२३५

श्रीपार्वत्युवाच-

विश्वास-प्रस्तुतिः

पाषण्डानां च संवादं वर्जयेदिति यत्त्वया ॥ १ ॥

मूलम्

पाषण्डानां च संवादं वर्जयेदिति यत्त्वया ॥ १ ॥

विश्वास-प्रस्तुतिः

उक्तं ममेह भगवान्श्वपचादपि गर्हितम्
ते यादृशाः समाख्याताः कैर्लिङ्ङ्गैश्चिह्निता भुवि
रुद्र उवाच-
येऽन्यदेवं परत्वेन वदन्त्यज्ञानमोहिताः ॥ २ ॥

मूलम्

उक्तं ममेह भगवान्श्वपचादपि गर्हितम्
ते यादृशाः समाख्याताः कैर्लिङ्ङ्गैश्चिह्निता भुवि
रुद्र उवाच-
येऽन्यदेवं परत्वेन वदन्त्यज्ञानमोहिताः ॥ २ ॥

विश्वास-प्रस्तुतिः

नारायणाज्जगन्नाथात्ते वै पाषण्डिनः स्मृताः
कपालभस्मास्थिधरा ये ह्यवैदिकलिङ्गिनः ॥ ३ ॥

मूलम्

नारायणाज्जगन्नाथात्ते वै पाषण्डिनः स्मृताः
कपालभस्मास्थिधरा ये ह्यवैदिकलिङ्गिनः ॥ ३ ॥

विश्वास-प्रस्तुतिः

ऋते वनस्थाश्रमाच्च जटावल्कलधारिणः
अवैदिकक्रियोपेतास्तै वै पाषण्डिनस्तथा ॥ ४ ॥

मूलम्

ऋते वनस्थाश्रमाच्च जटावल्कलधारिणः
अवैदिकक्रियोपेतास्तै वै पाषण्डिनस्तथा ॥ ४ ॥

विश्वास-प्रस्तुतिः

शङ्खचक्रोर्ध्वपुण्ड्रादि चिह्नैः प्रियतमैर्हरेः
रहिता ये द्विजा देवि ते वै पाषण्डिनः स्मृताः ॥ ५ ॥

मूलम्

शङ्खचक्रोर्ध्वपुण्ड्रादि चिह्नैः प्रियतमैर्हरेः
रहिता ये द्विजा देवि ते वै पाषण्डिनः स्मृताः ॥ ५ ॥

विश्वास-प्रस्तुतिः

श्रुतिस्मृत्युदिताचारं यस्तु नाचरति द्विजः
स पाषण्डीति विज्ञेयः सर्वलोकेषु गर्हितः ॥ ६ ॥

मूलम्

श्रुतिस्मृत्युदिताचारं यस्तु नाचरति द्विजः
स पाषण्डीति विज्ञेयः सर्वलोकेषु गर्हितः ॥ ६ ॥

विश्वास-प्रस्तुतिः

विना वै भगवत्प्रीत्या ते वै पाषण्डिनः स्मृताः
समस्तयज्ञभोक्तारं विष्णुं वै ब्रह्मदैवतम् ॥ ७ ॥

मूलम्

विना वै भगवत्प्रीत्या ते वै पाषण्डिनः स्मृताः
समस्तयज्ञभोक्तारं विष्णुं वै ब्रह्मदैवतम् ॥ ७ ॥

विश्वास-प्रस्तुतिः

उदिश्य देवता एव जुहोति च ददाति च
स पाषण्डीति विज्ञेयः स्वतन्त्रः सर्वकर्मसु ॥ ८ ॥

मूलम्

उदिश्य देवता एव जुहोति च ददाति च
स पाषण्डीति विज्ञेयः स्वतन्त्रः सर्वकर्मसु ॥ ८ ॥

विश्वास-प्रस्तुतिः

स्वातन्त्र्यात्कुरुते यस्तु कर्म वेदोदितं महत्
यस्तु नारायणं देवं ब्रह्मरुद्रादिदैवतैः ॥ ९ ॥

मूलम्

स्वातन्त्र्यात्कुरुते यस्तु कर्म वेदोदितं महत्
यस्तु नारायणं देवं ब्रह्मरुद्रादिदैवतैः ॥ ९ ॥

विश्वास-प्रस्तुतिः

सममन्यैर्निरीक्षेत स पाषण्डी भवेत्सदा
अवस्थात्रितये यस्तु मनोवाक्कायकर्मभिः ॥ १० ॥

मूलम्

सममन्यैर्निरीक्षेत स पाषण्डी भवेत्सदा
अवस्थात्रितये यस्तु मनोवाक्कायकर्मभिः ॥ १० ॥

विश्वास-प्रस्तुतिः

वासुदेवं न जानाति स पाषण्डी भवेद्दिवजः
किमत्र बहुनोक्तेन ब्राह्मणा येप्यवैष्णवाः ॥ ११ ॥

मूलम्

वासुदेवं न जानाति स पाषण्डी भवेद्दिवजः
किमत्र बहुनोक्तेन ब्राह्मणा येप्यवैष्णवाः ॥ ११ ॥

विश्वास-प्रस्तुतिः

न स्प्रष्टव्या न वक्तव्या न द्रष्टव्याः कदाचन
पार्वत्युवाच-
भगवन्परमं गुह्यं पृच्छामि सुरसत्तम ॥ १२ ॥

मूलम्

न स्प्रष्टव्या न वक्तव्या न द्रष्टव्याः कदाचन
पार्वत्युवाच-
भगवन्परमं गुह्यं पृच्छामि सुरसत्तम ॥ १२ ॥

विश्वास-प्रस्तुतिः

मयि प्रीत्या समाचक्ष्व संशयो वर्त्तते भृशम्
कपालभस्मचर्मास्थि धारणं श्रुतिगर्हितम् ॥ १३ ॥

मूलम्

मयि प्रीत्या समाचक्ष्व संशयो वर्त्तते भृशम्
कपालभस्मचर्मास्थि धारणं श्रुतिगर्हितम् ॥ १३ ॥

विश्वास-प्रस्तुतिः

तत्त्वया धार्य्यते देव गर्हितं केन हेतुना
स्त्रीचापल्येन देवेश पृच्छामि त्वां महामते ॥ १४ ॥

मूलम्

तत्त्वया धार्य्यते देव गर्हितं केन हेतुना
स्त्रीचापल्येन देवेश पृच्छामि त्वां महामते ॥ १४ ॥

विश्वास-प्रस्तुतिः

महाप्रभावात्कथितं न कर्त्तव्यं क्वचिद्भवेत्
त्वयेति न पुरा प्रोक्तं विस्तरेण महाप्रभो ॥ १५ ॥

मूलम्

महाप्रभावात्कथितं न कर्त्तव्यं क्वचिद्भवेत्
त्वयेति न पुरा प्रोक्तं विस्तरेण महाप्रभो ॥ १५ ॥

विश्वास-प्रस्तुतिः

अकर्त्तव्यमिति प्रश्नं क्षन्तुमर्हसि मे प्रभो
वसिष्ठ उवाच-
इति देव्या हरः पृष्टो रहस्ये जनवर्जिते ॥ १६ ॥

मूलम्

अकर्त्तव्यमिति प्रश्नं क्षन्तुमर्हसि मे प्रभो
वसिष्ठ उवाच-
इति देव्या हरः पृष्टो रहस्ये जनवर्जिते ॥ १६ ॥

विश्वास-प्रस्तुतिः

उवाच परमं गुह्यं यद्यदाचरितं स्वकम्
शिव उवाच-
शृणु देवि प्रवक्ष्यामि यद्गुह्यं परमाद्भुतम् ॥ १७ ॥

मूलम्

उवाच परमं गुह्यं यद्यदाचरितं स्वकम्
शिव उवाच-
शृणु देवि प्रवक्ष्यामि यद्गुह्यं परमाद्भुतम् ॥ १७ ॥

विश्वास-प्रस्तुतिः

न वक्तव्यं त्वया देवि जनेषु कथितं मया
अपृथक्त्वाच्छरीरस्य वक्ष्यामि तव सुव्रते ॥ १८ ॥

मूलम्

न वक्तव्यं त्वया देवि जनेषु कथितं मया
अपृथक्त्वाच्छरीरस्य वक्ष्यामि तव सुव्रते ॥ १८ ॥

विश्वास-प्रस्तुतिः

नमुच्याद्या महादैत्याः पुरा स्वायम्भुवेन्तरे
महाबला महावीर्या महावीरा महौजसः ॥ १९ ॥

मूलम्

नमुच्याद्या महादैत्याः पुरा स्वायम्भुवेन्तरे
महाबला महावीर्या महावीरा महौजसः ॥ १९ ॥

विश्वास-प्रस्तुतिः

सर्वे विष्णुरताः शुद्धाः सर्वपापविवर्जिताः
त्रयीधर्मवृताः सर्वे भग्ना इन्द्रपुरोगमाः ॥ २० ॥

मूलम्

सर्वे विष्णुरताः शुद्धाः सर्वपापविवर्जिताः
त्रयीधर्मवृताः सर्वे भग्ना इन्द्रपुरोगमाः ॥ २० ॥

विश्वास-प्रस्तुतिः

विष्णोः समीपमागम्य भयार्त्ताः शरणं गताः
देवा ऊचुः
अजेयान्सर्वदेवानां तपोनिर्द्धूतकल्मषान् ॥ २१ ॥

मूलम्

विष्णोः समीपमागम्य भयार्त्ताः शरणं गताः
देवा ऊचुः
अजेयान्सर्वदेवानां तपोनिर्द्धूतकल्मषान् ॥ २१ ॥

विश्वास-प्रस्तुतिः

त्वमेवैतान्महादैत्याञ्जेतुमर्हसि केशव
महादेव उवाच-
इत्याकर्ण्य हरिर्वाक्यं देवानां च भयानकम् ॥ २२ ॥

मूलम्

त्वमेवैतान्महादैत्याञ्जेतुमर्हसि केशव
महादेव उवाच-
इत्याकर्ण्य हरिर्वाक्यं देवानां च भयानकम् ॥ २२ ॥

विश्वास-प्रस्तुतिः

तान्समाश्वास्य दिक्पालान्मामाह पुरुषोत्तमः
श्रीभगवानुवाच-
त्वं हि रुद्र महाबाहो मोहनार्थे सुरद्विषाम् ॥ २३ ॥

मूलम्

तान्समाश्वास्य दिक्पालान्मामाह पुरुषोत्तमः
श्रीभगवानुवाच-
त्वं हि रुद्र महाबाहो मोहनार्थे सुरद्विषाम् ॥ २३ ॥

विश्वास-प्रस्तुतिः

पाषण्डाचरणं धर्मं कुरुष्व सुरसत्तम
तामसानि पुराणानि कथयस्व च तान्प्रति ॥ २४ ॥

मूलम्

पाषण्डाचरणं धर्मं कुरुष्व सुरसत्तम
तामसानि पुराणानि कथयस्व च तान्प्रति ॥ २४ ॥

विश्वास-प्रस्तुतिः

मोहनानि च शास्त्राणि कुरुष्व च महामते
मयि मुक्ताश्च विप्रश्च भविष्यन्ति महर्षयः ॥ २५ ॥

मूलम्

मोहनानि च शास्त्राणि कुरुष्व च महामते
मयि मुक्ताश्च विप्रश्च भविष्यन्ति महर्षयः ॥ २५ ॥

विश्वास-प्रस्तुतिः

मद्भक्त्या तान्समाविश्य कथयस्व च तामसान्
काणादं गौतमं शक्तिमुपमन्युं च जैमिनिम् ॥ २६ ॥

मूलम्

मद्भक्त्या तान्समाविश्य कथयस्व च तामसान्
काणादं गौतमं शक्तिमुपमन्युं च जैमिनिम् ॥ २६ ॥

विश्वास-प्रस्तुतिः

कपिलं चैव दुर्वासं मृकण्डुं च बृहस्पतिम्
भार्गवं जामदग्न्यं च दशैतांस्तामसानृषीन् ॥ २७ ॥

मूलम्

कपिलं चैव दुर्वासं मृकण्डुं च बृहस्पतिम्
भार्गवं जामदग्न्यं च दशैतांस्तामसानृषीन् ॥ २७ ॥

विश्वास-प्रस्तुतिः

भावशक्त्या समाविश्य कुर्वता जगतो शिवम्
त्वच्छक्त्या च निविष्टास्ते तमसोद्रिक्तया भृशम् ॥ २८ ॥

मूलम्

भावशक्त्या समाविश्य कुर्वता जगतो शिवम्
त्वच्छक्त्या च निविष्टास्ते तमसोद्रिक्तया भृशम् ॥ २८ ॥

विश्वास-प्रस्तुतिः

तामसास्ते भविष्यन्ति क्षणादेव न संशयः
कथयिष्यन्ति ते विप्रास्तामसानि जगत्त्रये ॥ २९ ॥

मूलम्

तामसास्ते भविष्यन्ति क्षणादेव न संशयः
कथयिष्यन्ति ते विप्रास्तामसानि जगत्त्रये ॥ २९ ॥

विश्वास-प्रस्तुतिः

पुराणानि च शास्त्रणि त्वया सत्वेन बृंहिताः
कपालचर्मभस्मास्थि चिह्नान्यमरसर्वशः ॥ ३० ॥

मूलम्

पुराणानि च शास्त्रणि त्वया सत्वेन बृंहिताः
कपालचर्मभस्मास्थि चिह्नान्यमरसर्वशः ॥ ३० ॥

विश्वास-प्रस्तुतिः

त्वमेव धृतवान्लोकान्मोहयस्व जगत्त्रये
तथा पाशुपतं शास्त्रं त्वमेव कुरु सत्कृतः ॥ ३१ ॥

मूलम्

त्वमेव धृतवान्लोकान्मोहयस्व जगत्त्रये
तथा पाशुपतं शास्त्रं त्वमेव कुरु सत्कृतः ॥ ३१ ॥

विश्वास-प्रस्तुतिः

कङ्कालशैवपाषण्डमहाशैवादिभेदतः
अलक्ष्यं च मतं सम्यग्वेदबाह्यं नराधमाः ॥ ३२ ॥

मूलम्

कङ्कालशैवपाषण्डमहाशैवादिभेदतः
अलक्ष्यं च मतं सम्यग्वेदबाह्यं नराधमाः ॥ ३२ ॥

विश्वास-प्रस्तुतिः

भस्मास्थिधारिणः सर्वे भविष्यन्ति ह्यचेतसः
त्वां परत्वेन वक्ष्यन्ति सर्वशास्त्रेषु तामसाः ॥ ३३ ॥

मूलम्

भस्मास्थिधारिणः सर्वे भविष्यन्ति ह्यचेतसः
त्वां परत्वेन वक्ष्यन्ति सर्वशास्त्रेषु तामसाः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

तेषां मतमधिष्ठाय सर्वे दैत्याः सनातनाः
भवेयुस्ते मद्विमुखाः क्षणादेव न संशयः ॥ ३४ ॥

मूलम्

तेषां मतमधिष्ठाय सर्वे दैत्याः सनातनाः
भवेयुस्ते मद्विमुखाः क्षणादेव न संशयः ॥ ३४ ॥

विश्वास-प्रस्तुतिः

अहमप्यवतारेषु त्वां च रुद्र महाबल
तामसानां मोहनार्थं पूजयामि युगे युगे ॥ ३५ ॥

मूलम्

अहमप्यवतारेषु त्वां च रुद्र महाबल
तामसानां मोहनार्थं पूजयामि युगे युगे ॥ ३५ ॥

विश्वास-प्रस्तुतिः

मतमेतदवष्टभ्य पतन्त्येव न संशयः
महादेव उवाच-
तच्छ्रुत्वाहं यथोक्तं तु वासुदेवेन भामिनि ॥ ३६ ॥

मूलम्

मतमेतदवष्टभ्य पतन्त्येव न संशयः
महादेव उवाच-
तच्छ्रुत्वाहं यथोक्तं तु वासुदेवेन भामिनि ॥ ३६ ॥

विश्वास-प्रस्तुतिः

सुमहद्वदनो दीनो बभूवात्र वरानने
नमस्कृत्वाथ तं देवमब्रवं परमेश्वरम् ॥ ३७ ॥

मूलम्

सुमहद्वदनो दीनो बभूवात्र वरानने
नमस्कृत्वाथ तं देवमब्रवं परमेश्वरम् ॥ ३७ ॥

विश्वास-प्रस्तुतिः

त्वयोदितमिदं देव करोमि यदि भूतले
तस्मान्नाशाय मे नाथ भविष्यति न संशयः ॥ ३८ ॥

मूलम्

त्वयोदितमिदं देव करोमि यदि भूतले
तस्मान्नाशाय मे नाथ भविष्यति न संशयः ॥ ३८ ॥

विश्वास-प्रस्तुतिः

तत्र शक्यं मया कर्तुमेतत्कृत्यं हरेऽधुना
त्वदाज्ञापि च नोल्लङ्घ्या एतद्दुःखतरं महत् ॥ ३९ ॥

मूलम्

तत्र शक्यं मया कर्तुमेतत्कृत्यं हरेऽधुना
त्वदाज्ञापि च नोल्लङ्घ्या एतद्दुःखतरं महत् ॥ ३९ ॥

विश्वास-प्रस्तुतिः

एवमुक्ते ततो देवि समाश्वास्य च मां पुनः
आत्मनाशाय तेनात्र भवत्वित्याह मां हरिः ॥ ४० ॥

मूलम्

एवमुक्ते ततो देवि समाश्वास्य च मां पुनः
आत्मनाशाय तेनात्र भवत्वित्याह मां हरिः ॥ ४० ॥

विश्वास-प्रस्तुतिः

देवतानां हितार्थाय कुरुष्व वचनं मम
तवापि जीवनोपायं कथयामि सुरोत्तम ॥ ४१ ॥

मूलम्

देवतानां हितार्थाय कुरुष्व वचनं मम
तवापि जीवनोपायं कथयामि सुरोत्तम ॥ ४१ ॥

विश्वास-प्रस्तुतिः

दत्तवान्कृपया मह्यमात्मनाम सहस्रकम्
हृदये मां समाधाय जप मन्त्रं ममाव्ययम् ॥ ४२ ॥

मूलम्

दत्तवान्कृपया मह्यमात्मनाम सहस्रकम्
हृदये मां समाधाय जप मन्त्रं ममाव्ययम् ॥ ४२ ॥

विश्वास-प्रस्तुतिः

षडक्षरं महामन्त्रं तारकं ब्रह्म उच्यते
ये जपन्ति हि मां भक्त्या तेषां मुक्तिर्न संशयः ॥ ४३ ॥

मूलम्

षडक्षरं महामन्त्रं तारकं ब्रह्म उच्यते
ये जपन्ति हि मां भक्त्या तेषां मुक्तिर्न संशयः ॥ ४३ ॥

विश्वास-प्रस्तुतिः

इन्दीवरदलश्यामं पद्मपत्रविलोचनम्
शङ्खाङ्गशार्ङ्गेषुधरं सर्वाभरणभूषितम् ॥ ४४ ॥

मूलम्

इन्दीवरदलश्यामं पद्मपत्रविलोचनम्
शङ्खाङ्गशार्ङ्गेषुधरं सर्वाभरणभूषितम् ॥ ४४ ॥

विश्वास-प्रस्तुतिः

पीतवस्त्रं चतुर्बाहुं जानकीप्रियवल्लभम्
श्रीरामाय नम इत्येवमुच्चार्य्यं मन्त्रमुत्तमम् ॥ ४५ ॥

मूलम्

पीतवस्त्रं चतुर्बाहुं जानकीप्रियवल्लभम्
श्रीरामाय नम इत्येवमुच्चार्य्यं मन्त्रमुत्तमम् ॥ ४५ ॥

विश्वास-प्रस्तुतिः

सर्वदुःखहरं चैतत्पापिनामपि मुक्तिदम्
इमं मन्त्रं जपन्नित्यममलस्त्वं भविष्यसि ॥ ४६ ॥

मूलम्

सर्वदुःखहरं चैतत्पापिनामपि मुक्तिदम्
इमं मन्त्रं जपन्नित्यममलस्त्वं भविष्यसि ॥ ४६ ॥

विश्वास-प्रस्तुतिः

भस्मास्थिधारणाद्यत्तु सम्भूतं किल्बिषं त्वयि
मङ्गलं तदभूत्सर्वं मन्मन्त्रोच्चारणाच्छुभात् ॥ ४७ ॥

मूलम्

भस्मास्थिधारणाद्यत्तु सम्भूतं किल्बिषं त्वयि
मङ्गलं तदभूत्सर्वं मन्मन्त्रोच्चारणाच्छुभात् ॥ ४७ ॥

विश्वास-प्रस्तुतिः

तर्पितो नाशयिष्यामि पापं सर्वं सुरोत्तम
मदन्यदेवताभक्तिर्जायते न तु सुव्रत ॥ ४८ ॥

मूलम्

तर्पितो नाशयिष्यामि पापं सर्वं सुरोत्तम
मदन्यदेवताभक्तिर्जायते न तु सुव्रत ॥ ४८ ॥

विश्वास-प्रस्तुतिः

मनसैवार्च्चय हृदि मां नाथं पुरुषोत्तमम्
मदाज्ञां कुरु मत्प्रीत्या सर्वमेतच्छुभं तव ॥ ४९ ॥

मूलम्

मनसैवार्च्चय हृदि मां नाथं पुरुषोत्तमम्
मदाज्ञां कुरु मत्प्रीत्या सर्वमेतच्छुभं तव ॥ ४९ ॥

विश्वास-प्रस्तुतिः

इति सन्दिश्य मां देवि विससर्ज मरुद्गणान्
विसृष्टास्ते ततो देवा निवृत्ताः स्वाश्रमं ययुः ॥ ५० ॥

मूलम्

इति सन्दिश्य मां देवि विससर्ज मरुद्गणान्
विसृष्टास्ते ततो देवा निवृत्ताः स्वाश्रमं ययुः ॥ ५० ॥

विश्वास-प्रस्तुतिः

ततो मां प्रार्थयामासुर्देवा इन्द्र पुरोगमाः
इन्द्रादय ऊचुः
शीघ्रं कुरु हितं देव यथोक्तं हरिणाधुना ॥ ५१ ॥

मूलम्

ततो मां प्रार्थयामासुर्देवा इन्द्र पुरोगमाः
इन्द्रादय ऊचुः
शीघ्रं कुरु हितं देव यथोक्तं हरिणाधुना ॥ ५१ ॥

विश्वास-प्रस्तुतिः

महादेव उवाच-
देवतानां हितार्थाय वृत्तिं पाखण्डिनां शुभे
कपालचर्मभस्मास्थिधारणं तत्कृतं मया ॥ ५२ ॥

मूलम्

महादेव उवाच-
देवतानां हितार्थाय वृत्तिं पाखण्डिनां शुभे
कपालचर्मभस्मास्थिधारणं तत्कृतं मया ॥ ५२ ॥

विश्वास-प्रस्तुतिः

तामसानि पुराणानि यथोक्तं विष्णुना शुभे
पाषण्डशैवशास्त्राणि यथोक्तं कृतवानहम् ॥ ५३ ॥

मूलम्

तामसानि पुराणानि यथोक्तं विष्णुना शुभे
पाषण्डशैवशास्त्राणि यथोक्तं कृतवानहम् ॥ ५३ ॥

विश्वास-प्रस्तुतिः

मच्छक्त्यापि समाविश्य गौतमादि द्विजानपि
वेदबाह्यानि शास्त्राणि सम्यगुक्तं मयानघे ॥ ५४ ॥

मूलम्

मच्छक्त्यापि समाविश्य गौतमादि द्विजानपि
वेदबाह्यानि शास्त्राणि सम्यगुक्तं मयानघे ॥ ५४ ॥

विश्वास-प्रस्तुतिः

इमं मतमवष्टभ्य दुष्टाः सर्वे च राक्षसाः
भगवद्विमुखाः सर्वे बभूवुस्तामसावृताः ॥ ५५ ॥

मूलम्

इमं मतमवष्टभ्य दुष्टाः सर्वे च राक्षसाः
भगवद्विमुखाः सर्वे बभूवुस्तामसावृताः ॥ ५५ ॥

विश्वास-प्रस्तुतिः

भस्मादिधारणं कृत्वा महोग्रतपसावृताः
मामेव पूजयाञ्चक्रुर्मांसासृक्चन्दनादिभिः ॥ ५६ ॥

मूलम्

भस्मादिधारणं कृत्वा महोग्रतपसावृताः
मामेव पूजयाञ्चक्रुर्मांसासृक्चन्दनादिभिः ॥ ५६ ॥

विश्वास-प्रस्तुतिः

मत्तो वरप्रदानानि लब्ध्वा मदबलोद्धताः
अत्यन्तविषयासक्ताः कामक्रोधसमन्विताः ॥ ५७ ॥

मूलम्

मत्तो वरप्रदानानि लब्ध्वा मदबलोद्धताः
अत्यन्तविषयासक्ताः कामक्रोधसमन्विताः ॥ ५७ ॥

विश्वास-प्रस्तुतिः

सत्वहीनास्तु निर्वीर्य्या जिता देवगणैस्तदा
सर्वधर्मपरिभ्रष्टाः काले यान्त्यधमां गतिम् ॥ ५८ ॥

मूलम्

सत्वहीनास्तु निर्वीर्य्या जिता देवगणैस्तदा
सर्वधर्मपरिभ्रष्टाः काले यान्त्यधमां गतिम् ॥ ५८ ॥

विश्वास-प्रस्तुतिः

ये मे मतमवष्टभ्य चरन्ति पृथिवीतले
सर्वधर्मैश्च रहिताः पश्यन्ति निरयं सदा ॥ ५९ ॥

मूलम्

ये मे मतमवष्टभ्य चरन्ति पृथिवीतले
सर्वधर्मैश्च रहिताः पश्यन्ति निरयं सदा ॥ ५९ ॥

विश्वास-प्रस्तुतिः

एवं देवहितार्थाय वृत्तिर्मे देवि गर्हिता
विष्णोराज्ञां पुरस्कृत्य कृतं भस्मास्थिधारणम् ॥ ६० ॥

मूलम्

एवं देवहितार्थाय वृत्तिर्मे देवि गर्हिता
विष्णोराज्ञां पुरस्कृत्य कृतं भस्मास्थिधारणम् ॥ ६० ॥

विश्वास-प्रस्तुतिः

बाह्यचिह्नमिदं देवि मोहनार्थाय विद्विषाम्
अथान्तर्हृदये नित्यं ध्यात्वा देवं जनार्दनम् ॥ ६१ ॥

मूलम्

बाह्यचिह्नमिदं देवि मोहनार्थाय विद्विषाम्
अथान्तर्हृदये नित्यं ध्यात्वा देवं जनार्दनम् ॥ ६१ ॥

विश्वास-प्रस्तुतिः

जपन्नेव च तन्मन्त्रं तारकं ब्रह्मवाचकम्
सहस्रनामसदृशं विष्णोर्नारायणस्य तु ॥ ६२ ॥

मूलम्

जपन्नेव च तन्मन्त्रं तारकं ब्रह्मवाचकम्
सहस्रनामसदृशं विष्णोर्नारायणस्य तु ॥ ६२ ॥

विश्वास-प्रस्तुतिः

षडक्षरं महामन्त्रं रघूणां कुलवर्द्धनम्
जपन्वै सततं देवि सदानन्दसुधाप्लुतम्
सुखमात्यन्तिकं ब्रह्म ह्यश्नाम सततं शुभे ॥ ६३ ॥

मूलम्

षडक्षरं महामन्त्रं रघूणां कुलवर्द्धनम्
जपन्वै सततं देवि सदानन्दसुधाप्लुतम्
सुखमात्यन्तिकं ब्रह्म ह्यश्नाम सततं शुभे ॥ ६३ ॥

विश्वास-प्रस्तुतिः

एतत्ते सर्वमाख्यातं त्वयापृष्टं शुभानने
किमन्यच्छ्रोतुकामासि प्रीत्या तत्परिपृच्छ माम् ॥ ६४ ॥

मूलम्

एतत्ते सर्वमाख्यातं त्वयापृष्टं शुभानने
किमन्यच्छ्रोतुकामासि प्रीत्या तत्परिपृच्छ माम् ॥ ६४ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे पाषण्डोत्पत्तिवर्णनन्नाम पञ्चत्रिंशदधिकद्विशततमोऽध्यायः २३५