२३३

शङ्कर उवाच-

विश्वास-प्रस्तुतिः

ततः प्रोवाच भगवान्सुरांश्चैव महामुनीन्
देव्या सह प्रहृष्टात्मा सर्वलोकहिताय वै ॥ १ ॥

मूलम्

ततः प्रोवाच भगवान्सुरांश्चैव महामुनीन्
देव्या सह प्रहृष्टात्मा सर्वलोकहिताय वै ॥ १ ॥

विश्वास-प्रस्तुतिः

श्रीभगवानुवाच-
शृणुध्वं मुनयः सर्वे देवताश्च महाबलाः
एकादशी महापुण्या सर्वोपद्रवनाशिनी ॥ २ ॥

मूलम्

श्रीभगवानुवाच-
शृणुध्वं मुनयः सर्वे देवताश्च महाबलाः
एकादशी महापुण्या सर्वोपद्रवनाशिनी ॥ २ ॥

विश्वास-प्रस्तुतिः

लक्ष्मीसन्दर्शनार्थाय भवद्भिः समुपोषिता
तस्मात्तु सर्वदा पुण्या द्वादशी मम वल्लभा ॥ ३ ॥

मूलम्

लक्ष्मीसन्दर्शनार्थाय भवद्भिः समुपोषिता
तस्मात्तु सर्वदा पुण्या द्वादशी मम वल्लभा ॥ ३ ॥

विश्वास-प्रस्तुतिः

अद्यप्रभृति ये लोका उषिताः पूर्ववासरे
द्वादश्यामुदिते भानौ श्रद्धया परया युताः ॥ ४ ॥

मूलम्

अद्यप्रभृति ये लोका उषिताः पूर्ववासरे
द्वादश्यामुदिते भानौ श्रद्धया परया युताः ॥ ४ ॥

विश्वास-प्रस्तुतिः

ये पूजयन्ति मां भक्त्या तुलस्या च श्रिया सह
सर्वे ते बन्ध निर्मुक्ताः प्राप्नुवन्ति पदं मम ॥ ५ ॥

मूलम्

ये पूजयन्ति मां भक्त्या तुलस्या च श्रिया सह
सर्वे ते बन्ध निर्मुक्ताः प्राप्नुवन्ति पदं मम ॥ ५ ॥

विश्वास-प्रस्तुतिः

नार्च्चयन्ति च ये वै मां द्वादश्यां पुरुषोत्तमम्
ते नराः पापकर्माणो मम मायाविमोहिताः ॥ ६ ॥

मूलम्

नार्च्चयन्ति च ये वै मां द्वादश्यां पुरुषोत्तमम्
ते नराः पापकर्माणो मम मायाविमोहिताः ॥ ६ ॥

विश्वास-प्रस्तुतिः

ये नार्चयन्ति पापिष्ठा नरा नरकगामिनः
तान्पापान्विषयैर्वद्धान्ममपूजापराङ्मुखान् ॥ ७ ॥

मूलम्

ये नार्चयन्ति पापिष्ठा नरा नरकगामिनः
तान्पापान्विषयैर्वद्धान्ममपूजापराङ्मुखान् ॥ ७ ॥

विश्वास-प्रस्तुतिः

क्षिपत्यजस्रं संसारे माया मम दुरत्यया
रुद्र उवाच-
एवमुक्त्वा तु भगवान्परमात्मा सनातनः ॥ ८ ॥

मूलम्

क्षिपत्यजस्रं संसारे माया मम दुरत्यया
रुद्र उवाच-
एवमुक्त्वा तु भगवान्परमात्मा सनातनः ॥ ८ ॥

विश्वास-प्रस्तुतिः

संस्तूयमानो मुनिभिः प्रययौ कमलालयम्
क्षीराब्धौ शेषपर्य्यङ्के विमाने सूर्य्यसन्निभे ॥ ९ ॥

मूलम्

संस्तूयमानो मुनिभिः प्रययौ कमलालयम्
क्षीराब्धौ शेषपर्य्यङ्के विमाने सूर्य्यसन्निभे ॥ ९ ॥

विश्वास-प्रस्तुतिः

देव्या सह विशालाक्ष्या रमया परमेश्वरः
दर्शनार्थं सुराणां च तत्र सन्निहितोऽभवत् ॥ १० ॥

मूलम्

देव्या सह विशालाक्ष्या रमया परमेश्वरः
दर्शनार्थं सुराणां च तत्र सन्निहितोऽभवत् ॥ १० ॥

विश्वास-प्रस्तुतिः

ततः सुरगणाः सर्वे कूर्मरूपं सनातनम्
भक्त्या सम्पूजयित्वाथ तुष्टुवुर्हृष्टमानसाः ॥ ११ ॥

मूलम्

ततः सुरगणाः सर्वे कूर्मरूपं सनातनम्
भक्त्या सम्पूजयित्वाथ तुष्टुवुर्हृष्टमानसाः ॥ ११ ॥

विश्वास-प्रस्तुतिः

ततः प्रसन्नो भवगान्कूर्मरूपी जनार्द्दनः
भगवानुवाच-
वरं वृणीध्वं देवेशा यद्वो मनसि वर्त्तते
रुद्र उवाच-
ततो देवगणाः सर्वे कूर्मरूपं जनार्दनम् ॥ १२ ॥

मूलम्

ततः प्रसन्नो भवगान्कूर्मरूपी जनार्द्दनः
भगवानुवाच-
वरं वृणीध्वं देवेशा यद्वो मनसि वर्त्तते
रुद्र उवाच-
ततो देवगणाः सर्वे कूर्मरूपं जनार्दनम् ॥ १२ ॥

विश्वास-प्रस्तुतिः

उचुः प्राञ्जलयः सर्वे हर्ष निर्भरमानसाः
देवा ऊचुः-
शेषस्य दिग्गजानां च सहायार्थं महाबल ॥ १३ ॥

मूलम्

उचुः प्राञ्जलयः सर्वे हर्ष निर्भरमानसाः
देवा ऊचुः-
शेषस्य दिग्गजानां च सहायार्थं महाबल ॥ १३ ॥

विश्वास-प्रस्तुतिः

धर्तुमर्हसि देवेश सप्तद्वीपवतीं महीम्
रुद्र उवाच-
एवमस्त्विति हृष्टात्मा भगवांल्लोकभावनः ॥ १४ ॥

मूलम्

धर्तुमर्हसि देवेश सप्तद्वीपवतीं महीम्
रुद्र उवाच-
एवमस्त्विति हृष्टात्मा भगवांल्लोकभावनः ॥ १४ ॥

विश्वास-प्रस्तुतिः

धारयामास धरणीं सप्तद्वीपसमावृताम्
ततो देवाः सगन्धर्वा दैत्यदानवमानुषाः ॥ १५ ॥

मूलम्

धारयामास धरणीं सप्तद्वीपसमावृताम्
ततो देवाः सगन्धर्वा दैत्यदानवमानुषाः ॥ १५ ॥

विश्वास-प्रस्तुतिः

महर्षिभिरनुज्ञाताः स्वर्लोकान्प्रतिपेदिरे
तदाप्रभृति ते सर्वे देवा ब्रह्मपुरोगमाः ॥ १६ ॥

मूलम्

महर्षिभिरनुज्ञाताः स्वर्लोकान्प्रतिपेदिरे
तदाप्रभृति ते सर्वे देवा ब्रह्मपुरोगमाः ॥ १६ ॥

विश्वास-प्रस्तुतिः

सिद्धा ये मानुषाश्चैव योगिनो मुनिसत्तमाः
विष्णोराज्ञां पुरस्कृत्य भक्त्या परमया युताः ॥ १७ ॥

मूलम्

सिद्धा ये मानुषाश्चैव योगिनो मुनिसत्तमाः
विष्णोराज्ञां पुरस्कृत्य भक्त्या परमया युताः ॥ १७ ॥

विश्वास-प्रस्तुतिः

एकादश्यामुपोष्याथ भक्त्या चैव जनार्दनम्
द्वादश्यामर्च्चनं चक्रुर्विधिना वरवर्णिनि ॥ १८ ॥

मूलम्

एकादश्यामुपोष्याथ भक्त्या चैव जनार्दनम्
द्वादश्यामर्च्चनं चक्रुर्विधिना वरवर्णिनि ॥ १८ ॥

विश्वास-प्रस्तुतिः

एतत्तु सर्वमाख्यातं देव्या जन्म वरानने
कौर्म्यं च वैभवं विष्णोः किमन्यच्छ्रोतुमिच्छसि ॥ १९ ॥

मूलम्

एतत्तु सर्वमाख्यातं देव्या जन्म वरानने
कौर्म्यं च वैभवं विष्णोः किमन्यच्छ्रोतुमिच्छसि ॥ १९ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वरसंवादे एकादश्युपवासकथनन्नाम त्रयस्त्रिंशदधिकद्विशततमोऽध्यायः २३३