२२३

शौनक उवाच-

विश्वास-प्रस्तुतिः

सूतसूत महाभाग धन्योसि त्वं भवाम्बुधौ
यन्नोऽत्यर्थं निमग्नानां पाययस्वमृतोत्करम् ॥ १ ॥

मूलम्

साधोऽत्र भवनिस्तार वाञ्छतां नः समादिश
मन्त्ररत्नं भावशुद्धं यन्मयं सचराचरम् ॥ २ ॥

सूत उवाच-
शृणु शौनक वक्ष्यामि मन्त्ररत्नं महाद्भुतम्
यद्दिलीपाय गदितं वसिष्ठेन महात्मना ॥ ३ ॥

एकदा तु दिलीपेन पृष्टमेतद्गुरुं प्रति
वसिष्ठं द्विजशार्दूलं प्रणिपत्य यथा त्वया ॥ ४ ॥

दिलीप उवाच-
भगवन्भवता प्रोक्तास्सर्वधर्माविशेषतः
वर्णाश्रमयुता धर्मा नित्यनैमित्तिकाः क्रियाः ॥ ५ ॥

राजधर्माश्च यज्ञाश्च तीर्थदानव्रतादिकम्
श्रुता मया मुनिःश्रेष्ठ अक्षय्य स्वर्गभोगदाः ॥ ६ ॥

अधुना श्रोतुमिच्छामि मोक्षमार्गं सनातनम्
दिष्ट्याहं येन गच्छामि तद्ब्रह्मन्वक्तुमर्हसि ॥ ७ ॥

को मन्त्रं सर्वमन्त्राणां भवरोगैकभेषजम्
सर्वेषामेव देहीनां को हि मोक्षप्रदः परः ॥ ८ ॥

तत्समाख्याहि तत्त्वेन मयि वात्सल्यगौरवात् ॥ ९ ॥

वसिष्ठ उवाच-
साधुपृष्टं त्वया राजन्सर्वलोकहितैषिणा
वक्ष्यामि परमं गुह्यमेकं संसारतारकम् ॥ १० ॥

पुरा महर्षयः सर्वे यज्ञदानपराः शुभाः
पप्रच्छुर्ब्रह्मणः पुत्रं नारदं मुनिसत्तमम् ॥ ११ ॥

महर्षय ऊचुः -
भगवन्केन मन्त्रेण गच्छामः परमं पदम्
तन्नो ब्रूहि महाभाग प्रसादं कर्तुमर्हसि ॥ १२ ॥

नारद उवाच-
पितामहं पुरा सर्वे योगिनः सनकादयः
पप्रच्छुरेकमेकान्ते मोक्षमार्गं सुदुर्ल्लभम् ॥ १३ ॥

ब्रह्मोवाच-
शृणुध्वं योगिनः सर्वे रहस्यमिदमद्भुतम् ॥ १४ ॥

न जानन्ति सुराः सर्वे ऋषयश्च तपोधनाः
सर्गादौ प्रोक्तवान्देवो मह्यं नारायणोऽव्ययः ॥ १५ ॥

ईश्वर्या सह देव्या च सम्यक्सम्पूजितो मया
ततः प्रसन्नो भगवान्मम नारायणोऽव्ययः ॥ १६ ॥

प्राजापत्यं ददौ मह्यं श्रुतिजं सर्ववाङ्मयम्
प्रकाशकानि मन्त्राणि व्यापकाव्यापकानि च ॥ १७ ॥

ततस्तमब्रुवं देवं पुराणपुरुषोत्तमम्
भगवन्केन मन्त्रेण संसारोत्तारणं नृणाम् ॥ १८ ॥

तन्ममाचक्ष्व तत्त्वेन सर्वलोकहिताय वै
को मन्त्रः सर्वमन्त्राणां पुरश्चरणवर्जितः ॥ १९ ॥

सकृदुच्चारणान्नृणां ददाति परमं पदम्
श्रीभगवानुवाच-
साधुपृष्टं महाभाग सर्वलोकहितैषिणा ॥ २० ॥

तस्माद्वक्ष्यामि ते गुह्यं येन मामाप्नुयुर्नराः ॥ २१ ॥

सर्वेषामेव मन्त्राणां मन्त्ररत्नं शुभावहम्
सकृत्स्मरणमात्रेण ददाति परमं पदम् ॥ २२ ॥

मन्त्ररत्नद्वयं न्यासं प्रयतिः शरणागतिः
लक्ष्मीनारायणमिति मन्त्रः सर्वफलप्रदः ॥ २३ ॥

नामानि मन्त्ररत्नस्य पर्य्यायेण निबोधत
तस्योच्चारणमात्रेण परितुष्टोस्मि नित्यशः ॥ २४ ॥

कुलजो वा तपस्वी वा वेदवेदाङ्गपारगः
यज्ञदानपरो वापि सर्वतीर्थोपसेवकः ॥ २५ ॥

मूलम्

कुलजो वा तपस्वी वा वेदवेदाङ्गपारगः
यज्ञदानपरो वापि सर्वतीर्थोपसेवकः ॥ २५ ॥

विश्वास-प्रस्तुतिः

व्रती वा सत्यवादी वा यतिर्वा ज्ञानवानपि
मन्त्राधिकारी न भवेत्तं प्रयत्नेन वर्जयेत् ॥ २६ ॥

ब्राह्मणाः क्षत्रिया वैश्या स्त्रियः शूद्रास्तथेतराः
तस्याधिकारिणः सर्वे मम भक्तास्तु ते यदि ॥ २७ ॥

अनन्यशरणानां च तथैवानन्यसेविनाम्
अनन्यसाधकानां च वक्तव्यो मन्त्र उत्तमः ॥ २८ ॥

आर्तानामाशु फलदस्सकृदेव कृतो ह्यसौ
दृप्तानामपि जन्तूनां देहान्तरनिवारणः ॥ २९ ॥

आर्त्तो जिज्ञासुरर्थार्थी ज्ञानी वापि प्रजापतिः
सकृन्मां शरणं याति ततः कामानवाप्नुयात् ॥ ३० ॥

नादीक्षिताय वक्तव्यं नाभक्ताय च मानिने
नास्तिकाय न लुब्धाय न श्रद्धाविमुखाय च ॥ ३१ ॥

न चाशुश्रूषवे वाच्यं नासंवत्सरवासिने
कामक्रोधविमुक्तस्तु दम्भलोभविवर्जितः ॥ ३२ ॥

मां च यो व्यभिचारेण भक्तियोगेन सेवते
वक्तव्य तस्य विधिवन्मन्त्ररत्नमनुत्तमम् ॥ ३३ ॥

देशकालादिनियमानरिमित्रादि शोधनम्
न्यासमुद्रादिकं तस्य पुरश्चरणसंयुतम् ॥ ३४ ॥

मच्चक्राङ्कितदेहत्वं मदीयाराधनं तथा
मयि सन्यस्तकर्मत्वं मदनन्यशरण्यतता ॥ ३५ ॥

मयि सर्वफलन्यासो महाविश्वासपूर्वकम्
अनन्यसाधनो यत्नस्त्वकिञ्चनत्वमात्मनः ॥ ३६ ॥

अवैष्णवानां सम्भाषा वन्दनादि विवर्जनम्
अनन्यदेवतानां च वन्दनं पूजनं तथा ॥ ३७ ॥

मूलम्

अवैष्णवानां सम्भाषा वन्दनादि विवर्जनम्
अनन्यदेवतानां च वन्दनं पूजनं तथा ॥ ३७ ॥

विश्वास-प्रस्तुतिः

एवमाद्यादि नियमां प्रपन्नस्य प्रकीर्तिताः
इत्यादिगुणयुक्तस्य वक्तव्यं मन्त्रमुत्तमम् ॥ ३८ ॥

तस्य नारायणश्चाहमृषिर्विष्णुः सनातनः
देवता च श्रिया सार्द्धमहं वात्सल्यसागरः ॥ ३९ ॥

सर्वलोकेश्वरः श्रीमान्सुशीलः सुभगस्तथा
सर्वज्ञः सर्वशक्तिश्च सदापूर्णमनोरथः ॥ ४० ॥

सर्वगः सर्वबन्धुश्च कृपापीयूषसागरः
श्रीमन्नारायणश्चाहं देवता समुदाहृतः ॥ ४१ ॥

छन्दस्तु देवी गायत्री पञ्चविंशाक्षरात्मिका
द्विस्सप्तषट्त्रिपञ्चद्विषडङ्गानि नियोजयेत् ॥ ४२ ॥

लक्ष्म्या मदनपायिन्या मां ध्यायेद्विश्वरूपिणम्
चक्रशङ्खगदापद्मपाणिनं दिव्यरूपिणम् ॥ ४३ ॥

वामाङ्कस्थश्रिया सार्द्धं पूजयेत्प्रयतं शुचिः
अनेन मन्त्ररत्नेन गन्धपुष्पनिवेदनैः
सकृत्सम्पूज्यमानोऽपि सन्तुष्टोस्मि प्रजापते ॥ ४४ ॥

सम्यगुक्तं त्वया नाथ रहस्यमिदमुत्तमम्
मन्त्ररत्नप्रभावश्च सर्वसिद्धिप्रदो नृणाम् ॥ ४५ ॥

पिता त्वं सर्वलोकानां माता त्वं गुरुरेव च
त्वं च स्वामी सखा भ्राता गतिस्त्वं शरणं सुहृत् ॥ ४६ ॥

अहं तु तव देवेश दासश्शिष्यस्तथा सुहृत्
तस्मान्मम दयासिन्धो प्रोक्तवानिदमुत्तमम् ॥ ४७ ॥

अधुना मन्त्ररत्नस्य दीक्षां सम्यग्विधानतः
ब्रूहि सर्वत्र तत्वेन लोकानां हितकाम्यया ॥ ४८ ॥

श्रीभगवानुवाच -
शणु वत्स प्रवक्ष्यामि मन्त्र दीक्षाविधिं परम्
आचार्यं संश्रयेत्पूर्वं मदाश्रयणसिद्धये ॥ ४९ ॥

आचार्यो वेदसम्पन्नो विष्णुभक्तो विमत्सरः
मन्त्रज्ञो मन्त्रभक्तश्च सदा मन्त्राश्रयः शुचिः ॥ ५० ॥

सत्सम्प्रदायसंयुक्तो ब्रह्मविद्याविशारदः
अनन्यसाधनश्चैव तथानन्यप्रयोजनः ॥ ५१ ॥

ब्राह्मणो वीतरागश्च क्रोधलोभविवर्जितः
सद्वृत्तौ शासिता चैव मुमुक्षुः परमात्मवित् ॥ ५२ ॥

एवमादिगुणेपेत आचार्यः स मुदा सुहृत्
आचाराञ्शासयेद्यस्तु स आचार्य इतीरितः ॥ ५३ ॥

यस्त्वाचार्यपराधीनस्सद्वृत्तौ शास्यते यदि
शासने स्थिरवृत्तश्च शिष्यः सद्भिरुदाहृतः ॥ ५४ ॥

एवं लक्षणसंयुक्तं शिष्यं सर्वगुणान्वितम्
अध्यापयेद्विधानेन मन्त्ररत्ननुत्तमम् ॥ ५५ ॥

द्वादश्यां श्रवणे वापि कर्हिचिद्वैष्णवे दिने
सदाचार्योपसम्प्रीतौ तत्र दीक्षां समाचेत् ॥ ५६ ॥

सुदर्शनं पाञ्चजन्यं सुवर्णेन प्रकारयेत्
रौप्येण वापि ताम्रेण कांस्येनापि प्रकारयेत् ॥ ५७ ॥

स्नाप्य पञ्चामृतैः शुद्धैरर्चयेत्पुरतो मम
अर्च्चयेद्गन्धपुष्पाद्यैस्तन्मन्त्रेण विधानतः ॥ ५८ ॥

तत्र संस्थापयेदग्नि स्वगृह्योक्त विधानतः
आचार्यो जुहुयादाज्यं मन्त्रेणाथ द्विजोत्तमः ॥ ५९ ॥

अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा
जुहुयान्मन्त्ररत्नेन तथान्यैर्वैष्णवैः शुभैः ॥ ६० ॥

मन्त्रैः पुरुषसूक्ताद्यैर्जुहुयाघृतपायसम्
तस्मिन्नग्नौ क्षिपेच्चक्रं शङ्खं च द्विजत्तमः ॥ ६१ ॥

षडक्षरेण जुहुयादाज्यं विंशतिसङ्ख्यया
प्रतप्तं चक्रमादाय मन्त्रैणैव तथा गुरुः ॥ ६२ ॥

शङ्खेनैवाङ्कनं कुर्याद्बाह्वोर्दक्षिणसव्ययोः
होमशेषं समाप्याथ पुनः पूजां समाचरेत् ॥ ६३ ॥

ततः कलशमादाय पवित्रोदकपूरितम्
मन्त्रेणैवाभिमन्त्र्याथ तस्य मूर्ध्न्यभिषेचयेत् ॥ ६४ ॥

सितवस्त्रधरं सम्यगाचान्तं विनयान्वितम्
ऊर्द्ध्वपुण्ड्रधरं शिष्यं मन्त्रमध्यापयेद्गुरुः ॥ ६५ ॥

मन्त्रार्थश्च प्रवक्तव्यो वृत्तिश्चैव विशेषतः
लब्धमन्त्रस्तदाचार्यं पूजयेद्भूषणादिभिः ॥ ६६ ॥

अनेन विधिना मन्त्रं योऽधीते वैष्णवाद्गुरोः
ततः स वैष्णवं याति नान्यथा सुरसत्तम ॥ ६७ ॥

एवमुक्त्त्वा विधातारं देवदेवो हरिः पिता
स्वचक्रेणाङ्कयित्वा तु तस्मै मन्त्रं ददौ स्वयम् ॥ ६८ ॥

सर्वलोकेश्वरो देवो ब्रह्मा मम पिता प्रभुः
ममापि विधिवन्मन्त्रं स ददौ मुनिसत्तमाः ॥ ६९ ॥

तस्माद्यूयं मुनिश्रेष्ठा धारयित्वा सुदर्शनम्
नारायणपदं द्वन्द्वं गच्छध्वं शरणं द्विजाः ॥ ७० ॥

इत्युक्त्वा मुनयः सर्वे नारदेन सुरर्षिणा
द्वयाधिकारिणः सर्वे याता विष्णोः परं पदम् ॥ ७१ ॥

तस्मात्त्वमपि राजर्षे विष्णुसायुज्यमिच्छसि
दीक्षामार्गविधानेन धारयित्वा सुदर्शनम् ॥ ७२ ॥

नारायणपदद्वन्द्वं तदेकं शरणं व्रज
सर्वलोकेश्वरः साक्षाद्ब्रह्मा त्रिभुवनेश्वरः ॥ ७३ ॥

ममापि नारदस्यापि प्रोक्तवान्मन्त्रमुत्तमम्
शौनकादि महर्षीणां नैमिषारण्यवासिनाम् ॥ ७४ ॥

नारदः प्रददौ मन्त्रं प्रपत्तिं शरणागतिम्
एतद्गुह्यतमं राजन्न जानन्ति महर्षयः ॥ ७५ ॥

देवाताश्च न जानन्ति सिद्धा साध्याश्च दानवाः
मयापि प्रापितो मन्त्रं शक्तिपुत्रः पराशरः ॥ ७६ ॥

इदं रहस्यं परमं लक्ष्मीनारायणं द्वयम्
राजंस्तवापि वक्ष्यामि प्रपत्ति शरणागतिम् ॥ ७७ ॥

द्वयात्परतरं मन्त्रं नास्ति सत्यं ब्रवीमि ते
अस्मात्परतरं धर्मं नास्ति लोकेषु किञ्चन ॥ ७८ ॥

सत्यं सत्यं पुनः सत्यं ब्रह्मणा कथितं पुरा
नारायणात्परो देवो नास्ति मुक्तिप्रदो नृणाम् ॥ ७९ ॥

तत्सेवैव भवेन्मोक्षः सर्वकर्म निकृन्तनः ॥ ८० ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे वसिष्ठदिलीपसंवादे विद्योपदेशोनाम त्रयोविंशत्यधिकद्विशततमोऽध्यायः २२३