नारद उवाच-
विश्वास-प्रस्तुतिः
इत्याकर्ण्य वचस्तस्य पुण्डरीको महामनाः
उवाच निजबन्धुं तं शृण्वतां निजसङ्गिनाम् ॥ १ ॥
मूलम्
इत्याकर्ण्य वचस्तस्य पुण्डरीको महामनाः
उवाच निजबन्धुं तं शृण्वतां निजसङ्गिनाम् ॥ १ ॥
विश्वास-प्रस्तुतिः
पुण्डरीक उवाच-
केन पुण्येन तीर्थेऽस्मिन्मृत्युर्भरत तेऽभवत्
यदि जानासि तद्ब्रूहि पापं विख्यातमेव ते ॥ २ ॥
मूलम्
पुण्डरीक उवाच-
केन पुण्येन तीर्थेऽस्मिन्मृत्युर्भरत तेऽभवत्
यदि जानासि तद्ब्रूहि पापं विख्यातमेव ते ॥ २ ॥
विश्वास-प्रस्तुतिः
भरत उवाच-
पुण्डरीक शृणुष्वेदं कथयामि तवाग्रतः
एतत्तीर्थप्रदं पुण्यं कृतं यदिह जन्मनि ॥ ३ ॥
मूलम्
भरत उवाच-
पुण्डरीक शृणुष्वेदं कथयामि तवाग्रतः
एतत्तीर्थप्रदं पुण्यं कृतं यदिह जन्मनि ॥ ३ ॥
विश्वास-प्रस्तुतिः
एकदा तु धनं जित्वा समागच्छन्निजं गृहम्
अपश्यं मृतकं बालं मृतस्यानाथमापणे ॥ ४ ॥
मूलम्
एकदा तु धनं जित्वा समागच्छन्निजं गृहम्
अपश्यं मृतकं बालं मृतस्यानाथमापणे ॥ ४ ॥
विश्वास-प्रस्तुतिः
निधाय तमहं मूर्ध्नि नीत्वा गङ्गातटे शुभे
वस्त्रादिभिरलङ्कृत्य चक्रे दाहादिसत्क्रियाम् ॥ ५ ॥
मूलम्
निधाय तमहं मूर्ध्नि नीत्वा गङ्गातटे शुभे
वस्त्रादिभिरलङ्कृत्य चक्रे दाहादिसत्क्रियाम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
द्यूतेनोपार्ज्जितं द्रव्यं तत्सर्वं व्ययितं मया
तेन पुण्येन प्राप्तं मे तीर्थमेतच्छुभावहम् ॥ ६ ॥
मूलम्
द्यूतेनोपार्ज्जितं द्रव्यं तत्सर्वं व्ययितं मया
तेन पुण्येन प्राप्तं मे तीर्थमेतच्छुभावहम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
कुरु त्वं मम देहस्य संस्कारं दाहपूर्वकम् ॥ ७ ॥
मूलम्
कुरु त्वं मम देहस्य संस्कारं दाहपूर्वकम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
श्रीनारद उवाच-
संस्कारे विहिते राजन्भरतः पापवानपि
तीर्थस्यास्य प्रसादेन पुष्करस्य गतो दिवि
मासमेकं यथा विष्णुः पुण्डरीकगृहे हरिः ॥ ८ ॥
मूलम्
श्रीनारद उवाच-
संस्कारे विहिते राजन्भरतः पापवानपि
तीर्थस्यास्य प्रसादेन पुष्करस्य गतो दिवि
मासमेकं यथा विष्णुः पुण्डरीकगृहे हरिः ॥ ८ ॥
विश्वास-प्रस्तुतिः
उवासास्य प्रसादेन तीर्थस्य शृणु साम्प्रतम्
अत्र तीर्थे स धर्मात्मा भरतस्यापि सद्गतिम्
दृष्ट्वेति हृदये मेने तीर्थमेतत्तु कामदम् ॥ ९ ॥
मूलम्
उवासास्य प्रसादेन तीर्थस्य शृणु साम्प्रतम्
अत्र तीर्थे स धर्मात्मा भरतस्यापि सद्गतिम्
दृष्ट्वेति हृदये मेने तीर्थमेतत्तु कामदम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
अत्रेति वाञ्च्छया सस्नौ पुण्डरीकः स पण्डितः
माघमासं स्वरूपेण हरिर्वसतु मे गृहे ॥ १० ॥
मूलम्
अत्रेति वाञ्च्छया सस्नौ पुण्डरीकः स पण्डितः
माघमासं स्वरूपेण हरिर्वसतु मे गृहे ॥ १० ॥
विश्वास-प्रस्तुतिः
एवं स्नात्वा स कामेन ययौ निजगृहं प्रति
तीर्थेऽत्र नृपतिश्रेष्ठ पुण्डरीकोऽखिलार्थदे ॥ ११ ॥
मूलम्
एवं स्नात्वा स कामेन ययौ निजगृहं प्रति
तीर्थेऽत्र नृपतिश्रेष्ठ पुण्डरीकोऽखिलार्थदे ॥ ११ ॥
विश्वास-प्रस्तुतिः
बन्धुभ्यो मरणं भ्रातुर्भरतस्य जगाद ह
तेपि श्रुत्वा शुचं चक्रुर्माययावृतबुद्धयः ॥ १२ ॥
मूलम्
बन्धुभ्यो मरणं भ्रातुर्भरतस्य जगाद ह
तेपि श्रुत्वा शुचं चक्रुर्माययावृतबुद्धयः ॥ १२ ॥
विश्वास-प्रस्तुतिः
पुण्डरीकस्तदा कुर्वन्गृहे स्वस्मिन्निजक्रियाः
उवासेति महानन्दस्तपस्यायास्यते हरिः ॥ १३ ॥
मूलम्
पुण्डरीकस्तदा कुर्वन्गृहे स्वस्मिन्निजक्रियाः
उवासेति महानन्दस्तपस्यायास्यते हरिः ॥ १३ ॥
विश्वास-प्रस्तुतिः
पूर्णिमायामथो पौष्यां चक्रे स परमोत्सवम्
मत्वेति श्वो गृहे मह्यं हरिरायास्यति ध्रुवम् ॥ १४ ॥
मूलम्
पूर्णिमायामथो पौष्यां चक्रे स परमोत्सवम्
मत्वेति श्वो गृहे मह्यं हरिरायास्यति ध्रुवम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
श्रीखण्डजलसेकेन गोमयालेपनेन च
मुक्ताचूर्णचतुष्केन समस्कुरुत केतनम् ॥ १५ ॥
मूलम्
श्रीखण्डजलसेकेन गोमयालेपनेन च
मुक्ताचूर्णचतुष्केन समस्कुरुत केतनम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
शतद्वयं ब्राह्मणानां नानाभोज्यैरभोजयत्
वह्वीभिर्दक्षिणाभिश्च तानेव समतोषयत् ॥ १६ ॥
मूलम्
शतद्वयं ब्राह्मणानां नानाभोज्यैरभोजयत्
वह्वीभिर्दक्षिणाभिश्च तानेव समतोषयत् ॥ १६ ॥
विश्वास-प्रस्तुतिः
नानावादित्रकुशलैः कलकण्ठैश्च गायनैः
रजन्यां स्वजनैर्गायंश्चक्रे जागरणं तथा ॥ १७ ॥
मूलम्
नानावादित्रकुशलैः कलकण्ठैश्च गायनैः
रजन्यां स्वजनैर्गायंश्चक्रे जागरणं तथा ॥ १७ ॥
विश्वास-प्रस्तुतिः
अथ प्रभाते तान्सर्वान्गायनादीन्विसृज्य सः
गोविन्दागमनाकाङ्क्षी गृहमध्ये उपाविशत् ॥ १८ ॥
मूलम्
अथ प्रभाते तान्सर्वान्गायनादीन्विसृज्य सः
गोविन्दागमनाकाङ्क्षी गृहमध्ये उपाविशत् ॥ १८ ॥
विश्वास-प्रस्तुतिः
अथ तस्य गृहाभ्यासे निवर्त्य निजवाहनम्
प्राविशद्गृहमध्ये तु कर्तुं स्वजनवाञ्छितम् ॥ १९ ॥
मूलम्
अथ तस्य गृहाभ्यासे निवर्त्य निजवाहनम्
प्राविशद्गृहमध्ये तु कर्तुं स्वजनवाञ्छितम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
स पुण्डरीकस्तं दृष्ट्वा माधवं समुपागतम्
उत्थायासनतस्तूर्णं ववन्दे शिरसा नृप ॥ २० ॥
मूलम्
स पुण्डरीकस्तं दृष्ट्वा माधवं समुपागतम्
उत्थायासनतस्तूर्णं ववन्दे शिरसा नृप ॥ २० ॥
विश्वास-प्रस्तुतिः
उवाच च स धर्मात्मा गोविन्दालोकनिर्वृतः
सम्पूज्यार्घादिदानेन विष्टरे तं निवेशितम् ॥ २१ ॥
मूलम्
उवाच च स धर्मात्मा गोविन्दालोकनिर्वृतः
सम्पूज्यार्घादिदानेन विष्टरे तं निवेशितम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
पुण्डरीक उवाच-
भवता भव तापघ्नं सुस्पष्टं तदनुष्ठितम्
तावदत्र त्वया विष्णो स्थीयतां स्थितिकारिणा ॥ २२ ॥
मूलम्
पुण्डरीक उवाच-
भवता भव तापघ्नं सुस्पष्टं तदनुष्ठितम्
तावदत्र त्वया विष्णो स्थीयतां स्थितिकारिणा ॥ २२ ॥
विश्वास-प्रस्तुतिः
यावदस्य पुनीतस्य समाप्तिस्तपसो भवेत्
यत्र त्वं सेवकास्ते च वसन्ति परिचर्यया ॥ २३ ॥
मूलम्
यावदस्य पुनीतस्य समाप्तिस्तपसो भवेत्
यत्र त्वं सेवकास्ते च वसन्ति परिचर्यया ॥ २३ ॥
विश्वास-प्रस्तुतिः
तत्रैव खलु वैकुण्ठं सर्वदोषविवर्जितः
यद्गृहे तव कर्माणि वर्ण्यं ते साधुभिर्विभो ॥ २४ ॥
मूलम्
तत्रैव खलु वैकुण्ठं सर्वदोषविवर्जितः
यद्गृहे तव कर्माणि वर्ण्यं ते साधुभिर्विभो ॥ २४ ॥
विश्वास-प्रस्तुतिः
हरिर्निवसते तत्र सन्मुखादिति नः श्रुतम्
येषां वचसि ते नाम हृदि रूपं च सुन्दरम् ॥ २५ ॥
मूलम्
हरिर्निवसते तत्र सन्मुखादिति नः श्रुतम्
येषां वचसि ते नाम हृदि रूपं च सुन्दरम् ॥ २५ ॥
विश्वास-प्रस्तुतिः
कर्णयोश्च गुणारोपस्त एव खलु साधवः
भवतो भवते स्वान्तं येषां शुश्रूषणे विभो ॥ २६ ॥
मूलम्
कर्णयोश्च गुणारोपस्त एव खलु साधवः
भवतो भवते स्वान्तं येषां शुश्रूषणे विभो ॥ २६ ॥
विश्वास-प्रस्तुतिः
उत्तमाङ्गे च निर्माल्यं त एव खलु साधवः
येषां तु बुद्धिः शत्रौ च मित्रे च कमलापते ॥ २७ ॥
मूलम्
उत्तमाङ्गे च निर्माल्यं त एव खलु साधवः
येषां तु बुद्धिः शत्रौ च मित्रे च कमलापते ॥ २७ ॥
विश्वास-प्रस्तुतिः
चयापचययोश्चैव त एव खलु साधवः
येषां विकुरुते चेतो न विकारस्य कारणे ॥ २८ ॥
मूलम्
चयापचययोश्चैव त एव खलु साधवः
येषां विकुरुते चेतो न विकारस्य कारणे ॥ २८ ॥
विश्वास-प्रस्तुतिः
सन्ति लक्ष्मीपते नूनं त एव खलु साधवः
यत्र त्वं साधवस्तत्र सन्तो यत्र ततो भवान्
भवानतो विज्ञाय तां साधुं माघे मम गृहे वस ॥ २९ ॥
मूलम्
सन्ति लक्ष्मीपते नूनं त एव खलु साधवः
यत्र त्वं साधवस्तत्र सन्तो यत्र ततो भवान्
भवानतो विज्ञाय तां साधुं माघे मम गृहे वस ॥ २९ ॥
विश्वास-प्रस्तुतिः
नारद उवाच-
इत्याकर्ण्य वचस्तस्य पुण्डरीकस्य माधवः
उवाच वचनं भासादन्तानां भासयन्दिशः ॥ ३० ॥
मूलम्
नारद उवाच-
इत्याकर्ण्य वचस्तस्य पुण्डरीकस्य माधवः
उवाच वचनं भासादन्तानां भासयन्दिशः ॥ ३० ॥
विश्वास-प्रस्तुतिः
श्रीभगवानुवाच-
साधूनामुत्तमः साधुस्त्वं पृथिव्यां महामते
यत्त्वया पुण्यतीर्थे तु स्नातं मत्सङ्गवाञ्छया ॥ ३१ ॥
मूलम्
श्रीभगवानुवाच-
साधूनामुत्तमः साधुस्त्वं पृथिव्यां महामते
यत्त्वया पुण्यतीर्थे तु स्नातं मत्सङ्गवाञ्छया ॥ ३१ ॥
विश्वास-प्रस्तुतिः
उत्तिष्ठ जाह्नवीतोय माघे स्नानं कुरु द्विज
माघान्ते स्नापयामि त्वां पूर्णिमायां तु पुष्करे ॥ ३२ ॥
मूलम्
उत्तिष्ठ जाह्नवीतोय माघे स्नानं कुरु द्विज
माघान्ते स्नापयामि त्वां पूर्णिमायां तु पुष्करे ॥ ३२ ॥
विश्वास-प्रस्तुतिः
प्रयागे माघमासे तु पूर्णं यत्स्नानजं फलम्
तत्सर्वं पुष्करे तीर्थे दिनैकस्नानतो भवेत् ॥ ३३ ॥
मूलम्
प्रयागे माघमासे तु पूर्णं यत्स्नानजं फलम्
तत्सर्वं पुष्करे तीर्थे दिनैकस्नानतो भवेत् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
नारद उवाच-
एवमुक्तः स विप्रेन्द्रः पुण्डरीको मुरारिणा
किञ्चिदभ्युदिते सूर्ये स्नानं गङ्गाजलेऽकरोत् ॥ ३४ ॥
मूलम्
नारद उवाच-
एवमुक्तः स विप्रेन्द्रः पुण्डरीको मुरारिणा
किञ्चिदभ्युदिते सूर्ये स्नानं गङ्गाजलेऽकरोत् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
प्रत्यक्ष पुण्डरीकाक्ष पुण्डरीकः समर्चयत्
तुलसीविकसत्पुष्पयवकुङ्कुमचन्दनैः ॥ ३५ ॥
मूलम्
प्रत्यक्ष पुण्डरीकाक्ष पुण्डरीकः समर्चयत्
तुलसीविकसत्पुष्पयवकुङ्कुमचन्दनैः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
धूपैरगरुजैरङ्गवासिताङ्गं रमापतिम्
नीराजयति कर्पूरदीपकैः पञ्चभिः स्म सः ॥ ३६ ॥
मूलम्
धूपैरगरुजैरङ्गवासिताङ्गं रमापतिम्
नीराजयति कर्पूरदीपकैः पञ्चभिः स्म सः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
चतुर्विधमयैर्भोज्यैर्भोजयित्वा जगद्गुरुम्
सुप्तं स मणिपर्यङ्के चामरैस्तमवीजयत् ॥ ३७ ॥
मूलम्
चतुर्विधमयैर्भोज्यैर्भोजयित्वा जगद्गुरुम्
सुप्तं स मणिपर्यङ्के चामरैस्तमवीजयत् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
पादसंवाहनं जातु चक्रे तस्य रमापतेः
जातकर्पूरसंयुक्तं ददौ ताम्बूलवीटकम् ॥ ३८ ॥
मूलम्
पादसंवाहनं जातु चक्रे तस्य रमापतेः
जातकर्पूरसंयुक्तं ददौ ताम्बूलवीटकम् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
उष्णीषं बध्नतस्तस्य श्रीपतेः पुरतस्तदा
तस्थौ जातु स विप्रेन्द्रः करेणानीय दर्पणम् ॥ ३९ ॥
मूलम्
उष्णीषं बध्नतस्तस्य श्रीपतेः पुरतस्तदा
तस्थौ जातु स विप्रेन्द्रः करेणानीय दर्पणम् ॥ ३९ ॥
विश्वास-प्रस्तुतिः
एवं निजगृहे तस्य वसतः स भवच्छिदः
सपर्यां विदधद्विप्रो माघं निन्ये स मस्तकम् ॥ ४० ॥
मूलम्
एवं निजगृहे तस्य वसतः स भवच्छिदः
सपर्यां विदधद्विप्रो माघं निन्ये स मस्तकम् ॥ ४० ॥
विश्वास-प्रस्तुतिः
अथ माघावसाने तु पूर्णिमायां रमापतेः
स्मृतिमात्रागतं तार्क्ष्यमपश्यत्पुरतः स्थितम् ॥ ४१ ॥
मूलम्
अथ माघावसाने तु पूर्णिमायां रमापतेः
स्मृतिमात्रागतं तार्क्ष्यमपश्यत्पुरतः स्थितम् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
तं दृष्ट्वा पुण्डरीकाक्षः पुण्डरीकमुवाच ह
श्रीभगवानुवाच-
श्रूयतां भो द्विजश्रेष्ठ यद्वचोऽहं वदामि ते ॥ ४२ ॥
मूलम्
तं दृष्ट्वा पुण्डरीकाक्षः पुण्डरीकमुवाच ह
श्रीभगवानुवाच-
श्रूयतां भो द्विजश्रेष्ठ यद्वचोऽहं वदामि ते ॥ ४२ ॥
विश्वास-प्रस्तुतिः
इन्द्रप्रस्थगते तीर्थे पुष्करे ते यदृच्छया
स्नानायते मया दत्तं यन्मासमुषितं मया ॥ ४३ ॥
मूलम्
इन्द्रप्रस्थगते तीर्थे पुष्करे ते यदृच्छया
स्नानायते मया दत्तं यन्मासमुषितं मया ॥ ४३ ॥
विश्वास-प्रस्तुतिः
अद्यपक्षीन्द्रमारुह्य मया सह महामते
व्रज तीर्थशिरोरत्नं तदेव प्रति पुष्करे ॥ ४४ ॥
मूलम्
अद्यपक्षीन्द्रमारुह्य मया सह महामते
व्रज तीर्थशिरोरत्नं तदेव प्रति पुष्करे ॥ ४४ ॥
विश्वास-प्रस्तुतिः
चतुर्वर्गप्रदे तस्मिन्स्नानं कुर्वन्यदीच्छसि
तदहं ते प्रदास्यामि यदहं तद्वशे द्विज ॥ ४५ ॥
मूलम्
चतुर्वर्गप्रदे तस्मिन्स्नानं कुर्वन्यदीच्छसि
तदहं ते प्रदास्यामि यदहं तद्वशे द्विज ॥ ४५ ॥
विश्वास-प्रस्तुतिः
पापोऽपि भरतस्ते वै भ्राता यत्र मृतो गतः
स्वर्गं स्वर्गसुखाकाङ्क्षी किमन्यत्तस्य वर्ण्यते ॥ ४६ ॥
मूलम्
पापोऽपि भरतस्ते वै भ्राता यत्र मृतो गतः
स्वर्गं स्वर्गसुखाकाङ्क्षी किमन्यत्तस्य वर्ण्यते ॥ ४६ ॥
विश्वास-प्रस्तुतिः
नारद उवाच-
एवमुक्त्वा स देवेन्द्रो ब्राह्मणेन्द्रं नरेन्द्र तम्
पतगेन्द्रं समारोप्य सर्वतीर्थेन्द्रमागमत् ॥ ४७ ॥
मूलम्
नारद उवाच-
एवमुक्त्वा स देवेन्द्रो ब्राह्मणेन्द्रं नरेन्द्र तम्
पतगेन्द्रं समारोप्य सर्वतीर्थेन्द्रमागमत् ॥ ४७ ॥
विश्वास-प्रस्तुतिः
पुण्डरीकस्य देहात्तु तेन तत्प्राणवायुना
समं ज्योतिः स निर्गत्य गोविन्दपदमाविशत् ॥ ४८ ॥
मूलम्
पुण्डरीकस्य देहात्तु तेन तत्प्राणवायुना
समं ज्योतिः स निर्गत्य गोविन्दपदमाविशत् ॥ ४८ ॥
विश्वास-प्रस्तुतिः
एवं पुष्करतीर्थेऽस्मिन्निन्द्रप्रस्थगते नृप
स्नानेन पुण्डरीकस्तु लेभे सायुज्यमीश्वरे ॥ ४९ ॥
मूलम्
एवं पुष्करतीर्थेऽस्मिन्निन्द्रप्रस्थगते नृप
स्नानेन पुण्डरीकस्तु लेभे सायुज्यमीश्वरे ॥ ४९ ॥
विश्वास-प्रस्तुतिः
एवं तीर्थानुरोधेन गोविन्दोऽपि च तद्गृहे
मासमेकं सुखं राजन्नुवास निजबन्धुवत् ॥ ५० ॥
मूलम्
एवं तीर्थानुरोधेन गोविन्दोऽपि च तद्गृहे
मासमेकं सुखं राजन्नुवास निजबन्धुवत् ॥ ५० ॥
विश्वास-प्रस्तुतिः
केन वर्णयितुं शक्यो महिमा पुष्करस्य वै
शक्रप्रस्थगतस्यास्य कोट्यंशो वर्णितो मया ॥ ५१ ॥
मूलम्
केन वर्णयितुं शक्यो महिमा पुष्करस्य वै
शक्रप्रस्थगतस्यास्य कोट्यंशो वर्णितो मया ॥ ५१ ॥
विश्वास-प्रस्तुतिः
माहात्म्यश्रवणादस्य श्रद्धया लभते नरः
अश्वमेधक्रतुफलं पठनादपि भूपते ॥ ५२ ॥
मूलम्
माहात्म्यश्रवणादस्य श्रद्धया लभते नरः
अश्वमेधक्रतुफलं पठनादपि भूपते ॥ ५२ ॥
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे कालिन्दीमाहात्म्ये पुष्करमहिमावर्णनोनामैकोनविंशाधिकद्विशततमोऽध्यायः २१९