श्रीरुद्र उवाच-
विश्वास-प्रस्तुतिः
यत्कौर्म्यवैभवं विष्णोः सर्वलोकनमस्कृतम्
तद्वक्ष्यामि प्रिये सम्यक्शृणुष्वेकाग्रचेतसा ॥ १ ॥
मूलम्

अत्रिपुत्रो महातेजा दुर्वासा इति विश्रुतः
प्रचण्डः सर्वलोकानां क्षोभकारी महातपाः ॥ २ ॥

स ययौ हिमवत्पृष्ठं ब्रह्मर्षिस्तपसो निधिः
ममांशभूतो ब्रह्मर्षिः सर्वेषां भयदस्सदा ॥ ३ ॥

उषितस्तत्र वर्षं तु किन्नरीभिः स पूजितः
महेन्द्रं द्रष्टुकामोऽसौ स्वर्लोकं प्रययौ मुनिः ॥ ४ ॥

तस्मिन्काले महातेजा गजारूढं महेश्वरम्
ददर्श सर्वदेवैस्तं पूज्यमानं शचीपतिम् ॥ ५ ॥

तच्च दृष्ट्वा स हृष्टात्मा दुर्वासा सुमहातपाः
पारिजातस्रजं तस्मै प्रददौ विनयान्वितः ॥ ६ ॥

आदाय देवताधीशस्तां स्रजं गजमूर्द्धनि
विन्यस्य तत्र देवेशः प्रययौ नन्दनं प्रति ॥ ७ ॥

करेणादाय तां मालां मदोद्रिक्तस्ततो गजः
पीडयित्वाथ चिक्षेप संस्थितां धरणीतले ॥ ८ ॥

ततः क्रुद्धो महातेजा दुर्वासा रक्तलोचनः
प्रशप्तवान्महेन्द्रं तं सन्तप्तक्रोधवह्निना ॥ ९ ॥

दुर्वासा उवाच-
त्रैलोक्यैकश्रियायुक्तो यस्मान्मामवमन्यते
तस्मात्त्रैलोक्यश्रीर्नष्टा भवत्वेव न संशयः ॥ १० ॥

रुद्र उवाच-
इति शप्तस्ततः शक्रो जगाम स्वपुरं पुनः
ततः श्रीर्जगतां धात्री क्षणादन्तर्दधे स्वयम् ॥ ११ ॥

अन्तर्द्धानं गता लक्ष्मीस्तदा नष्टं जगत्त्रयम्
यदपाङ्गाश्रितं सर्वं जगत्स्थावरजङ्गमम् ॥ १२ ॥

तस्यामन्तर्द्धानवत्यां सर्वं नष्टतरं भवत्
ब्रह्मादि त्रिदशाः सर्वे गन्धर्वा यक्ष किन्नराः ॥ १३ ॥

दैत्याश्च दानावा नागा मनुष्या राक्षसास्तथा
पशवः पक्षिणः कीटाः सर्वे स्थावरजङ्गमाः ॥ १४ ॥

तया लक्ष्म्या जगन्मात्रा ते सर्वे नावलोकिताः
दारिद्र्येनैव विहितास्ते सर्वे दुःखभागिनः ॥ १५ ॥

क्षुत्पिपासार्दिता देवाश्चुक्रुशुर्गतचेतसः
न ववर्ष जलधरः सर्वे शुष्का जलाशयाः ॥ १६ ॥

सर्वे ते पादपा शुष्काः फलपुष्पविवर्जिताः
तदा देवाः सगन्धर्वा दैत्यदानवराक्षसाः ॥ १७ ॥

क्षुत्पिपासार्द्दिता जग्मुः ब्रह्माणममितौजसम्
ऊचुस्तं देवदेवेशमब्जयोनिं पितामहम् ॥ १८ ॥

देवा ऊचुः -
भगवन्क्षुत्पिपासाभ्यां पीडितं हि जगत्त्रयम्
न हुतं न वषट्कारः सर्वधर्मविवर्जितम् ॥ १९ ॥

क्षुत्पिपासार्द्दिताः सर्वे देवदानवमानवाः
त्रातारं सर्वलोकेशं भवन्तं शरणं गताः ॥ २० ॥

त्रातुमर्हसि देवेश क्षुत्पिपासार्दिताञ्जनान्
रुद्र उवाच-
इति तेषां वचः श्रुत्वा सर्वलोकपितामहः ॥ २१ ॥

उवाच परमप्रीतस्तान्सर्वान्प्रति मानदः
ब्रह्मोवाच-
शृणुध्वं देवताः सर्वे दैत्यगन्धर्वमानवाः ॥ २२ ॥

महेन्द्रस्यापचारेण सर्वमेतदुपस्थितम्
समुद्भूतमिदं घोरं जगत्संवर्त्तकं महत् ॥ २३ ॥

दुर्वासाः सुमहात्मातु यतः क्रोधमवाप्तवान्
तस्मात्क्रोधेन तेनेदं नष्टं लोकत्रयं सुराः ॥ २४ ॥

असौ रोषपरीतात्मा क्रोधेन कलुषीकृतः
जगत्त्रयं च श्रीनष्टं भवत्वित्याह दुर्मतिः ॥ २५ ॥

तच्छापाज्जगतां धात्री लक्ष्मीर्न्नारायणप्रिया
अन्तर्द्धानं गता देवी जगन्माता महेश्वरी ॥ २६ ॥

यदपाङ्गे क्षिता लोका भवन्ति सुखितास्तथा
नालोकिता जगन्मात्रा दुःखभागिन एव हि ॥ २७ ॥

तस्मात्सर्वे वयं गत्वा दुग्धाब्धौ स्थितमुत्तमम्
तत्र नारायणं देवमर्च्चयामः सनातनम् ॥ २८ ॥

तस्मिन्प्रसन्ने देवेशे शिवमेतद्भवेज्जगत्
इति निश्चित्य मनसा ब्रह्मा देवगणैर्युतः ॥ २९ ॥

भृग्वादिमुनिभिः सार्द्धं प्रययौ क्षीरसागरम्
क्षीराब्धावुत्तरतटे ब्रह्मरुद्रादिदेवताः ॥ ३० ॥

विष्णुं समर्च्चयामासुः पौरुषेण विधानतः
जपन्नष्टाक्षरं मन्त्रं पौरुषं सूक्तमेव च ॥ ३१ ॥

ध्यायन्तोऽनन्यमनसो जुहुवुः परमेश्वरम्
तुष्टुवुः स्तवनैर्दिव्यैर्नमश्चक्रुर्विचित्रधा ॥ ३२ ॥

ततः प्रसन्नो भगवान्सर्वेषां च दिवौकसाम्
तेषां सन्दर्शने तस्थौ स्तूयमानो महर्षिभिः ॥ ३३ ॥

वैनतेयं समारुह्य सर्वदेवमयं विभुम्
तं दृष्ट्वा जगतामीशं शङ्खचक्रगदाधरम् ॥ ३४ ॥

पीतवस्त्रं चतुर्बाहुं पुण्डरीकनिभेक्षणम्
श्रीवत्सकौस्तुभोरस्कं वनमालाविभूषितम् ॥ ३५ ॥

किरीटहारकेयूरनूपुरैरुपशोभितम्
तुष्टुवुर्जयशब्देन नमश्चक्रुर्निरन्तरम् ॥ ३६ ॥

ततः प्रोवाच भगवान्कृपया सर्वदेवताः
वरदोस्मि वरं देवा वृणीध्वमिति चाब्रवीत् ॥ ३७ ॥

इति श्रुत्वा तदा सर्वे देवा ब्रह्मपुरोगमाः
ऊचुः प्राञ्जलयो देवमिदं वचनमीश्वरम् ॥ ३८ ॥

देवा ऊचुः
भगवन्मुनिशापेन सम्प्रतीदं जगत्त्रयम्
क्षुत्पिपासार्दितं सर्वं सदेवासुरमानुषम् ॥ ३९ ॥

तस्माद्भवन्तं शरणं याताः स्म पुरुषोत्तम
त्राहि सर्वमिमं लोकं नान्यः शक्तो भवेत्क्वचित् ॥ ४० ॥

इत्युक्तो देवतैः सर्वैरच्युतः परमेश्वरः
विचार्य्यैतदुवाचैतान्देवान्ब्रह्मपुरोगमान् ॥ ४१ ॥

श्रीभगवानुवाच-
अत्रिसूनोर्मुनेः शापादन्तर्द्धानं गता रमा
कटाक्षदर्शनात्तस्या जगदैश्वर्य्यसंयुतम् ॥ ४२ ॥

तस्माद्यूयं सुराः सर्वे शिवब्रह्मपुरोगमाः
उत्पाट्य मन्दरं शैलं निधाय क्षीरसागरम् ॥ ४३ ॥

मन्दरं घर्घरं कृत्वा सर्प्पराजेन वेष्टितम्
कुरुध्वं मथनं देवा दैत्यगन्धर्वदानवैः ॥ ४४ ॥

उत्पद्यते च सा लक्ष्मीर्जगत्संरक्षणाय वै
तया हृष्टा महाभागा भविष्यथ न संशयः ॥ ४५ ॥

धारयाम्यहमेवाद्रिं कूर्मरूपेण संवृतः
मम शक्त्या सुरान्सर्वान्प्रविश्य च बलीयसः ॥ ४६ ॥

इत्युक्ता देवताः सर्वा हरिणा कामलक्षणे
साधुसाध्विति देवेशमूचुर्ब्रह्मपुरोगमाः ॥ ४७ ॥

संस्तूयमानो भगवानच्युतः सुरसत्तमैः
अन्तर्दधे ततः श्रीमान्सर्वलोकनमस्कृतः
सर्वाधारः सर्वदेवः सर्वत्र समदर्शनः ॥ ४८ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे
उमामहेश्वरसंवादे दुर्वाससःशापकथनन्नाम एकत्रिंशदधिकद्विशततमोऽध्यायः २३१