२३२

शङ्कर उवाच-

विश्वास-प्रस्तुतिः

ततः सुरगणाः सर्वे दानवाद्या महाबलाः
उत्पाट्य मन्दरं शैलं चिक्षिपुः पयसान्निधौ ॥ १ ॥

मूलम्

ततो नारायणः श्रीमान्भगवान्भूतभावनः
कूर्मरूपेण तं शैलं दधारामितविक्रमः ॥ २ ॥

अनादिमध्यान्तवपुर्विश्वरूपः सनातनः
अधारयद्गिरिवरं सम्पूज्यो जगदीश्वरः ॥ ३ ॥

तथैकेन भुजेनैव ईश्वरः सर्वगोऽव्ययः
ततो देवासुराः सर्वे ममन्थुः क्षीरसागरम् ॥ ४ ॥

सर्प्पराजेन संवेष्ट्य घर्घरं मन्दराचलम्
मथ्यमानेऽथ दुग्धाब्धौ दैवतैः सुमहाबलैः ॥ ५ ॥

उत्पादनार्थं लक्ष्म्याश्च सर्व एव महर्षयः
उपोष्य नियमं कृत्वा जेपुः श्रीसूक्तमेव च ॥ ६ ॥

सहस्रनामपठनं चक्रुर्दिव्या द्विजोत्तमाः
एकादश्यां तु शुद्धायां मथ्यमाने महाम्बुधौ ॥ ७ ॥

उपोष्य ऋषयः सर्वे जप्तं श्रीमन्त्रमुत्तमम्
काङ्क्षमाणाश्च ये जप्तुं लक्ष्मीनारायणं हरिम् ॥ ८ ॥

ध्यात्वा समर्च्चयामासुर्द्विजाग्र्या मुनिसत्तमाः
ततस्तस्मिन्मुहूर्ते तु मथ्यमाने महाम्बुधौ ॥ ९ ॥

समभूत्तत्र प्रथमं कालकूटं महाविषम्
महापीडं महाघोरं संवर्ताग्निसमप्रभम् ॥ १० ॥

दृष्ट्वा प्रदुद्रुवुः सर्वे भयार्ता देवदानवाः
ततस्तान्विद्रुतान्दृष्ट्वा भयार्त्तान्सुरसत्तमान् ॥ ११ ॥

ततस्तानब्रुवं वाक्यमहं तत्र शुभेक्षणे
भोभो देवगणाः सर्वैर्न भेतव्यं विषं प्रति ॥ १२ ॥

अहमाहारयिष्यामि कालकूटं महाविषम्
इत्युक्तास्ते मया सर्वे देवा इन्द्र पुरोगमाः ॥ १३ ॥

साधुसाध्विति वाक्यैर्मां तुष्टुवुः प्रणता भृशम्
तद्दृष्ट्वा मेघसङ्काशं प्रादुर्भूतं महाविषम् ॥ १४ ॥

ध्यात्वा नारायणं देवं हृदये गरुडध्वजम्
उदयादित्यसङ्काशं शङ्खचक्रगदाधरम् ॥ १५ ॥

मूलम्

ध्यात्वा नारायणं देवं हृदये गरुडध्वजम्
उदयादित्यसङ्काशं शङ्खचक्रगदाधरम् ॥ १५ ॥

विश्वास-प्रस्तुतिः

श्रीभूमिसहितं देवं तप्तकाञ्चनकुण्डलम्
एकाग्रमनसा ध्यात्वा सर्वदुःखहरं प्रभुम् ॥ १६ ॥

नामरूपं महामन्त्रं जप्त्वा लक्ष्म्यासमन्वितम्
तद्विषं तु महाघोरमाद्यं सर्वभयङ्करम् ॥ १७ ॥

नामत्रयप्रभावाच्च विष्णोः सर्वगतस्य वै
विषं तदभवज्जीर्णं लोकसंहारकारकम् ॥ १८ ॥

मूलम्

नामत्रयप्रभावाच्च विष्णोः सर्वगतस्य वै
विषं तदभवज्जीर्णं लोकसंहारकारकम् ॥ १८ ॥

विश्वास-प्रस्तुतिः

अच्युतानन्त गोविन्द इति नामत्रयं हरेः
यो जपेत्प्रयतोभक्त्या प्रणवाद्यं नमोन्तकम् ॥ १९ ॥

तस्य मृत्युभयं नास्ति विषरोगाग्निजं महत्
नामत्रयं महामन्त्रं जपेद्यः प्रयतात्मवान् ॥ २० ॥

कालमृत्युभयं चापि तस्य नास्ति किमन्यतः
इति नामत्रयेणैव पीतं देवि मया विषम् ॥ २१ ॥

ततः प्रहृष्टास्त्रिदशास्तुष्टुवुर्मां सुविस्मिताः
मां प्रणम्य पुनर्देवा ममन्थुः क्षीरसागरम्
तस्मिन्प्रमथ्यमाने तु मया देवैश्च भामिनि ॥ २२ ॥

ज्येष्ठा देवी समुत्पन्ना रत्नस्रग्वाससा वृता
उत्पन्ना साऽब्रवीद्देवान्किङ्कर्त्तव्यं मयेति वै ॥ २३ ॥

तामब्रुवंस्तु ते देवीं सर्वदेवगणा भृशम्
देवा ऊचुः
येषां गृहान्तरे रम्ये कलहः सम्प्रवर्त्तते ॥ २४ ॥

तत्ते स्थानं प्रयच्छामो वस तत्राशुभान्विता
परुषं भाषणं नित्यं वदन्त्यनृतवादिनः ॥ २५ ॥

सन्ध्याकाले तु ये पापाः स्वपन्ति मलचेतसः
तेषां वेश्मनि सन्तिष्ठ दुःखदारिद्र्यदायिनी ॥ २६ ॥

कपालकेशभस्मास्थि तुषाङ्गारानि यत्र तु
तत्र ते सततं स्थानं भविष्यति न संशयः ॥ २७ ॥

यस्यवेश्म कपालास्थि भस्मकेशादि चिह्नितम्
तत्र वसाशुभे नित्यं कलिना सह नित्यशः ॥ २८ ॥

अकृत्वा पादयोः शौचं यस्त्वाचामति दुर्मतिः
तं भजस्व महादेवि कलुषेण भृशं वृतम् ॥ २९ ॥

तुषाङ्गारकपालाश्मवालुका वस्त्र चर्मभिः
दन्तधावनकर्तारो भविष्यन्ति नराधमाः ॥ ३० ॥

रमस्व कलिना देवि तेषां वेश्मसु नित्यशः
तिलपिष्टं कलञ्जं च कलिगं शिग्रु गृञ्जनम् ॥ ३१ ॥

छत्राकं विड्वराहं च बिल्वं कोशातकीफलम्
अलाबुं च पलाण्डुं च ये खादन्ति नराधमाः
तेषां गेहे ह्यवस्थानं देवी दारिद्र्यदे सदा ॥ ३२ ॥

रुद्र उवाच-
इत्यादिश्य सुराः सर्वे ज्येष्ठां च कलिवल्लभाम्
पुनश्च मन्थनं चक्रुः क्षीराब्धिं सुसमाहिताः ॥ ३३ ॥

ततश्च वारुणी देवी समुत्पन्ना शुभानने
अनन्तो नागराजोऽथ तां जग्राह सुलोचनाम् ॥ ३४ ॥

ततः सुरा समुत्पन्ना सर्वाभरणभूषिता
वैनतेयस्य भार्याभूत्सर्वलक्षणशोभिता ॥ ३५ ॥

ततोऽप्सरोगणा दिव्या गन्धर्वाश्च महौजसः
जज्ञिरे रूपसम्पन्ना मधुगायनतत्पराः ॥ ३६ ॥

ऐरावतस्ततो जज्ञे तथैवोच्चैःश्रवा हयः
धन्वन्तरिः पारिजातं सुरभिः सर्वकामधुक् ॥ ३७ ॥

एतान्सर्वान्सहस्राक्षो जग्राह प्रीतमानसः
ततः प्रभातसमये द्वादश्यामुदिते रवौ ॥ ३८ ॥

मथ्यमाने पुनस्तस्मिन्देवैरिन्द्र पुरोगमैः
ततः प्रहृष्टवदनैस्तूयमाना महर्षिभिः ॥ ३९ ॥

उत्पन्ना श्रीर्महालक्ष्मी सर्वलोकेश्वरी शुभा
बालार्ककोटिसङ्काशा कनकाङ्गदभूषिता ॥ ४० ॥

हेमाम्बुजसमासीना सर्वलक्षणशोभिता
पद्मपत्त्रविशालाक्षी नीलकुञ्चितमूर्द्धजा ॥ ४१ ॥

दिव्यचन्दनलिप्ताङ्गी दित्यपुष्पैरलङ्कृता
नानारत्नमयैर्दिव्यैः सर्वैराभरणैर्युता ॥ ४२ ॥

तनुमध्या जगद्धात्री पीनोन्नतपयोधरा
चतुर्हस्ता विशालाक्षी पूर्णेन्दुसदृशानना ॥ ४३ ॥

वसुपात्रं मातुलुङ्गं स्वर्णपद्मयुगं शुभम्
विभ्राणा हस्तकमलैः सर्वाभरणभूषितैः ॥ ४४ ॥

अम्लानपङ्कजां मालां धारयन्ती ह्युरः स्थले
ददृशुस्तां महादेवीं सर्वलोकहितैषिणीम् ॥ ४५ ॥

ईश्वरीं सर्वभूतानां मातरं पद्ममालिनीम्
नारायणीं जगद्धात्रीं नारायणहृदालयाम् ॥ ४६ ॥

तां विलोक्य महालक्ष्मीं प्रहृष्टाः सर्वदेवताः
अवादयन्तः पटहान् दिविदेवगणा भृशम् ॥ ४७ ॥

ववर्षुः पुष्पवर्षाणि वनदेव्यो निरन्तरम्
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥ ४८ ॥

ववुः पुण्यास्तथावाताः सुप्रभोऽभूद्दिवाकरः
जज्वलुश्चाग्नयः शान्ताः प्रसन्नाश्च दिशो दश ॥ ४९ ॥

अनन्तरं शीतरश्मिरुदभूत्क्षीरसागरे
सुधामयूखवान्सोमो मातुर्भ्राता सुखावहः ॥ ५० ॥

नक्षत्राधिपतिश्चाभूच्चन्द्रो वै लोकमातुलः
ततो जाया हरेः पुण्या तुलसी लोकपावनी ॥ ५१ ॥

समुत्पन्ना जगद्धात्री पूजार्थं शार्ङ्गिणो हरेः
ततः प्रहृष्टमनसः सर्वे देवा दिवौकसः ॥ ५२ ॥

तं शैलं पूर्ववत्स्थाप्य परिपूर्णमनोरथाः
समेत्य मातरं सर्वे शिवब्रह्मपुरोगमाः ॥ ५३ ॥

स्तुत्वा नामसहस्रेण जेपुः श्रीसूक्तसंहिताः
ततः प्रसन्ना सा देवि सर्वान्देवानुवाच ह ॥ ५४ ॥

श्रीरुवाच-
वरं वृणीध्वं भद्रं वो वरदाहं सुरोत्तमाः
रुद्र उवाच-
ऊचुः प्राञ्जलयो देवाः श्रियं नम्रात्ममूर्तयः ॥ ५५ ॥

देवा ऊचुः -
प्रसीद कमले देवि सर्वलोकेश्वरप्रिये
विष्णोर्वक्षस्थले देवि भव नित्यानपायिनी ॥ ५६ ॥

त्रैलोक्यं पालया देवी नित्या त्वं परमेश्वरी
यदपाङ्गाश्रितं सर्वं जगत्स्थावरजङ्गमम् ॥ ५७ ॥

त्वया विलोकिताः सर्वे प्रभवन्ति दिवौकसः
माता रुद्रादिदेवानामैश्वर्यं त्वत्कटाक्षतः ॥ ५८ ॥

एतदिच्छामहे देवि जगन्मातर्नमोस्तु ते
रुद्र उवाच-
इत्युक्ता दैवतैः सर्वैर्लोकमाता महेश्वरी ॥ ५९ ॥

एवमस्त्विति तान्देवान्प्राह नारायणप्रिया
ततो नारायणः श्रीशः शङ्खचक्रगदाधरः ॥ ६० ॥

तथैवाविरभूद्ब्रह्मा पूर्ववत्क्षीरसागरे
ततः प्रतुष्टुवुर्देवा नमस्कृत्वा जनार्दनम् ॥ ६१ ॥

ऊचुः प्राञ्जलयः सर्वे प्रहृष्टवदनाः शुभाः
देवा ऊचुः-
गृहाण देवीं सर्वेश महिषीं तव वल्लभाम् ॥ ६२ ॥

जगत्संरक्षणार्थाय लक्ष्मीमनपगामिनीम्
रुद्र उवाच-
इत्युक्त्वा मुनिभिः सर्वे देवा ब्रह्मपुरोगमाः ॥ ६३ ॥

नानारत्नमये दिव्ये पीठे बालार्कसन्निभे
निवेश्य देवीं देवं च आनन्दाश्रुपरिप्लुताः ॥ ६४ ॥

दिव्याम्बरैर्दिव्यमाल्यैर्नानारत्नविभूषितैः
लक्ष्म्या सह समासीनमर्चयामासुरच्युतम् ॥ ६५ ॥

गन्धैर्धूपैश्च दीपैश्च नैवेद्यैश्च सुधामयैः
अप्राकृतैः फलैर्दिव्यैरर्चयामासुरीश्वरीम् ॥ ६६ ॥

अमृतादुत्थिता देवी तुलसी कोमला शुभा
तया श्रीपादयुगलमर्च्चयामासुरञ्जसा ॥ ६७ ॥

प्रदक्षिणत्रयं कृत्वा नमस्कृत्वा मुहुर्मुहुः
तष्टुवुस्तुतिभिर्द्देवा हर्षपूर्णाश्रुविक्लवाः ॥ ६८ ॥

ततः प्रसन्नो भगवान्सर्वदेवेश्वरो हरिः
अभीष्टान्प्रददौ तेभ्यो वरान्देव्या सह प्रभुः ॥ ६९ ॥

ततः सुहृष्टाः सुरमानुषाद्या लक्ष्मीकटाक्षार्प्पित दृष्टिपूताः
प्रभूतधान्यार्थयुता निरन्तरं सुखं परं प्रापुरनामया भृशम् ७०