२३०

पार्वत्युवाच-

विश्वास-प्रस्तुतिः

भगवन्यत्रदेवेशो राक्षसान्मधुसूदनः
जघान केन रूपेण यथावद्वक्तुमर्हसि ॥ १ ॥

मूलम्

भगवन्यत्रदेवेशो राक्षसान्मधुसूदनः
जघान केन रूपेण यथावद्वक्तुमर्हसि ॥ १ ॥

विश्वास-प्रस्तुतिः

वैभवं च स्थवीयस्य मत्स्यकूर्मादिरूपकम्
विस्तरेण समाख्याहि मम प्रीत्या महेश्वर ॥ २ ॥

मूलम्

वैभवं च स्थवीयस्य मत्स्यकूर्मादिरूपकम्
विस्तरेण समाख्याहि मम प्रीत्या महेश्वर ॥ २ ॥

विश्वास-प्रस्तुतिः

महादेव उवाच-
शृणु देवि प्रवक्ष्यामि वैभवं स्वस्थमानसा
मत्स्यकूर्मादि यद्रूपमवतारात्मकं हरेः ॥ ३ ॥

मूलम्

महादेव उवाच-
शृणु देवि प्रवक्ष्यामि वैभवं स्वस्थमानसा
मत्स्यकूर्मादि यद्रूपमवतारात्मकं हरेः ॥ ३ ॥

विश्वास-प्रस्तुतिः

दीपादुत्पाद्यते दीपो यथावत्तद्भविष्यति
परावस्थापरेशस्य सव्यूहा विभवादयः ॥ ४ ॥

मूलम्

दीपादुत्पाद्यते दीपो यथावत्तद्भविष्यति
परावस्थापरेशस्य सव्यूहा विभवादयः ॥ ४ ॥

विश्वास-प्रस्तुतिः

उक्ता देवावतारास्तु विविधाकारकाः शुभाः
अर्च्चावतारा देवस्य वैभवाः परमात्मनः ॥ ५ ॥

मूलम्

उक्ता देवावतारास्तु विविधाकारकाः शुभाः
अर्च्चावतारा देवस्य वैभवाः परमात्मनः ॥ ५ ॥

विश्वास-प्रस्तुतिः

प्राजापत्येन वै ब्रह्मा स सम्राट्परमोत्सवः
भृगुं मरीचिमत्रिं च दक्षं कर्द्दममेव च ॥ ६ ॥

मूलम्

प्राजापत्येन वै ब्रह्मा स सम्राट्परमोत्सवः
भृगुं मरीचिमत्रिं च दक्षं कर्द्दममेव च ॥ ६ ॥

विश्वास-प्रस्तुतिः

पुलस्त्यं पुलहं चैव गिरिशं च तथा क्रतुम्
नवप्रजानां पतय इमे प्रोक्ता यथाक्रमम् ॥ ७ ॥

मूलम्

पुलस्त्यं पुलहं चैव गिरिशं च तथा क्रतुम्
नवप्रजानां पतय इमे प्रोक्ता यथाक्रमम् ॥ ७ ॥

विश्वास-प्रस्तुतिः

मरीचिर्भगवांस्तत्र जनयामास कश्यपम्
कश्यपस्याभवञ्जायाश्चतस्रः शुभदर्शने ॥ ८ ॥

मूलम्

मरीचिर्भगवांस्तत्र जनयामास कश्यपम्
कश्यपस्याभवञ्जायाश्चतस्रः शुभदर्शने ॥ ८ ॥

विश्वास-प्रस्तुतिः

अदितिश्च दितिश्चैव कद्रुश्च विनता तथा
अदितिर्जनयामास देवांस्तु शुभदर्शनान् ॥ ९ ॥

मूलम्

अदितिश्च दितिश्चैव कद्रुश्च विनता तथा
अदितिर्जनयामास देवांस्तु शुभदर्शनान् ॥ ९ ॥

विश्वास-प्रस्तुतिः

दितिश्च राक्षसान्पुत्रांस्तामसान्सुमहासुरान्
शम्बूकस्तु हयग्रीवो हिरण्याक्षो महाबलः ॥ १० ॥

मूलम्

दितिश्च राक्षसान्पुत्रांस्तामसान्सुमहासुरान्
शम्बूकस्तु हयग्रीवो हिरण्याक्षो महाबलः ॥ १० ॥

विश्वास-प्रस्तुतिः

हिरण्यकशिपुर्जम्भो मयाद्याः सुमहातपाः
मकरस्तु महावीर्यो ब्रह्मलोकमुपागतः ॥ ११ ॥

मूलम्

हिरण्यकशिपुर्जम्भो मयाद्याः सुमहातपाः
मकरस्तु महावीर्यो ब्रह्मलोकमुपागतः ॥ ११ ॥

विश्वास-प्रस्तुतिः

ब्रह्माणं मोहयित्वाऽसौ वेदाञ्जग्राह वीर्यवान्
ग्रसित्वा च श्रुतिं सोऽथ प्रविवेश महार्णवम् ॥ १२ ॥

मूलम्

ब्रह्माणं मोहयित्वाऽसौ वेदाञ्जग्राह वीर्यवान्
ग्रसित्वा च श्रुतिं सोऽथ प्रविवेश महार्णवम् ॥ १२ ॥

विश्वास-प्रस्तुतिः

ततः सर्वं जगच्छून्यमभवद्धर्मसङ्करः
नाधीतं न वषट्कारं वर्णाश्रमविवर्जितम् ॥ १३ ॥

मूलम्

ततः सर्वं जगच्छून्यमभवद्धर्मसङ्करः
नाधीतं न वषट्कारं वर्णाश्रमविवर्जितम् ॥ १३ ॥

विश्वास-प्रस्तुतिः

ततः प्रजापतिर्देवः सर्वदेवगणैर्वृतः
गत्वा दुग्धाम्बुधिं देवं तुष्टाव शरणं गतः ॥ १४ ॥

मूलम्

ततः प्रजापतिर्देवः सर्वदेवगणैर्वृतः
गत्वा दुग्धाम्बुधिं देवं तुष्टाव शरणं गतः ॥ १४ ॥

विश्वास-प्रस्तुतिः

ब्रह्मोवाच-
प्रसीद देव मे नाथ नागपर्यङ्कसंस्थित
सर्वेश सर्वदेवात्मन्सर्ववेदमयाच्युत ॥ १५ ॥

मूलम्

ब्रह्मोवाच-
प्रसीद देव मे नाथ नागपर्यङ्कसंस्थित
सर्वेश सर्वदेवात्मन्सर्ववेदमयाच्युत ॥ १५ ॥

विश्वास-प्रस्तुतिः

आद्यं जगद्भुवो बीजं मध्ये त्वं सर्वतोऽधिकः
अन्ते च पशुनाथस्त्वं स्वेच्छया तस्तमेव च ॥ १६ ॥

मूलम्

आद्यं जगद्भुवो बीजं मध्ये त्वं सर्वतोऽधिकः
अन्ते च पशुनाथस्त्वं स्वेच्छया तस्तमेव च ॥ १६ ॥

विश्वास-प्रस्तुतिः

त्वमेव धत्से चिद्रूपं जगत्सर्वं सनातनम्
त्वमव्यक्तो हि भूतादिः प्रधानपुरुषोऽव्ययः ॥ १७ ॥

मूलम्

त्वमेव धत्से चिद्रूपं जगत्सर्वं सनातनम्
त्वमव्यक्तो हि भूतादिः प्रधानपुरुषोऽव्ययः ॥ १७ ॥

विश्वास-प्रस्तुतिः

त्वमादिमध्यान्तवपुर्जगतः परमेश्वरः
त्वमेव सर्वलोकानामाश्रयः पुरुषोत्तमः ॥ १८ ॥

मूलम्

त्वमादिमध्यान्तवपुर्जगतः परमेश्वरः
त्वमेव सर्वलोकानामाश्रयः पुरुषोत्तमः ॥ १८ ॥

विश्वास-प्रस्तुतिः

भूतादिस्त्वं महद्भूतं भूतसङ्घस्य कारणम्
त्वमेव कारणमाश्रित्य रमते धाम आत्मवान् ॥ १९ ॥

मूलम्

भूतादिस्त्वं महद्भूतं भूतसङ्घस्य कारणम्
त्वमेव कारणमाश्रित्य रमते धाम आत्मवान् ॥ १९ ॥

विश्वास-प्रस्तुतिः

त्वमादिभूतश्चान्तस्त्वं त्वं वायुः सर्वगो महान्
त्वमादिस्त्वमनादिश्च त्वमग्निस्तेजसां निधिः ॥ २० ॥

मूलम्

त्वमादिभूतश्चान्तस्त्वं त्वं वायुः सर्वगो महान्
त्वमादिस्त्वमनादिश्च त्वमग्निस्तेजसां निधिः ॥ २० ॥

विश्वास-प्रस्तुतिः

त्वमापः सर्वजगतां जीवनं परमेश्वरः
त्वं भूमिर्जगदाधारो भूधरस्त्वं महामते ॥ २१ ॥

मूलम्

त्वमापः सर्वजगतां जीवनं परमेश्वरः
त्वं भूमिर्जगदाधारो भूधरस्त्वं महामते ॥ २१ ॥

विश्वास-प्रस्तुतिः

सरितं सागरस्त्वं वै सर्वस्यादिस्त्वमेव च
देवर्षिः सर्वभूतानि त्वमेव पुरुषोत्तम ॥ २२ ॥

मूलम्

सरितं सागरस्त्वं वै सर्वस्यादिस्त्वमेव च
देवर्षिः सर्वभूतानि त्वमेव पुरुषोत्तम ॥ २२ ॥

विश्वास-प्रस्तुतिः

त्वयैव प्रेरिता लोकाश्चेष्टन्ते साध्वसाधुषु
दैत्येनोपद्रुता वेदाः प्रविष्टा महदर्णवम् ॥ २३ ॥

मूलम्

त्वयैव प्रेरिता लोकाश्चेष्टन्ते साध्वसाधुषु
दैत्येनोपद्रुता वेदाः प्रविष्टा महदर्णवम् ॥ २३ ॥

विश्वास-प्रस्तुतिः

वेदाधारमिदं सर्वं जगत्स्थावरजङ्गमम्
वेदाश्चैव हि सर्वेषां धर्माणां परितः स्थितिः ॥ २४ ॥

मूलम्

वेदाधारमिदं सर्वं जगत्स्थावरजङ्गमम्
वेदाश्चैव हि सर्वेषां धर्माणां परितः स्थितिः ॥ २४ ॥

विश्वास-प्रस्तुतिः

वेदेषु सर्वदेवानां नित्यतृप्तिर्भविष्यति
तस्माद्वेदान्समानेतुं त्वमेवार्हसि केशव ॥ २५ ॥

मूलम्

वेदेषु सर्वदेवानां नित्यतृप्तिर्भविष्यति
तस्माद्वेदान्समानेतुं त्वमेवार्हसि केशव ॥ २५ ॥

विश्वास-प्रस्तुतिः

श्रीमहादेव उवाच-
एवमुक्तो हृषीकेशो ब्रह्मणा परमेश्वरः
मत्स्यरूपं समास्थाय प्रविवेश महोदधिम् ॥ २६ ॥

मूलम्

श्रीमहादेव उवाच-
एवमुक्तो हृषीकेशो ब्रह्मणा परमेश्वरः
मत्स्यरूपं समास्थाय प्रविवेश महोदधिम् ॥ २६ ॥

विश्वास-प्रस्तुतिः

तं दैत्यं सुमहाघोरं माकरंरूपमास्थितः
तुण्डाग्रेण विदार्याथ जघानामरपूजितं ॥ २७ ॥

मूलम्

तं दैत्यं सुमहाघोरं माकरंरूपमास्थितः
तुण्डाग्रेण विदार्याथ जघानामरपूजितं ॥ २७ ॥

विश्वास-प्रस्तुतिः

तं हत्वा सर्ववेदांश्च साङ्गोपाङ्गसमन्वितान्
गृहीत्वा प्रददौ तस्मै ब्रह्मणे स महाद्युतिः ॥ २८ ॥

मूलम्

तं हत्वा सर्ववेदांश्च साङ्गोपाङ्गसमन्वितान्
गृहीत्वा प्रददौ तस्मै ब्रह्मणे स महाद्युतिः ॥ २८ ॥

विश्वास-प्रस्तुतिः

अन्योन्यमिश्रिता वेदा ग्रसितास्तेन रक्षसा
व्यक्ता भगवता तेन व्यासरूपेण धीमता ॥ २९ ॥

मूलम्

अन्योन्यमिश्रिता वेदा ग्रसितास्तेन रक्षसा
व्यक्ता भगवता तेन व्यासरूपेण धीमता ॥ २९ ॥

विश्वास-प्रस्तुतिः

पृथग्भूता समं वेदा व्यासेनैव महात्मना
एवं मत्स्यावतारेण रक्षिताः सर्वदेवताः ॥ ३० ॥

मूलम्

पृथग्भूता समं वेदा व्यासेनैव महात्मना
एवं मत्स्यावतारेण रक्षिताः सर्वदेवताः ॥ ३० ॥

विश्वास-प्रस्तुतिः

श्रुतिप्रदानेन जगत्त्रयं तदा कृत्वा निरातङ्कमहो रमाधवः
संस्तूयमानः सुरसिद्धसङ्घैरन्तर्दधे योगिभिरर्च्चिताङ्घ्रिः
वासुदेवो हि भवगान्सर्वदेवमयो हरिः ॥ ३१ ॥

मूलम्

श्रुतिप्रदानेन जगत्त्रयं तदा कृत्वा निरातङ्कमहो रमाधवः
संस्तूयमानः सुरसिद्धसङ्घैरन्तर्दधे योगिभिरर्च्चिताङ्घ्रिः
वासुदेवो हि भवगान्सर्वदेवमयो हरिः ॥ ३१ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे उमामहेश्वर
संवादे मत्स्यावतारवर्णनन्नाम त्रिंशदधिकद्विशततमोऽध्यायः २३०