पार्वत्युवाच-
विश्वास-प्रस्तुतिः
विस्तरेण ममाख्याहि देवसर्गमनुत्तमम्
ब्रह्मादि त्रिदिवश्रेष्ठाः कथं जाताः सनातनाः
ईश्वरस्यावतारांश्च विस्तरेण वदस्व मे ॥ १ ॥
मूलम्
विस्तरेण ममाख्याहि देवसर्गमनुत्तमम्
ब्रह्मादि त्रिदिवश्रेष्ठाः कथं जाताः सनातनाः
ईश्वरस्यावतारांश्च विस्तरेण वदस्व मे ॥ १ ॥
विश्वास-प्रस्तुतिः
रुद्र उवाच-
आकाशानिलतेजोम्बु भुवः सृष्टा यथाक्रमम्
तासां मध्येऽसृजद्ब्रह्मा अगाधजलमर्णवम् ॥ २ ॥
मूलम्
रुद्र उवाच-
आकाशानिलतेजोम्बु भुवः सृष्टा यथाक्रमम्
तासां मध्येऽसृजद्ब्रह्मा अगाधजलमर्णवम् ॥ २ ॥
विश्वास-प्रस्तुतिः
अस्मिन्नेकार्णवीभूते जलमायावटच्छदे
आदाय सर्वभूतानि योगनिद्रां ययौ हरिः ॥ ३ ॥
मूलम्
अस्मिन्नेकार्णवीभूते जलमायावटच्छदे
आदाय सर्वभूतानि योगनिद्रां ययौ हरिः ॥ ३ ॥
विश्वास-प्रस्तुतिः
स जगत्स्रष्टुकामस्तु योगनिद्रामुपेयिवान्
तया रेमे चिरं कालं मायया मधुसूदनः ॥ ४ ॥
मूलम्
स जगत्स्रष्टुकामस्तु योगनिद्रामुपेयिवान्
तया रेमे चिरं कालं मायया मधुसूदनः ॥ ४ ॥
विश्वास-प्रस्तुतिः
तस्यां तु जनयामास कालात्मानमनुत्तमम्
कलाकाष्ठादि भूता ये पक्षमासादिरूपिणः ॥ ५ ॥
मूलम्
तस्यां तु जनयामास कालात्मानमनुत्तमम्
कलाकाष्ठादि भूता ये पक्षमासादिरूपिणः ॥ ५ ॥
विश्वास-प्रस्तुतिः
तस्मिन्काले हरेर्न्नाभिपङ्कजं मुकुलाकृति
विकसत्सर्वजगतो बीजभूतं सुवर्चसम् ॥ ६ ॥
मूलम्
तस्मिन्काले हरेर्न्नाभिपङ्कजं मुकुलाकृति
विकसत्सर्वजगतो बीजभूतं सुवर्चसम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
उदस्थादुदभूत्तत्र ब्रह्मा च सुमहामतिः
स जगत्स्रष्टुकामस्तु रजोगुणविचोदितः
तुष्टाव योगनिद्रायां शयानं परमेश्वरम् ॥ ७ ॥
मूलम्
उदस्थादुदभूत्तत्र ब्रह्मा च सुमहामतिः
स जगत्स्रष्टुकामस्तु रजोगुणविचोदितः
तुष्टाव योगनिद्रायां शयानं परमेश्वरम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
ब्रह्मोवाच-
नमोस्तु विष्णवे तुभ्यं सर्गस्थित्यन्तहेतवे
जगद्भूषणभूषाय श्रीमते विश्वरूपिणे ॥ ८ ॥
मूलम्
ब्रह्मोवाच-
नमोस्तु विष्णवे तुभ्यं सर्गस्थित्यन्तहेतवे
जगद्भूषणभूषाय श्रीमते विश्वरूपिणे ॥ ८ ॥
विश्वास-प्रस्तुतिः
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च
जगद्धिताय कृष्णाय गोविन्दाय नमोनमः ॥ ९ ॥
मूलम्
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च
जगद्धिताय कृष्णाय गोविन्दाय नमोनमः ॥ ९ ॥
विश्वास-प्रस्तुतिः
प्रधानकालरूपाय पुरुषायेश्वराय च
नमः प्रपञ्चरूपाय निष्प्रपञ्चस्वरूपिणे ॥ १० ॥
मूलम्
प्रधानकालरूपाय पुरुषायेश्वराय च
नमः प्रपञ्चरूपाय निष्प्रपञ्चस्वरूपिणे ॥ १० ॥
विश्वास-प्रस्तुतिः
नारायणाय विश्वाय विश्वेशाय नमोनमः
श्रीभूलीलाधिपतये ब्रह्मणे परमात्मने ॥ ११ ॥
मूलम्
नारायणाय विश्वाय विश्वेशाय नमोनमः
श्रीभूलीलाधिपतये ब्रह्मणे परमात्मने ॥ ११ ॥
विश्वास-प्रस्तुतिः
नमोस्तु वासुदेवाय विश्वरूपाय शार्ङ्गिणे
त्रयीनाथाय हरये विश्वनाथस्वरूपिणे ॥ १२ ॥
मूलम्
नमोस्तु वासुदेवाय विश्वरूपाय शार्ङ्गिणे
त्रयीनाथाय हरये विश्वनाथस्वरूपिणे ॥ १२ ॥
विश्वास-प्रस्तुतिः
अनन्तकल्याणगुणपरिपूर्णाय ते नमः
जगच्च सर्वं स्वपिति त्वयि सुप्ते जगन्मये ॥ १३ ॥
मूलम्
अनन्तकल्याणगुणपरिपूर्णाय ते नमः
जगच्च सर्वं स्वपिति त्वयि सुप्ते जगन्मये ॥ १३ ॥
विश्वास-प्रस्तुतिः
वृतं सर्वं जगन्नाथ प्रपञ्चे सचराचरम्
त्वमेव कारणं कर्त्ता कार्य्यं च त्रिगुणोद्भवम् ॥ १४ ॥
मूलम्
वृतं सर्वं जगन्नाथ प्रपञ्चे सचराचरम्
त्वमेव कारणं कर्त्ता कार्य्यं च त्रिगुणोद्भवम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
स्रष्टा ध्याता विधाता च त्वमेव परमेश्वरः
जागर्षिशुद्धसत्वस्थस्तवनिद्रा कुतःप्रभो
देवत्वयि स्थितालोकाः समाधिष्ठाः सनातनाः ॥ १५ ॥
मूलम्
स्रष्टा ध्याता विधाता च त्वमेव परमेश्वरः
जागर्षिशुद्धसत्वस्थस्तवनिद्रा कुतःप्रभो
देवत्वयि स्थितालोकाः समाधिष्ठाः सनातनाः ॥ १५ ॥
विश्वास-प्रस्तुतिः
शिवउवाच-
एवमुक्तो हृषीकेशो ब्रह्मणा परमेश्वरः
उत्तस्थौ शयनात्तस्माद्विमुक्तो योगनिद्रया ॥ १६ ॥
मूलम्
शिवउवाच-
एवमुक्तो हृषीकेशो ब्रह्मणा परमेश्वरः
उत्तस्थौ शयनात्तस्माद्विमुक्तो योगनिद्रया ॥ १६ ॥
विश्वास-प्रस्तुतिः
नियम्य योगनिद्रां तां जगत्स्रष्टुं प्रचक्रमे
अचिन्त्यस्तत्क्षणाद्देवो जगतां प्रभुरच्युतः ॥ १७ ॥
मूलम्
नियम्य योगनिद्रां तां जगत्स्रष्टुं प्रचक्रमे
अचिन्त्यस्तत्क्षणाद्देवो जगतां प्रभुरच्युतः ॥ १७ ॥
विश्वास-प्रस्तुतिः
चिन्तयित्वा जगत्सर्वमसृजत्स पुमांस्ततः
लोकान्सर्वांस्तदा ह्यप्सु गतमण्डं हिरण्मयम् ॥ १८ ॥
मूलम्
चिन्तयित्वा जगत्सर्वमसृजत्स पुमांस्ततः
लोकान्सर्वांस्तदा ह्यप्सु गतमण्डं हिरण्मयम् ॥ १८ ॥
विश्वास-प्रस्तुतिः
सप्तद्वीपान्समुद्रान्तान्मेदिनी भूधरैर्युतान्
सहैकाण्डकटाहेन नाभिपद्मेऽसृजत्प्रभुः ॥ १९ ॥
मूलम्
सप्तद्वीपान्समुद्रान्तान्मेदिनी भूधरैर्युतान्
सहैकाण्डकटाहेन नाभिपद्मेऽसृजत्प्रभुः ॥ १९ ॥
विश्वास-प्रस्तुतिः
तदण्डमध्ये चास्थानमीश्वरः कृतवान्हरिः
अथ नारायणङ्कस्तु दध्यावध्यात्मचेतसा ॥ २० ॥
मूलम्
तदण्डमध्ये चास्थानमीश्वरः कृतवान्हरिः
अथ नारायणङ्कस्तु दध्यावध्यात्मचेतसा ॥ २० ॥
विश्वास-प्रस्तुतिः
ध्यानान्ते तस्य भालात्तु स्वेदबिन्दुरजायत
स बिन्दुर्बुद्बुदाकारः पृथिव्यामपतत्क्षणात् ॥ २१ ॥
मूलम्
ध्यानान्ते तस्य भालात्तु स्वेदबिन्दुरजायत
स बिन्दुर्बुद्बुदाकारः पृथिव्यामपतत्क्षणात् ॥ २१ ॥
विश्वास-प्रस्तुतिः
तस्मात्तु बुद्बुदात्सोऽहमुत्पन्नोस्मि वरानने
त्र्यक्षस्त्रिशूलहस्तोऽहं जटामुकुटमण्डितः ॥ २२ ॥
मूलम्
तस्मात्तु बुद्बुदात्सोऽहमुत्पन्नोस्मि वरानने
त्र्यक्षस्त्रिशूलहस्तोऽहं जटामुकुटमण्डितः ॥ २२ ॥
विश्वास-प्रस्तुतिः
किङ्करोमीति देवेशमवोचं विनयान्वितः
ततो नारायणो देवो मामित्याह मुदान्वितः ॥ २३ ॥
मूलम्
किङ्करोमीति देवेशमवोचं विनयान्वितः
ततो नारायणो देवो मामित्याह मुदान्वितः ॥ २३ ॥
विश्वास-प्रस्तुतिः
कर्त्तासि जगतो रुद्र संहारं भीमदर्शनम्
साक्षात्सङ्कर्षणांशेन संहारार्थे वरानने ॥ २४ ॥
मूलम्
कर्त्तासि जगतो रुद्र संहारं भीमदर्शनम्
साक्षात्सङ्कर्षणांशेन संहारार्थे वरानने ॥ २४ ॥
विश्वास-प्रस्तुतिः
तस्मान्नारायणाद्देवि उत्पन्नोस्मि भयङ्करः
नियोज्य मां तु संहारे पुनरेव जनार्दनः ॥ २५ ॥
मूलम्
तस्मान्नारायणाद्देवि उत्पन्नोस्मि भयङ्करः
नियोज्य मां तु संहारे पुनरेव जनार्दनः ॥ २५ ॥
विश्वास-प्रस्तुतिः
नेत्राभ्यामसृजच्चन्द्रसूर्य्यौ ध्वान्तापहारिणौ
वायुं दिशश्च श्रोत्राभ्यामिन्द्राग्नीमुखतोऽसृजत् ॥ २६ ॥
मूलम्
नेत्राभ्यामसृजच्चन्द्रसूर्य्यौ ध्वान्तापहारिणौ
वायुं दिशश्च श्रोत्राभ्यामिन्द्राग्नीमुखतोऽसृजत् ॥ २६ ॥
विश्वास-प्रस्तुतिः
नासाभ्यां वरुणं मित्रमसृजत्पङ्कजेक्षणः
बाहुभ्यामखिलान्देवान्ससाध्यान्समरुद्गणान् ॥ २७ ॥
मूलम्
नासाभ्यां वरुणं मित्रमसृजत्पङ्कजेक्षणः
बाहुभ्यामखिलान्देवान्ससाध्यान्समरुद्गणान् ॥ २७ ॥
विश्वास-प्रस्तुतिः
समस्तरोमकूपेभ्यो रत्नान्योषधयस्तथा
त्वचि शैलान्समुद्राश्च गवाद्याः पशवस्तथा ॥ २८ ॥
मूलम्
समस्तरोमकूपेभ्यो रत्नान्योषधयस्तथा
त्वचि शैलान्समुद्राश्च गवाद्याः पशवस्तथा ॥ २८ ॥
विश्वास-प्रस्तुतिः
मुखतो ब्राह्मणः सृष्टो बाहुभ्यां क्षत्रियस्तथा
ऊर्वोर्वैश्यस्ततः पद्भ्यां शूद्रश्चैवमजायत ॥ २९ ॥
मूलम्
मुखतो ब्राह्मणः सृष्टो बाहुभ्यां क्षत्रियस्तथा
ऊर्वोर्वैश्यस्ततः पद्भ्यां शूद्रश्चैवमजायत ॥ २९ ॥
विश्वास-प्रस्तुतिः
एवं सृष्ट्वा जगत्सर्वमचेतनमवस्थितम्
विश्वरूपेण देवेशो यस्यान्तरमधिष्ठितः ॥ ३० ॥
मूलम्
एवं सृष्ट्वा जगत्सर्वमचेतनमवस्थितम्
विश्वरूपेण देवेशो यस्यान्तरमधिष्ठितः ॥ ३० ॥
विश्वास-प्रस्तुतिः
शक्त्या विना हरेस्तस्य नोन्मेषो विद्यते यतः
तस्मात्सर्वजगत्प्राणो विष्णुरेव सनातनः ॥ ३१ ॥
मूलम्
शक्त्या विना हरेस्तस्य नोन्मेषो विद्यते यतः
तस्मात्सर्वजगत्प्राणो विष्णुरेव सनातनः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
स एवाव्यक्तरूपः सन्परमात्मा व्यवस्थितः
सर्गस्थितिलयं ब्रह्मा स्वयमेव प्रवर्त्तते ॥ ३२ ॥
मूलम्
स एवाव्यक्तरूपः सन्परमात्मा व्यवस्थितः
सर्गस्थितिलयं ब्रह्मा स्वयमेव प्रवर्त्तते ॥ ३२ ॥
विश्वास-प्रस्तुतिः
षाड्गुण्यपरिपूर्णोऽसौ वासुदेवः सनातनः
त्रिगुणादात्मनोरूपं चतुर्द्धा कुरुते जगत् ॥ ३३ ॥
मूलम्
षाड्गुण्यपरिपूर्णोऽसौ वासुदेवः सनातनः
त्रिगुणादात्मनोरूपं चतुर्द्धा कुरुते जगत् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
प्रद्युम्नमूर्त्तिर्भगवान्सर्वैश्वर्य्यसमन्वितः
विधेः प्रजापतीनां च कालस्य च जनस्य च ॥ ३४ ॥
मूलम्
प्रद्युम्नमूर्त्तिर्भगवान्सर्वैश्वर्य्यसमन्वितः
विधेः प्रजापतीनां च कालस्य च जनस्य च ॥ ३४ ॥
विश्वास-प्रस्तुतिः
अन्तर्य्यामित्वमापन्नो सर्गं सम्यक्करोति हि
सेतिहासांस्ततो वेदान्ददौ तस्मै महात्मने ॥ ३५ ॥
मूलम्
अन्तर्य्यामित्वमापन्नो सर्गं सम्यक्करोति हि
सेतिहासांस्ततो वेदान्ददौ तस्मै महात्मने ॥ ३५ ॥
विश्वास-प्रस्तुतिः
प्रद्युम्नस्यांशभागोऽसौ ब्रह्मा लोकपितामहः
जगत्सर्गस्थितिं सर्वं प्रकरोत्यंशसम्भवः ॥ ३६ ॥
मूलम्
प्रद्युम्नस्यांशभागोऽसौ ब्रह्मा लोकपितामहः
जगत्सर्गस्थितिं सर्वं प्रकरोत्यंशसम्भवः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
अनिरुद्धश्च भगवाञ्छक्तितेजः समन्वितः
मनूनां पार्थिवानां च कालस्य च जनस्य च ॥ ३७ ॥
मूलम्
अनिरुद्धश्च भगवाञ्छक्तितेजः समन्वितः
मनूनां पार्थिवानां च कालस्य च जनस्य च ॥ ३७ ॥
विश्वास-प्रस्तुतिः
स्थितिं करोति भगवानन्तर्य्यामित्वमास्थितः
सङ्कर्षणो महाविष्णुर्विद्याबलसमन्वितः ॥ ३८ ॥
मूलम्
स्थितिं करोति भगवानन्तर्य्यामित्वमास्थितः
सङ्कर्षणो महाविष्णुर्विद्याबलसमन्वितः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
कालस्य सर्वभूतानां रुद्रस्य च यमस्य च
अन्तर्य्यामित्वमास्थाय जगत्संहरते प्रभुः ॥ ३९ ॥
मूलम्
कालस्य सर्वभूतानां रुद्रस्य च यमस्य च
अन्तर्य्यामित्वमास्थाय जगत्संहरते प्रभुः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
इत्यन्तर्य्याम्यवस्थायामन्तर्य्यामित्वमात्मनः
मत्स्यः कूर्मो वराहश्च नरसिंहोऽथ वामनः ॥ ४० ॥
मूलम्
इत्यन्तर्य्याम्यवस्थायामन्तर्य्यामित्वमात्मनः
मत्स्यः कूर्मो वराहश्च नरसिंहोऽथ वामनः ॥ ४० ॥
विश्वास-प्रस्तुतिः
रामो रामश्च कृष्णश्च बुद्धः कल्की च ते दश
एते तु विभवावस्था ब्रह्मणः परमात्मनः ॥ ४१ ॥
मूलम्
रामो रामश्च कृष्णश्च बुद्धः कल्की च ते दश
एते तु विभवावस्था ब्रह्मणः परमात्मनः ॥ ४१ ॥
विश्वास-प्रस्तुतिः
नृसिंहरामकृष्णेषु षाड्गुण्यं परिकीर्तितम्
परावस्था तु देवस्य दीपादुत्पन्न दीपवत् ॥ ४२ ॥
मूलम्
नृसिंहरामकृष्णेषु षाड्गुण्यं परिकीर्तितम्
परावस्था तु देवस्य दीपादुत्पन्न दीपवत् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
सा ह्यवस्था हरेरस्य शृणुष्व गिरिजे शुभे
वैकुण्ठं परमं लोकं विष्णुलोकमनुत्तमम् ॥ ४३ ॥
मूलम्
सा ह्यवस्था हरेरस्य शृणुष्व गिरिजे शुभे
वैकुण्ठं परमं लोकं विष्णुलोकमनुत्तमम् ॥ ४३ ॥
विश्वास-प्रस्तुतिः
श्वेतदीपं स्वरूपं तु क्षीरसागरमुत्तमम्
एवं चतुर्द्धा व्यूहं तु सम्यगुक्तं महर्षिभिः ॥ ४४ ॥
मूलम्
श्वेतदीपं स्वरूपं तु क्षीरसागरमुत्तमम्
एवं चतुर्द्धा व्यूहं तु सम्यगुक्तं महर्षिभिः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
जलावरणमध्ये तु वैकुण्ठं कारणं शुभम्
कोटिवैश्वानरप्रख्यं सर्वं धर्मवदव्ययम् ॥ ४५ ॥
मूलम्
जलावरणमध्ये तु वैकुण्ठं कारणं शुभम्
कोटिवैश्वानरप्रख्यं सर्वं धर्मवदव्ययम् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
आमोदमन्दारकरैर्वृक्षैर्वह्निभिरास्थितम्
नानामणिमयं दिव्यं विमानकोटिभिर्य्युतम् ॥ ४६ ॥
मूलम्
आमोदमन्दारकरैर्वृक्षैर्वह्निभिरास्थितम्
नानामणिमयं दिव्यं विमानकोटिभिर्य्युतम् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
यदुक्तं परमं धाम तादृक्लक्षणसंस्थितम्
तस्मिन्वैकुण्ठनगरे नानारत्नसमुज्ज्वले ॥ ४७ ॥
मूलम्
यदुक्तं परमं धाम तादृक्लक्षणसंस्थितम्
तस्मिन्वैकुण्ठनगरे नानारत्नसमुज्ज्वले ॥ ४७ ॥
विश्वास-प्रस्तुतिः
मध्ये देवजयारामं पुरं रम्यमनुत्तमम्
चतुर्द्वारसमायुक्तं हेमप्राकारतोरणम् ॥ ४८ ॥
मूलम्
मध्ये देवजयारामं पुरं रम्यमनुत्तमम्
चतुर्द्वारसमायुक्तं हेमप्राकारतोरणम् ॥ ४८ ॥
विश्वास-प्रस्तुतिः
चण्डादिद्वारपालाद्यैः कुमुदाद्यैश्च रक्षितम्
नानामणिमयैर्दिव्यैर्गृहैः पङ्क्तिभिरावृतम् ॥ ४९ ॥
मूलम्
चण्डादिद्वारपालाद्यैः कुमुदाद्यैश्च रक्षितम्
नानामणिमयैर्दिव्यैर्गृहैः पङ्क्तिभिरावृतम् ॥ ४९ ॥
विश्वास-प्रस्तुतिः
विततं पञ्चपद्माभिर्योजनैश्च समन्ततः
सहस्रयोजनोत्तुङ्गैः प्रासादैः कोटिभिर्वृतम् ॥ ५० ॥
मूलम्
विततं पञ्चपद्माभिर्योजनैश्च समन्ततः
सहस्रयोजनोत्तुङ्गैः प्रासादैः कोटिभिर्वृतम् ॥ ५० ॥
विश्वास-प्रस्तुतिः
आरूढयौवनैर्द्दिव्यैः पुम्भिः स्त्रीभिश्च शोभितम्
स्त्रियश्च पुरुषाश्चास्मिन्सर्वलक्षणशोभिताः ॥ ५१ ॥
मूलम्
आरूढयौवनैर्द्दिव्यैः पुम्भिः स्त्रीभिश्च शोभितम्
स्त्रियश्च पुरुषाश्चास्मिन्सर्वलक्षणशोभिताः ॥ ५१ ॥
विश्वास-प्रस्तुतिः
समरूपाश्च श्रीविष्णोः सर्वालङ्कारभूषिताः
दिव्यस्रग्वस्त्रसञ्छन्ना दिव्यचन्दनभूषिताः ॥ ५२ ॥
मूलम्
समरूपाश्च श्रीविष्णोः सर्वालङ्कारभूषिताः
दिव्यस्रग्वस्त्रसञ्छन्ना दिव्यचन्दनभूषिताः ॥ ५२ ॥
विश्वास-प्रस्तुतिः
मोदन्ते तत्र देवेश भक्त्या त्वात्ममनोरमे
मन्त्राष्टाक्षरसंसिद्धा भक्त्या षोडशरूपया ॥ ५३ ॥
मूलम्
मोदन्ते तत्र देवेश भक्त्या त्वात्ममनोरमे
मन्त्राष्टाक्षरसंसिद्धा भक्त्या षोडशरूपया ॥ ५३ ॥
विश्वास-प्रस्तुतिः
वृतास्तत्पदमाविश्य मोदन्ते मनसीप्सितम्
गत्वास्मिन्न निवर्तन्ते विष्णुना सह संस्थिताः ॥ ५४ ॥
मूलम्
वृतास्तत्पदमाविश्य मोदन्ते मनसीप्सितम्
गत्वास्मिन्न निवर्तन्ते विष्णुना सह संस्थिताः ॥ ५४ ॥
विश्वास-प्रस्तुतिः
अविच्छिन्नात्मना ते वै विष्णुना सङ्गताः शुभाः
तत्समानसुखं नित्यं प्राप्नुवन्ति मनीषिणः ॥ ५५ ॥
मूलम्
अविच्छिन्नात्मना ते वै विष्णुना सङ्गताः शुभाः
तत्समानसुखं नित्यं प्राप्नुवन्ति मनीषिणः ॥ ५५ ॥
विश्वास-प्रस्तुतिः
यत्रतत्र हरेर्लोकानाविश्य शुभचेतसः
प्राप्नुवन्ति पुनः स्वर्गं स्वर्गस्थाइव जन्तवः ॥ ५६ ॥
मूलम्
यत्रतत्र हरेर्लोकानाविश्य शुभचेतसः
प्राप्नुवन्ति पुनः स्वर्गं स्वर्गस्थाइव जन्तवः ॥ ५६ ॥
विश्वास-प्रस्तुतिः
यथा सौमित्रि भरतौ यथा सङ्कर्षणादयः
तथा तेपि च जायन्ते सत्यलोके यथेच्छया ॥ ५७ ॥
मूलम्
यथा सौमित्रि भरतौ यथा सङ्कर्षणादयः
तथा तेपि च जायन्ते सत्यलोके यथेच्छया ॥ ५७ ॥
विश्वास-प्रस्तुतिः
पुनस्तेनैव यास्यन्ति तत्पदं शाश्वतं परम्
न कर्मबन्धनं जन्म वैष्णवानां च विद्यते ॥ ५८ ॥
मूलम्
पुनस्तेनैव यास्यन्ति तत्पदं शाश्वतं परम्
न कर्मबन्धनं जन्म वैष्णवानां च विद्यते ॥ ५८ ॥
विश्वास-प्रस्तुतिः
विष्णोरनुचरत्वं हि मोक्षयाहुर्मनीषिणः
न दास्यममरेशस्य बन्धनं परिकीर्तितम् ॥ ५९ ॥
मूलम्
विष्णोरनुचरत्वं हि मोक्षयाहुर्मनीषिणः
न दास्यममरेशस्य बन्धनं परिकीर्तितम् ॥ ५९ ॥
विश्वास-प्रस्तुतिः
सर्वबन्धननिर्मुक्ता हरिदासा निरामयाः
आब्रह्मभुवनाँ लोकाः पुनरावृत्तिलक्षणाः ॥ ६० ॥
मूलम्
सर्वबन्धननिर्मुक्ता हरिदासा निरामयाः
आब्रह्मभुवनाँ लोकाः पुनरावृत्तिलक्षणाः ॥ ६० ॥
विश्वास-प्रस्तुतिः
कर्मबन्धमया दुःखमित्रासख्यभयप्रदाः
बह्वाया सफला देवि जनिनाशकहेतवः ॥ ६१ ॥
मूलम्
कर्मबन्धमया दुःखमित्रासख्यभयप्रदाः
बह्वाया सफला देवि जनिनाशकहेतवः ॥ ६१ ॥
विश्वास-प्रस्तुतिः
सुखभोगस्तु यन्नॄणां विषमिश्राशनं यथा
स्वर्गसंस्थान्नरान्दृष्ट्वा क्षीणे कर्मणि देवताः ॥ ६२ ॥
मूलम्
सुखभोगस्तु यन्नॄणां विषमिश्राशनं यथा
स्वर्गसंस्थान्नरान्दृष्ट्वा क्षीणे कर्मणि देवताः ॥ ६२ ॥
विश्वास-प्रस्तुतिः
कुपिताः पातयन्त्येव संसृतौ कार्य्यबन्धने
तस्मात्स्वर्गसुखं देवि बहुधायाससाधनम् ॥ ६३ ॥
मूलम्
कुपिताः पातयन्त्येव संसृतौ कार्य्यबन्धने
तस्मात्स्वर्गसुखं देवि बहुधायाससाधनम् ॥ ६३ ॥
विश्वास-प्रस्तुतिः
अनित्यं कुटिलं दुःखमिश्रं योगी परित्यजेत्
सततं संस्मरेद्विष्णुं सर्वदुःखौघनाशनम् ॥ ६४ ॥
मूलम्
अनित्यं कुटिलं दुःखमिश्रं योगी परित्यजेत्
सततं संस्मरेद्विष्णुं सर्वदुःखौघनाशनम् ॥ ६४ ॥
विश्वास-प्रस्तुतिः
नामोच्चारणमात्रेण प्राप्नुवन्ति परं पदम्
तस्मात्तु वैष्णवं लोकं गौरि सम्प्रार्थयेत्सुधीः ॥ ६५ ॥
मूलम्
नामोच्चारणमात्रेण प्राप्नुवन्ति परं पदम्
तस्मात्तु वैष्णवं लोकं गौरि सम्प्रार्थयेत्सुधीः ॥ ६५ ॥
विश्वास-प्रस्तुतिः
भक्त्या त्वनन्यया देवं भजेत करुणाम्बुधिम्
स सर्वज्ञानगुणवान्रक्षत्येव न संशयः ॥ ६६ ॥
मूलम्
भक्त्या त्वनन्यया देवं भजेत करुणाम्बुधिम्
स सर्वज्ञानगुणवान्रक्षत्येव न संशयः ॥ ६६ ॥
विश्वास-प्रस्तुतिः
तस्मादष्टाक्षरं मन्त्रं जप्त्वा सुखतरं शुभम्
सम्प्राप्नोति परं लोकं वैष्णवं सर्वकामदम् ॥ ६७ ॥
मूलम्
तस्मादष्टाक्षरं मन्त्रं जप्त्वा सुखतरं शुभम्
सम्प्राप्नोति परं लोकं वैष्णवं सर्वकामदम् ॥ ६७ ॥
विश्वास-प्रस्तुतिः
तस्मिन्मणिमये तल्पे सहस्रसूर्य्यरश्मिनि
विमाने शुशुभे दिव्ये संस्थितो भगवान्हरिः ॥ ६८ ॥
मूलम्
तस्मिन्मणिमये तल्पे सहस्रसूर्य्यरश्मिनि
विमाने शुशुभे दिव्ये संस्थितो भगवान्हरिः ॥ ६८ ॥
विश्वास-प्रस्तुतिः
तत्र चाधारशक्त्यादि धृते पीठे हिरण्मये
नानारत्नमये दिव्ये नानावर्णसमन्विते ॥ ६९ ॥
मूलम्
तत्र चाधारशक्त्यादि धृते पीठे हिरण्मये
नानारत्नमये दिव्ये नानावर्णसमन्विते ॥ ६९ ॥
विश्वास-प्रस्तुतिः
तस्मिन्नष्टदले पद्मे मन्त्राक्षरपदे शुभे
कर्णिकायां सुरम्यायां लक्ष्मीबीजशुभाक्षरे ॥ ७० ॥
मूलम्
तस्मिन्नष्टदले पद्मे मन्त्राक्षरपदे शुभे
कर्णिकायां सुरम्यायां लक्ष्मीबीजशुभाक्षरे ॥ ७० ॥
विश्वास-प्रस्तुतिः
तस्मिन्वालार्कसाहस्रकोटितुल्य समप्रभे
दिव्ये नारायणः श्रीमानासीनः पङ्कजासने ॥ ७१ ॥
मूलम्
तस्मिन्वालार्कसाहस्रकोटितुल्य समप्रभे
दिव्ये नारायणः श्रीमानासीनः पङ्कजासने ॥ ७१ ॥
विश्वास-प्रस्तुतिः
तस्य दक्षिणके पार्श्वे जगन्माता हिरण्मयी
गृहीत्वा चामरान्दिव्यान् दिव्यमाल्यविभूषणा ॥ ७२ ॥
मूलम्
तस्य दक्षिणके पार्श्वे जगन्माता हिरण्मयी
गृहीत्वा चामरान्दिव्यान् दिव्यमाल्यविभूषणा ॥ ७२ ॥
विश्वास-प्रस्तुतिः
वसुपात्रं मातुलुङ्गं स्वर्णपद्मं धृतं करैः
वामतः पृथिवीदेवी नीलोत्पलदलद्युतिः ॥ ७३ ॥
मूलम्
वसुपात्रं मातुलुङ्गं स्वर्णपद्मं धृतं करैः
वामतः पृथिवीदेवी नीलोत्पलदलद्युतिः ॥ ७३ ॥
विश्वास-प्रस्तुतिः
नानाभरणसंयुक्ता विचित्राम्बरभूषिता
सा धृत्वा चोर्द्ध्वबाहुभ्यां रम्यं रक्तोत्पलद्वयम् ॥ ७४ ॥
मूलम्
नानाभरणसंयुक्ता विचित्राम्बरभूषिता
सा धृत्वा चोर्द्ध्वबाहुभ्यां रम्यं रक्तोत्पलद्वयम् ॥ ७४ ॥
विश्वास-प्रस्तुतिः
इतराभ्यां धृतं देव्या धान्यपात्रयुगं तथा
गृहीत्वा चामरान्दिव्यान्शक्तयो विमलादिकाः ॥ ७५ ॥
मूलम्
इतराभ्यां धृतं देव्या धान्यपात्रयुगं तथा
गृहीत्वा चामरान्दिव्यान्शक्तयो विमलादिकाः ॥ ७५ ॥
विश्वास-प्रस्तुतिः
दलाग्रेषु समासीनाः सर्वलक्षणशोभिताः
तासां मध्ये समासीनो भगवानच्युतो हरिः ॥ ७६ ॥
मूलम्
दलाग्रेषु समासीनाः सर्वलक्षणशोभिताः
तासां मध्ये समासीनो भगवानच्युतो हरिः ॥ ७६ ॥
विश्वास-प्रस्तुतिः
शङ्खचक्रगदापद्मपाणिभिर्दिव्यभूषणैः
केयूराङ्गदहाराद्यैर्भूषणै रूपशोभितः ॥ ७७ ॥
मूलम्
शङ्खचक्रगदापद्मपाणिभिर्दिव्यभूषणैः
केयूराङ्गदहाराद्यैर्भूषणै रूपशोभितः ॥ ७७ ॥
विश्वास-प्रस्तुतिः
प्रातरुद्यत्सहस्रांशु कुण्डलाभ्यां विराजितः
पूर्वोक्तैस्त्रिदशैर्न्नित्यैः सेवितः परमेश्वरः ॥ ७८ ॥
मूलम्
प्रातरुद्यत्सहस्रांशु कुण्डलाभ्यां विराजितः
पूर्वोक्तैस्त्रिदशैर्न्नित्यैः सेवितः परमेश्वरः ॥ ७८ ॥
विश्वास-प्रस्तुतिः
आस्ते वैकुण्ठनगरे नित्ये सत्ये च भोगवान्
श्रीमदष्टाक्षरं मन्त्रं सिद्धानां वै मनीषिणाम् ॥ ७९ ॥
मूलम्
आस्ते वैकुण्ठनगरे नित्ये सत्ये च भोगवान्
श्रीमदष्टाक्षरं मन्त्रं सिद्धानां वै मनीषिणाम् ॥ ७९ ॥
विश्वास-प्रस्तुतिः
गम्यं तद्वैष्णवं लोकं नेतरेषां कथञ्चन
इत्येवं प्रथमं व्यूहं कथितं ते वरानने ॥ ८० ॥
मूलम्
गम्यं तद्वैष्णवं लोकं नेतरेषां कथञ्चन
इत्येवं प्रथमं व्यूहं कथितं ते वरानने ॥ ८० ॥
विश्वास-प्रस्तुतिः
द्वितीयं वैष्णवं लोकं शृणु वक्ष्यामि सुव्रते
योऽयं नित्य इति ख्यातो लोकाग्र्यो वैष्णवः स्मृतः ॥ ८१ ॥
मूलम्
द्वितीयं वैष्णवं लोकं शृणु वक्ष्यामि सुव्रते
योऽयं नित्य इति ख्यातो लोकाग्र्यो वैष्णवः स्मृतः ॥ ८१ ॥
विश्वास-प्रस्तुतिः
तं लोकं विपुलं पुण्यं शुद्धं सत्वमयं शुभम्
मध्याह्नसूर्य्यसाहस्रयुगपद्भासितं तदा ॥ ८२ ॥
मूलम्
तं लोकं विपुलं पुण्यं शुद्धं सत्वमयं शुभम्
मध्याह्नसूर्य्यसाहस्रयुगपद्भासितं तदा ॥ ८२ ॥
विश्वास-प्रस्तुतिः
कल्पान्तेऽपि न लीयेत तत्वलोकं महत्तरम्
मम ब्रह्मादिदेवानां न द्रष्टुमपि शक्यते ॥ ८३ ॥
मूलम्
कल्पान्तेऽपि न लीयेत तत्वलोकं महत्तरम्
मम ब्रह्मादिदेवानां न द्रष्टुमपि शक्यते ॥ ८३ ॥
विश्वास-प्रस्तुतिः
सर्वं कल्पद्रुमवनैः परिपूर्णं समन्ततः
सुधाम्बुपरिपूर्णाभिर्दीर्घिकाभिः समन्वितम् ॥ ८४ ॥
मूलम्
सर्वं कल्पद्रुमवनैः परिपूर्णं समन्ततः
सुधाम्बुपरिपूर्णाभिर्दीर्घिकाभिः समन्वितम् ॥ ८४ ॥
विश्वास-प्रस्तुतिः
स्वर्णरत्नमयैर्दिव्यैः पङ्कजैरुपशोभितम्
जलदग्निनिभैर्दिव्यैर्भूषणैः कोटिभिर्वृतम् ॥ ८५ ॥
मूलम्
स्वर्णरत्नमयैर्दिव्यैः पङ्कजैरुपशोभितम्
जलदग्निनिभैर्दिव्यैर्भूषणैः कोटिभिर्वृतम् ॥ ८५ ॥
विश्वास-प्रस्तुतिः
निरन्तरं सामभिश्च कूजितैः कोकिलादिभिः
ऊह्यमानैर्गन्धर्वृक्षैः पुष्पकैरपि शोभितम् ॥ ८६ ॥
मूलम्
निरन्तरं सामभिश्च कूजितैः कोकिलादिभिः
ऊह्यमानैर्गन्धर्वृक्षैः पुष्पकैरपि शोभितम् ॥ ८६ ॥
विश्वास-प्रस्तुतिः
ऊनषोडशवर्षाब्दैर्दिव्यनारीनरैर्वृतम्
सर्वलक्षणशोभाढ्यैर्दिव्यकल्पविभूषणैः ॥ ८७ ॥
मूलम्
ऊनषोडशवर्षाब्दैर्दिव्यनारीनरैर्वृतम्
सर्वलक्षणशोभाढ्यैर्दिव्यकल्पविभूषणैः ॥ ८७ ॥
विश्वास-प्रस्तुतिः
तत्रप्रदेशे रम्येषु देशेषु कमलापतिम्
मुदितैः पतिभिः सार्द्धमर्चयन्ति स्म योषितः ॥ ८८ ॥
मूलम्
तत्रप्रदेशे रम्येषु देशेषु कमलापतिम्
मुदितैः पतिभिः सार्द्धमर्चयन्ति स्म योषितः ॥ ८८ ॥
विश्वास-प्रस्तुतिः
तत्प्रसादोपलभ्यं वै सुखमश्नन्ति सर्वदा
गायन्ति परमानन्दं कृष्णस्य चरितं महत् ॥ ८९ ॥
मूलम्
तत्प्रसादोपलभ्यं वै सुखमश्नन्ति सर्वदा
गायन्ति परमानन्दं कृष्णस्य चरितं महत् ॥ ८९ ॥
विश्वास-प्रस्तुतिः
पद्मेक्षणाः पद्महस्ताः पद्मया सदृशः शुभाः
दिव्यस्रग्वसनोपेताः क्रीडन्ति स्म सुयोषितः ॥ ९० ॥
मूलम्
पद्मेक्षणाः पद्महस्ताः पद्मया सदृशः शुभाः
दिव्यस्रग्वसनोपेताः क्रीडन्ति स्म सुयोषितः ॥ ९० ॥
विश्वास-प्रस्तुतिः
शङ्खचक्रगदापद्मधरा भूषणभूषिताः
स्रग्विणः पीतवसनाः पुरुषास्तत्र संस्थिताः ॥ ९१ ॥
मूलम्
शङ्खचक्रगदापद्मधरा भूषणभूषिताः
स्रग्विणः पीतवसनाः पुरुषास्तत्र संस्थिताः ॥ ९१ ॥
विश्वास-प्रस्तुतिः
अनन्यस्पर्शनात्तत्र स्त्रीपुंसोः क्रीडमानयोः
भवत्यनुदिनं वृद्धं हरिभक्तिसुखं रसम् ॥ ९२ ॥
मूलम्
अनन्यस्पर्शनात्तत्र स्त्रीपुंसोः क्रीडमानयोः
भवत्यनुदिनं वृद्धं हरिभक्तिसुखं रसम् ॥ ९२ ॥
विश्वास-प्रस्तुतिः
तन्मध्येन्तःपुरं रम्यं वासुदेवस्य शोभितम्
चन्दनागुरुकर्प्पूरकुङ्कुमोदकसंयुतम् ॥ ९३ ॥
मूलम्
तन्मध्येन्तःपुरं रम्यं वासुदेवस्य शोभितम्
चन्दनागुरुकर्प्पूरकुङ्कुमोदकसंयुतम् ॥ ९३ ॥
विश्वास-प्रस्तुतिः
नानापुष्पविमानाद्यैः सर्वतः समलङ्कृतम्
तन्मध्ये कल्पवृक्षस्य च्छायायां कमलासने ॥ ९४ ॥
मूलम्
नानापुष्पविमानाद्यैः सर्वतः समलङ्कृतम्
तन्मध्ये कल्पवृक्षस्य च्छायायां कमलासने ॥ ९४ ॥
विश्वास-प्रस्तुतिः
विचित्रश्लक्ष्णपर्यङ्के शुभास्तरणसंवृते
दिव्यगन्धसुशोभाढ्यैर्नानापुष्पपरिच्छदैः ॥ ९५ ॥
मूलम्
विचित्रश्लक्ष्णपर्यङ्के शुभास्तरणसंवृते
दिव्यगन्धसुशोभाढ्यैर्नानापुष्पपरिच्छदैः ॥ ९५ ॥
विश्वास-प्रस्तुतिः
तस्मिन्मनोरमे दिव्ये समासीनः श्रिया सह
ईश्वर्य्या सह देवेशो वासुदेवः सनातनः ॥ ९६ ॥
मूलम्
तस्मिन्मनोरमे दिव्ये समासीनः श्रिया सह
ईश्वर्य्या सह देवेशो वासुदेवः सनातनः ॥ ९६ ॥
विश्वास-प्रस्तुतिः
सुधांशुकोटिसङ्काशो दिव्याभरणभूषितः
सुवर्णशुभ्रयुगल श्लक्ष्णनासाञ्चिताननः ॥ ९७ ॥
मूलम्
सुधांशुकोटिसङ्काशो दिव्याभरणभूषितः
सुवर्णशुभ्रयुगल श्लक्ष्णनासाञ्चिताननः ॥ ९७ ॥
विश्वास-प्रस्तुतिः
स्निग्धायतसुलावण्यकपोलाभ्यां विराजितः
नीलकुञ्चितकेशाढ्यो रक्ताब्जदललोचनः ॥ ९८ ॥
मूलम्
स्निग्धायतसुलावण्यकपोलाभ्यां विराजितः
नीलकुञ्चितकेशाढ्यो रक्ताब्जदललोचनः ॥ ९८ ॥
विश्वास-प्रस्तुतिः
मन्दारकेतकीजाती कैरवीकृतशेखरः
स्निग्धबिम्बफलाभौष्ठः सुस्मिताननपङ्कजः ॥ ९९ ॥
मूलम्
मन्दारकेतकीजाती कैरवीकृतशेखरः
स्निग्धबिम्बफलाभौष्ठः सुस्मिताननपङ्कजः ॥ ९९ ॥
अनर्घ्यमौक्तिकाभासदन्तावलिविराजितः
हरिचन्दनलिप्ताङ्गः कस्तूरीतिलकाङ्कितः १००
उन्नतांसभुजैर्दीर्घैश्चतुर्भिरुपशोभितः
जपाकुसुमसङ्काशकरपल्लवशोभितः १०१
श्रीवत्सकौस्तुभाभ्यां च शोभितः पृथुवक्षसा १०२
मुक्तामयैः सुशोभाढ्यैर्दिव्यस्रग्भिरलङ्कृतः
बालार्कसदृशज्योत्स्ना पीतवस्त्रेण वेष्टितः १०३
माणिक्यनूपुरोपेत पद्मपत्रविराजितः
अकलङ्कितचन्द्राभ नखपङ्क्तिविराजितः १०४
रक्तोत्पलनिभश्लक्ष्ण शुभ्राङ्घ्रिकरपङ्कजः
पाञ्चजन्यरथाङ्गाभ्यां बाहुयुग्मविराजितः १०५
इतराभ्यां श्रियो गात्रमाश्लिष्यन्निजवक्षसि
श्लिष्यद्विद्युल्लतोद्गीथ शिताभ्र इव राजते १०६
सप्तजाम्बूनदश्लक्ष्ण शुभाङ्घ्रियुगपञ्जकः
अत्र क्रीडति देवेशो वासुदेवः सनातनः १०७
तप्तकाञ्चनसङ्काशा सर्वाभरणभूषिता
सुस्निग्धनीलकुटिलचन्द्रराविविराजिता १०८
मन्दारपारिजातादि दिव्यपुष्पविराजिता
कर्णावतंस शोभाढ्या चिकुरान्तालिसन्निभा १०९
पीनोन्नतस्तनाभ्यां च पीडन्ति हरिवक्षसि
केयूराङ्गदहाराद्यैर्भूषणैरुपशोभिता ११०
आरूढयौवना नित्यं सर्वलोकेशसुन्दरी
तत्र क्रीडति लोकेश पत्या सह निरन्तरम् १११
स एव वासुदेवोऽत्र सर्वभूतमनोहरः
क्रीडते सर्वलोकेस्मिन्सर्वकामप्रदो नृणाम् ११२
अत्राष्टशक्तयो लक्ष्म्यास्तनवः परितः स्थिताः
रमा च रुक्मिणी सीता पद्मा पद्मालया शिवा ११३
सुलक्षणा सुशीला च रतिकामप्रदाश्च ताः
शङ्खचक्रगदापद्म शार्ङ्गाद्यैर्हेतिभिस्तथा ११४
परितः पुष्कराकारैस्तं लोकं परिरक्षते
एवं द्वितीयं रूपं च सम्यक्ते शुभदर्शने ११५
सङ्क्षेपतो मया प्रोक्तं न शक्यं विस्तरेण हि
द्वादशाक्षरमन्त्रं वै ये जपन्ति सुखाह्वयम् ११६
ते प्राप्नुवन्ति सततं शाश्वतं शुभमक्षयम्
न वेदाध्ययनैर्यज्ञैर्न व्रतैर्नोपवासतः ११७
न प्राप्यं वैष्णवं लोकं विना दास्येन कुत्रचित्
तस्माद्दास्यं हरेर्भक्तं भजेतानन्यमानसः ११८
प्राप्नोति परमां सिद्धिं कर्मबन्धविमोचनीम्
एवं सम्प्रोच्यते देवि द्वितीयं व्यूहमव्ययम् ११९
तृतीयं तु परं व्यूहं शृणु वक्ष्यामि पार्वति
तोयाब्धेरुत्तरं कूलं श्वेतद्वीपे महामते १२०
सन्दर्शनाय योगानां सनकादि महात्मनाम्
सनकश्च सनन्दश्च तृतीयश्च सनातनः १२१
सनत्कुमारजाताश्च वोढुः पञ्चशिखस्तथा
सप्तैते ब्रह्मणः पुत्रा योगिनः सुमहौजसः १२२
विरक्ताः सर्वभोगेषु शुद्धाः सत्वगुणाः सदा
भगवद्दर्शनोद्भूतसुखैकरससेविनः १२३
नरनारायणाद्याश्च श्वेतद्वीपे वसन्ति ये
तेषां सन्दर्शनार्थाय तत्र सन्निहितो हरिः १२४
शुभ्रांशुकोटिसङ्काशे नानारत्नमयोज्ज्वले
श्वेतद्वीपे महायोगि सेविते भयवर्जिते १२५
तत्रोद्यानानि रम्याणि पारिजातसमानि वै
सन्तानकलताकीर्णं चन्दनद्रुममण्डितम् १२६
फुल्लपद्मोत्पलोपेतं नानातोयालयैर्युतम्
तन्मध्ये नगरी रम्या नाम्ना चैरावती शुभा १२७
नानारत्नमयैर्दिव्यैर्विमानैरुपशोभिता
दिव्यस्त्रीपुम्भिराक्रान्ता बहुप्रासादसङ्कुला १२८
तन्मध्येऽन्तपुरं रम्यं रत्नद्रुमसमाकुलम्
बालसूर्यनिभैस्तुङ्गैः प्रासादैर्बहुभिर्वृतम् १२९
तन्मध्ये मण्डपं दिव्यं मणिकाञ्चनशोभितम्
चन्दनागुरुकर्पूरकुङ्कुमामोदवाशितम् १३०
नानाकुसुमशोभाढ्यैर्वितानैः समलङ्कृतम्
दिव्याप्सरः समाकीर्णं सामगानोपशोभितम् १३१
मध्ये सिंहासनं तत्र सूर्यवैश्वानरप्रभम्
तन्मध्येऽष्टदलं पद्मं चन्द्रबिम्बमिवापरम् १३२
तन्मध्ये कर्णिकायां तु समासीनो जनार्दनः
शुद्धजाम्बूनदप्रख्यो मुक्ताहारविभूषितः १३३
शङ्खचक्रगदापद्मशक्तिहस्तचतुष्टयः
हारकेयूरकटकैरङ्गुलीयैश्च शोभितः १३४
सुवर्णपङ्कजप्रख्यः पदयुग्मविराजितः
सन्तानकनिभैः शुभ्रैर्नखपङ्क्तिविराजितः १३५
षोडशाब्दवयो रूपयौवनेन विराजितः
विशालभालदेशे तु कुङ्कुमेन सुगन्धिना १३६
रचितेनोर्ध्वपुण्ड्रेण सीमन्तेनोपशोभितः
मथितामृतफेनाभ शुक्लवस्त्रसुवेष्टितः १३७
मुक्तामयाभ्यां शुभ्राभ्यां कुण्डलाभ्यां विराजितः
पद्मासनसमासीनो जगन्मोहनविग्रहः १३८
वामाङ्के संस्थिता देवी तस्य दिव्यस्वरूपिणी
तस्यैव सदृशी लक्ष्मीः शीलसुष्टुगुणादिभिः १३९
पद्मकिञ्जल्कसङ्काशा यौवनारम्भशोभिता
सर्वलक्षणसम्पन्ना तप्तकाञ्चनभूषणा १४०
दिव्यस्रग्वसनोपेता नीलकुञ्चितमूर्धजा
चतुर्भुजैर्विराजन्ती केयूराङ्गदभूषिता १४१
मुक्ताहारैर्विराजन्ती मन्दाराञ्चितशीर्षजा
श्लक्ष्णनासापुटयुता लसद्दन्तिवरा जिता १४२
कस्तूरीतिलकोपेता नासाग्राञ्चित मौक्तिका
स्वर्णकुम्भसमप्रख्य पीनोन्नतपयोधरा १४३
दिव्यकुङ्कुमलिप्ताङ्गी पद्ममालोपशोभिता
वस्त्रपात्रं मातुलिड्गं दर्पणं हेमपङ्कजम् १४४
करपद्मधृता देवी चेतसाभीष्टदायिनी
तस्यैताः सदृशास्तत्र शक्तयः परितो हरेः १४५
ईशावास्या महादेवी जाह्नवी कमलालया
सावित्री सर्वगा पद्मा शक्तयः परिकीर्तिताः १४६
श्रद्धा मेधा धृतिः प्रज्ञा धारणा शान्तिरेव च
श्रुतिस्मृतिर्धृतिर्मेधा वृद्धिर्बुद्धिर्मनीषिणी १४७
दास्यस्ते ताः श्रियः प्रोक्ताः सर्वकार्यस्य कारिकाः
अनन्तवैनतेयादि देवता नित्यकिङ्कराः १४८
साध्या मरुद्गणाश्चैव सेवन्ते नित्यदेवताः
प्रासादेषु विमानेषु वनेषु नगरेषु च १४९
तत्प्रसादोपलब्धेषु भोगेष्वत्रानुरञ्जिताः
क्रीडन्ती सततं नित्या हेयनिष्फलवर्जिताः १५०
ये विष्णुमन्त्रजप्तारः सततं श्रद्धयान्विताः
ये द्वादशीव्रते युक्तास्तत्पदं यान्ति तेऽव्ययम् १५१
न वेदैर्न च दानैश्च न यज्ञैर्न व्रतैरपि
प्राप्तुं च शक्यं गिरिजे विष्णुलोकं सनातनम् १५२
भक्त्या चानन्यया प्राप्तुं शक्यं विष्णुपदं नृणाम्
तस्मात्सम्पूजयेन्नित्यं भक्त्या देवं जनार्दनम् १५३
कीर्तनं नाममात्रं च ध्यायन्मन्त्रं जपेत्सदा
जुहुयात्तर्पयेद्भक्त्या सर्वगं सर्वकामदम् १५४
एवमुक्तं तृतीयं तु व्यूहं तु परमात्मनः
स्वरूपं तव सुश्रोणि यथाप्रोक्तं पुरातनैः १५५
अतः परं प्रवक्ष्यामि चतुर्थं व्यूहमुत्तमम्
दिवौकसां रक्षणार्थं दुग्धाब्धौ परमेश्वरः १५६
सुधांशुकोटिसङ्काशः सहस्राक्षेण शोभिते
पुरन्दरसयूथैस्तु च्छादिते दुग्धवारिधौ १५७
तस्मिन्ननन्तपर्यङ्के शेतेऽसौ विस्तृते शुभे
दिव्यासनसमासीनः पद्मनाभोऽच्युतो हरिः १५८
नीलजीमूतसङ्काशः पद्मपत्रायतेक्षणः
विवस्वत्कोटिसङ्काश किरीटेन विराजितः १५९
नानारत्नोज्ज्वलद्दिव्यं कुण्डलाभ्यां विराजितः
बालार्कसदृशज्योत्स्ना पीतवस्त्रेण वेष्टितः १६०
स्फुरद्रक्तारविन्दाभ हस्ताङ्घ्रितलशोभितः
हारकेयूरकटकैरङ्गुलीयैर्विराजितः १६१
शङ्खचक्रगदाशार्ङ्गखड्गहस्तैर्विभूषितः
सुपुष्पफलशाखाढ्यकल्पवृक्षैर्विराजितः १६२
विश्वस्य जन्ममरण नाभिपङ्कजशोभितः
हरिचन्दनलिप्ताङ्गः सर्वाभरणभूषितः १६३
मन्दारपारिजातादि दिव्यपुष्पैर्मनोरमैः
सुस्निग्धनीलकुटिलकबरीकृतकेशवान् १६४
श्लक्ष्णोन्नतसुनासांस जानुयुग्मविराजितः
मणिविद्रुमशाखाढ्य नूपुराङ्घ्रिविराजितः १६५
अकलङ्कितचन्द्राभ नखपङ्क्तिविराजितः
अशोकपुष्पसङ्काश रक्तोष्ठमुखपङ्कजः १६६
अनर्घ्यमुक्तिकाभास दन्तपङ्क्तिविराजितः
सम्पूर्णचन्द्रप्रतिम स्मितवक्त्रसुशोभितः १६७
आरूढयौवनः श्रीमान्कोमलावयवोज्ज्वलः
शरण्यः सर्वलोकानां सर्वलोकफलप्रदः १६८
सदृशी तस्य देवी तु रूपशीलगुणादिभिः
तप्तकाञ्चनसङ्काशा तप्तकाञ्चनभूषणा १६९
तरुणी रूपलावण्या कान्तिशीलगुणान्विता
दुग्धाब्धिफेनसङ्काश शुभवस्त्रेण वेष्टिता १७०
मन्दारकेतकी जाती पुष्पार्चितशिरोरुहा
कस्तूरीतिलकोपेता रत्नसीमन्तशोभिता १७१
नानावर्णसुशोभाढ्या कर्णभूषणभूषिता
प्रवालसदृशज्योत्स्ना रक्तधारसुविस्मिता १७२
मत्तभृङ्गोपमैः स्निग्धैरलकैः सुविराजिता
तनुमध्या विशालाक्षी पीनोन्नतपयोधरा १७३
चतुर्हस्तैर्विराजन्ती सर्वाभरणभूषिता
उद्बाहुभ्यां धृता देवी हेमपद्मयुगं शुभम् १७४
इतराभ्यां समाश्लिष्य भर्तारं निबिडं स्थिता
आलोकयन्ती सततं त्रिदशांश्च कटाक्षकै १७५
निरीक्षितास्तया देव्या धन्यास्ते सततं शिवे
तत्र देवा विमानस्थाः सिद्धचारणकिन्नराः १७६
गायन्ति सततं देवीमानन्दाश्रुपरिप्लुताः
दैतेयैर्बाध्यमानैस्तु ब्रह्मरुद्रादिभिः सुरैः १७७
संस्तूयमानस्तत्रेशो देवानामभयं ददौ
देवानामभयं दत्त्वा सर्वदेवेश्वरो हरिः १७८
राक्षसान्हन्तुमारेभे जगत्संरक्षणाय वै
एवं चतुर्थं व्यूहं तु हरेः प्रोक्तं तवानघे १७९
किमन्यच्छ्रोतुकामासीत्तद्ब्रवीमि वरानने
धन्यासि कृतकृत्यासि भक्तासि पुरुषोत्तमे १८०
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे विष्णुव्यूहभेद
वर्णनन्नाम एकोनत्रिंशदधिकद्विशततमोऽध्यायः २२९