२२५

शङ्कर उवाच-

विश्वास-प्रस्तुतिः

ऊर्द्ध्वपुण्ड्रस्य माहात्म्यं वक्ष्यामि शुभदर्शने
धारणादेव मुच्येत भवबन्धाद्द्विजोत्तमः ॥ १ ॥

मूलम्

ऊर्द्ध्वपुण्ड्रस्य मध्ये तु विशाले सुमनोहरे
लक्ष्म्या सार्द्धं समासीनो देवदेवो जनार्दनः ॥ २ ॥

तस्माद्यस्य शरीरे तु ऊर्द्ध्वपुण्ड्रं धृतो भवेत्
तस्यदेहं भगवतो विमलं मन्दिरं शुभम् ॥ ३ ॥

स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः
धारयेदूर्द्ध्वपुण्ड्रं यो मृदाशुभ्रेण वैष्णवः ॥ ४ ॥

ऊर्द्ध्वपुण्ड्रधरो विप्रः सर्वलोकेषु पूजितः
विमानवरमारुह्य याति विष्णोः परं पदम् ॥ ५ ॥

धारयेदूर्द्ध्वपुण्ड्रं तु त्रिसन्ध्यं तु द्विजोत्तमः
सर्वपापविशुद्ध्यर्थमिष्टापूर्तफलाप्तये ॥ ६ ॥

ऊर्द्ध्वपुण्ड्रधरं दृष्ट्वा सर्वपापैः प्रमुच्यते
नमस्कृत्वाथवा भक्त्या सर्वदानफलं लभेत् ॥ ७ ॥

ऊर्द्ध्वपुण्ड्रधरं विप्रं यः श्राद्धे भोजयिष्यति
आकल्पकोटिपितरस्तस्य तृप्ता न संशयः ॥ ८ ॥

ऊर्द्ध्वपुण्ड्रधरो यस्तु कुर्याछ्रान्द्धं शुभानने
कल्पकोटिसहस्राणि गयाश्राद्धफलं लभेत् ॥ ९ ॥

यज्ञदानतपश्चर्या जपहोमादिकं च यत्
ऊर्द्ध्वपुण्ड्रधरः कुर्यात्तस्य पुण्यमनन्तकम् ॥ १० ॥

ऊर्द्ध्वपुण्ड्रविहीनस्तु किञ्चित्कर्म करोति यः
इष्टापूर्तादिकं सर्वं निष्फलं स्यान्न संशयः ॥ ११ ॥

यच्छरीरं मनुष्याणामूर्द्ध्वपुण्ड्र विवर्जितम्
द्रष्टव्यं नैव तत्किञ्चित्श्मशानसदृशं भवेत् ॥ १२ ॥

ऊर्द्ध्वपुण्ड्रविहीनस्तु सन्ध्याकर्मादिकं चरेत्
तत्सर्वं राक्षसैर्नीतं नरकं चावगच्छति ॥ १३ ॥

ऊर्द्ध्वपुण्ड्रधरोद्विप्रो मृदाशुभ्रेण वैदिकः
न तिर्यग्धारयेद्विद्वानापद्यपि कदाचन ॥ १४ ॥

विप्राणामूर्द्ध्वपुण्ड्रं स्यात्तिलकं तु महीभृतः
पट्टाकारं तु वैश्यानां शूद्राणां वै त्रिपुण्ड्रकम् ॥ १५ ॥

ऊर्द्ध्वपुण्ड्रं मृदा कार्यं कस्तूर्य्यास्तिलकं तथा
पट्टाकारं तु गन्धेन भस्मनैव त्रिपुण्ड्रकम् ॥ १६ ॥

ऊर्द्ध्वपुण्ड्रं तु सर्वेषां न निषिद्धं कदाचन
धारयेत्क्षत्रियाद्योऽपि विष्णुभक्तो भवेद्यदि ॥ १७ ॥

विप्राणां नैव कार्य्यं स्यात् तिर्य्यक्पट्टादिधारणम्
नारायणात् परेशानाद् अन्येषाम् अर्चनं न तु ॥ १८ ॥

ब्राह्मणः कुलजो विद्वान् भस्मधारी भवेद् यदि
वर्जयेत् तादृशं देवि मद्योच्छिष्टं घटं यथा ॥ १९ ॥

त्रिपुण्ड्रं शूद्रकल्पानां शूद्राणां च विधिस्तथा
त्रिपुण्ड्र धारणाद्विप्रः पतितः स्यान्न संशयः ॥ २० ॥

एकान्तिनो महाभागाः सर्वभूतहिते रताः
सान्तरालं प्रकुर्वीरन्पुण्ड्रं हरिपदाकृतिम् ॥ २१ ॥

हरेः पादाकृतिं कुर्यादूर्द्ध्वपुण्ड्रं विधानतः
मध्यछिद्रेण संयुक्तं तद्धि वै मन्दिरं हरेः ॥ २२ ॥

ऊर्द्ध्वपुण्ड्रमृजुं सौम्यं सुपार्श्वं सुमनोहरम्
दण्डाकारं सुशोभाढ्यं मध्येछिद्रं प्रकल्पयेत् ॥ २३ ॥

तस्माच्छिद्रान्वितं पुण्ड्रं दण्डाकारं सुशोभनम्
विप्राणां सततं कार्यं स्त्रीणां च शुभदर्शने ॥ २४ ॥

ऊर्ध्वपुण्ड्रस्य मध्ये तु विशाले सुमनोहरे
सान्तराले समासीनो हरिरस्ति श्रिया सह ॥ २५ ॥

निरन्तरालं यः कुर्यादूर्द्ध्वपुण्ड्रं द्विजाधमः
स हि तत्रस्थितं विष्णुं श्रियं चैव व्यपोहति ॥ २६ ॥

अच्छिद्रमूर्द्ध्वपुण्ड्रं तु ये कुर्वन्ति द्विजाधमाः
तेषां ललाटे सततं शुनःपादो न संशयः ॥ २७ ॥

तस्माच्छिद्रान्वितं पुण्ड्रं सहरिद्रं शुभान्वितम्
धारयेद्ब्राह्मणो नित्यं हरिसालोक्यसिद्धये ॥ २८ ॥

आदाय परया भक्त्या वेङ्कटाद्रौ हृदे मृदम्
धारयेदूर्ध्वपुण्ड्राणि हरिसायुज्यसिद्धये ॥ २९ ॥

श्रीकृष्णतुलसीमूले मृदमादाय भक्तिमान्
धारयेदूर्द्ध्वपुण्ड्राणि हरिस्तत्र प्रसीदति ॥ ३० ॥

द्वारवत्यां शुभे रम्ये वासुदेवहृदे तथा
तत्रोद्भवां मृदं रम्यामादाय द्विजसत्तमः ॥ ३१ ॥

धारयेदूर्द्ध्वपुण्ड्राण्णि सर्वकामफलाप्तये
आदाय परया भक्त्या गङ्गातीरोद्भवां मृदम् ॥ ३२ ॥

तया धृतोर्द्ध्वपुण्ड्राणि सर्वयज्ञफलो लभेत्
चन्दनं च हरिद्रा च तथा भस्माग्निहोत्रजम् ॥ ३३ ॥

सर्ववश्यकरं प्रोक्तमूर्द्ध्वपुण्ड्रस्य धारणात्
यत्र पुण्यं हरिक्षेत्रं तत्र वै मृदमाहरेत् ॥ ३४ ॥

पर्वताग्रे नदीतीरे बिल्वमूले जलाशये
सिन्धुतीरे च वल्मीके हरिक्षेत्रे विशेषतः ॥ ३५ ॥

विष्णोः स्नानोदकं यत्र प्रवाहयति नित्यशः
पुण्ड्राणां धारणार्थाय गृह्णीयात्तत्र मृत्तिकाम् ॥ ३६ ॥

श्रीरङ्गे वेङ्कटाद्रौ च श्रीकूर्मे द्वारके शुभे
प्रयागेनारसिंहाद्रौ वाराहे तुलसीवने ॥ ३७ ॥

गृहीत्वा मृत्तिकां भक्त्या विष्णुपादजलैः सह
धृत्वा पुण्ड्राणि चाङ्गेषु विष्णुसायुज्यमाप्नुयात् ॥ ३८ ॥

यस्मिन्कस्मिन्महाभागा वैष्णवा धारयन्ति वै
तस्मिन्वै मृत्तिका ग्राह्या ऊर्द्ध्वपुण्ड्रस्य धारणे ॥ ३९ ॥

श्यामं शान्तिकरं प्रोक्तं रक्तं वश्यकरं तथा
श्रीकरं पीतमित्याहुः श्वेतं मोक्षकरं शुभम् ॥ ४० ॥

वर्तुलं तिर्यगछिद्रं ह्रस्वं दीर्घं ततं तनुम्
वक्रं विरूपं बद्धाग्रं छिन्नमूलं पदच्युतम् ॥ ४१ ॥

अशुभं रूक्षमासक्तं तथानङ्गुलिकल्पितम्
विगन्धमवसह्यं च पुण्ड्रमाहुरनर्थकम् ॥ ४२ ॥

आरभ्य नासिकामूलं ललाटं तं लिखेन्मृदा
समारभ्य भ्रुवोर्मध्यमन्तरालं प्रकल्पयेत् ॥ ४३ ॥

अन्तरालं द्व्यङ्गुलं स्यात्पार्श्वावङ्गुलिमात्रकौ
मृदा शुभ्रेण विलिखेत्पुण्ड्रं ऋजुतरं शुभम् ॥ ४४ ॥

ललाटे केशवं ध्यायेन्नारायणमथोदरे
वक्षस्थले माधवं च गोविन्दं कण्ठकूबरे ॥ ४५ ॥

विष्णुं च दक्षिणे कुक्षौ बाहौ च मधुसूदनम्
त्रिविक्रमं कन्धरे तु वामनं वामपार्श्वके ॥ ४६ ॥

श्रीधरं बाहुके वामे हृषीकेशं तु कन्धरे
पृष्ठे वै पद्मनाभं तु त्रिके दामोदरं न्यसेत् ॥ ४७ ॥

तत्प्रक्षालनतोयेन वासुदेवं तु मूर्द्धनि
ललाटे भुजयुग्मे तु पृष्ठयोः कण्ठकूबरे ॥ ४८ ॥

धारयेदूर्द्ध्वपुण्ड्रं तु चतुरङ्गुलमात्रतः
कुक्षौ तत्पार्श्वयोः प्रोक्तमायतं तु दशाङ्गुलम् ॥ ४९ ॥

बाह्वोर्वक्षस्थले पुण्ड्रम्मष्टाङ्गुलमुदाहृतम्
एवं द्वादशपुण्ड्राणि ब्राह्मणः सततं धरेत् ॥ ५० ॥

तत्तत्पुण्ड्राणि तन्मूर्तीर्ध्यात्वा मन्त्रेण धारयेत्
अन्तरालेषु सर्वेषु हरिद्रां धारयेच्छ्रियाम् ॥ ५१ ॥

चत्वारि भूभृतामाहुः पुण्ड्राणि द्वे विशां स्मृते
एकपुण्ड्रं तु नारीणां शूद्राणां च विधीयते ॥ ५२ ॥

ललाटे हृदि बाह्वोश्च चतुःपुण्ड्राणि धारयेत्
ललाटे हृदये द्वे तु फालेत्वेकं विधीयते ॥ ५३ ॥

ऊर्द्ध्वपुण्ड्रं ललाटे तु सर्वेषां प्रथमं स्मृतम्
ललाटादिक्रमेणैव धारणं तु विधीयते ॥ ५४ ॥

मूर्तीस्तु वासुदेवाद्याश्चतुःपुण्ड्रेषु धारयेत्
द्वयोर्गोविन्दकृष्णौ तु एकं नारायणं धरेत् ॥ ५५ ॥

एवं पुण्ड्रविधिः प्रोक्तः सर्वेषां गिरिजे मया
अश्वत्थपत्रसङ्काशो वेणुपत्राकृतिस्तथा ॥ ५६ ॥

पद्मकुड्मलसङ्काशो मोहनं त्रितयं स्मृतम्
महाभागवतः शुद्धः पुण्ड्रं हरिपदाकृतिम् ॥ ५७ ॥

दण्डाकारं तु वा देवि धारयेदूर्द्ध्वपुण्ड्रकम्
सुदर्शनेनाङ्कितबाहुमूलास्तथोर्द्ध्वपुण्ड्राङ्कित सर्वगात्राः ॥ ५८ ॥

मालारविन्दाक्षधरा विशुद्धा रक्षन्ति लोकान्दुरितौघसङ्गात् ॥ ५९ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वरसंवादे ऊर्द्ध्वपुण्ड्रमाहात्म्यन्नाम पञ्चविंशत्यधिकद्विशततमोऽध्यायः २२५