२२४

दिलीप उवाच-

विश्वास-प्रस्तुतिः

भगवन्सर्वमाचक्ष्व हरिभक्तिसुधामयम्
शृण्वतो नैव तृप्तिर्मे विष्णुभक्तिं सुखावहाम् ॥ १ ॥

मूलम्

तापत्रयमहाज्वाला वह्निभिः सततं नृणाम्
सन्तप्तानां मुनिश्रेष्ठ विष्णुभक्तिसुधार्णवम् ॥ २ ॥

विना किमन्यच्छरणं भवारण्ये भयानके
आचक्ष्व विस्तरेणाथ भक्तिभेदान्महामुने
उपास्यमानान्सततं मुनिभिः परमात्मनः ॥ ३ ॥

वसिष्ठ उवाच-
साधु पृच्छसि राजेन्द्र संसारोत्तारणं नॄणां
वैकुण्ठस्य परेशस्य भक्तिं नित्यसुखावहाम् ॥ ४ ॥

इममेवं महाप्रश्नं कैलासशिखरे पुरा
पप्रच्छ गिरिजादेवी शङ्करं लोकपूजितम् ॥ ५ ॥

पार्वत्युवाच-
देवदेव महादेव त्रिपुरघ्न सुरेश्वर
विष्णुभक्तिं ममाचक्ष्व मुक्तिदां सर्वदेहिनाम् ॥ ६ ॥

उपास्यभेदान्मन्त्रांश्च तस्य पूजाविधींस्तथा
तस्य विष्णोः स्वरूपं च तद्विभूतिर्गुणादिकम् ॥ ७ ॥

तस्य लोकस्वरूपं च यं प्राप्य न निवर्तते
सर्गस्थितिलयं येन करोति भगवान्हरिः ॥ ८ ॥

यद्गत्वा न निवर्तन्ते तद्धामपरमं हरेः
येन केन च कृत्येन साधनेन परं पदम् ॥ ९ ॥

मूलम्

यद्गत्वा न निवर्तन्ते तद्धामपरमं हरेः
येन केन च कृत्येन साधनेन परं पदम् ॥ ९ ॥

विश्वास-प्रस्तुतिः

प्राप्नुवन्ति नराः पापा विषयासक्तचेतसः
विस्तरेण मयि प्रीत्या ब्रूहि सर्वमशेषतः ॥ १० ॥

मूलम्

प्राप्नुवन्ति नराः पापा विषयासक्तचेतसः
विस्तरेण मयि प्रीत्या ब्रूहि सर्वमशेषतः ॥ १० ॥

विश्वास-प्रस्तुतिः

वसिष्ठ उवाच-
इति पृष्टो महादेव्या हरस्त्रिपुरहा तदा
उवाच परमप्रीत्या नमस्कृत्य जनार्दनम् ॥ ११ ॥

रुद्र उवाच-
साधुसाधु महादेवि सर्वलोकहितैषिणि
साधु पृच्छसि मां देवि श्रीशमाहात्म्यमुत्तमम् ॥ १२ ॥

धन्यासि कृतपुण्यासि विष्णुभक्तासि पार्वति
परितुष्टोऽस्मि ते भद्रे शीलरूपगुणैः सदा ॥ १३ ॥

अथ वक्ष्यामि गिरिजे भगवद्भक्तिमुत्तमाम्
तन्मन्त्राणां विधानं च स्वरूपं तस्य शार्ङ्गिणः ॥ १४ ॥

तत्वं नारायणो विष्णुर्वासुदेवस्सनातनः
परमात्मा परं ब्रह्म परं ज्योतिः परात्परः ॥ १५ ॥

अच्युतः पुरुषः कृष्णः शाश्वतः शिव ईश्वरः
नित्यः सर्वगतः स्थाणू रुद्रस्साक्षी प्रजापतिः ॥ १६ ॥

यज्ञो यज्ञपतिः साक्षाद्ब्रह्मणः पतिरेव च
हिरण्यगर्भं सविता लोककृल्लोकभृद्विभुः ॥ १७ ॥

अकारवाच्यो भगवान् श्रीभू नीलापतिः प्रभुः
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ १८ ॥

सहस्रमूर्द्धा विश्वात्मा सहस्राक्षः सहस्रपात्
स भूमिं सर्वतः स्पृत्वा ह्यत्यतिष्ठद्दशाङ्गुलम् ॥ १९ ॥

अनन्तः श्रीपती रामो गुणभृन्निर्गुणो महान्
सर्वलोकेश्वरः श्रीमान्सर्वज्ञः सर्वतोमुखः ॥ २० ॥

तस्य लोकप्रधानस्य जगन्नाथस्य पार्वति
माहात्म्यं वासुदेवस्य यच्छक्यं तद्ब्रवीमि ते ॥ २१ ॥

अशक्यं तन्मया वक्तुं ब्रह्मणा सह दैवतैः
सर्वोपनिषदामर्थं वेदान्ते परिनिश्चितम् ॥ २२ ॥

तस्योपासनभेदांश्च शृणु वच्मि पुनः पृथक्
आद्यन्तु वैष्णवं प्रोक्तं शङ्खचक्राङ्कनं हरेः ॥ २३ ॥

धारणं चोर्ध्वर्पुण्ड्राणां तन्मन्त्राणां परिग्रहः
अर्चनं च जपोध्यानं तन्नामस्मरणं तथा ॥ २४ ॥

कीर्तनं श्रवणं चैव वन्दनं पादसेवनम्
तत्पादोदकसेवा च तन्निवेदितभोजनम् ॥ २५ ॥

मूलम्

कीर्तनं श्रवणं चैव वन्दनं पादसेवनम्
तत्पादोदकसेवा च तन्निवेदितभोजनम् ॥ २५ ॥

विश्वास-प्रस्तुतिः

तदीयानां च सेवाञ्च द्वादशीव्रतनिष्ठितम्
तुलसीरोपणं विष्णोर्देवदेवस्य शार्ङ्गिणः ॥ २६ ॥

भक्तिः षोडशधा प्रोक्ता भवबन्धविमुक्तये
सर्वेषामेव देवानां ममापि पुरुषोत्तमः ॥ २७ ॥

पूजनीयो हरिर्नित्यं ब्राह्मणानां विशेषतः
तस्मात्तु ब्राह्मणो नित्यं विधिवत्पूजयेद्धरिम् ॥ २८ ॥

तच्चिह्नैरङ्कितः श्रीशपदम्प्राप्नोत्यसंशयम्
शङ्खचक्राङ्कनं कुर्याद्ब्राह्मणो बाहुमूलयोः ॥ २९ ॥

हुताग्निनैव सन्तप्य सर्वपापापनुत्तये
चक्रं वा शङ्खचक्रे वा तथा पञ्चायुधानि वा ॥ ३० ॥

धारयित्वैव विधिवद्व्रह्मकर्मसमारभेत्
अग्नितप्तं पवित्रं च धृत्वा वै भुजमूलयोः ॥ ३१ ॥

त्यक्त्वा यमपुरं घोरं याति विष्णोः परं पदम्
चक्रचिह्नविहीनस्तु यः पूजयति केशवम् ॥ ३२ ॥

तत्सर्वं विफलं याति पूजामन्त्रजपादिकम्
अग्नितप्तेन चक्रेण ब्राह्मणो बाहुमूलयोः ॥ ३३ ॥

अङ्कयित्वा जपन्मन्त्रं संसारान्मोक्षमाप्नुयात्
सुदर्शनं धारयित्वा वह्नितप्तं द्विजोत्तमः ॥ ३४ ॥

उपनीय विधानेन पश्चात्कर्मसु योजयेत्
विष्णुचक्रविहीनं तु य श्राद्धे भोजयिष्यति ॥ ३५ ॥

व्यर्थं भवति तत्सर्वं निराशाः पितरो गताः
विष्णुचक्राङ्कितं विप्रं पूजयेच्छ्राद्धकर्मणि ॥ ३६ ॥

विष्णुचक्रविहीनं तु प्रयत्नेन विवर्जयेत्
दद्याद्गोभूहिरण्यादि चक्राङ्कितभुजाय वै ॥ ३७ ॥

यद्दत्तं चक्रहीनाय तत्सर्वमसुराय वै
अग्नितप्तेन चक्रेण बाहुमूले तु लाञ्छिताः ॥ ३८ ॥

सर्वपापविनिर्मुक्ता यान्ति विष्णोः परं पदम्
हुताग्नितप्तचक्रेण शरीरं यस्य चिह्नितम् ॥ ३९ ॥

तस्य तीर्थानि यज्ञाश्च सम्प्राप्ता नात्र संशयः
अधृत्वा विधिना चक्रं ब्राह्मणः प्राकृतो भवेत् ॥ ४० ॥

न तस्य किञ्चिदश्नीयादपि क्रतुसहस्रिणः
अधृत्वा विधिना चक्रं ब्राह्मणो ज्ञानदुर्लभः ॥ ४१ ॥

गर्हितस्सर्वलोकेषु ब्राह्मण्यात्प्रच्युतो भवेत्
शङ्खचक्रधरो देवो हरिः पूज्यो यथात्मभिः ॥ ४२ ॥

तथैव सर्वैस्सम्पूज्यो विप्रश्चक्रादिचिह्नितः
सर्ववेदविदो वापि सर्वशास्त्रविशारदः ॥ ४३ ॥

अधृत्वा विधिना चक्रं ब्राह्मणः पतितो भवेत्
ऊर्द्ध्वपुण्ड्रविहीनस्तु शङ्ख चक्रविवर्जितः ॥ ४४ ॥

तं गर्दभे समारोप्य बहिः कुर्यात्स्वपत्तनात्
प्रकृतिस्पर्शरहितो वासुदेवो जनार्दनः ॥ ४५ ॥

तथैव ब्राह्मणो देवि विष्णुचक्रेण चिह्नितः
तस्मात्प्रकृतिसंसर्गपापौघदहनं हरेः ॥ ४६ ॥

प्रतप्तं बिभृयाच्चक्रं शङ्खं च भुजमूलयोः
स्त्रीशूद्राणां सदा धार्य्ये चन्दनेन सुगन्धिना ॥ ४७ ॥

बाहुमूले लिखेच्चक्रं तप्तं तु ब्राह्मणस्य वै
तप्तेनैवाङ्कनं कुर्याद्ब्राह्मणस्य विधानतः ॥ ४८ ॥

श्रौतस्मार्त्तादिसिद्ध्यर्थं मन्त्रसिद्ध्यै तथैव च
हरेः पूजाधिकारार्थं चक्रं धार्यां विधानतः ॥ ४९ ॥

वैष्णवत्वस्य सिद्ध्यर्थं ज्ञानसिद्ध्यर्थमेव च
प्रतपेच्चक्रशङ्ङ्खाभ्यां हुत्वा होमं विधानतः ॥ ५० ॥

अन्यैर्न दाहयेद्गात्रं ब्राह्मणो हरिलाञ्छनात्
शङ्खचक्रगदाखड्गशार्ङ्गादन्यैर्हरेरपि ॥ ५१ ॥

लक्षणेन दहेद्देहं नान्यदग्धोर्हतिक्रियाम्
अचक्रधारिणं विप्रं दूरतः परिवर्जयेत् ॥ ५२ ॥

श्वपाकमिव नेक्षेत लोके विप्रमवैष्णवम्
वैष्णवो वर्णबाह्योऽपि पुनाति भुवनत्रयम् ॥ ५३ ॥

तस्मात्तु विधिना चक्रं धार्यं विप्रैः शुभानने
ब्राह्मणा मन्त्रसिद्ध्यै च ज्ञानसिद्ध्यै च मुक्तये ॥ ५४ ॥

अप्राकृतामहात्मानो विष्णुचक्रेण लाञ्च्छिताः
विष्णुचक्रविहीनास्तु ब्राह्मणाः प्राकृताः स्मृताः ॥ ५५ ॥

सर्वाश्रमेषु वसतां ब्राह्मणानां विशेषतः
विधिना वैष्णवं चक्रं धार्यं हि श्रुतिनोदनात् ॥ ५६ ॥

दक्षिणे तु भुजे विप्रो बिभृयाद्वै सुदर्शनम्
वामे तु शङ्खं बिभृयादिति ब्रह्मविदो विदुः ॥ ५७ ॥

एवम्महोपनिषदि प्रोक्तं चक्रादिधारणम्
तथैव साम्नि यजुषि ऋचि प्रोक्तं शुभानने ॥ ५८ ॥

प्र ते विष्णो अब्जचक्रे पवित्रे जन्माम्भोधिं तर्तवे चर्षणीन्द्राः
मूले बाह्वोर्दधतेऽन्ये पुराणा लिङ्गान्येन्ये तावकान्यर्पयन्ति ॥ ५९ ॥

चरणं पवित्रं विततं पुराणं वाङ्मयं शुभम्
तेन चक्रेण सन्तप्तास्तरेयुः पातकाम्बुधिम् ॥ ६० ॥

पवित्रं ब्राह्मणस्पत्यं जगद्व्याप्तं हरेस्सदा
ते नातप्ततनूर्येषां न ते यान्ति परं पदम् ॥ ६१ ॥

तेन तप्ता तनूर्येषां ते प्रयान्ति परं परदम्
पवित्रचरणं नेमिर्हरेश्चक्रं सुदर्शनम् ६२