नारद उवाच-
विश्वास-प्रस्तुतिः
आकर्णय शिबे राजन्वर्णयामि तवाग्रतः
पुण्यं यशस्यमायुष्यं काश्या माहात्म्यमुत्तमम् ॥ १ ॥
मूलम्

इन्द्रप्रस्थतटस्थायां काश्यामेकस्तु पादपः
शिंशपाख्योभवेद्राजन् पुरा पुण्ययुगे कृते ॥ २ ॥

तत्रैको वायसो ह्यासीत्कृतनीडो वनस्पतौ
तस्याधस्तान्महासर्पं कोटरेव सति स्म ह ॥ ३ ॥

एकदा तस्य काकस्य भार्याण्डद्वयमालये
प्रतिमुच्य गता क्वापि न नीडे स्वे समागता ॥ ४ ॥

स्वयमेव स काकस्तु पालयन्नण्डकद्वयम्
तामेव शिंशपामुच्चैरध्यतिष्ठन्महीपते ॥ ५ ॥

अथैकदा निशीधे तु महावात्या समागता
अभनक्शिंशपां राजन्मूलादपि दृढादपि ॥ ६ ॥
मूलम्
अथैकदा निशीधे तु महावात्या समागता
अभनक्शिंशपां राजन्मूलादपि दृढादपि ॥ ६ ॥
विश्वास-प्रस्तुतिः
वात्यया पात्यमानाया शिंशपायास्तदा तले
चूर्णितौ काकसर्पौ तौ गतप्राणौ बभूवतुः ॥ ७ ॥

दिव्याङ्गास्ते त्रयो भूत्वा शिंशपा वायसादयः
विमानत्रयमारूढा जग्मुः श्रीपतिकेतनम् ॥ ८ ॥

शिबिरुवाच-
देवर्षे केन पुण्येन प्राप्ता तैर्मुक्तिदा पुरी
आसंस्ते के त्रयः पूर्वं सर्वं कथय नारद ॥ ९ ॥

कुरुजाङ्गलदेशीयो ब्राह्मणः श्रवणाभिधः
तस्य भार्या कुडा नाम भ्राताभूच्च कुरण्टकः ॥ १० ॥

अस्नातभोक्ता नित्यं स कवलो मिष्टभुग्रहः
श्रवणस्तेन दोषेण बभूव ग्रामवायसः ॥ ११ ॥
मूलम्
अस्नातभोक्ता नित्यं स कवलो मिष्टभुग्रहः
श्रवणस्तेन दोषेण बभूव ग्रामवायसः ॥ ११ ॥
विश्वास-प्रस्तुतिः
कुरण्टकस्तु तद्भ्राता नास्तिकोऽभवदुल्बणः
श्रुतिस्मृतिपथोच्छेत्ता देवतानां च निन्दकः ॥ १२ ॥

तेन दोषेण स मृतो ह्यभवत्कालकुण्डली
सा कुण्डा श्रवणस्य स्त्री बभूवोभयदोषभाक् ॥ १३ ॥

अतः सा स्थावरत्वं हि लब्ध्वासीदुभयाश्रया
एतत्ते कथितं भूप तद्वृत्तं पूर्वजन्मनि ॥ १४ ॥

अतः परं प्रवक्ष्यामि तेषां पुण्यं यतस्त्रयः
प्रापुस्तेन पुरीं रम्यां काशीं वैश्वेश्वरीं नृप ॥ १५ ॥

ग्रामान्तरादेकदा तौ प्रत्यायातौ निजालयम्
कस्यचित्पथिकस्याथ कूपमग्नां पयस्विनीम् ॥ १६ ॥

अवलोक्य तदुद्धारं चक्रतुस्तेन नोदितौ
ताभ्याङ्गदितमाकर्ण्य कुण्डा साध्वित्यभाषत ॥ १७ ॥

ते त्रयस्तेनपुण्येन मरणं प्राप्य दुर्लभम्
इन्द्रप्रस्थतटस्थायां काश्यां वैकुण्ठमारुहन् ॥ १८ ॥

इयं काशी महेशस्य पुरी यद्यपि भूपते
तथाप्यस्यां मृतं जन्तुर्वैकुण्ठे स्यात्सुखी हरेः ॥ १९ ॥

एतत्ते कथितं राजन्काश्या माहात्म्यमुत्तमम्
किमन्यच्छ्रोतुमिच्छा ते विद्यते तद्वदस्व मे ॥ २० ॥

मुने त्वया महेशस्य क्षेत्रत्रयमुदीरितम्
काशी च शिवकाञ्ची च गोकर्णं च तथापरम् ॥ २१ ॥

एकस्य महिमा प्रोक्तो त्वया काश्या महामुने
गोकर्णशिवकाञ्च्योश्च कथ्यतां यदि विद्यते ॥ २२ ॥

गोकर्णं केवलं शैवं क्षेत्रं परमपावनम्
तस्मिन्मृतो नरो राजन्शिवः स्यान्नात्र संशयः ॥ २३ ॥

स्थले जलेन्तरिक्षे च जन्तुस्तत्र मृयेत चेत्
तदा कैलासशिखरो शिवः सम्भूय दीव्यति ॥ २४ ॥

अत्र गोकर्णतीर्थे स्यान्मृतस्य न पुनर्भवः
शिवेन स समं राजन्मुक्तिं यास्यति कर्हिचित् ॥ २५ ॥

अस्यापि तव माहात्म्यं गोकर्णस्य महामते
वर्णयामि यदाकर्णि मया ब्रह्ममुखात्प्रभो ॥ २६ ॥

प्रयागादेकगव्यूतौ गुरुतीर्थसमीपगः
मर्यादापर्वतो योऽयं दृश्यते पुण्यदर्शनः ॥ २७ ॥

तत्रैकः कर्कटो नाम भिल्ल आसीत्सुदारुणः
तस्य भार्या जरा नाम सा जघ्ने पतिपञ्चकम् ॥ २८ ॥

सा जरा विषसंयुक्तं षष्ठं कर्कटकं तदा
अकरोन्मोदकं हन्तुं तदा तेन स्वसुः श्रुतम् ॥ २९ ॥

निजाया मुखतो राजन्भिल्लेन च महात्मना
बालां तां हन्तुमारेभे कर्कटो भृशदारुणः ॥ ३० ॥

खङ्गपाणिर्यदा याति तद्वधाय स भिल्लपः
यावत्तावत्तु सा यायाज्ज्ञात्वा निजवधोद्यमम् ॥ ३१ ॥

वनमभ्यद्रवद्भीता निजप्राणपरीप्सया
तामनुद्रवता तेन कर्कटेन महीपते ॥ ३२ ॥
मूलम्
वनमभ्यद्रवद्भीता निजप्राणपरीप्सया
तामनुद्रवता तेन कर्कटेन महीपते ॥ ३२ ॥
विश्वास-प्रस्तुतिः
अत्र गोकर्णतीर्थे तु गृहीता खङ्गपाणिना
शिरश्छित्वा तु खङ्गेन पातयित्वा जले वपुः ॥ ३३ ॥

तस्य गोकर्णतीर्थस्य निजस्थानमगाच्च सः
सा जरा तत्र गोकर्णे पापापि निधनं गता ॥ ३४ ॥

कैलासशिखरे राजन्पार्वत्या अभवत्सखी
अहं कथितवानेतत्तव गोकर्णवैभवम् ॥ ३५ ॥
मूलम्
कैलासशिखरे राजन्पार्वत्या अभवत्सखी
अहं कथितवानेतत्तव गोकर्णवैभवम् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
शिवकाञ्च्याश्च माहात्म्यं पवित्रं वर्णयामि ते
इन्द्रप्रस्थतटस्थायां शिवकाञ्च्यामपि प्रभो ॥ ३६ ॥

गतिः सा परमा पुंसां गोकर्णे या मयोदिता
अत्र श्रीमन्महादेवो विष्णुं सर्वसुरेश्वरम् ॥ ३७ ॥

आराध्य भक्तराजत्वं लेभे ज्ञानं च तात्विकम्
अतः सर्वे वयं पुत्रा ब्रह्मणस्तं महेश्वरम् ॥ ३८ ॥

आराधयामः सततं सद्भक्तिज्ञानलिप्सया
अत्र बाणासुरो राजन्नारराध महेश्वरम् ॥ ३९ ॥

निराहारो वर्षशतं तद्गुणत्वबुभूषया
तस्मै प्रसन्नो भगवान्गणत्वं दत्तवान्निजम् ॥ ४० ॥

स्वयं च सर्वदा तस्य पुरपालो बभूवह
इयं पुरी पुरा राजन्नासीद्विष्णोर्महात्मनः ॥ ४१ ॥

दत्ता शिवाय तुष्टेन तपसा तस्य विष्णुना
अस्यामेकं पुरावृत्तं महदाश्चर्यकारकम् ॥ ४२ ॥

विप्रस्य शिवभक्तस्य वैकुण्ठाप्तिर्यथाभवत्
एकस्तु ब्राह्मणो राजन् हेरम्बो नाम धार्मिकः ॥ ४३ ॥

कायेन मनसा वाचा शिवपूजारतः सदा
एकदा स महाभागः शिवतीर्थानि पर्यटन् ॥ ४४ ॥

शिवभक्तः शिवे राजन्शिवकाञ्च्यामिहागतः
एनां मनोहरां चैव न तत्याज स बुद्धिमान् ॥ ४५ ॥

पश्चात्तत्रैव तत्याज प्राणानस्या जलान्तरे
तत्रैव श्रीमहादेवगणास्तं ब्राह्मणोत्तमम् ॥ ४६ ॥

नीत्वा कैलासमचलं चेलुस्तदनुशासनात्
अथ मध्ये समायाता गणा वैकुण्ठतो हरेः ॥ ४७ ॥

तेभ्यो बलात्समादातुं तं द्विजश्रेष्ठमुद्यताः
आसीत्तेषां महयुद्धं गणानां हरिशर्वयोः ॥ ४८ ॥

तत्र युद्धेन वैकेषां विजयो न पराजयः
तत्र वैकुण्ठतो विष्णुरागतो गरुडासनः ॥ ४९ ॥

कैलासाद्वृषभारूढो महेशश्च त्रिलोकधृक्
तावन्योन्यं मुखं दृष्ट्वा विहस्य जगदीश्वरौ ॥ ५० ॥

पश्यतस्म महद्युद्धं नभस्येव गणैः कृतम्
अथ स्वीयान्गणान्विष्णुः शैवांश्च दिवि युद्धतः ॥ ५१ ॥

निवार्य तं द्विजं तार्क्ष्यमारोप्यागाच्छिवालयम्
शिवेन तद्गणैश्चापि स्वकीयैरपि माधवः ॥ ५२ ॥

वृतो गछन्पथि श्रीमान्स्तुतस्त्रिदशवन्दितः
गत्वा विवेश तं चागं महादेवपुरःसरः ॥ ५३ ॥

तस्मै द्विजाय वै तस्य दर्शयन्रमणीयताम्
अथ तस्मात्तु कैलासान्महादेवेन वन्दितः ॥ ५४ ॥

माधवः परया भक्त्या वैकुण्ठमगमत्तदा
द्विजः सोऽपि महाभागस्तीर्थस्यास्य प्रसादतः ॥ ५५ ॥

गोविन्ददर्शनं प्राप्य मुमुदे हरसन्निधौ
एतत्ते कथितं राजन्शिवकाञ्च्यास्तु वैभवम् ॥ ५६ ॥

तीर्थसप्तकनाम्नस्तु शृणुष्व सुसमाहितः
तीर्थमेतन्महाराज चतुर्वर्गफलप्रदम् ॥ ५७ ॥

दर्शनात्स्पर्शनाद्ध्यानात्स्मरणादपि भूपते
वसिष्ठादिभिरेतस्मिन्महर्षिभिरनुष्ठितम् ॥ ५८ ॥

महत्तपस्तु सृष्ट्यर्थं तत्रासंस्तु क्षमा नृप
मरीचिरपि धर्मात्मा पुत्रार्थं स्नानमाचरन् ॥ ५९ ॥

अत्र लेभे महाभागः कश्यपं सुतमुत्तमम्
अत्रिरत्रापि तपसा तोषयद्देवपुङ्गवान् ॥ ६० ॥

सोमं दुर्वाससं दत्तं तेभ्यो लेभे सुतत्रयम्
अङ्गिरा अपि धर्मात्मा तीर्थस्यास्य प्रसादतः ॥ ६१ ॥

लेभे सुतांस्तुतद्वंश्या जाता आङ्गिरसा द्विजाः
पुलहोऽपि सुतं लेभे दम्भोलि गुणवत्तरम् ॥ ६२ ॥

योऽगस्त्योभूत्पुरा राजंस्तीर्थेऽत्रैव निमज्जनात्
पुलस्त्यस्यात्र तीर्थे वै पुत्रो लब्धो तपस्यतः ॥ ६३ ॥

कुबेरोभून्महाभागो यः सखासीदुमापतेः
क्रतोरपि सुता जाता वालखिल्याः सहस्रशः ॥ ६४ ॥

तीर्थस्यास्य प्रसादेन ते सर्वे ह्यूर्ध्वरेतसः
रजआदीन्सुताँ लेभे वसिष्ठोऽपि महातपाः ॥ ६५ ॥

सप्तैव राजशार्दूल महिमा तस्य वर्णितः
अन्यान्यपि च तीर्थानि सन्त्यनेकानि भूपते ॥ ६६ ॥

कपिलाश्रमकेदारप्रभासादीनि वै प्रभौ
नियुतैरपि वर्षाणां तेषां च महिमा नृप
अनन्तेनापि नो वक्तुं शक्यते किमु मादृशैः ॥ ६७ ॥

सौभरिरुवाच-
एवमुक्त्वा मुनिश्रेष्ठो नारदो मुनिपुङ्गवः
शिवं जगाम नभसो नारायणगुणान्गृणन् ॥ ६८ ॥

शिबिरौशीनरो राजा शक्रप्रस्थस्य वैभवम्
श्रुत्वा मुनिमुखाद्राजन्कृतार्थं स्वममन्यत ॥ ६९ ॥

तत्र स्नात्वा हि विधिवदिन्द्रप्रस्थे स भूपतिः
विधाय सत्क्रियाः सर्वा जगाम निजपत्तनम् ॥ ७० ॥

इन्द्रप्रस्थस्य माहात्म्यमेतत्तव मया विभो
यमुनातीरतीर्थस्य वर्णितं जनपावनम् ॥ ७१ ॥

नास्यादरं करिष्यन्ति कलौ श्रद्धाविवर्जिताः
इन्द्रप्रस्थस्य राजेन्द्र सर्वतीर्थशिरोमणेः ॥ ७२ ॥

अष्टादशपुराणानां श्रवणाद्भारतस्य च
यत्फलं तन्महिम्नस्य शक्रप्रस्थस्य जायते ॥ ७३ ॥

अरुणोदयवेलायां माघलक्षैकमज्जनात्
यत्फलं तन्महिम्नोस्य श्रवणाच्छ्रद्धया भवेत् ॥ ७४ ॥

श्रद्धयास्य तु माहात्म्यं यः शृणोति महीपते
तर्पितास्तेन पितरो देवाश्च मुनयस्तथा ॥ ७५ ॥

कृच्छ्रातिकृच्छ्रपाराक चान्द्रायण व्रतादिभिः
यत्फलं तन्महिम्नोऽस्य श्रद्धया श्रवणाद्भवेत् ॥ ७६ ॥

अश्वमेधादियज्ञानां समस्तानां महीपते
यत्फलं तन्महिम्नोऽस्य श्रद्धया श्रवणाद्भवेत् ॥ ७७ ॥

सूत उवाच-
एवं युधिष्ठिरो राजा श्रुत्वा शौनक सौभरेः
इन्द्रप्रस्थस्य माहात्म्यं स ययौ हस्तिनं पुरम् ॥ ७८ ॥

ततो विनीय सद्भ्रातॄन्दुर्योधनपुरःसरान्
इन्द्रप्रस्थमगात्पुण्यं राजसूयचिकीर्षया ॥ ७९ ॥

द्वारकायाः समागम्य गोविन्दं कुलदैवतम्
राजसूयेन यज्ञेन स इयाज महीपतिः ॥ ८० ॥
मूलम्
द्वारकायाः समागम्य गोविन्दं कुलदैवतम्
राजसूयेन यज्ञेन स इयाज महीपतिः ॥ ८० ॥
विश्वास-प्रस्तुतिः
मुक्तिदं तीर्थमेतत्तु शपतोस्याप्यजायत
इति मत्वा हरिस्तत्र शिशुपालं जघान ह ॥ ८१ ॥

शिशुपालोऽपि तस्यैव तीर्थस्य मरणाद्भुवि
सायुज्यमगमत्कृष्णे निखिलार्थप्रदायके ॥ ८२ ॥

शिशुपालो हतो यत्र विहितो यत्र चक्रतुः
गदया तत्र भीमेन कृतं कुण्डं सुविस्तरम् ॥ ८३ ॥

भीमकुण्डं तु विज्ञातं जातं तद्भुविपावनम्
कालिन्द्या दक्षिणे भागे गव्यूत्यर्धं महीतले ॥ ८४ ॥

इन्द्रप्रस्थगताया यत्कालिन्द्याः स्नानतः फलम्
तत्फलं तत्र कुण्डे तु जायते नात्र संशयः ॥ ८५ ॥

यस्मिन्क्षेत्रे स्थितो जन्तुस्तं क्षेत्रमनुवत्सरम्
प्रदक्षिणादिभिर्धर्मैः स्वापराधान्क्षमापयतेत् ॥ ८६ ॥

प्रतिसंवत्सरं चैव परिक्रामति यो नरः
क्षेत्रापराधदोषैश्च न स लिप्येत्तु पातकैः ॥ ८७ ॥

प्रदक्षिणमकुर्वाणः क्षेत्रसिद्धिं न विन्दति
तस्मात्प्रदक्षिणा तीर्थे दातव्या च फलार्थिभिः ॥ ८८ ॥

हरेर्नाम निसञ्जल्पन्प्रकरोति प्रदक्षिणाम्
पदेपदे स लभते कपिलादानजं फलम् ॥ ८९ ॥

चैत्रकृष्णचतुर्दश्यां शक्रप्रस्थप्रदक्षिणाम्
यः करोति नरो धन्यः सर्वपापैः प्रमुच्यते ॥ ९० ॥

इति श्रीपाद्मेमहापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे कालिन्दी
माहात्म्ये इन्द्रप्रस्थगत काशीगोकर्णशिवकाञ्चीतीर्थसप्तक भीमकुण्डवर्णनोनाम द्वा
विंशत्यधिकद्विशततमोऽध्यायः २२२