श्रीमहादेव उवाच-
विश्वास-प्रस्तुतिः
त्रिपाद्विभूतेर्लोकास्तु असङ्ख्याताः प्रकीर्तिताः
शुद्धसत्वमयाः सर्वे ब्रह्मानन्दसुखाह्वयाः ॥ १ ॥
मूलम्
त्रिपाद्विभूतेर्लोकास्तु असङ्ख्याताः प्रकीर्तिताः
शुद्धसत्वमयाः सर्वे ब्रह्मानन्दसुखाह्वयाः ॥ १ ॥
विश्वास-प्रस्तुतिः
सर्वे नित्या निर्विकारा हेयरागादिवर्जिताः
सर्वे हिरण्मयाश्शुद्धाः कोटिसूर्य्यसमप्रभाः ॥ २ ॥
मूलम्
सर्वे नित्या निर्विकारा हेयरागादिवर्जिताः
सर्वे हिरण्मयाश्शुद्धाः कोटिसूर्य्यसमप्रभाः ॥ २ ॥
विश्वास-प्रस्तुतिः
सर्वे वेदमयार्दिव्याः काम क्रोधविवर्जिताः
नारायणपदाम्भोज भक्त्येकरससेविताः ॥ ३ ॥
मूलम्
सर्वे वेदमयार्दिव्याः काम क्रोधविवर्जिताः
नारायणपदाम्भोज भक्त्येकरससेविताः ॥ ३ ॥
विश्वास-प्रस्तुतिः
निरन्तरं सामगानपरिपूर्णसुखं श्रिताः
सर्वे पञ्चोपनिषद स्वरूपा वेदवर्चसः ॥ ४ ॥
मूलम्
निरन्तरं सामगानपरिपूर्णसुखं श्रिताः
सर्वे पञ्चोपनिषद स्वरूपा वेदवर्चसः ॥ ४ ॥
विश्वास-प्रस्तुतिः
सर्वे वेदमयैर्दिव्यैःपुरुषैः स्त्रीभिरावृताः
वेदैकरसतोयाढ्यैस्सरोभिरुपशोभिताः ॥ ५ ॥
मूलम्
सर्वे वेदमयैर्दिव्यैःपुरुषैः स्त्रीभिरावृताः
वेदैकरसतोयाढ्यैस्सरोभिरुपशोभिताः ॥ ५ ॥
विश्वास-प्रस्तुतिः
श्रुतिस्मृतिपुराणादि रूपस्थावरसंयुताः
सर्वं वर्णयितुं शक्यं न मया लोकविस्तृतम् ॥ ६ ॥
मूलम्
श्रुतिस्मृतिपुराणादि रूपस्थावरसंयुताः
सर्वं वर्णयितुं शक्यं न मया लोकविस्तृतम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
विरजा परमव्योम्नोरन्तरङ्केवलं स्मृतम्
तत्स्थानमुपभोक्तव्यमव्यक्तब्रह्मसेविनाम् ॥ ७ ॥
मूलम्
विरजा परमव्योम्नोरन्तरङ्केवलं स्मृतम्
तत्स्थानमुपभोक्तव्यमव्यक्तब्रह्मसेविनाम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
स्वात्मानुभवजानन्दसुखदं केवलं पदम्
निःश्रेयसं च निर्वाणं कैवल्यं मोक्ष उच्यते ॥ ८ ॥
मूलम्
स्वात्मानुभवजानन्दसुखदं केवलं पदम्
निःश्रेयसं च निर्वाणं कैवल्यं मोक्ष उच्यते ॥ ८ ॥
विश्वास-प्रस्तुतिः
श्रीशाङ्घ्रिभक्तिसेवैकरसभोगविवर्धिताः तम्
तदिच्छन्त्यल्पमतयो मोक्षं सुखविवर्जितम्
महात्मानो महाभागा भगवत्पादसेवकाः ॥ ९ ॥
मूलम्
श्रीशाङ्घ्रिभक्तिसेवैकरसभोगविवर्धिताः तम्
तदिच्छन्त्यल्पमतयो मोक्षं सुखविवर्जितम्
महात्मानो महाभागा भगवत्पादसेवकाः ॥ ९ ॥
विश्वास-प्रस्तुतिः
तद्विष्णोः परमं धाम यान्ति ब्रह्मसुखप्रदम्
नानाजनपदाकीर्णं वैकुण्ठं तद्धरेः पदम् ॥ १० ॥
मूलम्
तद्विष्णोः परमं धाम यान्ति ब्रह्मसुखप्रदम्
नानाजनपदाकीर्णं वैकुण्ठं तद्धरेः पदम् ॥ १० ॥
विश्वास-प्रस्तुतिः
प्राकारैश्च विमानैश्च सौधैरत्नमयैर्वृतम्
तन्मध्ये नगरी दिव्या साऽयोध्येति प्रकीर्तिता ॥ ११ ॥
मूलम्
प्राकारैश्च विमानैश्च सौधैरत्नमयैर्वृतम्
तन्मध्ये नगरी दिव्या साऽयोध्येति प्रकीर्तिता ॥ ११ ॥
विश्वास-प्रस्तुतिः
मणिकाञ्चनचित्राढ्य प्राकारैस्तोरणैर्वृता
चतुर्द्वारसमायुक्ता रत्नगोपुरसंवृता ॥ १२ ॥
मूलम्
मणिकाञ्चनचित्राढ्य प्राकारैस्तोरणैर्वृता
चतुर्द्वारसमायुक्ता रत्नगोपुरसंवृता ॥ १२ ॥
विश्वास-प्रस्तुतिः
चण्डादिद्वारपालैश्च कुमुदाद्यैश्च रक्षिता
चण्डप्रचण्डौ प्राग्द्वार याम्ये भद्रसुभद्रकौ ॥ १३ ॥
मूलम्
चण्डादिद्वारपालैश्च कुमुदाद्यैश्च रक्षिता
चण्डप्रचण्डौ प्राग्द्वार याम्ये भद्रसुभद्रकौ ॥ १३ ॥
विश्वास-प्रस्तुतिः
वारुण्यां जयविजयौ सौम्ये धातृविधातरौ
कुमुदः कुमुदाक्षश्च पुण्डरीकोऽथ वामनः ॥ १४ ॥
मूलम्
वारुण्यां जयविजयौ सौम्ये धातृविधातरौ
कुमुदः कुमुदाक्षश्च पुण्डरीकोऽथ वामनः ॥ १४ ॥
विश्वास-प्रस्तुतिः
शङ्कुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्ठितः
एते दिक्पतयः प्रोक्ताः पुर्य्यामत्र शुभानने ॥ १५ ॥
मूलम्
शङ्कुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्ठितः
एते दिक्पतयः प्रोक्ताः पुर्य्यामत्र शुभानने ॥ १५ ॥
विश्वास-प्रस्तुतिः
कोटिवैश्वानरप्रख्य गृहपङ्क्तिभिरावृता
आरूढयौवनैर्नित्यैर्दिव्यनारीनरैर्युता ॥ १६ ॥
मूलम्
कोटिवैश्वानरप्रख्य गृहपङ्क्तिभिरावृता
आरूढयौवनैर्नित्यैर्दिव्यनारीनरैर्युता ॥ १६ ॥
विश्वास-प्रस्तुतिः
अन्तःपुरं तु देवस्य मध्ये पुर्याम्मनोहरम्
मणिप्राकारसंयुक्तं रत्नतोरणशोभितम् ॥ १७ ॥
मूलम्
अन्तःपुरं तु देवस्य मध्ये पुर्याम्मनोहरम्
मणिप्राकारसंयुक्तं रत्नतोरणशोभितम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
विमानैर्गृहमुख्यैश्च प्रासादैर्बहुभिर्युतम्
दिव्याप्सरोगणैः स्त्रीभिस्सर्वतस्समलङ्कृतम् ॥ १८ ॥
मूलम्
विमानैर्गृहमुख्यैश्च प्रासादैर्बहुभिर्युतम्
दिव्याप्सरोगणैः स्त्रीभिस्सर्वतस्समलङ्कृतम् ॥ १८ ॥
विश्वास-प्रस्तुतिः
मध्ये तु मण्डपं दिव्यं राजस्थानं महोच्छ्रयम्
माणिक्यस्तम्भसाहस्रजुष्टं रत्नमयं शुभम् ॥ १९ ॥
मूलम्
मध्ये तु मण्डपं दिव्यं राजस्थानं महोच्छ्रयम्
माणिक्यस्तम्भसाहस्रजुष्टं रत्नमयं शुभम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
दिव्यैर्मुक्तैः समाकीर्णं सामगानोपशोभितम्
मध्ये सिंहासनं रम्यं सर्ववेदमयं शुभम् ॥ २० ॥
मूलम्
दिव्यैर्मुक्तैः समाकीर्णं सामगानोपशोभितम्
मध्ये सिंहासनं रम्यं सर्ववेदमयं शुभम् ॥ २० ॥
विश्वास-प्रस्तुतिः
धर्मादिदैवतैर्नित्यैर्वृन्तवैदमयात्मकैः
धर्मज्ञानमहैश्वर्यवैराग्यैः पादविग्रहैः ॥ २१ ॥
मूलम्
धर्मादिदैवतैर्नित्यैर्वृन्तवैदमयात्मकैः
धर्मज्ञानमहैश्वर्यवैराग्यैः पादविग्रहैः ॥ २१ ॥
विश्वास-प्रस्तुतिः
ऋग्यजुःसामचाथर्वैरूपैर्नित्यं वृतं क्रमात्
शक्तिराधारशक्तिश्च चिच्छक्तिश्च सदाशिवा ॥ २२ ॥
मूलम्
ऋग्यजुःसामचाथर्वैरूपैर्नित्यं वृतं क्रमात्
शक्तिराधारशक्तिश्च चिच्छक्तिश्च सदाशिवा ॥ २२ ॥
विश्वास-प्रस्तुतिः
धर्मादिदेवतानां च शक्तयः परिकीर्तिताः
वसन्ति मध्यमे तत्र वह्निसूर्यसुधांशवः ॥ २३ ॥
मूलम्
धर्मादिदेवतानां च शक्तयः परिकीर्तिताः
वसन्ति मध्यमे तत्र वह्निसूर्यसुधांशवः ॥ २३ ॥
विश्वास-प्रस्तुतिः
कूर्मश्च नागराजश्च वैनतेयस्त्रयीश्वरः
छन्दासि सर्वमन्त्राश्च पीठरूपत्वमास्थिताः ॥ २४ ॥
मूलम्
कूर्मश्च नागराजश्च वैनतेयस्त्रयीश्वरः
छन्दासि सर्वमन्त्राश्च पीठरूपत्वमास्थिताः ॥ २४ ॥
विश्वास-प्रस्तुतिः
सर्वाक्षरमयं दिव्यं योगपीठमिति स्मृतम्
तन्मध्येऽष्टदलं पद्ममुदयार्कसमप्रभम् ॥ २५ ॥
मूलम्
सर्वाक्षरमयं दिव्यं योगपीठमिति स्मृतम्
तन्मध्येऽष्टदलं पद्ममुदयार्कसमप्रभम् ॥ २५ ॥
विश्वास-प्रस्तुतिः
तन्मध्ये कर्णिकायां तु सावित्र्यां शुभदर्शने
ईश्वर्य्या सह देवेशस्तत्रासीनः परः पुमान् ॥ २६ ॥
मूलम्
तन्मध्ये कर्णिकायां तु सावित्र्यां शुभदर्शने
ईश्वर्य्या सह देवेशस्तत्रासीनः परः पुमान् ॥ २६ ॥
विश्वास-प्रस्तुतिः
इन्दीवरदलश्यामः कोटिसूर्यप्रकाशवान्
युवाकुमारः स्निग्धश्च कोमलावयवैर्वृतः ॥ २७ ॥
मूलम्
इन्दीवरदलश्यामः कोटिसूर्यप्रकाशवान्
युवाकुमारः स्निग्धश्च कोमलावयवैर्वृतः ॥ २७ ॥
विश्वास-प्रस्तुतिः
फुल्लरक्ताम्बुजनिभः कोमलाङ्घ्रिसरोजवान्
प्रबुद्धः पुण्डरीकाक्षः सुभ्रू लतायुगाङ्कितः ॥ २८ ॥
मूलम्
फुल्लरक्ताम्बुजनिभः कोमलाङ्घ्रिसरोजवान्
प्रबुद्धः पुण्डरीकाक्षः सुभ्रू लतायुगाङ्कितः ॥ २८ ॥
विश्वास-प्रस्तुतिः
सुनासस्सुकपोलाढ्यस्सुश्रोत्रमुखपङ्कजः
मुक्ताफलाभदन्ताढ्यः सस्मिताधरविद्रुमः ॥ २९ ॥
मूलम्
सुनासस्सुकपोलाढ्यस्सुश्रोत्रमुखपङ्कजः
मुक्ताफलाभदन्ताढ्यः सस्मिताधरविद्रुमः ॥ २९ ॥
विश्वास-प्रस्तुतिः
परिपूर्णेदुसङ्काशः सुस्मिताननपङ्कजः
तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विराजितः ॥ ३० ॥
मूलम्
परिपूर्णेदुसङ्काशः सुस्मिताननपङ्कजः
तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विराजितः ॥ ३० ॥
विश्वास-प्रस्तुतिः
सस्निग्धनीलकुटिलकुन्तलैरुपशोभितः
मन्दारपारिजाताढ्य कबरीकृतकेशवान् ॥ ३१ ॥
मूलम्
सस्निग्धनीलकुटिलकुन्तलैरुपशोभितः
मन्दारपारिजाताढ्य कबरीकृतकेशवान् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
प्रातरुद्यत्सहस्रांशुनिभकौस्तुभशोभितः
हारस्वर्णस्रगासक्त कम्बुग्रीवो विराजितः ॥ ३२ ॥
मूलम्
प्रातरुद्यत्सहस्रांशुनिभकौस्तुभशोभितः
हारस्वर्णस्रगासक्त कम्बुग्रीवो विराजितः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
सिंहस्कन्धनिभैः प्रोच्चैः पीनैरंसैर्विराजितः
पीनवृत्तायतभुजैश्चतुर्भिरुपशोभितः ॥ ३३ ॥
मूलम्
सिंहस्कन्धनिभैः प्रोच्चैः पीनैरंसैर्विराजितः
पीनवृत्तायतभुजैश्चतुर्भिरुपशोभितः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
अङ्गुलीयैश्च कटकैः केयूरैः परिमण्डितः
बालार्ककोटिसङ्काशैः कौस्तुभाद्यैः सुभूषणैः ॥ ३४ ॥
मूलम्
अङ्गुलीयैश्च कटकैः केयूरैः परिमण्डितः
बालार्ककोटिसङ्काशैः कौस्तुभाद्यैः सुभूषणैः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
विराजितमहावक्षो वनमालाविभूषितः
विधातृजननस्थान नाभिपङ्कजशोभितः ॥ ३५ ॥
मूलम्
विराजितमहावक्षो वनमालाविभूषितः
विधातृजननस्थान नाभिपङ्कजशोभितः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
बालातपनिभश्लक्ष्ण पीतवस्त्रसमन्वितः
नानारत्नविचित्राङ्घ्रिः कटकाभ्यां विराजितः ॥ ३६ ॥
मूलम्
बालातपनिभश्लक्ष्ण पीतवस्त्रसमन्वितः
नानारत्नविचित्राङ्घ्रिः कटकाभ्यां विराजितः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
सज्योत्स्नचन्द्रप्रतिम नखपङ्क्तिसमन्वितः
कोटिकन्दर्पलावण्य सौन्दर्य्यनिधिरच्युतः ॥ ३७ ॥
मूलम्
सज्योत्स्नचन्द्रप्रतिम नखपङ्क्तिसमन्वितः
कोटिकन्दर्पलावण्य सौन्दर्य्यनिधिरच्युतः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
दिव्यचन्दनलिप्ताङ्गो दिव्यमालाविभूषितः
गृहीतशङ्खचक्राभ्यामुद्बाहुभ्यां विराजितः ॥ ३८ ॥
मूलम्
दिव्यचन्दनलिप्ताङ्गो दिव्यमालाविभूषितः
गृहीतशङ्खचक्राभ्यामुद्बाहुभ्यां विराजितः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
वरदाभयहस्ताभ्यामितराभ्यां तथैव च
वामाङ्के संस्थिता देवी महालक्ष्मीर्महेश्वरी ॥ ३९ ॥
मूलम्
वरदाभयहस्ताभ्यामितराभ्यां तथैव च
वामाङ्के संस्थिता देवी महालक्ष्मीर्महेश्वरी ॥ ३९ ॥
विश्वास-प्रस्तुतिः
हिरण्यवर्णा हरिणी सुवर्णरजतस्रजा
सर्वलक्षणसम्पन्ना यौवनारम्भविग्रहा ॥ ४० ॥
मूलम्
हिरण्यवर्णा हरिणी सुवर्णरजतस्रजा
सर्वलक्षणसम्पन्ना यौवनारम्भविग्रहा ॥ ४० ॥
विश्वास-प्रस्तुतिः
रत्नकुण्डलसंयुक्ता नीला कुञ्चितशीर्षजा
दिव्यचन्दनलिप्ताङ्गी दिव्यपुष्पोपशोभिता ॥ ४१ ॥
मूलम्
रत्नकुण्डलसंयुक्ता नीला कुञ्चितशीर्षजा
दिव्यचन्दनलिप्ताङ्गी दिव्यपुष्पोपशोभिता ॥ ४१ ॥
विश्वास-प्रस्तुतिः
मन्दारकेतकी जाती पुष्पाञ्चितसुकुन्तला
सुभ्रूस्सुनासा सुश्रोणी पीनोन्नतपयोधरा ॥ ४२ ॥
मूलम्
मन्दारकेतकी जाती पुष्पाञ्चितसुकुन्तला
सुभ्रूस्सुनासा सुश्रोणी पीनोन्नतपयोधरा ॥ ४२ ॥
विश्वास-प्रस्तुतिः
परिपूंर्णेन्दुसङ्काशा सुस्मिताननपङ्कजा
तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विराजिता ॥ ४३ ॥
मूलम्
परिपूंर्णेन्दुसङ्काशा सुस्मिताननपङ्कजा
तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विराजिता ॥ ४३ ॥
विश्वास-प्रस्तुतिः
तप्तकाञ्चनवर्णाभा तप्तकाञ्चनभूषणा
हस्तैश्चतुर्भिः संयुक्ता कनकाम्बुजभूषिता ॥ ४४ ॥
मूलम्
तप्तकाञ्चनवर्णाभा तप्तकाञ्चनभूषणा
हस्तैश्चतुर्भिः संयुक्ता कनकाम्बुजभूषिता ॥ ४४ ॥
विश्वास-प्रस्तुतिः
नानाविचित्ररत्नाढ्या कनकाम्बुजमालया
हारकेयूरकटकैरङ्गुलीयैश्च शोभिता ॥ ४५ ॥
मूलम्
नानाविचित्ररत्नाढ्या कनकाम्बुजमालया
हारकेयूरकटकैरङ्गुलीयैश्च शोभिता ॥ ४५ ॥
विश्वास-प्रस्तुतिः
भुजद्वयघृतोदग्र पद्मयुग्मोपशोभिता
गृहीतमातुलुङ्गाख्य जाम्बूनदकराञ्चिता ॥ ४६ ॥
मूलम्
भुजद्वयघृतोदग्र पद्मयुग्मोपशोभिता
गृहीतमातुलुङ्गाख्य जाम्बूनदकराञ्चिता ॥ ४६ ॥
विश्वास-प्रस्तुतिः
एवं नित्यानपायिन्या महालक्ष्म्या महेश्वरः
मोदते परमे व्योम्नि शाश्वते सर्वदा प्रभुः ॥ ४७ ॥
मूलम्
एवं नित्यानपायिन्या महालक्ष्म्या महेश्वरः
मोदते परमे व्योम्नि शाश्वते सर्वदा प्रभुः ॥ ४७ ॥
विश्वास-प्रस्तुतिः
पार्श्वयोर्धरणी नीले समासीने शुभासने
अष्टदिक्षु दलाग्रेषु विमलाद्याश्च शक्तयः ॥ ४८ ॥
मूलम्
पार्श्वयोर्धरणी नीले समासीने शुभासने
अष्टदिक्षु दलाग्रेषु विमलाद्याश्च शक्तयः ॥ ४८ ॥
विश्वास-प्रस्तुतिः
विमलोत्कर्षिणी ज्ञानाक्रियायोगा तथैव च
प्रह्वी सत्या तथेशाना शक्तयः परमात्मनः ॥ ४९ ॥
मूलम्
विमलोत्कर्षिणी ज्ञानाक्रियायोगा तथैव च
प्रह्वी सत्या तथेशाना शक्तयः परमात्मनः ॥ ४९ ॥
विश्वास-प्रस्तुतिः
गृहीत्वा चामरान्दिव्यान्सुधाकरसमप्रभान्
सर्वलक्षणसम्पन्ना मोदन्ते पतिमच्युतम् ॥ ५० ॥
मूलम्
गृहीत्वा चामरान्दिव्यान्सुधाकरसमप्रभान्
सर्वलक्षणसम्पन्ना मोदन्ते पतिमच्युतम् ॥ ५० ॥
विश्वास-प्रस्तुतिः
दिव्याप्सरोगणाः पञ्च शतसङ्ख्याश्च योषितः
अन्तःपुरनिवासिन्यः सर्वाभरणभूषिताः ॥ ५१ ॥
मूलम्
दिव्याप्सरोगणाः पञ्च शतसङ्ख्याश्च योषितः
अन्तःपुरनिवासिन्यः सर्वाभरणभूषिताः ॥ ५१ ॥
विश्वास-प्रस्तुतिः
पद्महस्ताश्च ताः सर्वाः कोटिवैश्वानरप्रभाः
सर्वलक्षणसम्पन्नाः शीतांशुसदृशाननाः ॥ ५२ ॥
मूलम्
पद्महस्ताश्च ताः सर्वाः कोटिवैश्वानरप्रभाः
सर्वलक्षणसम्पन्नाः शीतांशुसदृशाननाः ॥ ५२ ॥
विश्वास-प्रस्तुतिः
ताभिः परिवृतो राजा शुशुभे परमः पुमान्
अनन्तविहगाधीश सेनान्याद्यैस्सुरेश्वरे ॥ ५३ ॥
मूलम्
ताभिः परिवृतो राजा शुशुभे परमः पुमान्
अनन्तविहगाधीश सेनान्याद्यैस्सुरेश्वरे ॥ ५३ ॥
विश्वास-प्रस्तुतिः
अन्यैः परिजनैर्नित्यैर्मुक्तैश्च परिसंवृतः
मोदते रमया सार्द्धं भोगैश्वर्यरतः पुमान् ॥ ५४ ॥
मूलम्
अन्यैः परिजनैर्नित्यैर्मुक्तैश्च परिसंवृतः
मोदते रमया सार्द्धं भोगैश्वर्यरतः पुमान् ॥ ५४ ॥
विश्वास-प्रस्तुतिः
एवं वैकुण्ठनाथोऽसौ राजते परमे पदे
तद्व्यूहभेदाँल्लोकांश्च वक्ष्यामि गिरिजे शुभे ॥ ५५ ॥
मूलम्
एवं वैकुण्ठनाथोऽसौ राजते परमे पदे
तद्व्यूहभेदाँल्लोकांश्च वक्ष्यामि गिरिजे शुभे ॥ ५५ ॥
विश्वास-प्रस्तुतिः
प्राच्यां वैकुण्ठलोकस्य वासुदेवस्य मन्दिरम्
आग्नेय्यां लक्ष्म्यालोकस्तु याम्यां सङ्कर्षणालयः ॥ ५६ ॥
मूलम्
प्राच्यां वैकुण्ठलोकस्य वासुदेवस्य मन्दिरम्
आग्नेय्यां लक्ष्म्यालोकस्तु याम्यां सङ्कर्षणालयः ॥ ५६ ॥
विश्वास-प्रस्तुतिः
सारस्वतस्तु नैरृत्या प्राद्युम्नः पश्चिमे तथा
रतिलोकस्तु वायव्यामुदीच्यामनिरुद्धभूः ॥ ५७ ॥
मूलम्
सारस्वतस्तु नैरृत्या प्राद्युम्नः पश्चिमे तथा
रतिलोकस्तु वायव्यामुदीच्यामनिरुद्धभूः ॥ ५७ ॥
विश्वास-प्रस्तुतिः
ऐशान्यां शान्तिलोकः स्यात्प्रथमावरणं स्मृतम्
केशवादिचतुर्विंशत्यमी लोकास्ततः क्रमात् ॥ ५८ ॥
मूलम्
ऐशान्यां शान्तिलोकः स्यात्प्रथमावरणं स्मृतम्
केशवादिचतुर्विंशत्यमी लोकास्ततः क्रमात् ॥ ५८ ॥
विश्वास-प्रस्तुतिः
द्वितीयावरणं प्रोक्तं वैकुण्ठस्य शुभाह्वयम्
मत्स्यकूर्मादिलोकास्तु तृतीयावरणं शुभम् ॥ ५९ ॥
मूलम्
द्वितीयावरणं प्रोक्तं वैकुण्ठस्य शुभाह्वयम्
मत्स्यकूर्मादिलोकास्तु तृतीयावरणं शुभम् ॥ ५९ ॥
विश्वास-प्रस्तुतिः
सत्याच्युतानन्त दुर्गा विष्वक्सेन गजाननाः
शङ्खपद्मनिधीलोकाश्चतुर्थावरणं शुभम् ॥ ६० ॥
मूलम्
सत्याच्युतानन्त दुर्गा विष्वक्सेन गजाननाः
शङ्खपद्मनिधीलोकाश्चतुर्थावरणं शुभम् ॥ ६० ॥
विश्वास-प्रस्तुतिः
ऋग्यजुः सामाथर्वाणो लोका दिक्षु महत्सु च
सावित्र्या विहगेशस्य धर्मस्य च मखस्य च ॥ ६१ ॥
मूलम्
ऋग्यजुः सामाथर्वाणो लोका दिक्षु महत्सु च
सावित्र्या विहगेशस्य धर्मस्य च मखस्य च ॥ ६१ ॥
विश्वास-प्रस्तुतिः
पञ्चमावरणं प्रोक्तमक्षयं सर्ववाङ्मयम्
शङ्खचक्रगदापद्मखड्गशार्ङ्गहलं तथा ॥ ६२ ॥
मूलम्
पञ्चमावरणं प्रोक्तमक्षयं सर्ववाङ्मयम्
शङ्खचक्रगदापद्मखड्गशार्ङ्गहलं तथा ॥ ६२ ॥
विश्वास-प्रस्तुतिः
मौशलं च तथा लोकाः सर्वशस्त्रास्त्रसंयुताः
षष्ठमावरणं प्रोक्तं मन्त्रास्त्रमयमक्षरम् ॥ ६३ ॥
मूलम्
मौशलं च तथा लोकाः सर्वशस्त्रास्त्रसंयुताः
षष्ठमावरणं प्रोक्तं मन्त्रास्त्रमयमक्षरम् ॥ ६३ ॥
विश्वास-प्रस्तुतिः
ऐन्द्र पावकयाम्यानि नैरृतं वारुणं तथा
वायव्यं सौम्यमैशानं सप्तमं मुनिभिः स्मृतम् ॥ ६४ ॥
मूलम्
ऐन्द्र पावकयाम्यानि नैरृतं वारुणं तथा
वायव्यं सौम्यमैशानं सप्तमं मुनिभिः स्मृतम् ॥ ६४ ॥
विश्वास-प्रस्तुतिः
साध्या मरुद्गणाश्चैव विश्वेदेवास्तथैव च
नित्याः सर्वे परे धाम्नि ये चान्ये च दिवौकसः ॥ ६५ ॥
मूलम्
साध्या मरुद्गणाश्चैव विश्वेदेवास्तथैव च
नित्याः सर्वे परे धाम्नि ये चान्ये च दिवौकसः ॥ ६५ ॥
विश्वास-प्रस्तुतिः
ते वै प्राकृतलोकेस्मिन्न नित्यास्त्रिदशेश्वराः
ते ह नाकं महिमानः सचन्त इति वै श्रुतिः ॥ ६६ ॥
मूलम्
ते वै प्राकृतलोकेस्मिन्न नित्यास्त्रिदशेश्वराः
ते ह नाकं महिमानः सचन्त इति वै श्रुतिः ॥ ६६ ॥
विश्वास-प्रस्तुतिः
एवं परं पदं नित्यैर्मुक्तैर्भोगपरायणैः
दिव्याभिर्महिषीभिश्च राजते विभुरीश्वरः ॥ ६७ ॥
मूलम्
एवं परं पदं नित्यैर्मुक्तैर्भोगपरायणैः
दिव्याभिर्महिषीभिश्च राजते विभुरीश्वरः ॥ ६७ ॥
विश्वास-प्रस्तुतिः
न तद्भासयते सूर्यो न शंशाङ्को न पावकः
यद्गत्वा न निवर्त्तन्ते योगिनः संशितव्रताः ॥ ६८ ॥
मूलम्
न तद्भासयते सूर्यो न शंशाङ्को न पावकः
यद्गत्वा न निवर्त्तन्ते योगिनः संशितव्रताः ॥ ६८ ॥
विश्वास-प्रस्तुतिः
द्वयैकमन्त्रनिष्ठा ये ते वै यान्ति तदव्ययम्
न वेदयज्ञाध्ययनैर्न दानैर्न व्रतैः शुभैः ॥ ६९ ॥
मूलम्
द्वयैकमन्त्रनिष्ठा ये ते वै यान्ति तदव्ययम्
न वेदयज्ञाध्ययनैर्न दानैर्न व्रतैः शुभैः ॥ ६९ ॥
विश्वास-प्रस्तुतिः
न तपोभिर्निराहारैर्न च साधनकर्मभिः
एकेन द्वयमन्त्रेण तथा भक्त्या त्वनन्यथा ॥ ७० ॥
मूलम्
न तपोभिर्निराहारैर्न च साधनकर्मभिः
एकेन द्वयमन्त्रेण तथा भक्त्या त्वनन्यथा ॥ ७० ॥
विश्वास-प्रस्तुतिः
तद्गम्यं शाश्वतं स्थानं प्रपत्त्या वै सनातनम्
पार्वत्युवाच-
साधूक्तं परमं स्वर्गस्वरूपं भवता प्रभो ॥ ७१ ॥
मूलम्
तद्गम्यं शाश्वतं स्थानं प्रपत्त्या वै सनातनम्
पार्वत्युवाच-
साधूक्तं परमं स्वर्गस्वरूपं भवता प्रभो ॥ ७१ ॥
विश्वास-प्रस्तुतिः
परव्योम्नि स्थितो नित्यं कथं प्रकृतिमण्डले
स्थितवान्किं निमित्तेन लीलया किं प्रयोजनम् ॥ ७२ ॥
मूलम्
परव्योम्नि स्थितो नित्यं कथं प्रकृतिमण्डले
स्थितवान्किं निमित्तेन लीलया किं प्रयोजनम् ॥ ७२ ॥
विश्वास-प्रस्तुतिः
शुद्धसत्वमये लोके संस्थितः परमेश्वरः
कथं रजस्तमोमिश्र विभूत्या स्थिवान्प्रभुः ॥ ७३ ॥
मूलम्
शुद्धसत्वमये लोके संस्थितः परमेश्वरः
कथं रजस्तमोमिश्र विभूत्या स्थिवान्प्रभुः ॥ ७३ ॥
विश्वास-प्रस्तुतिः
रुद्र उवाच-
त्रिपाद्विभूतौ भगवानीश्वर्य्या परमेश्वरः
नित्यमुक्त्यैकभोग्योऽसौ मोदते सततं विभुः ॥ ७४ ॥
मूलम्
रुद्र उवाच-
त्रिपाद्विभूतौ भगवानीश्वर्य्या परमेश्वरः
नित्यमुक्त्यैकभोग्योऽसौ मोदते सततं विभुः ॥ ७४ ॥
विश्वास-प्रस्तुतिः
तमीश्वरं महामाया प्रकृतिर्जगदाश्रया
कृताञ्जलिपुटा भूत्वा तुष्टाव परमेश्वरम् ॥ ७५ ॥
मूलम्
तमीश्वरं महामाया प्रकृतिर्जगदाश्रया
कृताञ्जलिपुटा भूत्वा तुष्टाव परमेश्वरम् ॥ ७५ ॥
विश्वास-प्रस्तुतिः
महामायोवाच-
नमस्ते त्रिजगद्धाम्ने नमस्ते विश्वरूपिणे
पुराणाय नमस्तुभ्यं जगदुत्पत्तिहेतवे ॥ ७६ ॥
मूलम्
महामायोवाच-
नमस्ते त्रिजगद्धाम्ने नमस्ते विश्वरूपिणे
पुराणाय नमस्तुभ्यं जगदुत्पत्तिहेतवे ॥ ७६ ॥
विश्वास-प्रस्तुतिः
श्रीभूलीलाधिपतये नमो नारायणाय च
नमो भगवते तुभ्यं वासुदेवाय शार्ङ्गिणे ॥ ७७ ॥
मूलम्
श्रीभूलीलाधिपतये नमो नारायणाय च
नमो भगवते तुभ्यं वासुदेवाय शार्ङ्गिणे ॥ ७७ ॥
विश्वास-प्रस्तुतिः
सर्वदेवस्वरूपाय विष्णवे जिष्णवे नमः
सहस्रमूर्तये तुभ्यमनन्ताय नमोस्तु ते ॥ ७८ ॥
मूलम्
सर्वदेवस्वरूपाय विष्णवे जिष्णवे नमः
सहस्रमूर्तये तुभ्यमनन्ताय नमोस्तु ते ॥ ७८ ॥
विश्वास-प्रस्तुतिः
अच्युताय विकाराय शुद्धसत्त्वस्वरूपिणे
अदिमध्यान्तरहित स्वरूपाय नमो नमः ॥ ७९ ॥
मूलम्
अच्युताय विकाराय शुद्धसत्त्वस्वरूपिणे
अदिमध्यान्तरहित स्वरूपाय नमो नमः ॥ ७९ ॥
विश्वास-प्रस्तुतिः
नमो हिरण्यगर्भाय ज्ञानाय परमात्मने
सर्वभूतात्मने तुभ्यं सर्वभूताश्रयाय च ॥ ८० ॥
मूलम्
नमो हिरण्यगर्भाय ज्ञानाय परमात्मने
सर्वभूतात्मने तुभ्यं सर्वभूताश्रयाय च ॥ ८० ॥
विश्वास-प्रस्तुतिः
ब्रह्मणे ज्योतिषे तुभ्यं नमस्ते विश्वरूपिणे
नमः शुचिषदे तुभ्यं हंसाय परमाय च ॥ ८१ ॥
मूलम्
ब्रह्मणे ज्योतिषे तुभ्यं नमस्ते विश्वरूपिणे
नमः शुचिषदे तुभ्यं हंसाय परमाय च ॥ ८१ ॥
विश्वास-प्रस्तुतिः
सङ्कर्षणाय रुद्राय सर्वभूतधराय च
हयग्रीवाय दीप्ताय कालाय हरये नमः
नमस्ते यज्ञपुरुष हव्यकव्यस्वरूपिणे ॥ ८२ ॥
मूलम्
सङ्कर्षणाय रुद्राय सर्वभूतधराय च
हयग्रीवाय दीप्ताय कालाय हरये नमः
नमस्ते यज्ञपुरुष हव्यकव्यस्वरूपिणे ॥ ८२ ॥
विश्वास-प्रस्तुतिः
नमः प्रजापतये तस्मै सूर्याय शुभवर्चसे
अग्नये हव्यभोक्त्रे च तस्मै यज्ञात्मने नमः ॥ ८३ ॥
मूलम्
नमः प्रजापतये तस्मै सूर्याय शुभवर्चसे
अग्नये हव्यभोक्त्रे च तस्मै यज्ञात्मने नमः ॥ ८३ ॥
विश्वास-प्रस्तुतिः
नमस्ते प्रसवित्रे च सर्गस्थित्यन्तहेतवे
नमो वेदान्तवेद्याय चतुरात्मस्वरूपिणे ॥ ८४ ॥
मूलम्
नमस्ते प्रसवित्रे च सर्गस्थित्यन्तहेतवे
नमो वेदान्तवेद्याय चतुरात्मस्वरूपिणे ॥ ८४ ॥
विश्वास-प्रस्तुतिः
ब्रह्मणे विष्णवे तुभ्यं नमस्ते शङ्काराय च
त्रिगुणाय नमस्तुभ्यं सर्गस्थित्यन्तहेतवे ॥ ८५ ॥
मूलम्
ब्रह्मणे विष्णवे तुभ्यं नमस्ते शङ्काराय च
त्रिगुणाय नमस्तुभ्यं सर्गस्थित्यन्तहेतवे ॥ ८५ ॥
विश्वास-प्रस्तुतिः
निर्गुणाय नमस्तुभ्यं सर्वात्मान्तरवर्तिने
अव्यक्ताय नमस्तस्मै विष्णवे लोकसाक्षिणे ॥ ८६ ॥
मूलम्
निर्गुणाय नमस्तुभ्यं सर्वात्मान्तरवर्तिने
अव्यक्ताय नमस्तस्मै विष्णवे लोकसाक्षिणे ॥ ८६ ॥
विश्वास-प्रस्तुतिः
नारायणाय श्रीशाय पूर्णषाड्गुण्यमूर्त्तये
अनन्तगुणपूर्णाय नमः सर्वार्थदायिने ॥ ८७ ॥
मूलम्
नारायणाय श्रीशाय पूर्णषाड्गुण्यमूर्त्तये
अनन्तगुणपूर्णाय नमः सर्वार्थदायिने ॥ ८७ ॥
विश्वास-प्रस्तुतिः
नमस्ते वासुदेवाय पञ्चावस्थस्वरूपिणे
नमः पञ्चनवव्यूह भेदरूपाय ते नमः ॥ ८८ ॥
मूलम्
नमस्ते वासुदेवाय पञ्चावस्थस्वरूपिणे
नमः पञ्चनवव्यूह भेदरूपाय ते नमः ॥ ८८ ॥
विश्वास-प्रस्तुतिः
नमो यज्ञवराहाय गोविन्दाय नमो नमः
अविकाराय शुद्धाय हेयप्रतिभटाय च ॥ ८९ ॥
मूलम्
नमो यज्ञवराहाय गोविन्दाय नमो नमः
अविकाराय शुद्धाय हेयप्रतिभटाय च ॥ ८९ ॥
विश्वास-प्रस्तुतिः
नमो रामाय कृष्णाय नरसिंहाय ते नमः
केशवाय नमस्तुभ्यं जगतां क्लेशहारिणे ॥ ९० ॥
मूलम्
नमो रामाय कृष्णाय नरसिंहाय ते नमः
केशवाय नमस्तुभ्यं जगतां क्लेशहारिणे ॥ ९० ॥
विश्वास-प्रस्तुतिः
त्वमेव सर्वलोकानामाश्रयः पुरुषोत्तमः
प्रसीद देवदेवेश सर्वलोकहिताय वै ॥ ९१ ॥
मूलम्
त्वमेव सर्वलोकानामाश्रयः पुरुषोत्तमः
प्रसीद देवदेवेश सर्वलोकहिताय वै ॥ ९१ ॥
विश्वास-प्रस्तुतिः
मत्संस्थाश्चेतनास्सर्वे निराधारा निराश्रयाः
हीनदेहा निराकाराः सर्वेन्द्रियविवर्जिताः ॥ ९२ ॥
मूलम्
मत्संस्थाश्चेतनास्सर्वे निराधारा निराश्रयाः
हीनदेहा निराकाराः सर्वेन्द्रियविवर्जिताः ॥ ९२ ॥
विश्वास-प्रस्तुतिः
सर्वानुष्ठानरहिताः सततं दुःखभोगिनः
तेषां लोकांश्च देहांश्च दातुमर्हसि केशव ॥ ९३ ॥
मूलम्
सर्वानुष्ठानरहिताः सततं दुःखभोगिनः
तेषां लोकांश्च देहांश्च दातुमर्हसि केशव ॥ ९३ ॥
विश्वास-प्रस्तुतिः
लीलाविभूतिं सर्वज्ञ यथापूर्वं प्रकल्पय
चेतनाचेतनं कृत्स्नं जगत्स्थावरजङ्गमम् ॥ ९४ ॥
मूलम्
लीलाविभूतिं सर्वज्ञ यथापूर्वं प्रकल्पय
चेतनाचेतनं कृत्स्नं जगत्स्थावरजङ्गमम् ॥ ९४ ॥
विश्वास-प्रस्तुतिः
मया सम्मोहितं पश्य लीलार्थम्परमेश्वर
प्राकृताण्डं मया सार्धं सृजस्व पुरुषोत्तम ॥ ९५ ॥
मूलम्
मया सम्मोहितं पश्य लीलार्थम्परमेश्वर
प्राकृताण्डं मया सार्धं सृजस्व पुरुषोत्तम ॥ ९५ ॥
विश्वास-प्रस्तुतिः
धर्माधर्मौ सुखं दुःखं तस्मिन्निक्षिप्य संसृतौ
मामधिष्ठाय लीलां वै कर्तुमर्हसि मा चिरम् ॥ ९६ ॥
मूलम्
धर्माधर्मौ सुखं दुःखं तस्मिन्निक्षिप्य संसृतौ
मामधिष्ठाय लीलां वै कर्तुमर्हसि मा चिरम् ॥ ९६ ॥
विश्वास-प्रस्तुतिः
श्रीमहादेव उवाच-
एवमुक्तस्तया देव्या मायया परमेश्वरः
तस्यां निवेश्य मायायां जगत्स्रष्टुं प्रचक्रमे ॥ ९७ ॥
मूलम्
श्रीमहादेव उवाच-
एवमुक्तस्तया देव्या मायया परमेश्वरः
तस्यां निवेश्य मायायां जगत्स्रष्टुं प्रचक्रमे ॥ ९७ ॥
विश्वास-प्रस्तुतिः
योऽसौ प्रकृतिपुरुषः प्रोच्यते स इहाच्युतः
स एव भगवान्विष्णुः प्रकृत्यां प्रविवेश ह ॥ ९८ ॥
मूलम्
योऽसौ प्रकृतिपुरुषः प्रोच्यते स इहाच्युतः
स एव भगवान्विष्णुः प्रकृत्यां प्रविवेश ह ॥ ९८ ॥
विश्वास-प्रस्तुतिः
असृजत्प्रकृतौ ब्रह्मभूतादिमहदाश्रयम्
महतः पुरुषादस्मादहङ्कारोऽभ्यजायत ॥ ९९ ॥
मूलम्
असृजत्प्रकृतौ ब्रह्मभूतादिमहदाश्रयम्
महतः पुरुषादस्मादहङ्कारोऽभ्यजायत ॥ ९९ ॥
अहङ्कारात्तु वै तस्माद्गुणत्रयमजायत
त्रिभ्यो गुणेभ्यस्तन्मात्रामसृजद्विश्वभावनः १००
तन्मात्रेभ्योभ्यजायन्त महाभूतानि तत्क्षणात्
ॐकारः प्रथमं जातो ब्रह्मणस्त्रिगुणात्मनः १०१
आकाशादभवद्वायुर्वायोरग्निरजायत
अग्नेरापः समुद्भूता अद्भ्यश्च पृथिवी मता १०२
आकाशादीनि भूतानि सृष्टान्येकोत्तराणि वै
शब्दस्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः १०३
एकोत्तरगुणान्सृष्ट्वा तानादाय महाप्रभुः
तेषां विमिश्रणं कृत्वा जगदण्डं महत्तरम्
असृजत्तत्रलान्वै सङ्ख्यया ये चतुर्दश १०४
ब्रह्मादित्रिदशांस्तस्मिन्नसृजत्पुरुषोत्तमः
दैवतिर्य्यक्तथा मर्त्यं स्थावरं च चतुर्विधम् १०५
तथा सृष्टो महासर्गन्तेन वै जलजेक्षणे
तत्र कर्मानुरूपेण त्रिदशादिषु योनिषु १०६
संस्थिताः प्रकृतौ पूर्व आत्मनः प्रभवन्ति हि १०७
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे परमव्योमादिवर्णनन्नाम अष्टाविंशत्यधिकद्विशततमोऽध्यायः २२८