२३७

श्रीरुद्र उवाच-

विश्वास-प्रस्तुतिः

हिरण्यक हिरण्याक्षौ काश्यपेयौ महाबलौ
दितिपुत्रौ महावीर्य्यौ सर्वदैत्यपती उभौ ॥ १ ॥

मूलम्

हिरण्यक हिरण्याक्षौ काश्यपेयौ महाबलौ
दितिपुत्रौ महावीर्य्यौ सर्वदैत्यपती उभौ ॥ १ ॥

विश्वास-प्रस्तुतिः

नाम्ना तौ जयविजयौ श्वेतद्वीपे हरिं गतौ
तस्मिन्प्रविष्टयोगीन्द्रान्सनकादीन्महाबलौ ॥ २ ॥

मूलम्

नाम्ना तौ जयविजयौ श्वेतद्वीपे हरिं गतौ
तस्मिन्प्रविष्टयोगीन्द्रान्सनकादीन्महाबलौ ॥ २ ॥

विश्वास-प्रस्तुतिः

वारयामासतुर्देवि हरिसन्दर्शनोत्सुकान्
तैः प्रशप्तौ महावीर्य्यौ द्वारपालौ सुरोत्तमौ ॥ ३ ॥

मूलम्

वारयामासतुर्देवि हरिसन्दर्शनोत्सुकान्
तैः प्रशप्तौ महावीर्य्यौ द्वारपालौ सुरोत्तमौ ॥ ३ ॥

विश्वास-प्रस्तुतिः

सनकादय ऊचुः-
उत्सृज्य तत्पृथिव्यां च यातौ देवस्य किङ्करौ
रुद्र उवाच-
इति शापं तयोर्दत्त्वा तत्र तस्थुर्मुनीश्वराः ॥ ४ ॥

मूलम्

सनकादय ऊचुः-
उत्सृज्य तत्पृथिव्यां च यातौ देवस्य किङ्करौ
रुद्र उवाच-
इति शापं तयोर्दत्त्वा तत्र तस्थुर्मुनीश्वराः ॥ ४ ॥

विश्वास-प्रस्तुतिः

देवस्तमर्थं ज्ञात्वा च तानाहूय च तावपि ॥ ५ ॥

मूलम्

देवस्तमर्थं ज्ञात्वा च तानाहूय च तावपि ॥ ५ ॥

विश्वास-प्रस्तुतिः

तौ चोत्थायाब्रवीत्तत्र भगवान्भूतभावनः
भगवानुवाच-
कृतवन्तौ महावीर्य्यावपराधं महात्मनाम् ॥ ६ ॥

मूलम्

तौ चोत्थायाब्रवीत्तत्र भगवान्भूतभावनः
भगवानुवाच-
कृतवन्तौ महावीर्य्यावपराधं महात्मनाम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

नातिक्रमणीयमिदं भवद्भ्यां द्वारपालकौ
दासत्वं सप्तजन्मानि युवां भक्तौ ममानघौ ॥ ७ ॥

मूलम्

नातिक्रमणीयमिदं भवद्भ्यां द्वारपालकौ
दासत्वं सप्तजन्मानि युवां भक्तौ ममानघौ ॥ ७ ॥

विश्वास-प्रस्तुतिः

अमित्रतस्तथा त्रीणि जन्मानि भजतोऽपि वा
रुद्र उवाच-
इत्युक्तौ तौ महावीर्य्यावब्रूतां परमेश्वरम् ॥ ८ ॥

मूलम्

अमित्रतस्तथा त्रीणि जन्मानि भजतोऽपि वा
रुद्र उवाच-
इत्युक्तौ तौ महावीर्य्यावब्रूतां परमेश्वरम् ॥ ८ ॥

विश्वास-प्रस्तुतिः

जयविजयावूचतुः
चिरकालं महीं गन्तुं न समर्थौ स्व मानद
तस्माद्वैराय जन्मानि विद्धि वां च व्रजावहे ॥ ९ ॥

मूलम्

जयविजयावूचतुः
चिरकालं महीं गन्तुं न समर्थौ स्व मानद
तस्माद्वैराय जन्मानि विद्धि वां च व्रजावहे ॥ ९ ॥

विश्वास-प्रस्तुतिः

देवत्व यैव निहतो प्राप्स्यावो भवदन्तिकम्
रुद्र उवाच-
इत्युक्त्वा द्वारपालौ तौ पूर्वं जातौ महाबलौ ॥ १० ॥

मूलम्

देवत्व यैव निहतो प्राप्स्यावो भवदन्तिकम्
रुद्र उवाच-
इत्युक्त्वा द्वारपालौ तौ पूर्वं जातौ महाबलौ ॥ १० ॥

विश्वास-प्रस्तुतिः

कश्यपस्य महावीर्य्यौ दितिगर्भे महासुरौ
हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षः कनिष्ठकः ॥ ११ ॥

मूलम्

कश्यपस्य महावीर्य्यौ दितिगर्भे महासुरौ
हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षः कनिष्ठकः ॥ ११ ॥

विश्वास-प्रस्तुतिः

उभौ तौ लोकविख्यातौ महावीर्य्य बलोद्धतौ
अप्रमाणशरीरः स हिरण्याक्षो महोद्धतः ॥ १२ ॥

मूलम्

उभौ तौ लोकविख्यातौ महावीर्य्य बलोद्धतौ
अप्रमाणशरीरः स हिरण्याक्षो महोद्धतः ॥ १२ ॥

विश्वास-प्रस्तुतिः

उत्पाट्य बाहुसाहस्रैः पृथिवीं समहीधराम्
ससागरां द्वीपयुतां सर्वप्राणिसमन्विताम् ॥ १३ ॥

मूलम्

उत्पाट्य बाहुसाहस्रैः पृथिवीं समहीधराम्
ससागरां द्वीपयुतां सर्वप्राणिसमन्विताम् ॥ १३ ॥

विश्वास-प्रस्तुतिः

उत्पाट्य शिरसा कृत्वा प्रविवेश रसातलम्
ततो देवगणाः सर्वे चुक्रुशुर्भयपीडिताः ॥ १४ ॥

मूलम्

उत्पाट्य शिरसा कृत्वा प्रविवेश रसातलम्
ततो देवगणाः सर्वे चुक्रुशुर्भयपीडिताः ॥ १४ ॥

विश्वास-प्रस्तुतिः

शरणं प्रययुर्देवं नारायणमनामयम्
ततस्तदद्भुतं ज्ञात्वा शङ्खचक्रगदाधरः ॥ १५ ॥

मूलम्

शरणं प्रययुर्देवं नारायणमनामयम्
ततस्तदद्भुतं ज्ञात्वा शङ्खचक्रगदाधरः ॥ १५ ॥

विश्वास-प्रस्तुतिः

वाराहरूपमास्थाय विश्वरूपं जनार्दनः
अनादिमध्यान्तवपुः सर्वदेवमयो विभुः ॥ १६ ॥

मूलम्

वाराहरूपमास्थाय विश्वरूपं जनार्दनः
अनादिमध्यान्तवपुः सर्वदेवमयो विभुः ॥ १६ ॥

विश्वास-प्रस्तुतिः

विश्वतः पाणिपच्चक्षुर्महादंष्ट्रो महाभुजः
दंष्ट्रैकया तु तं दैत्यं जघान परमेश्वरः ॥ १७ ॥

मूलम्

विश्वतः पाणिपच्चक्षुर्महादंष्ट्रो महाभुजः
दंष्ट्रैकया तु तं दैत्यं जघान परमेश्वरः ॥ १७ ॥

विश्वास-प्रस्तुतिः

सञ्चूर्णितमहागात्रो ममार दितिजाधमः
पतितां धरणीं दृष्ट्वा दंष्ट्रयोद्धृत्य पूर्ववत् ॥ १८ ॥

मूलम्

सञ्चूर्णितमहागात्रो ममार दितिजाधमः
पतितां धरणीं दृष्ट्वा दंष्ट्रयोद्धृत्य पूर्ववत् ॥ १८ ॥

विश्वास-प्रस्तुतिः

संस्थाप्य धारयामास शेषे कूर्मवपुस्तदा
तं दृष्ट्वा देवताः सर्वे क्रोडरूपं महाहरिम्
तुष्टुवुर्मुनयश्चैव भक्तिनम्रात्ममूर्त्तयः ॥ १९ ॥

मूलम्

संस्थाप्य धारयामास शेषे कूर्मवपुस्तदा
तं दृष्ट्वा देवताः सर्वे क्रोडरूपं महाहरिम्
तुष्टुवुर्मुनयश्चैव भक्तिनम्रात्ममूर्त्तयः ॥ १९ ॥

विश्वास-प्रस्तुतिः

देवा ऊचुः-
नमो यज्ञवराहाय नमस्ते शतबाहवे
नमस्ते देवदेवाय नमस्ते विश्वरूपिणे ॥ २० ॥

मूलम्

देवा ऊचुः-
नमो यज्ञवराहाय नमस्ते शतबाहवे
नमस्ते देवदेवाय नमस्ते विश्वरूपिणे ॥ २० ॥

विश्वास-प्रस्तुतिः

नमः स्थितिस्वरूपाय सर्वयज्ञस्वरूपिणे
कलाकाष्ठानिमेषाय नमस्ते कालरूपिणे ॥ २१ ॥

मूलम्

नमः स्थितिस्वरूपाय सर्वयज्ञस्वरूपिणे
कलाकाष्ठानिमेषाय नमस्ते कालरूपिणे ॥ २१ ॥

विश्वास-प्रस्तुतिः

भूतात्मने नमस्तुभ्यमृग्वेदवपुषे तथा
सुरात्मने नमस्तुभ्यं सामवेदाय ते नमः ॥ २२ ॥

मूलम्

भूतात्मने नमस्तुभ्यमृग्वेदवपुषे तथा
सुरात्मने नमस्तुभ्यं सामवेदाय ते नमः ॥ २२ ॥

विश्वास-प्रस्तुतिः

ॐकाराय नमस्तुभ्यं यजुर्वेदस्वरूपिणे
ऋचःस्वरूपिणे चैव चतुर्वेदमयाय च ॥ २३ ॥

मूलम्

ॐकाराय नमस्तुभ्यं यजुर्वेदस्वरूपिणे
ऋचःस्वरूपिणे चैव चतुर्वेदमयाय च ॥ २३ ॥

विश्वास-प्रस्तुतिः

नमस्ते वेदवेदाङ्ग साङ्गोपाङ्गाय ते नमः
गोविन्दाय नमस्तुभ्यमनादिनिधनाय च ॥ २४ ॥

मूलम्

नमस्ते वेदवेदाङ्ग साङ्गोपाङ्गाय ते नमः
गोविन्दाय नमस्तुभ्यमनादिनिधनाय च ॥ २४ ॥

विश्वास-प्रस्तुतिः

नमस्ते वेदविदुषे विशिष्टैकस्वरूपिणे
श्रीभूलीलाधिपतये जगत्पित्रे नमोनमः ॥ २५ ॥

मूलम्

नमस्ते वेदविदुषे विशिष्टैकस्वरूपिणे
श्रीभूलीलाधिपतये जगत्पित्रे नमोनमः ॥ २५ ॥

विश्वास-प्रस्तुतिः

रुद्र उवाच-
इत्यादि स्तुतिभिः स्तुत्वा देवं वाराहरूपिणम्
अर्च्चयामासुरात्मेशं गन्धपुष्पादिभिर्हरिम् ॥ २६ ॥

मूलम्

रुद्र उवाच-
इत्यादि स्तुतिभिः स्तुत्वा देवं वाराहरूपिणम्
अर्च्चयामासुरात्मेशं गन्धपुष्पादिभिर्हरिम् ॥ २६ ॥

विश्वास-प्रस्तुतिः

समर्च्यमानस्तैर्देवैस्तेषामिष्टं वरं ददौ
गन्धर्वैरप्सरोभिश्च गायमानो मुदा हरिः ॥ २७ ॥

मूलम्

समर्च्यमानस्तैर्देवैस्तेषामिष्टं वरं ददौ
गन्धर्वैरप्सरोभिश्च गायमानो मुदा हरिः ॥ २७ ॥

विश्वास-प्रस्तुतिः

महर्षिभिः स्तूयमानस्तत्रैवान्तरधीयत
एभिः स्तुत्वा नरो भक्त्या प्रातरुत्थाय भक्तिमान् ॥ २८ ॥

मूलम्

महर्षिभिः स्तूयमानस्तत्रैवान्तरधीयत
एभिः स्तुत्वा नरो भक्त्या प्रातरुत्थाय भक्तिमान् ॥ २८ ॥

विश्वास-प्रस्तुतिः

ईप्सितांल्लभते भूमिं चिरं सस्यफलान्विताम्
एतत्ते सर्वमाख्यातं वाराहवैभवं हरैः
नारसिंहं तथा वक्ष्ये शृणु देवि वरानने ॥ २९ ॥

मूलम्

ईप्सितांल्लभते भूमिं चिरं सस्यफलान्विताम्
एतत्ते सर्वमाख्यातं वाराहवैभवं हरैः
नारसिंहं तथा वक्ष्ये शृणु देवि वरानने ॥ २९ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे
वराहावतारकथनन्नाम सप्तत्रिंशदधिकद्विशततमोऽध्यायः २३७