२३६

मोहशास्त्राणि

पार्वत्युवाच-

विश्वास-प्रस्तुतिः

तामसानि च शास्त्राणि
समाचक्ष्व ममानघ
सम्प्रोक्तानि च तैर् विप्रैर्
भगवद्-भक्ति-वर्जितैः
तेषां नामानि क्रमशः
समाचक्ष्व सुरेश्वर ॥ १ ॥

मूलम्

तामसानि च शास्त्राणि समाचक्ष्व ममानघ
सम्प्रोक्तानिच तैर्विप्रैर्भगवद्भक्तिवर्जितैः
तेषां नामानि क्रमशः समाचक्ष्व सुरेश्वर ॥ १ ॥

विश्वास-प्रस्तुतिः

रुद्र उवाच-
शृणु देवि प्रवक्ष्यामि
तामसानि यथाक्रमम् ॥ २ ॥

मूलम्

रुद्र उवाच-
शृणु देवि प्रवक्ष्यामि तामसानि यथाक्रमम् ॥ २ ॥

विश्वास-प्रस्तुतिः

तेषां स्मरणमात्रेण
मोहः स्याज् ज्ञानिनामपि
प्रथमं हि मयैवोक्तं
शैवं पाशुपतादिकम् ॥ ३ ॥

मूलम्

तेषां स्मरणमात्रेण मोहः स्याज्ज्ञानिनामपि
प्रथमं हि मयैवोक्तं शैवं पाशुपतादिकम् ॥ ३ ॥

विश्वास-प्रस्तुतिः

मच्-छक्त्य्-आवेशितैर् विप्रैः
प्रोक्तानि च ततः शृणु
कणादेन तु सम्प्रोक्तं
शास्त्रं वैशेषिकं महत् ॥ ४ ॥

मूलम्

मच्छक्त्यावेशितैर्विप्रैः प्रोक्तानि च ततः शृणु
कणादेन तु सम्प्रोक्तं शास्त्रं वैशेषिकं महत् ॥ ४ ॥

विश्वास-प्रस्तुतिः

गौतमेन तथा न्यायं
साङ्ख्यं तु कपिलेन वै
धिषणेन तथा प्रोक्तं
चार्वाकम् अतिगर्हितम् ॥ ५ ॥

मूलम्

गौतमेन तथा न्यायं साङ्ख्यं तु कपिलेन वै
धिषणेन तथा प्रोक्तं चार्वाकमतिगर्हितम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

दैत्यानां नाशनार्थाय
विष्णुना बुद्ध-रूपिणा
बौद्धशास्त्रम् असत् प्रोक्तं
नग्न-नीलपटादिकम् ॥ ६ ॥

मूलम्

दैत्यानां नाशनार्थाय विष्णुना बुद्धरूपिणा
बौद्धशास्त्रमसत्प्रोक्तं नग्ननीलपटादिकम् ॥ ६ ॥

मायावादः

विश्वास-प्रस्तुतिः

मायावादम् असच्छास्त्रं
प्रच्छन्नं बौद्धम् उच्यते
मयैव कथितं देवि
कलौ ब्राह्मण-रूपिणा ॥ ७ ॥

मूलम्

मायावादमसच्छास्त्रं प्रच्छन्नं बौद्धम् उच्यते
मयैव कथितं देवि कलौ ब्राह्मणरूपिणा ॥ ७ ॥

विश्वास-प्रस्तुतिः

अपार्थं श्रुति-वाक्यानां
दर्शयन् लोक-गर्हितम्
स्व-कर्म-रूपं त्याज्यत्वम्
अत्रैव प्रतिपाद्यते ॥ ८ ॥

मूलम्

अपार्थं श्रुतिवाक्यानां दर्शयन्लोकगर्हितम्
स्वकर्मरूपं त्याज्यत्वमत्रैव प्रतिपाद्यते ॥ ८ ॥

विश्वास-प्रस्तुतिः

सर्वकर्म-परिभ्रष्टैर्
वैधर्मत्वं तद् उच्यते
परेश-जीव-पारैक्यं
मया तु प्रतिपाद्यते ॥ ९ ॥

मूलम्

सर्वकर्मपरिभ्रष्टैर्वैधर्मत्वं तदुच्यते
परेशजीवपारैक्यं मया तु प्रतिपाद्यते ॥ ९ ॥

विश्वास-प्रस्तुतिः

ब्रह्मणोस्य स्वयं रूपं
निर्गुणं वक्ष्यते मया
सर्वस्य जगतोऽप्य् अत्र
मोहनार्थं कलौ युगे ॥ १० ॥

मूलम्

ब्रह्मणोस्य स्वयं रूपं निर्गुणं वक्ष्यते मया
सर्वस्य जगतोऽप्यत्र मोहनार्थं कलौ युगे ॥ १० ॥

विश्वास-प्रस्तुतिः

वेदार्थवन् महाशास्त्रं
मायया यद् अवैदिकम्
मयैव कल्पितं देवि
जगतां नाशकारणात् ॥ ११ ॥

मूलम्

वेदार्थवन्महाशास्त्रं मायया यदवैदिकम्
मयैव कल्पितं देवि जगतां नाशकारणात् ॥ ११ ॥

विश्वास-प्रस्तुतिः

मद्-आज्ञया जैमिनिना
पूर्वं वेदम् अपार्थकम्
निरीश्वरेण वादेन
कृतं शास्त्रं महत्तरम् ॥ १२ ॥

मूलम्

मदाज्ञया जैमिनिना पूर्वं वेदमपार्थकम्
निरीश्वरेण वादेन कृतं शास्त्रं महत्तरम् ॥ १२ ॥

तामस-पुराणानि

विश्वास-प्रस्तुतिः

शास्त्राणि चैव गिरिजे
तामसानि निबोध मे
पुराणानिवक्ष्यामि
तामसानि यथाक्रमात् ॥ १३ ॥

मूलम्

शास्त्राणि चैव गिरिजे तामसानि निबोध मे
पुराणानि च वक्ष्यामि तामसानि यथाक्रमात् ॥ १३ ॥

विश्वास-प्रस्तुतिः

ब्राह्मं पाद्मं वैष्णवं च
शैवं भागवतं तथा
तथैव नारदीयं तु
मार्कण्डेयन्तु सप्तमम् ॥ १४ ॥

मूलम्

ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा
तथैव नारदीयं तु मार्कण्डेयन्तु सप्तमम् ॥ १४ ॥

विश्वास-प्रस्तुतिः

आग्नेयमष्टमं प्रोक्तं भविष्यं नवमं तथा
दशमं ब्रह्मवैवर्तं लिङ्गमेकादशं स्मृतम् ॥ १५ ॥

मूलम्

आग्नेयमष्टमं प्रोक्तं भविष्यं नवमं तथा
दशमं ब्रह्मवैवर्तं लिङ्गमेकादशं स्मृतम् ॥ १५ ॥

विश्वास-प्रस्तुतिः

द्वादशं च वराहं च
वामनं च त्रयोदशम्
कौर्मं चतुर्दशं प्रोक्तं
मात्स्यं पञ्चदशं स्मृतम् ॥ १६ ॥

मूलम्

द्वादशं च वराहं च वामनं च त्रयोदशम्
कौर्मं चतुर्दशं प्रोक्तं मात्स्यं पञ्चदशं स्मृतम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

षोडशं गारुडं प्रोक्तं
स्कन्दं सप्तदशं स्मृतम्
अष्टादशं तु ब्रह्माण्डं
पुराणानि यथाक्रमम् ॥ १७ ॥

मूलम्

षोडशं गारुडं प्रोक्तं स्कन्दं सप्तदशं स्मृतम्
अष्टादशं तु ब्रह्माण्डं पुराणानि यथाक्रमम् ॥ १७ ॥

विश्वास-प्रस्तुतिः

मात्स्यं कौर्मं तथा लैङ्गं
शैवं स्कान्दं तथैव च
आग्नेयं च षड् एतानि
तामसानि निबोध मे ॥ १८ ॥

मूलम्

मात्स्यं कौर्मं तथा लैङ्गं शैवं स्कान्दं तथैव च
आग्नेयं च षडेतानि तामसानि निबोध मे ॥ १८ ॥

विश्वास-प्रस्तुतिः

वैष्णवं नारदीयं च
तथा भागवतं शुभम्
गारुडं च तथा पाद्मं
वाराहं शुभदर्शने ॥ १९ ॥

मूलम्

वैष्णवं नारदीयं च तथा भागवतं शुभम्
गारुडं च तथा पाद्मं वाराहं शुभदर्शने ॥ १९ ॥

विश्वास-प्रस्तुतिः

सात्विकानि पुराणानि
विज्ञेयानि शुभानि वै
ब्रह्माण्डं ब्रह्मवैवर्त्तं
मार्कण्डेयं तथैव च ॥ २० ॥

मूलम्

सात्विकानि पुराणानि विज्ञेयानि शुभानि वै
ब्रह्माण्ड ब्रह्मवैवर्त्तं मार्कण्डेयं तथैव च ॥ २० ॥

विश्वास-प्रस्तुतिः

भविष्यं वामनं ब्राह्मं
राजसानि निबोध मे
सात्विका मोक्षदाः प्रोक्ता
राजसाः सर्वदा शुभाः ॥ २१ ॥

मूलम्

भविष्यं वामनं ब्राह्मं राजसानि निबोध मे
सात्विका मोक्षदाः प्रोक्ता राजसाः सर्वदा शुभाः ॥ २१ ॥

स्मृतयः

विश्वास-प्रस्तुतिः

तथैव तामसा देवि
निरय(=नरक)-प्राप्तिहेतवः
तथैव स्मृतयः प्रोक्ता
ऋषिभिस् त्रिगुणान्विताः ॥ २२ ॥

मूलम्

तथैव तामसा देवि निरयप्राप्तिहेतवः
तथैव स्मृतयः प्रोक्ता ऋषिभिस्त्रिगुणान्विताः ॥ २२ ॥

विश्वास-प्रस्तुतिः

सात्विका राजसाश्चैव
तामसा शुभदर्शने
वासिष्ठं चैव हारीतं
व्यासं पाराशरं तथा ॥ २३ ॥

मूलम्

सात्विका राजसाश्चैव तामसा शुभदर्शने
वासिष्ठं चैव हारीतं व्यासं पाराशरं तथा ॥ २३ ॥

विश्वास-प्रस्तुतिः

भारद्वाजं काश्यपं च
सात्विका मुक्तिदाः शुभाः
याज्ञवल्क्यं तथात्रेयं
तैत्तिरं दाक्षमेव च ॥ २४ ॥

मूलम्

भारद्वाजं काश्यपं च सात्विका मुक्तिदाः शुभाः
याज्ञवल्क्यं तथात्रेयं तैत्तिरं दाक्षमेव च ॥ २४ ॥

विश्वास-प्रस्तुतिः

कात्यायनं वैष्णवं च
राजसां स्वर्गदाः शुभाः
गौतमं बार्हस्पत्यं च
सांवर्त्तं च यमं स्मृतम् ॥ २५ ॥

मूलम्

कात्यायनं वैष्णवं च राजसां स्वर्गदाः शुभाः
गौतमं बार्हस्पत्यं च सांवर्त्तं च यमं स्मृतम् ॥ २५ ॥

विश्वास-प्रस्तुतिः

साख्यं (/शाम्भम्) चौशनसं चेति
तामसा निरयप्रदाः

मूलम्

साख्यं चौशनसं चेति तामसा निरयप्रदाः

विश्वास-प्रस्तुतिः

किमत्र बहुनोक्तेन
पुराणेषु स्मृतिष्वपि ॥ २६ ॥
तामसा नरकायैव
वर्जयेत् तान् विचक्षणः

मूलम्

किमत्र बहुनोक्तेन पुराणेषु स्मृतिष्वपि ॥ २६ ॥
तामसा नरकायैव वर्जयेत्तान्विचक्षणः

उपसंहारः

विश्वास-प्रस्तुतिः

एतत्ते सर्वमाख्यातं
प्रसङ्गाच् छुभदर्शनम्
शेषां च प्रभवावस्थां
हरेर्वक्ष्यामि ते शृणु ॥ २७ ॥

मूलम्

एतत्ते सर्वमाख्यातं प्रसङ्गाच्छुभदर्शनम्
शेषां च प्रभवावस्थां हरेर्वक्ष्यामि ते शृणु ॥ २७ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे तामसशास्त्रकथनन्नाम षट्त्रिंशदधिकद्विशततमोऽध्यायः २३६