नारद उवाच-
विश्वास-प्रस्तुतिः
इत्युक्ता सा कला राजंस्तया नृपतिभार्यया
स्वकोशात्स्वर्णमञ्जूषामानाय्य विदधे पुरः ॥ १ ॥
मूलम्

उवाच च महाराज भार्येऽस्यामहदद्भुतम्
पुस्तकं वर्तते देवि तत्र चित्राणि सन्ति वै ॥ २ ॥

उद्धाट्य दृश्यतां किञ्चित्किं किमस्त्यत्र पुस्तके
रंस्यते ते मनो नूनं तत्रस्था लेख्यदर्शने ॥ ३ ॥

इत्युक्त्वा भूपपत्नी सा दास्या तामुदघाटयत्
मञ्जूषां तत्र संस्थं च पुस्तकं पाणिनाऽग्रहीत् ॥ ४ ॥

तत्रावलोकयामास सावतारान्समासतः
पूर्वं ततस्तु भूगोलं पञ्चाशत्कोटियोजनम् ॥ ५ ॥

तत्रान्धकारसंयुक्ता भूमिर्दृष्टाथ काञ्चनी
एतयोरन्तरे राजँल्लोकालोकश्च पर्वतः ॥ ६ ॥

सप्तद्वीपास्ततो दृष्ट्वा समुद्रैः सप्तभिर्वृताः
एतेषु नद्यः शैलाश्च खण्डानि तु महामते ॥ ७ ॥

एतद्भारतखण्डं सा पश्यन्ती भूपतिप्रिया
यमुनाजाह्नवी मुख्या सरितः समवैक्षत ॥ ८ ॥

यमुनातीरगं राजन्निन्द्रप्रस्थमिदं शुभम्
ददर्श सा महाभागा तीर्थं व्रजयुतं नृप ॥ ९ ॥

अत्र तीर्थमिदं दृष्ट्वा प्रयागं ब्रह्मनिर्मितम्
पूर्वजन्मकृतं कर्म सा सस्मार मनस्विनी ॥ १० ॥

ततस्तूष्णीं समुत्थाय तूर्णं सा स्वगृहं ययौ
निश्चित्येति न भोक्ष्यामि ततः प्रस्थाय तीर्थकम् ॥ ११ ॥

तदैव सा तु हेमाङ्गी सहगन्तुमसुप्रियम्
वीरवर्माणमाहेदं तीर्थराजं प्रिया सती ॥ १२ ॥

हेमाङ्ग्युवाच-
भो भो प्राणपते वाक्यं मदीयं शृणु धर्मदम्
विधेहि च महाभाग तूर्णं पूर्णो भविष्यति ॥ १३ ॥

पुराहं मोहिनी नाम वेश्या च बहुपापकृत्
यौवने वार्द्धके किञ्चिद्धर्मे जाता मतिर्मम ॥ १४ ॥

पापेनोपार्जितां वित्तं धर्मेण व्ययितं मया
निर्द्धनाहं यदा राजन्निर्गता निजपत्तनात् ॥ १५ ॥

तदा मां निर्जनेऽरण्ये यान्ती जघ्नुस्तु तस्कराः
वृथा दारिद्र्यसन्तप्ता पापा धनजिघृक्षया ॥ १६ ॥

शितशस्त्रक्षताङ्गीं मां श्वसन्तीं गतचेतनाम्
विसृज्य तस्करास्तत्र गता हतमनोरथाः ॥ १७ ॥

ततो वैखानसो ह्येकः प्रयागस्य जलं वहन्
इन्द्रप्रस्थगतस्यैव वने तत्र समागतः ॥ १८ ॥

तत्र मां पतितां दृष्ट्वा तदवस्थां स तापसः
का त्वं कुतः किमर्थं वा हता केनेति पृष्टवान् ॥ १९ ॥

तदा किमपि नोक्तं मे प्रार्थितं पुण्यमम्बु तत्
तेन तन्मे मुखे क्षिप्तं ततोऽहं देहमत्यजम् ॥ २० ॥

प्राणप्रयाणकाले तु वारितत्सर्वकामदम्
श्रुत्वेति वाञ्च्छितवती महिषी स्यामिति प्रभो ॥ २१ ॥

तस्य तीर्थाम्भसो राजन्प्रसादात्ते गृहेश्वरी
जाताहं सत्कुलाचारा शीलया परयो निधेः ॥ २२ ॥

साम्प्रतं द्रष्टुमिच्छामि शक्रप्रस्थगतं नृप
प्रयागं तीर्थराजं तं भवता सह कामदम् ॥ २३ ॥

प्रस्थास्येहं यदा राजन् तीर्थराजं प्रति प्रभो
तदाहमन्नं भोक्ष्यामि मयेति विहितः पणः ॥ २४ ॥

राजोवाच-
कथमेतद्विजानीयां त्वदुक्तं चललोचने
प्रतीतं कुरु मे भद्रे त्वदुक्तं करवाण्यहम् ॥ २५ ॥

इत्युक्ते तेन भूपेन खे वागित्यभवत्तदा
आकाशवागुवाच-
सत्यमुक्तं वचो राजन्ननया तव भार्यया ॥ २६ ॥

इन्द्रप्रस्थे गते पुण्ये प्रयागे तीर्थपुङ्गवे
तत्र गत्वा कुरु स्नानं लप्स्यसे यद्यदिच्छसि ॥ २७ ॥

निशम्येति ततो वाणीं नृपो गगनसम्भवाम्
दण्डवत्पतितो भूमौ तद्वक्तारं नमाम्यहम् ॥ २८ ॥

अथ मन्त्रिणमाहूय राज्यमारोप्य तत्र वै
तया सह समारुह्य रथं तीर्थवरं ययौ ॥ २९ ॥
मूलम्
अथ मन्त्रिणमाहूय राज्यमारोप्य तत्र वै
तया सह समारुह्य रथं तीर्थवरं ययौ ॥ २९ ॥
विश्वास-प्रस्तुतिः
कतिभिर्वासरैरत्र हेमाङ्ग्या सह आययौ
उपजहृ तीर्थराजे क्षीरं भार्यायुतो नृपः ॥ ३० ॥

सस्नतुस्तौ शिवे तीर्थे दम्पती तत्र कामदे
प्रयागे तेन वपुषा वैकुण्ठप्राप्तिरस्तु मे ॥ ३१ ॥

प्रतीच्छया स्नानमात्रे मिथुने तत्र भूपते
आगतौ सुरशार्दूलौ हंसपक्षीन्द्रवाहनौ ॥ ३२ ॥

आगतौ तौ समालोक्य वीरवर्मा स भूपतिः
प्रणम्य शिरसा देवौ तुष्टावैकाग्रमानसः ॥ ३३ ॥

नमो वां सुरशार्दूलौ बिभ्रद्भ्यामसितारुणे
वपुषी क्षौमवासांसि हेमसिन्दूरभानि च ॥ ३४ ॥

वन्दे युवां सत्वरजः प्रधानौ चराचरस्य स्थितिसर्गहेतू
वैकुण्ठसत्याद्भुतलोकनाथौ चतुर्द्विबाहू खगराजवाहौ ॥ ३५ ॥

वैराग्यसंरागवतां जनानां सन्मुक्तिभुक्तिप्रतिपादिकौ च
वृन्दारके वन्दितपादपद्मौ सद्भावनम्रेण नमामि मूर्ध्ना ॥ ३६ ॥

गोविन्दवृन्दारकवन्द्यपाद न कोऽपि जानाति तव स्वरूपम्
यतः परस्त्वं प्रकृतेश्च पुंसो मनोवचोभ्यामपि दूरवर्ती ॥ ३७ ॥

धन्यः सलोके पुरुषः परात्मन्यो विश्वमेतत्क्षणिकं विचिन्त्य
अनन्यचेता भजति त्वदीय पादारविन्दं मुनिवृन्दवन्द्यम् ॥ ३८ ॥

त्वत्पादसेवनन्नाम तीर्थमेतच्च दुर्लभम्
जनानां भजमानानां वाञ्छितार्थफलप्रदम् ॥ ३९ ॥

तथाप्येतद्द्वयं सेव्यं मुक्तये नान्यलब्धये
अन्यकामनया यस्तु सेवते स तु वञ्चितः ॥ ४० ॥

सन्तो भवन्तमासेव्य तीर्थमेतच्च मुक्तिदम्
नान्यमिच्छन्त्यतिक्रम्य सर्वलोकान्जिजीषवः ॥ ४१ ॥

इत्यभिष्टूय देवेशं लोकेशं स च भूपतिः
तस्थौ यदा तदा राजन्हेमाङ्गी सा जगाद ह ॥ ४२ ॥

पद्मापते पद्मपलाशलोचन ब्रह्मन्करालासन भारती गुरो
नमो युवाभ्यां यदि दीनचेतसे प्रसीदतां तारयतां भवाब्धेः ॥ ४३ ॥

तीर्थस्यास्य प्रसादेन जाताहं महिषी प्रभो
युवयोर्दर्शनं जातं देवानामपि दुर्लभम् ॥ ४४ ॥

युवामखिलचित्तज्ञौ दत्तं नौ मानसेप्सितम्
स्नानकाले यदावाभ्यां विहितं पारमार्थिकम् ॥ ४५ ॥

एवं ताभ्यामुभाभ्यां तौ संस्तुतौ देवपुङ्गवौ
प्रसन्नवदनौ भूत्वा प्रोचतुर्दम्पती प्रति ॥ ४६ ॥

हरिब्रह्माणावूचतुः
धन्या त्वमसि हेमाङ्गि यतोऽयं तारितः पतिः
त्वया राज्यसुखासक्त चित्तोप्येतत्समागमात् ॥ ४७ ॥

राज्ञां विषयसक्तानां दुर्लभा मुक्तिरीदृशी
त्वद्भर्तुर्यादृशी जाता तीर्थस्यास्य प्रसादतः ॥ ४८ ॥

इत्युक्त्वा तौ समालोक्य गरुडं पक्षिपुङ्गवम्
जग्मतुस्तौ सुरश्रेष्ठौ सत्यलोकं नरेश्वर ॥ ४९ ॥

तत्र ते ब्रह्मणा सर्वे पूजिता विधिवन्नृप
तस्य चित्तानुरोधेन तस्थुरेकं मुहूर्तकम् ॥ ५० ॥

अथ ताभ्यामुभाभ्यां स दम्पतीभ्यां समं हरिः
आरुह्य गरुडं श्रीमद्वैकुण्ठमगमन्नृप ॥ ५१ ॥

इत्येतत्कथितं तुभ्यं तीर्थराजस्य वैभवम्
पुण्यं समस्तपापघ्नं यशस्यं सुतदं नृप ॥ ५२ ॥

य एतच्छृणुयान्नित्यं पठेदपि च मानवः
स गच्छेद्वाञ्छितं स्थानं सत्यमेतन्मयोदितम् ॥ ५३ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे इन्द्रप्रस्थमाहात्म्ये प्रयागवर्णनन्नामैकविंशत्यधिकद्विशततमोऽध्यायः २२१