पार्वत्युवाच-
विश्वास-प्रस्तुतिः
भगवञ्छ्रोतुमिच्छामि द्वादश्याश्च विधानकम्
विष्णोः पूजाविधानं च कर्त्तव्यं तत्र वै प्रभो ॥ १ ॥
मूलम्

एकादश्याः प्रभावं च सर्वपापहरन्नृणाम्
आचक्ष्व विस्तरेणैव मयि प्रीत्या महेश्वर ॥ २ ॥

महादेव उवाच-
शृणु देवि प्रवक्ष्यामि द्वादश्याश्च विधानकम्
तस्याः स्मरणमात्रेण सन्तुष्टः स्याज्जनार्दनः ॥ ३ ॥

एकादश्यां तु प्राप्तायां समुपोष्येह मानवः
सर्वपापविनिर्मुक्ता यान्ति विष्णोः परम्पदम् ॥ ४ ॥

सप्तजन्मार्जितं पाप ज्ञानतोऽज्ञानतः कृतम्
क्षणादेव लयं याति द्वादश्यां हरिपूजनात् ॥ ५ ॥

अश्वमेधसहस्राणि वाजपेयशतानि च
एकादश्युपवासस्य कलां नार्हन्ति षोडशीम् ॥ ६ ॥

धर्मदा ह्यर्थदा चैव कामदा मोक्षदा किल
सर्वकामदुघा नॄणां द्वादशी वरवर्णिनी ॥ ७ ॥

एकादशी समं किञ्चित्पापत्राणं न विद्यते
एकादशीसमङ्किचिद्व्रतं नास्ति शुभेक्षणे ॥ ८ ॥

एकादशीं परित्यज्य यो ह्यन्यद्व्रतमाचरेत्
स करस्थं महाराज्यं त्यक्त्वा भैक्ष्यं तु याचते ॥ ९ ॥

एकादशेन्द्रियैः पापं यत्कृतं भवति प्रिये
एकादश्युपवासेन तत्सर्वं विलयं व्रजेत् ॥ १० ॥

रटन्तीह पुराणानि भूयोभूयो वरानने
न भोक्तव्यं न भोक्तव्यं सम्प्राप्ते हरिवासरे ॥ ११ ॥

अभक्ष्यं सर्वदा प्रोक्तं किं पुनः शुक्लकृष्णयोः
वर्णानामाश्रमाणां च सर्वेषां वरवर्णिनी ॥ १२ ॥

एकादश्युपवासस्तु कर्त्तव्यो नात्र संशयः
एकादश्यां च प्राप्तायां मातापित्रोर्मृतेऽहनि ॥ १३ ॥

द्वादश्यां तु प्रदातव्यं नोपवासदिने क्वचित्
गर्हितान्नं न वाश्नन्ति पितरश्च दिवौकसः ॥ १४ ॥

एकादश्यां न भोक्तव्यं सुरां वा न पिबेत्क्वचित्
ब्राह्मणं नैव हन्यात्तु सममेतत्त्रयं मतम् ॥ १५ ॥

तस्मादेकादशीं शुद्धामुपवासं समाचरेत्
अवस्थात्रितये यस्तु यत्नो वाक्कायकर्मभिः ॥ १६ ॥

दशमीमिश्रितां तां तु प्रयत्नेन विवर्ज्जयेत्
अरुणोदयवेलायां दशमीमिश्रिता भवेत् ॥ १७ ॥

तां त्यक्त्वा द्वादशीं शुद्धामुपोष्येहाविचारयन्
कलायां विद्यमानायां सूर्य्यस्योदयनं प्रति ॥ १८ ॥

त्रयोदश्यां तथा देवि द्वादशी परिविद्यते
तथा च द्वादशी शुद्धा ह्युपवासे विधीयते ॥ १९ ॥

अरुणोदयवेलायां कृत्यं सर्वं समाचरेत्
कलायामपि द्वादश्यां पारणं तत्र चोदितम् ॥ २० ॥

शुद्धामेकादशीं चापि त्यजेदत्र न संशयः
कलाप्येकादशी यत्र द्वादश्यामुदिते रवौ ॥ २१ ॥

सर्वामेकादशीं त्यक्त्वा तत्रैवोपवसेद्द्विजः
एवं विधिं विनिश्चित्य समुपोष्यं हरेर्द्दिनम् ॥ २२ ॥

सायमाद्यन्तयोरह्नोः सायम्प्रातस्तु मध्यमे
तत्रोपवासं कुर्वीत त्यक्त्वा भुक्तिचतुष्टयम् ॥ २३ ॥

दशम्यामेकभक्तस्तु नारीसङ्गमवर्जितः
अवनीतल्पशायी च परेऽहनि वसेच्छुचिः ॥ २४ ॥

धात्रीफलानुलिप्ताङ्गः स्नानं सन्ध्यां समाचरेत्
उपवासपरो भूत्वा रात्रौ सम्पूजयेद्धरिम् ॥ २५ ॥

पाखण्डिनं विकर्मस्थं पतितं श्वपचं तथा
नावलोकेन्न सम्भाषेन्न स्पृशेत्तत्र वैष्णवः ॥ २६ ॥

अवैष्णवस्तु यो विप्रः स पाषण्डः प्रकीर्तितः
शिखोपवीतत्यागी च विकर्मस्थ इतीरितः ॥ २७ ॥

महापापोपपापाभ्यां युक्तः पतित उच्यते
अन्त्यजः श्वपचः प्रोक्तो वेदैस्तत्र सुनिर्णयः ॥ २८ ॥

रात्रौ सम्पूज्य देवेशं जागरं च समाचरेत्
गन्धैः पुष्पैस्तथा दीपैर्वस्त्रैराभरणैः शुभैः ॥ २९ ॥

जपैस्तोत्रैर्नमस्कारैः पूजयेन्निशि भक्तितः
ततः प्रभातसमये तुलसीमिश्रितैर्जलैः ॥ ३० ॥

स्नात्वा सम्यग्विधानेन सन्तर्प्य पितृदेवताः
पूजयेज्जगतामीशं लक्ष्म्या सह जनार्दनम् ॥ ३१ ॥

कोमलैस्तुलसीपत्रैः पुष्पैश्चैव सुगन्धिभिः
दीपान्नीराजयेत्तत्र वारमष्टोत्तरं शतम् ॥ ३२ ॥

शतपत्रकृतां मालां ताभ्यां सम्यङिनवेदयेत्
धूपं दीपं च नैवेद्यं ताम्बूलं च समर्प्पयेत् ॥ ३३ ॥

शर्करासहितं दिव्यं पायसान्नं समर्पयेत्
कर्पूरेण च संयुक्तं ताम्बूलं च निवेदयेत् ॥ ३४ ॥

प्रदक्षिणे नमस्कारं कृत्वा भक्त्या समन्वितः
आज्येन जुहुयाद्वह्नौ शतमष्टोत्तरं तथा ॥ ३५ ॥

प्रत्यृचं पुरुषसूक्तेन लक्ष्मीसूक्तेन पायसम्
ब्राह्मणान्भोजयेद्भक्त्या स्वयं भुञ्जीतवाग्यतः ॥ ३६ ॥

पुराणादि प्रपाठेन क्षपयेत्तद्दिनं महत्
क्षितिशायी ब्रह्मचारी तस्यामेव निशि स्वपेत् ॥ ३७ ॥

एवं सम्पूज्यमानं स द्वादश्यां कमलापतिः
क्षणात्प्रसन्नो भगवान्सर्वाभीष्टप्रदो ध्रुवम् ॥ ३८ ॥

इत्येतत्कथितं देवि द्वादशीव्रतमुत्तमम्
किमन्यच्छ्रोतुकामासि तद्वक्तव्यं ब्रवीम्यहम् ॥ ३९ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वरसंवादे द्वादशीमाहात्म्यन्नाम चतुस्त्रिंशदधिकद्विशततमोऽध्यायः २३४