्गुष्ठमात्रामपि वा स भवेत्पृथिवीपतिः
न भूमिदानसदृशं पवित्रमिह विद्यते ॥ १६ ॥
मूलम्
अङ्गुष्ठमात्रामपि वा स भवेत्पृथिवीपतिः
न भूमिदानसदृशं पवित्रमिह विद्यते ॥ १६ ॥
विश्वास-प्रस्तुतिः
भूमिं यः प्रतिगृह्णाति भूमिं यश्च प्रयच्छति
उभौ तौ पुण्यकर्माणौ निधने स्वर्गगामिनौ ॥ १७ ॥

तस्माद्भूमिं महाराज प्रयच्छ त्रिपदीं मम
एतदल्पां महीं दातुं मा विशङ्क महीपते
जगत्त्रयप्रदानं तन्नाम भूप भविष्यति ॥ १८ ॥

ततः प्रहृष्टवदनस्तथेत्याह महीपतिः
तस्मै महीप्रदानं तु कर्तुं मेने विधानतः ॥ १९ ॥

तं दृष्ट्वा दैत्यराजानं तदा तस्य पुरोहितः
उशना ह्यब्रवीद्वाक्यं मा राजन्दीयतां महीम् ॥ २० ॥

शुक्र उवाच-
एष विष्णुः परेशोऽथ देवैः सम्प्रार्थितो नृप
वञ्चयित्वा महीं सर्वां त्वत्तः प्राप्तुमिहागतः ॥ २१ ॥

तस्मान्मही न दातव्या तस्मै राजन्महात्मने
अन्यमर्थं प्रयच्छस्व वचनान्मम भूपते ॥ २२ ॥
मूलम्
तस्मान्मही न दातव्या तस्मै राजन्महात्मने
अन्यमर्थं प्रयच्छस्व वचनान्मम भूपते ॥ २२ ॥
विश्वास-प्रस्तुतिः
श्रीशङ्कर उवाच-
ततः प्रहस्य राजासौ तं गुरुं प्राह धैर्य्यतः
बलिरुवाच-
प्रीतये वासुदेवस्य सर्वं पुण्यं कृतं मया ॥ २३ ॥

अद्य धन्योस्म्यहं विष्णुः स्वयमेवागतो यदि
तस्य प्रदेयमेवाद्य जीवितं च महत्सुखम् ॥ २४ ॥

तस्मादस्मै प्रयच्छामि त्रिलोकीमपि मा चिरम्
श्रीशङ्कर उवाच-
इत्युक्त्वा भूपतिस्तस्य पादौ प्रक्षाल्य भक्तितः ॥ २५ ॥

वाञ्च्छितां प्रददौ भूमिं वारिपूर्वं विधानतः
परिणीय नमस्कृत्य दत्वा वै दक्षिणां वसु ॥ २६ ॥

प्रोवाच तं पुनर्विप्रं प्रहृष्टेनान्तरात्मना
बलिरुवाच-
धन्योस्मि कृतकृत्योस्मि तव दत्वा महीं द्विज ॥ २७ ॥

यथेष्टा तव विप्रेन्द्र तद्गृहाण महीमिमाम्
श्रीशङ्कर उवाच-
तमुवाच नृपं विष्णू राजंस्तव समीपतः ॥ २८ ॥

मापयामि पदेनाद्य पृथिवीं तव पश्यतः
इत्युक्त्वा खर्वरूपं तद्विहाय परमेश्वरः ॥ २९ ॥

त्रिविक्रमवपुर्भूत्वा जग्राह पृथिवीमिमाम्
पञ्चाशत्कोटिविस्तीर्ण ससमुद्र महीधराम् ॥ ३० ॥

ससागरां च सद्वीपां सदेवासुरमानुषाम्
पादेनैकेन वपुषो व्यक्रान्त मधुसूदनः ॥ ३१ ॥

उवाच दैत्यराजेन्द्र किं करोमीति शाश्वतः
तद्वै त्रिविक्रमं रूपमीश्वरस्य महौजसम् ॥ ३२ ॥

हितार्थमपि देवानामृषीणां च महात्मनाम्
न दृष्टमपि शक्यं स्याद्ब्रह्मणः शङ्करस्य च ॥ ३३ ॥

तत्पदं पृथिवीं सर्वामाक्रम्य गिरिजे शुभे
अतिरिक्तं समभवच्छतयोजनमायतम् ॥ ३४ ॥

दिव्यचक्षुर्ददौ तस्मै दैत्यराज्ञे सनातनः
तस्मै सन्दर्शयामास स्वकं रूपं जनार्दनम् ॥ ३५ ॥

तद्विश्वरूपं देवस्य दृष्ट्वा दैत्येश्वरो बलि
प्रहर्षमतुलं लेभे सानन्दाश्रु परिप्लुतः ॥ ३६ ॥

दृष्ट्वा देवं नमस्कृत्य स्तुत्वा स्तुतिभिरेव च
प्राह गद्गदया वाचा प्रहृष्टेनान्तरात्मना ॥ ३७ ॥

धन्योस्मि कृतकृत्योस्मि त्वां दृष्ट्वा परमेश्वरम्
लोकत्रयं त्वमेवैतद्गृहाण परमेश्वर ॥ ३८ ॥
मूलम्
बलिरुवाच-
धन्योस्मि कृतकृत्योस्मि त्वां दृष्ट्वा परमेश्वरम्
लोकत्रयं त्वमेवैतद्गृहाण परमेश्वर ॥ ३८ ॥
विश्वास-प्रस्तुतिः
श्रीशङ्कर उवाच-
अथ सर्वेश्वरो विष्णुर्द्वितीयं पदमव्ययम्
ऊर्ध्वं प्रसारयामास ब्रह्मलोकान्तमच्युतः ॥ ३९ ॥

सनक्षत्रग्रहोपेतं सर्वदेवसमावृतम्
पदेन परिपूर्णोऽभूदच्युतस्य शुभानने ॥ ४० ॥

ततः पितामहो ब्रह्मचक्रपद्मादिचिह्नितम्
पादं तद्देवदेवस्य हर्षसङ्कुलचेतसा ॥ ४१ ॥

धन्योस्मीति वदन्ब्रह्मा गृहीत्वा स्वकमण्डलुम्
भक्त्या प्रक्षालयामास तत्रसंस्थित वारिणा ॥ ४२ ॥

अक्षय्यमभवत्तोयं तस्य विष्णोः प्रभावतः
तत्तीर्थं मेरुशिखरे पपात विमलं जलम् ॥ ४३ ॥

जगतः पावनार्थं वै चतुर्दिक्षु प्रवाहितम्
सिता चालकनन्दा च चक्षुर्भद्रा यथाक्रमम् ॥ ४४ ॥

ततश्चालकनन्दा च मेरोर्दक्षिणतः स्मृता
त्रिधा नाम्ना त्रिपथगा त्रिस्रोता लोकपावनी ॥ ४५ ॥

स्वर्गे मन्दाकिनी प्रोक्ता त्वधो भोगवती तथा
मध्ये वेगवती गङ्गा पावनार्थं नृणां शिवा ॥ ४६ ॥

तां दृष्ट्वा मेरुमध्ये तु प्रस्रवन्तीं शुभानने
आत्मनः पावनार्थाय शिरसाहमधारयम् ॥ ४७ ॥

दिव्यं वर्षसहस्रं तु धृत्वा गङ्गाजलं शुभम्
शिवत्वमगमं देवि सर्वलोकेषु पूजितः ॥ ४८ ॥

यो वहेच्छिरसा गङ्गातोयं विष्णुपदोद्भवम्
प्राशयेद्वा जगत्पूज्यो भविष्यति न संशयः ॥ ४९ ॥

गङ्गागङ्गेति यो ब्रूयाद्योजनानां शतैरपि
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ ५० ॥

ततो भगीरथो राजा गौतमश्च महातपाः
तपसा पूजयित्वा मां गङ्गार्थं समयाचत ॥ ५१ ॥

सर्वलोकहितार्थाय तां गङ्गां वैष्णवीं शिवाम्
तयोरहं तामददां प्रीत्या देवि सरिद्वराम् ॥ ५२ ॥

गौतमेन समानीता गौतमी तेन कीर्त्तिता
भागीरथीति विख्याता तेन राज्ञा वृता यतः ॥ ५३ ॥

प्रसङ्गात्ते समाख्यातं गङ्गाजन्मात्यनुत्तमम्
ततो नारायणः श्रीमान्बलिं दैत्यपतिं प्रभुः ॥ ५४ ॥

रसातलं शुभं लोकं प्रददौ भक्तवत्सलः
सर्वेषां दानवानां तु नागानां यादसामपि ॥ ५५ ॥

राजानं तु बलिं चक्रे यावदाभूतसम्प्लवम्
प्रतिगृह्य बलेर्लोकान्बटुवेषेण दैत्यहा ॥ ५६ ॥

महेन्द्राय ददौ प्रीत्या काश्यपो विष्णुरव्ययः
ततो देवाः सगन्धर्वा ऋषयश्च महौजसः ॥ ५७ ॥

तुष्टुवुः स्तुतिभिर्द्दिव्यैः पूजयामासुरच्युतम्
सङ्क्षिप्य तन्महद्रूपं तेषां सन्दर्शनाय वै ॥ ५८ ॥

सम्पूज्यमानास्त्रिदशैरन्तर्द्धानं ययौ हरिः
इत्थं सुरक्षितः शक्रो विष्णुना प्रभविष्णुना ॥ ५९ ॥

त्रैलोक्यं महदैश्वर्य्यमवाप त्रिदिवेश्वरः
एतत्ते सर्वमाख्यातं वामनं वैभवं शुभम्
शेषं यद्वैभवं देवि तद्वक्ष्यामि यथाक्रमात् ॥ ६० ॥

इति श्रीपाद्मेमहापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वर
संवादे वामनप्रादुर्भावोनाम चत्वारिंशदधिकद्विशततमोऽध्यायः २४०