शङ्कर उवाच -
विश्वास-प्रस्तुतिः
न्यासेवाप्यर्चने वापि मन्त्रमेकान्तिनः श्रयेत्
अवैष्णवोपदिष्टेन मन्त्रेण न परा गतिः ॥ १ ॥
मूलम्

अवैष्णवोपदिष्टञ्चेत्पूर्वमन्त्रवरन्द्वयम्
पुनश्च विधिना सम्यक्वैष्णवाद्ग्राहयेद्गुरोः ॥ २ ॥

सहस्रशाखाध्यायी वा सर्वयज्ञेषु दीक्षितः
कुले महति जातोऽपि न गुरुः स्यादवैष्णवः ॥ ३ ॥

यस्तु मन्त्रद्वयं सम्यगध्यापयति वैष्णवः
स आचार्यस्तु विज्ञेयो भवबन्धविदारकः ॥ ४ ॥

आचार्यं संश्रयित्वाथ वत्सरं सेवयेद्दिवजः
तस्य वृत्तिं परिज्ञात्वा मन्त्रमध्यापयेद्गुरुः ॥ ५ ॥

कृत्वा तापादिसंस्कारान्पश्चान्मन्त्रमुदीरयेत्
तापं पुण्ड्रं तथा नाम कृत्वा वै विधिना गुरुः ॥ ६ ॥

पश्चादध्यापयेन्मन्त्रं शिष्यं निर्मलचेतसम्
चक्रेण विधिना तप्तं ताप इत्यभिधीयते ॥ ७ ॥

पुण्ड्रमूर्द्ध्वं तथा प्रोक्तं नाम वैष्णवमुच्यते
ततो मन्त्रं विधानेन शिष्यमध्यापयेद्गुरुः ॥ ८ ॥

न्यासमष्टाक्षरं मन्त्रमन्यं वा वैष्णवं मनुम्
न्यासमेवात्र परमं वैष्णवानां शुभानने ॥ ९ ॥

तस्मात्तु न्यासमेवैषामतिरिक्तमिहोच्यते
न्यासविद्यापरो यस्तु ब्राह्मणः श्रेष्ठ उच्यते ॥ १० ॥

न्यासात्परतरं नास्ति मन्त्रं सत्यं ब्रवीमि ते
न्यासं द्वयं प्रपत्तिः स्यात्पर्यायेण निबोध मे ॥ ११ ॥

द्वयोपदेशपूर्वं तु सर्वकर्मसमाचरेत्
द्वयाधिकारी न भवेत्सर्वकर्मसु नार्हति ॥ १२ ॥

तस्माद्वयमधीत्येव पश्चान्मन्त्रमनुत्तमम्
श्रीमदष्टाक्षरं सम्यगभ्यसेद्दिवजसत्तमः ॥ १३ ॥

मन्त्रमष्टाक्षरं प्रोक्तं प्रणवस्यैव सङ्ग्रहात्
नैसर्गप्रणवाद्यन्तु मन्त्रमित्युच्यतेबुधैः ॥ १४ ॥

नान्यत्र सर्वमन्त्रेषु प्रणवस्वस्वभावतः
पूर्वं तु सर्वमन्त्राणां योजयेत्प्रणवं शुभम् ॥ १५ ॥

ॐकारः प्रणवं ब्रह्म सर्वमन्त्रेषु नायकः
आदौ सर्वत्र युञ्जीत मन्त्राणां तु शुभानने ॥ १६ ॥

स्वभावात्प्रणवन्तस्मिन्मूलमन्त्रे प्रतिष्ठितम्
ओमित्येकाक्षरं पूर्वं द्व्यक्षरं नम इत्यथ ॥ १७ ॥

ततो नारायणायेति पञ्चार्णानि यथाक्रमम्
एवमष्टाक्षरो मन्त्रो ज्ञेयः सर्वार्थसाधकः ॥ १८ ॥

सर्वदुःखहरः श्रीमान्सर्वमन्त्रात्मकः शुभः
ऋषिर्नारायणस्तस्य देवता श्रीश एव च ॥ १९ ॥

छन्दस्तु देवी गायत्री प्रणवो बीजमुच्यते
नित्यानपायिनी देवी शक्तिः श्रीरुच्यते मनोः ॥ २० ॥

प्रथमं पदमोङ्कार द्वितीयं नम उच्यते
तृतीयं नारायणायेति पदत्रयमुदाहृतम् ॥ २१ ॥

अकारश्चाप्युकारश्च मकारश्च ततः परम्
वेदत्रयात्मकं प्रोक्तं प्रणवं ब्रह्मणः पदम् ॥ २२ ॥

अकारेणोच्यते विष्णुः श्रीरुकारेण चोच्यते
मकारस्त्वनयोर्दासः पञ्चविंशः प्रकीर्तितः ॥ २३ ॥

वासुदेवस्वरूपं तदकारेणोच्यतै बुधैः
उकारेण श्रियो देव्या रूपं मुनिभिरुच्यते ॥ २४ ॥

मकारेणोच्यते जीवः पञ्चविंशोदितः पुमान्
भूतानि च कवर्गेण चवर्गणेन्द्रियाणि च ॥ २५ ॥

ट वर्गेण तवर्गेण ज्ञानं धादयस्तथा
मनः पकारेणैवोक्तं फकारेण त्वहङ्कृतिः ॥ २६ ॥

बकारेण भकारेण महान्प्रकृतिरुच्यते
आत्मा तु समकारः स्यात्पञ्चविंशः प्रकीर्तितः ॥ २७ ॥

देहेन्द्रियमनः प्राणादिभ्योन्योऽनन्यसाधनः
भगवच्छेषभूतोऽसौ मकाराख्यः स चेतनः ॥ २८ ॥

अवधारणवाच्येवमुकारः कैश्चिदुच्यते
श्रीतत्वमपि तत्पक्षे वकारेणैव चोच्यते ॥ २९ ॥

भास्करस्य प्रभा यद्वत्तस्य नित्यानपायिनी
आकारेणोच्यते विष्णुः कल्याणगुणसागरः ॥ ३० ॥

श्रीशः सर्वात्मनां शेषो जगद्बीजं परः पुमान्
जगत्कर्त्ता जगद्भर्त्ता ईश्वरो लोकबान्धवः ॥ ३१ ॥

जगतामीश्वरी नित्या विष्णोरनपगामिनी
माता सर्वस्य जगतः पत्नी विष्णोर्मनोरमा ॥ ३२ ॥

जगदाधारभूता श्रीरुकारेणात्र चोच्यते
मकारेण तयोर्दासः क्षेत्रज्ञः प्रोच्यते बुधैः ॥ ३३ ॥

ज्ञानाश्रमो ज्ञानगुणश्चेतनः प्रकृतेः परः
न जडो निर्विकारश्च एकरूप स्वरूपभाक् ॥ ३४ ॥

अणुर्नित्यो व्याप्तिशीलश्चिदानन्दात्मकस्तथा
अहमर्थोऽव्ययः क्षेत्री भिन्नरूपं सनातनः ॥ ३५ ॥

अदाह्योच्छेद्यो ह्यक्लैद्यस्त्वशोष्योक्षर एव च
एवमादिगुणोपेतश्शेषभूतः परस्य वै ॥ ३६ ॥

मकारेणोच्यते जीवः क्षेत्रज्ञः परवान्सदा
दासभूतो हरेरेव नान्यस्य तु कदाचन ॥ ३७ ॥
मूलम्
मकारेणोच्यते जीवः क्षेत्रज्ञः परवान्सदा
दासभूतो हरेरेव नान्यस्य तु कदाचन ॥ ३७ ॥
विश्वास-प्रस्तुतिः
एवं दासत्वमेवास्य मध्यमेवावधार्यते
इत्येवं प्रणवस्यार्थो ज्ञातव्योक्तो मयानघे ॥ ३८ ॥

विवृतिः प्रणवस्यार्थ मन्त्रशेषेण वै शुभे
परस्य दासभूतस्य स्वातन्त्र्यं नेह विद्यते ॥ ३९ ॥

तस्मान्महदहङ्कारौ मनसा विनिवर्त्तयेत्
स्वोपायबुद्ध्या यत्कृत्यं तदपि प्रतिषिध्यते ॥ ४० ॥

अहङ्कृतिर्मकारः स्यान्नकारस्तन्निषेधकः
तस्मात्तु मनसैवास्य अहङ्कारविमोचनम् ॥ ४१ ॥

मनसा सर्वसिद्धिः स्यादन्यथा नाशमाप्नुयात्
नमसा सहितं किञ्चित्तदहङ्कार उच्यते ॥ ४२ ॥

अहङ्कारेण युक्तस्य सुखं किञ्चिन्न विद्यते
अहङ्कारविमूढात्मा अन्धे तमसि मज्जति ॥ ४३ ॥

तस्मान्न मनसा चात्र स्वातन्त्र्यं प्रतिषिध्यते
भगवत्परतन्त्रोऽसौ तदायत्तश्च जीवति ॥ ४४ ॥

तस्मात्साधनकर्तृत्वं चेतनस्य न विद्यते
ईश्वरस्यैव सङ्कल्पाद्वर्त्तते स्वचराचरम् ॥ ४५ ॥

तस्मात्स्वसामर्थ्यविधिं त्यजेत्सर्वमशेषतः
ईश्वरस्य तु सामर्थ्यान्नालभ्यं तस्य विद्यते ॥ ४६ ॥

तस्मिन्न्यस्तभरः श्रीशे तत्कर्मैव समाचरेत्
परमात्मा हरिस्स्वामी स्वमहं तस्य सर्वदा ॥ ४७ ॥

इच्छाया विनियोक्तव्यस्तस्यैवात्मेश्वरस्य हि
इत्येवं मनसा त्यक्तमहन्ता ममतोर्जितम् ॥ ४८ ॥

देहेष्वहं मतिर्मूलं संसृतौ कर्मबन्धने
तस्मान्महदहङ्कारौ मनसा वर्जयेद्बुधः ॥ ४९ ॥

अथ नारायणपदं वक्ष्यामि गिरजे शुभे
नारा इत्यात्मनां सङ्घास्तेषां गतिरसौ पुमान् ॥ ५० ॥

त एव चायनं तस्य तस्मान्नारायणः स्मृतः
सर्वं हि चिदचिद्वस्तु श्रूयते दृश्यते जगत् ॥ ५१ ॥

योऽसौ व्याप्यस्थितो नित्यं स वै नारायणः स्मृतः
नाराश्चेति सर्वपुंसां समूहाः परिकीर्तिताः ॥ ५२ ॥

गतिरालम्बनं तेषां तस्मान्नारायणः स्मृतः
नराज्जातानि तत्वानि नाराणीति विदुर्बुधाः ॥ ५३ ॥

तान्येव चायनं तस्य तेन नारायणस्स्मृतः
कल्पान्तेपि जगत्कृत्स्नं ग्रसित्वा येन धार्यते ॥ ५४ ॥

पुनः संसृज्यते येन स वै नारायणः स्मृतः
चराचरं जगत्कृत्स्नं नार इत्यभि धीयते ॥ ५५ ॥

तस्य वासं गतिर्येन तेन नारायणः स्मृतः
नारो नराणां सङ्घातस्तस्यासावयनं गतिः ॥ ५६ ॥

तेनासौ मुनिभिर्नित्यं नारायण इतीरितः
प्रभवन्ति यतो लोका महाब्धौ पृथुफेनवत् ॥ ५७ ॥

पुनर्यस्मात्प्रलीयन्ते तस्मान्नारायणः स्मृतः
यो वै नित्यपदे नित्यो नित्यमुक्तैकभोगवान् ॥ ५८ ॥

ईशः सर्वस्य जगतः स वै नारायणः स्मृतः
नारायणः परम्ब्रह्म तत्वं नारायणः परम् ॥ ५९ ॥

यच्च किञ्चिज्जगत्यस्मिन्दृश्यते श्रूयतेऽपि वा
अन्तर्बंहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ॥ ६० ॥

अपहतपाप्मा पुरुषः सर्वभूतान्तरस्थितः
दिव्यएकस्सदा नित्यो हरिर्नारायणोऽच्युतः ॥ ६१ ॥

यस्तु द्रष्टा च द्रष्टव्यं श्रोता श्रोतव्यमेव च
स्प्रष्टा च स्पर्शितव्यश्च ध्याता ध्यातव्यमेव च ॥ ६२ ॥

वक्ता च वाच्यं ज्ञाता च ज्ञातव्यं चिदचिज्जगत्
तच्च सर्वं हरिः श्रीशो नारायण उदाहृतः ॥ ६३ ॥

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्
स लोकान्सर्वतो व्याप्य अत्यतिष्ठद्दशाङ्गुलम् ॥ ६४ ॥

यद्भूतं यच्च भव्यं तत्सर्वं नारायणो हरिः
उतामृतत्वस्येशानो यदन्नेन विराट्पुमान् ॥ ६५ ॥

स एव पुरुषो विष्णुर्वासुदेवोऽच्युतो हरिः
हिरण्मयोऽथ भगवान्सोऽमृतः शाश्वतः शिवः ॥ ६६ ॥

पतिर्विश्वस्य जगतः सर्वलोकेश्वरं प्रभुः
हिरण्यगर्भाः सविता अनन्तोऽसौ महेश्वरः ॥ ६७ ॥

भगवानिति शब्दोऽयं तथा पुरुष इत्यपि
वर्त्तते निरुपाधिश्च वासुदेवोऽखिलात्मनि ॥ ६८ ॥

ईश्वरो भगवान्विष्णुः परमात्मा जगत्सुहृत्
शास्ता चराचरस्यैको यतीनां परमा गतिः ॥ ६९ ॥

यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः
तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥ ७० ॥

योसावकारो वै विष्णुर्योऽसौ नारायणो हरिः
स एव पुरुषो नित्यः परमात्मा महेश्वरः ॥ ७१ ॥

यस्मादुद्भूतमैश्वर्यं यस्मिन्कस्मिंश्च वर्तते
तस्मिन्नीश्वरशब्दोऽपि प्रोच्यते मुनिभिस्तथा
निरुपाधीश्वरत्वं हि वासुदेवे प्रतिष्ठितम् ॥ ७२ ॥

आत्मेश्वर इति प्रोक्तो वेदवादैः सनातनैः
तस्मान्महेश्वरत्वं तु वासुदेवे प्रतिष्ठितम् ॥ ७३ ॥

असौ त्रिपाद्विभूतेस्तु लीलया अपि चेश्वरः
विभूतिद्वयमैश्वर्यं तस्यैव सकलात्मनः ॥ ७४ ॥

श्रीभूनीलापतिर्योसावीश्वरस्स उदाहृतः
तस्मात्सर्वेश्वरत्वं तु वासुदेवे प्रतिष्ठितम् ॥ ७५ ॥

असौ यज्ञेश्वरो यज्ञो यज्ञभुक्यज्ञकृद्विभुः
यज्ञभुग्यज्ञपुरुषः स एव परमेश्वरः ॥ ७६ ॥

यज्ञेश्वरो हव्यसमस्तकव्यभोक्ता व्ययात्मा हरिरीश्वरोऽत्र
तत्सन्निधानादपयान्ति सद्यो रक्षांस्यशेषाण्यसुराश्च सर्वे ॥ ७७ ॥

योऽसौ विराट्त्वमापन्नो हरिर्भूतो जनार्दनः
सन्तर्पयति लोकांस्त्रीन्स एव परमेश्वरः ॥ ७८ ॥

येन पूर्णेन हविषा देवा यज्ञमतन्वत
तस्माद्यज्ञात्समुत्पन्ना ये के चोभयादतः ॥ ७९ ॥

तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे
तस्मादश्वा अजायन्त गावश्च पुरुषादयः ॥ ८० ॥

पुरुषस्य तनोरस्य सर्वयज्ञमयस्य वै
हरेः सर्वं समुद्भूतं जगत्स्थावरजङ्गमम् ॥ ८१ ॥

मुखबाहूरुपादाः स्युस्तस्य वर्णा यथाक्रमम्
पद्भ्यां तु पृथिवी तस्य शिरसा द्यौरजायत ॥ ८२ ॥

मनसश्चन्द्रमा जातश्चक्षुषश्च प्रभाकरः
मुखादग्निः सहस्राक्षो वायुः प्राणात्सदागतिः ॥ ८३ ॥

नाभेर्विरिञ्चिर्गगनं जगत्सर्वं चराचरम्
यस्मात्सर्वं समुद्भूतं जगद्विष्णोः सनातनात् ॥ ८४ ॥

तस्मात्सर्वमयो विष्णुर्नारायण इतीरितः
एवं सृष्ट्वा जगत्सर्वं पुनः सङ्ग्रसते हरिः ॥ ८५ ॥

निजलीलासमुद्भूतं तान्तवं चोर्णनाभिवत्
ब्रह्माणमिन्द्रं रुद्रं च यमं वरुणमेव च ॥ ८६ ॥

निगृह्य हरते यस्मात्तस्माद्धरिरहोच्यते
असावेकार्णवीभूते मायावटतले पुमान् ॥ ८७ ॥

जगत्स्वजठरे कृत्वा शेते तस्मिन्सनातनः
आसीदेको हि वै चात्र विष्णुर्नारायणोऽच्युतः ॥ ८८ ॥

न ब्रह्मा न च रुद्रश्च न देवा न महर्षयः
नेमे द्यावापृथिव्यौ च न सोमो न च भास्करः ॥ ८९ ॥

न नक्षत्राणि लोकाश्च न चाण्डं महदावृतम्
यस्माज्जगद्वृतं तेन सकलं हरिणा शुभे ॥ ९० ॥

सृष्टं पुनस्तथा सर्गे तस्मान्नारायणस्स्मृतः
तस्य दास्यं चतुर्थ्यानु मन्त्रे प्रोक्तं तु पार्वति ॥ ९१ ॥

दासभूतमिदं तस्य ब्रह्माद्यं सकलं जगत्
एवमर्थं विदित्वा वै पश्चान्मन्त्रं प्रयोजयेत् ॥ ९२ ॥

अविदित्वा तु मन्त्रार्थं सिद्धिं नैवाधिगच्छति
न तु भुक्तिं च भक्तिं च न च मुक्तिं वरानने ॥ ९३ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वरसंवादे मन्त्रार्थोपदेशोनाम षड्विंशत्यधिकद्विशततमोऽध्यायः २२६