२३९

रुद्र उवाच-

विश्वास-प्रस्तुतिः

प्रह्लादस्य सुतो जज्ञे विरोचन इतीरितः
तस्य पुत्रो महाबार्हुबलिर्वैश्वानरः प्रभुः ॥ १ ॥

मूलम्

स तु धर्मविदां श्रेष्ठः सत्यसन्धो जितेन्द्रियः
हरेः प्रियतमो भक्तो नित्यं धर्मरतः शुचिः ॥ २ ॥

स जित्वा सकालान्देवान्सेन्द्रांश्च समरुद्गणान्
त्रींल्लोकान्स्ववशे स्थाप्य राज्यं चक्रे महाबलः ॥ ३ ॥

अकृष्टपच्या पृथिवी बहुसस्यफलप्रदा
गावः पूर्णदुघाः सर्वाः पादपाः फलपुष्पिताः ॥ ४ ॥

स्वधर्मनिरताः सर्वे नराः पापविवर्जिताः
अर्चयन्ति हृषीकेशं सततं विगतज्वराः ॥ ५ ॥

एवं चकार धर्मेण राज्यं दैत्यपतिर्बली
इन्द्रादित्रिदशास्तस्य किङ्कराः समुपस्थिताः ॥ ६ ॥

ऐश्वर्यं त्रिषु लोकेषु बुभुजे बलदर्प्पहृत्
भ्रष्टराज्यं सुतं दृष्ट्वा तस्यापि हितकाम्यया ॥ ७ ॥

कश्यपो भार्यया सार्द्धं तपस्तेपे हरिं प्रति
अदित्या सह धर्मात्मा पयोव्रतसमन्वितः ॥ ८ ॥

अर्चयामास देवेशं पद्मनाभं जनार्दनम्
ततो वर्षसहस्राणि तेन सम्पूजितो हरिः ॥ ९ ॥

तत्रैवाविरभूत्तस्य देव्या सह सनातनः
तं दृष्ट्वा पुण्डरीकाक्षं शङ्खचक्रगदाधरम् ॥ १० ॥

इन्द्रनीलमणिश्यामं सर्वाभरणभूषितम्
स्फुरत्किरीटकेयूरहारकुण्डलशोभितम् ॥ ११ ॥

कौस्तुभोद्भासितोरस्कं पीतवस्त्रेण वेष्टितम्
श्रिया सह समासीनं मण्डलेन्द्रे महात्मनि ॥ १२ ॥

तं दृष्ट्वा जगतामीशं हर्षनिर्भरचेतसा
पत्न्या सह नमस्कृत्वा तुष्टाव द्विजसत्तमः ॥ १३ ॥

कश्यप उवाच-
नमो नमस्ते लक्ष्मीश सर्वज्ञ जगदीश्वर
सर्वात्मन्सर्वदेवेश सृष्टिसंहारकारकः ॥ १४ ॥

अनादिनिधनानन्तवपुषे विश्वधारिणे
नमस्ते वेदवेदाङ्ग वपुषे सर्वचक्षुषे ॥ १५ ॥

सर्वात्मने नमस्तुभ्यं नमः सूक्ष्मतराय च
कल्याणगुणपूर्णाय योगिध्येयात्मने नमः ॥ १६ ॥

नमो युवकुमाराय श्रीभूलीलाधिपाय च
नित्यमुक्तैकभोगाय परधाम्नि स्थिताय च ॥ १७ ॥

चतुरात्मन्नमस्तुभ्यं चतुर्व्यूह नमोस्तु ते
पञ्चावस्थाय ते तुभ्यं नमस्ते पञ्चमात्मकम् ॥ १८ ॥

पञ्चमात्मकनिष्ठैस्तु योगिभिः पूज्यसे सदा
पञ्चार्थतत्वविदुषां पञ्चसंस्कारसंस्थितः ॥ १९ ॥

पञ्चापरं स्वरूपं ते विज्ञेयं सततं हरे
चतुर्धा परिपूर्णात्मन्नियतं कवयो विदुः ॥ २० ॥

त्वत्प्रसूतिं जगत्सर्वं पुनन्ति तव किङ्कराः
त्रयीमयाः कर्मनिष्ठा ये द्विजा भक्तवत्सलाः ॥ २१ ॥

तेषां दये क्षणादेव भवबन्धविमुक्तये
नमोस्तु त्रिजगद्धात्रे स्वयं धात्रेऽखिलात्मने ॥ २२ ॥

धात्रे विधात्रे विश्वाय विश्वरूपाय ते नमः
नारायणाय कृष्णाय वासुदेवाय शार्ङ्गिणे
विष्णवे जिष्णवे तुभ्यं शुद्धसत्वाय ते नमः ॥ २३ ॥

महादेव उवाच-
इत्यादिस्तुतिभिः सम्यक्स्तूयमानो महर्षिणा
प्राह गम्भीरया वाचा परितुष्टो जनार्दनः ॥ २४ ॥

श्रीभगवानुवाच-
सन्तुष्टोऽहं द्विजश्रेष्ठ त्वया भक्त्या समर्च्चितः
वरं वृणीष्व भद्रं ते करोमि तव वाञ्छितम् ॥ २५ ॥

ततः प्राह हृषीकेशं भार्य्यया सह कश्यपः ॥ २६ ॥

मूलम्

महादेव उवाच-
ततः प्राह हृषीकेशं भार्य्यया सह कश्यपः ॥ २६ ॥

विश्वास-प्रस्तुतिः

कश्यप उवाच-
पुत्रत्वं मम देवेश सम्प्राप्य त्रिदशां हितम्
कुरुष्व बलिना देव त्रैलोक्यं निर्जितं बलात् ॥ २७ ॥

इन्द्रस्यावरजो भूत्वा उपेन्द्र इति विश्रुतः
येनकेन च मार्गेण बलिं निर्जित्य मायया
त्रैलोक्यं मम पुत्राय देहि शक्राय शाश्वतम् ॥ २८ ॥

इत्युक्तस्तेन विप्रेण तथेत्याह जनार्द्दनः
संस्तूयमानस्त्रिदशैस्तत्रैवान्तरधीयत ॥ २९ ॥

एतस्मिन्नेव काले तु कश्यपस्य महात्मनः
अदित्यागर्भमागच्छद्भगवान्भूतभावनः ॥ ३० ॥

तस्मिन्काले बलिर्यागं दीर्घसत्रं महातपाः
अष्टमहर्षिभिं सार्द्धमारेभे तद्विधानतः ॥ ३१ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वरसंवादे वामनप्रादुर्भावोनामैकोनचत्वारिंशदधिकद्विशततमोऽध्यायः २३९