पार्वत्युवाच-
विश्वास-प्रस्तुतिः
विस्तरेण मयाचक्ष्व मन्त्रार्थपदगौरवम्
ईश्वरस्य स्वरूपं च तद्विभूतिगुणांस्तथा ॥ १ ॥
मूलम्

तद्विष्णोः परमं धामव्यूहभेदांस्तथा हरेः
सर्वमाख्याहि तत्त्वेन मम सर्वसुरेश्वर ॥ २ ॥

ईश्वर उवाच-
शृणु देवि प्रवक्ष्यामि स्वरूपं परमात्मनः
विभूतिगुणसङ्घातं तदवस्थात्मकं हरेः ॥ ३ ॥

यः परः पुरुषो विष्णुर्नारायण उदाहृतः
स ईश्वरश्च जगतां परमात्मा सनातनः ॥ ४ ॥
मूलम्
यः परः पुरुषो विष्णुर्नारायण उदाहृतः
स ईश्वरश्च जगतां परमात्मा सनातनः ॥ ४ ॥
विश्वास-प्रस्तुतिः
विश्वतः पाणिपादश्च चक्षुष्मान्विश्वतः प्रभुः
विश्वानि भुवनान्यस्मिन्धामानि परमाणि वै ॥ ५ ॥

धारयन्सोऽप्यत्यतिष्ठेन्मनांसि च मनीषिणाम्
एवं बहुस्वरूपः सञ्छ्रीपतिः पुरुषोत्तमः
ईश्वरर्य्या सहभोगार्थं दिव्यमङ्गलरूपवान् ॥ ६ ॥

बृहच्छरीरोऽग्निसमानरूपो युवा कुमारत्वमुपेयिवान्हरिः
रेमे श्रियासौ जगतां जनन्या स्वज्योत्स्नया चन्द्रइवामृतांशुः ॥ ७ ॥

अयं च जगदीश्वर्य्या कुमारो नित्ययौवनः
कन्दर्प्पकोटिलावण्यः स तस्थे परमे पदे ॥ ८ ॥

भोगार्थं परमं व्योम लीलार्थमखिलं जगत्
भोगेन क्रीडया विष्णोर्विभूतिद्वयसंस्थितिः ॥ ९ ॥

भोगे नित्यस्थितिस्तस्य लीलां संहरते कदा
भोगो लीला उभौस्तस्य धार्य्येते शक्तिमत्तया ॥ १० ॥

त्रिपाद्व्याप्तिः परे धाम्नि पादोस्येहाभवत्पुनः
त्रिपाद्विभूतिर्नित्या स्यादनित्यं पादमैश्वरम् ॥ ११ ॥

नित्यं तद्रूपमीशस्य परे धाम्नि स्थितं शुभम्
अच्युतं शाश्वतं दिव्यं सदा यौवनमाश्रितम् ॥ १२ ॥

नित्यं सम्भोगमीश्वर्या श्रिया भूम्या च संवृतम्
नित्यैवेषा जगन्माता विष्णोः श्रीरनपायिनी ॥ १३ ॥

यथा सर्वगतो विष्णुस्तथा लक्ष्मीश्शुभानने
ईशाना सर्वजगतो विष्णुपत्नी सदा शिवा ॥ १४ ॥

सर्वतः पाणिपादान्ता सर्वतोऽक्षिशिरोमुखी
नारायणी जगन्माता समस्तजगदाश्रया ॥ १५ ॥
मूलम्
सर्वतः पाणिपादान्ता सर्वतोऽक्षिशिरोमुखी
नारायणी जगन्माता समस्तजगदाश्रया ॥ १५ ॥
विश्वास-प्रस्तुतिः
यदपाङ्गाश्रितं सर्वं जगत्स्थावरजङ्गमम्
जगत्स्थितिलयौ यस्या उन्मीलननिमीलनात् ॥ १६ ॥

सर्वस्याद्या महालक्ष्मीस्त्रिगुणा परमेश्वरी
लक्ष्यालक्ष्यस्वरूपा सा व्याप्य कृत्स्नं व्यवस्थिता ॥ १७ ॥

शून्यं तदखिलं विश्वं विलोक्य परमेश्वरी
शून्यं तदखिलं स्वेन पूरयामास तेजसा ॥ १८ ॥

सा लक्ष्मीर्धरणी चैव नीलादेवीति विश्रुता
आधारभूता जगतः पृथिवीरूपमाश्रिता ॥ १९ ॥

तोयादिरसरूपेण सैव नीलावपुर्भवेत्
लक्ष्मीरूपत्वमापन्ना धनवाग्रूपिणी हि सा ॥ २० ॥

एवं देवीस्वरूपा सा जगतः श्रीः श्रीताहरिम्
समस्तविद्याभेदा स्युर्लक्ष्मीरूपा वरानने ॥ २१ ॥

श्रीरूपमखिलं सर्वं तस्या हि वपुरुच्यते
सौन्दर्यं शीलवृत्तं च सौभाग्यं स्त्रीषु संस्थितम्
तस्या रूपं च गिरिजे सर्वासां मूर्ध्नि योषिताम् ॥ २२ ॥

यस्याः कटाक्षाय तमोग्रदृष्ट्या ब्रह्माशिवस्स्वर्गपतिर्महेन्द्रः
चन्द्रश्च सूर्यो धनदोपमोग्निः प्रभूतमैश्वर्यमवाप्नुवन्ति ॥ २३ ॥

लक्ष्मीः श्रीः कमला विद्या माता विष्णुप्रिया सती
पद्मालया पद्महस्ता पद्माक्षी लोकसुन्दरी ॥ २४ ॥

भूतानामीश्वरी नित्या सह्या सर्वगता शुभा
विष्णुपत्नी महादेवी क्षीरोदतनया रमा ॥ २५ ॥

अनन्ता लोकमाता भूर्नीला सर्वसुखप्रदा
रुक्मिणी च तथा सीता सर्ववेदवती शुभा ॥ २६ ॥

सती सरस्वती गौरी शान्तिः स्वाहा स्वधा रतिः
नारायणी वरारोहा विष्णोर्नित्यानपायिनी ॥ २७ ॥

एतानि पुण्यनामानि प्रातरुत्थाय यः पठेत्
स महाश्रियमाप्नोति धनधान्यमकल्मषम् ॥ २८ ॥

हिरण्यवर्णां हरिणीं सुवर्णरजतः स्रजाम्
चन्द्रां हिरण्मयीं लक्ष्मीं विष्णोरनपगामिनीम् ॥ २९ ॥

गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥ ३० ॥

एवं ऋक्संहितायां तु स्तूयमाना महेश्वरी
सर्वैश्वर्यसुखं प्रादाच्छिवादीनां दिवौकसाम् ॥ ३१ ॥

अस्येशाना हि जगतो विष्णुपत्नी सनातनी
यदपाङ्गाश्रितं सर्वं जगत्स्थावरजङ्गमम् ॥ ३२ ॥

यस्य वक्षसि सा देवी प्रभाग्नाविव तिष्ठति
स वै सर्वेश्वरः साक्षादक्षरः पुरुषोऽव्ययः ॥ ३३ ॥

स वै नारायणः श्रीमान्वात्सल्यगुणसागरः
स्वामी सुशीलः सुभगः सर्वज्ञः सर्वशक्तिमान् ॥ ३४ ॥

नित्यं सम्पूर्णकामश्च नैसर्गिकसुहृत्सखा
कृपापीयूषजलधिः शरणं सर्वदेहिनाम् ॥ ३५ ॥
मूलम्
नित्यं सम्पूर्णकामश्च नैसर्गिकसुहृत्सखा
कृपापीयूषजलधिः शरणं सर्वदेहिनाम् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
स्वर्गापवर्गसुखदो भक्तानां करुणाकरः
श्रीमते विष्णवे तस्मै दास्यं सर्वं करोम्यहम् ॥ ३६ ॥

देशकालाद्यवस्था तु सर्वासु कमलापतेः
इति स्वरूपं संसिद्धं सुखं दास्यमवाप्नुयात् ॥ ३७ ॥

एवं विदित्वा मन्त्रार्थं तद्भक्तिं सम्यगाचरेत्
दासभूतमिदं तस्य जगत्स्थावरजङ्गमम् ॥ ३८ ॥

श्रीमन्नारायणः स्वामी जगतां प्रभुरीश्वरः
माता पिता सुतो बन्धुर्निवासः शरणं गतिः ॥ ३९ ॥

कल्याणगुणवान्श्रीशः सर्वकामफलप्रदः
योऽसौ निर्गुण इत्युक्तः शास्त्रेषु जगदीश्वरः ॥ ४० ॥

प्राकृतैर्हेयसंयुक्तैर्गुणैर्हीनत्वमुच्यते
यत्र मिथ्या प्रपञ्चत्वं वाक्यैर्वेदान्तगोचरैः ॥ ४१ ॥

दृश्यमानमिदं सर्वमनित्यमिति चोच्यते
अत्रापि प्राकृतं रूपमण्डस्यैव विनाशनम् ॥ ४२ ॥

प्राकृतानां हि रूपाणामनित्यत्वं तथोच्यते
इममर्थं महादेवि प्रकृतेरुद्भवं हरेः ॥ ४३ ॥

क्रीडार्थं देवदेवस्य विष्णोर्लीलाधिकारिणः
लोकैश्चतुर्भिर्दशभिः सागरैर्द्वीपसंयुतैः ॥ ४४ ॥

भूतैश्चतुर्विधैश्चापि भूधरैश्च महोच्छ्रयैः
परिपूर्णमिदं रम्यमण्डं प्रकृतिसम्भवम् ॥ ४५ ॥

दशोत्तरगुणोपेतं सप्तावरणसंवृतम्
कलाकाष्ठादिरूपेण यः कालं परिवर्तते ॥ ४६ ॥

कालेनैव जगत्सर्गस्थितिसंहरणं भवेत्
चतुर्युगसहस्रं वै ब्रह्मणो दिवसो भवेत् ॥ ४७ ॥

तावन्ति रात्रिवर्षाणि ब्रह्मणोऽव्यक्तजन्मनः
क्षये तु ब्रह्मणः प्राप्ते सर्वसंहारको भवेत् ॥ ४८ ॥

अण्डमण्डगता लोका दह्यन्ते कालवह्निना
सर्वात्मानस्तथा विष्णोः प्रकृतौ विनिवेशिताः ॥ ४९ ॥

अण्डावरणभूतानि प्रकृतौ लयमाप्नुयुः
सा सर्वजगदाधारा प्रकृतिर्हरिसंश्रिता ॥ ५० ॥

तया जगत्सर्गलयौ करोति भगवान्सदा
क्रीडार्थं देवदेवेन सृष्टा माया जगन्मयी ॥ ५१ ॥

अविद्या प्रकृतिर्माया गुणत्रयमयी सदा
सर्गस्थितिलयानां सा हेतुभूता सनातनी ॥ ५२ ॥

योगनिद्रा महामाया प्रकृतिस्त्रिगुणान्विता
अव्यक्ता च प्रधानं च विष्णोर्लीलाविकारिणः ॥ ५३ ॥

जगत्सर्गलयौ स्यातां प्रकृतेरेव सर्वदा
असङ्ख्यप्रकृतेः स्थानं निबिडध्वान्तमव्ययम् ॥ ५४ ॥

ऊर्ध्वं तु सीम्नि विरजा निस्सीमाधस्सनातनी
तयादृतं जगत्सर्वं स्थूलसूक्ष्माद्यवस्थया ॥ ५५ ॥

विकाससङ्कोचावस्थे तस्यां सर्गलयौ स्मृतौ
एवं सर्वाणि भूतानि प्रकृत्यन्तर्गतानि वै ॥ ५६ ॥

ततः शून्यमिदं सर्वं प्रकृत्यन्तर्गतं महत्
एवं प्रकृतिरूपाया विभूते रूपमुत्तमम् ॥ ५७ ॥

त्रिपाद्विभूतिरूपं तु शृणु भूधरनन्दिनि
प्रधान परमव्योम्नोरन्तरे विरजा नदी ॥ ५८ ॥

वेदाङ्गस्वेदजनिततोयैः प्रस्राविता शुभा
तस्याः पारे परे व्योम्नि त्रिपाद्भूतिस्सनातनी ॥ ५९ ॥

अमृतं शाश्वतं नित्यमनन्तं परमं पदम्
शुद्धं सत्वमयं दिव्यमक्षरं ब्रह्मणः पदम् ॥ ६० ॥

अनेककोटिसूर्याग्नि तुल्य वर्चसमव्ययम्
सर्ववेदमयं शुद्धं सर्गप्रलयवर्जितम् ॥ ६१ ॥

असङ्ख्यमजरं नित्यं जाग्रत्स्वप्नादिवर्जितम्
हिरण्मयं मोक्षपदं ब्रह्मानन्दसुखावहम् ॥ ६२ ॥

समानाधिक्यरहितमाद्यन्तरहितं शुभम्
तेजसात्यद्भुतं रम्यं नित्यमानन्दसागरम् ॥ ६३ ॥

एवमादिगुणोपेतं तद्विष्णोः परमं पदम्
न तद्भासयते सूर्यो न शशाङ्को न पावकः ॥ ६४ ॥

यद्गत्वा न निवर्तन्ते तद्धाम परमं हरेः
तद्विष्णोः परमं धाम शाश्वतं नित्यमच्युतम्
न हि वर्णयितुं शक्यं कल्पकोटिशतैरपि ॥ ६५ ॥

हरेः पदं वर्णयितुं न शक्यं मया च धात्रा च मुनीन्द्रसङ्घैः
यस्मिन्पदे ह्यच्युत ईश्वरो यः सो अङ्ग वेद यदि वा न वेद ॥ ६६ ॥

यदक्षरं वेदगुह्यं यस्मिन्देवा अधि विश्वे निषेदुः
यस्तन्नो वेद किमृचा करिष्यति ये तद्विदुस्त इमे समासते ॥ ६७ ॥

तद्विष्णोः परमं धाम सदा पश्यन्ति सूरयः
अक्षरं शाश्वतं दिव्यं देवि चक्षुरिवाततम् ॥ ६८ ॥

तत्प्रवेष्टुमशक्यं च ब्रह्मरुद्रादिदैवतैः
ज्ञानेन शास्त्रमार्गेण वीक्ष्यते योगिपुङ्गवैः ॥ ६९ ॥

अहं ब्रह्मा च देवाश्च न जानन्ति महर्षयः
सर्वोपनिषदामर्थं दृष्ट्वा वक्ष्यामि सुव्रते ॥ ७० ॥

विष्णोः पदे हि परमे पदे तत्सशुभाह्वयेः
यत्र गावो भूरिशृङ्गा आसते सुसुखाः प्रजाः ॥ ७१ ॥

अत्राह तत्परं धाम गोपवेषस्य शार्ङ्गिणः
तद्भाति परमं धाम गोभिर्गोपैस्सुखाह्वयैः ॥ ७२ ॥

आदित्यवर्णं तमसः परस्ताज्ज्योतिरच्युतम्
आधारो ब्रह्मणो लोकश्शुद्धसत्त्वस्सनातनः ॥ ७३ ॥

सामान्या विभिते भूमिन्तेऽस्मिन्शाश्वते पदे
तस्थतुर्जागरूकेस्मिन्युवानौ श्रीसनातनौ ॥ ७४ ॥

यतः स्वसारौ युवती भूनीले विष्णुवल्लभे
अत्र पूर्वे ये च साध्या विश्वेदेवास्सनातनाः ॥ ७५ ॥

ते ह नाकं महिमानस्सचन्ते शुभदर्शनाः
तत्र विज्ञानिनो विप्रा जागृवांसस्समिन्धते ॥ ७६ ॥

तत्पदं ज्ञानिनो विप्रा यान्ति संवासमिच्छवः
तद्विष्णोः परमं धाम मोक्ष इत्यभिधीयते ॥ ७७ ॥

तस्मिन्बन्धविनिर्मुक्ताः प्राप्नुवन्ति सुखं पदम्
तत्प्राप्य न निवर्तन्ते तस्मान्मोक्ष उदाहृतः ॥ ७८ ॥

मोक्षं परं पदं दिव्यममृतं विष्णुमन्दिरम्
अक्षरं परमं धाम वैकुण्ठं शाश्वतं पदम् ॥ ७९ ॥

नित्यञ्च परमं व्योम सर्वोत्कृष्टं सनातनम्
पर्य्यायवाचकान्यस्य परधाम्नोच्युतस्य च
तस्य त्रिपाद्विभूतेस्तु रूपं वक्ष्यामि विस्तरात् ॥ ८० ॥

इति श्रीपाद्मेमहापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वरसंवादे त्रिपाद्विभूतिकथनन्नाम सप्तविंशत्यधिकद्विशततमोऽध्यायः २२७