२२०

नारद उवाच-

विश्वास-प्रस्तुतिः

शिवस्यतीर्थराजस्य प्रयागस्य तवाग्रतः
महिमानं महापुण्यं श्रद्धया वर्णयामि ते ॥ १ ॥

मूलम्

विश्वावसुर्महीपाल गन्धर्वो लोकविश्रुतः
एकदा स गतो गातुं सुमेरौ ब्रह्मणः सभाम् ॥ २ ॥

तत्र सर्वैः सुरश्रेष्ठमुपविष्टं सुविष्टरे
जुष्टं सुरगणैर्भूप विश्वावसुरवैक्षत ॥ ३ ॥

ब्रह्मासनसमीपे तु वरासनगतं नृप
द्वितीयमिव लोकेशमिन्द्रप्रस्थं स एक्षत ॥ ४ ॥

सुरराजतीर्थराजौ ब्रह्मेन्द्रप्रस्थयोर्नृप
चामरोद्धूननं मूर्ध्नि कुर्वन्तौ स ददर्श ह ॥ ५ ॥

अन्यानि देवतीर्थानि तयोर्दूरे महीपते
स्थितानि तेन दृष्टानि बद्धाञ्जलिपुटानि तु ॥ ६ ॥

तयोरग्रे जगौ राजन्गान्धर्वं रागमुत्तमम्
तीर्थैः सममगात्सत्यलोकं देवान्विसृज्य हि ॥ ७ ॥

अथ विश्वावसुर्द्धीमान्दृष्ट्वा तीर्थस्य वैभवम्
इन्द्रप्रस्थस्य राजेन्द्र हाहामेतदुवाच ह ॥ ८ ॥

विश्वावसुरुवाच-
भोभो गन्धर्वशार्दूल तीर्थमेतन्महाद्भुतम्
इन्द्रप्रस्थाख्यमेतस्मिन्संसारे तीर्थराशिषु ॥ ९ ॥

चराचरगुरुर्ब्रह्मा सुरवन्द्य पदाम्बुजः
तस्यासनसमीपस्थं यदतिष्ठ समासनम् ॥ १० ॥

मूलम्

चराचरगुरुर्ब्रह्मा सुरवन्द्य पदाम्बुजः
तस्यासनसमीपस्थं यदतिष्ठ समासनम् ॥ १० ॥

विश्वास-प्रस्तुतिः

तीर्थराजोऽपि पृष्ठस्थश्चामरं यस्य मस्तके
अधुना भृत्यवज्जातस्तीर्थेष्वन्येषु का कथा ॥ ११ ॥

पृथिव्यां यानि तीर्थानि त्रिवर्गफलदानि तु
इन्द्रप्रस्थमिदं तीर्थं चतुर्वर्गफलप्रदम् ॥ १२ ॥

अत्र स्थितानि तीर्थानि तादृशानि गुणैर्ध्रुवः
शेषेनापि न शक्यन्ते स्तोतुं तेषां महागुणाः ॥ १३ ॥

एवं विश्वावसुर्धीमान्दृष्ट्वेन्द्रप्रस्थवैभवम्
गत्वा तस्य गृहं राजन्पावनं सर्वकामदम् ॥ १४ ॥

यथा देवेषु सर्वेषु शक्रः श्रेष्ठः शचीपतिः
तस्माद्ब्रह्मा च तीर्थेषु प्रयागोऽयं तथा वरः ॥ १५ ॥

तस्मादपि महाराज शक्रप्रस्थमिदं वरम्
अस्यान्तरगतो योऽयं प्रयागो नृप दृश्यते ॥ १६ ॥

कथयाम्यत्र यद्वृत्तं मोहिन्याः पण्ययोषितः
नर्मदासरितस्तीरे पुरी माहिष्मती नृप ॥ १७ ॥

मोहिनीनाम तत्रासीद्वेश्या बहुधनान्विता
रूपयौवनसम्पन्ना निष्णाता नृत्यगीतयोः ॥ १८ ॥

तया बहूनि पापानि कृतानि धनलुब्धया
ब्रह्महत्याः कृताः सप्त दास्यश्च बहवो हताः ॥ १९ ॥

तासां च पातिता गर्भाः बहुशः पापया तया
एवं तया सुतारुण्यं गमितं पापकर्मभिः ॥ २० ॥

ततो जरा कियत्काले तद्देहे समपद्यत
जराग्रस्तशरीरा सा निवृत्तविषयस्पृहा ॥ २१ ॥

न चक्रे मानसं यूनां ते च तां पतिभूपते
पापार्जितं धनं स्वीयं न विश्वसिति कस्यचित् ॥ २२ ॥

न दत्ते न स्वयं भुङ्क्ते न निक्षिपति वै क्वचित्
एकदा सा निशीथे तु विबुध्येति विचिन्तयत् ॥ २३ ॥

मृतायां मयि कस्येदं धनं पापैरुपार्जितम्
तं नयिष्यति मां घोरं नरकं भृशदारुणम् ॥ २४ ॥

दास्यस्तासां च भर्त्तारस्तद्भोक्ष्यन्ति धनं मम
मयैव सद्गतिस्तस्य कथं न क्रियतेऽधुना ॥ २५ ॥

एवं विचिन्त्य सा धर्मे विधाय मतिमुत्तमाम्
चकारारामसरसि वापीकूपसुरालयान् ॥ २६ ॥

अभितः पुरमाधत्ते प्रपाः पथिकहेतवे
निदाघे च महाराज तेभ्योऽन्नं प्रददौ च सा ॥ २७ ॥

धर्मशालां गृहाभ्याशे निवासाय विदेशिनाम्
विदधे सा पुनस्तेभ्यो ददावाहारमुत्तमम् ॥ २८ ॥

एवं प्रवर्त्तमाना हि धर्मे सा भूपमोहिनी
ज्वरातुराभवत्काले क्वचिच्चेति विचिन्तयत् ॥ २९ ॥

धर्मार्थे हि मया वित्तं व्ययितं भूरि यद्यपि
तथापि स्वर्णरूप्यादि प्रचुरं वर्त्तते परम् ॥ ३० ॥

श्रोत्रियेभ्यो ददाम्येतज्ज्ञानेनेति व्यचिन्तयत्
विचिन्त्येति समाहूता मोहिन्या नगरद्विजाः ॥ ३१ ॥

नागतास्ते महीपाल ज्ञात्वा घोरं प्रतिग्रहम्
यदा तदा द्विभागं च चक्रे तत्तु धनं स्वकम् ॥ ३२ ॥

एको भागस्तु दासीनां दत्तोन्यश्च विदेशिनाम्
स्वयं तु निर्द्धना राजन्नभवत्सा तु मोहिनी ॥ ३३ ॥

तथा समागतं मृत्युं विज्ञायान्तिकमन्तिके
मुक्त्वा दास्यो धनं नीत्वा यथेष्टगतयोऽभवत् ॥ ३४ ॥

इति मत्वा यदा ह्येषा ज्वरमुक्ता भविष्यति
तदानीं यद्धनं दत्तं नूनमादास्यते हि तत् ॥ ३५ ॥

अथ सा लङ्घनान्यष्टादशकृत्वा महीपते
निजायुषस्तु शेषेण ज्वरमुक्ता तदाभवत् ॥ ३६ ॥

एका जरद्गवानाम सखी तस्या महीपते
सा तामुपचचाराशु पथ्यादिभिरतन्द्रिता ॥ ३७ ॥

कियद्भिर्वासरैः सा तु पूर्णाहारा व्यजायत
तस्या जरद्गवायास्तु गृहे भुक्तं स्म लज्जया ॥ ३८ ॥

मया स्थितं सुखेनात्र दुःखमद्य समागतम्
दारिद्र्यान्न मया स्थेयं सचिन्त्येति गतान्यतः ॥ ३९ ॥

गच्छती सा वने राजन्मोहिनी पुरतस्करैः
इति मत्वा विनिहता गृहीत्वा यात्यसौ धनम् ॥ ४० ॥

धनमप्राप्य तैस्तस्याः सकाशात्पुरतस्करैः
श्वसती सा परित्यक्ता तस्मिन्नेव वने नृप ॥ ४१ ॥

अथ वैखानसः कश्चित्प्रयागस्यास्य वै जलम्
बिभ्रत्कमण्डलौ राजन्नत्रारण्ये समाययौ ॥ ४२ ॥

अथ तां पतितां वीक्ष्य शस्त्रविक्षतविग्रहाम्
याचमानामिदं राजन् जीवनं हस्तसञ्ज्ञया ॥ ४३ ॥

वैखानस उवाच-
का त्वं केन शितैः शस्त्रैः सक्षतीकृतविग्रहा
एकाकिनी किमर्थं वा निर्जनारण्यमागता ॥ ४४ ॥

इन्द्रप्रस्थगतस्येदं प्रयागस्य जले शुभे
भाग्योदयेन केनापि प्रापितं प्रियकाम्यया ॥ ४५ ॥

इत्युक्ता तेन सा वक्तुमक्षमा व्याददे मुखम्
पातुं तद्वारिमहिषी भवेयमिति वाञ्छया ॥ ४६ ॥

अथैतस्य प्रयागस्य पातितेम्बुनि तन्मुखे
तत्याज जीवितं सा तु मोहिनीगणिका नृप ॥ ४७ ॥

प्राणप्रयाणकाले तु महिषीत्वं च वाञ्च्छयत्
अतः सा महिषी जाता द्राविडे वीरवर्मणः ॥ ४८ ॥

सम्भूय केरलाधीश गृहे तीर्थाम्बुपानतः
कुलशीलधनैश्वर्यसंयुक्तस्य महीपते ॥ ४९ ॥

मूलम्

सम्भूय केरलाधीश गृहे तीर्थाम्बुपानतः
कुलशीलधनैश्वर्यसंयुक्तस्य महीपते ॥ ४९ ॥

विश्वास-प्रस्तुतिः

हेमगौरं ततः साङ्गं बभार कमलेक्षणा
अतस्तस्य पिता नाम हेमाङ्गीति चकार ह ॥ ५० ॥

एकदा सा तु हेमाङ्गी हेमाभरणभूषिता
कलायाः स्ववयस्याया मन्त्रिपुत्र्या गृहं ययौ ॥ ५१ ॥

तत्र यावकतैलेन स्नापिता भोजिता च सा
विविधान्नैस्तदा राजन्निविष्टा वरविष्टरे ॥ ५२ ॥

पुष्पोद्ग्रथित धमिल्ला क्षामक्षौमविभूषिता
कलां प्रोवाच दधती मुखे ताम्बूलवीटिकाम् ॥ ५३ ॥

हेमाङ्ग्युवाच -
कले कलय मे वाक्यं कोकिलाकलभाषिणि
गृहे यदद्भुतं वस्तु तव मामभिदर्शय ॥ ५४ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे कालिन्दीमाहात्म्ये इन्द्रप्रस्थवर्णनोनाम विंशाधिकद्विशततमोऽध्यायः २२०