नारद उवाच-
विश्वास-प्रस्तुतिः
भूयः शृणु महाभाग माहात्म्यं परमाद्भुतम्
अत्रस्थितस्य तीर्थस्य पुष्करस्य शिवप्रदम् ॥ १ ॥
मूलम्

प्रसादात्तस्य तीर्थस्य विष्णुः सर्वसुरेश्वरः
प्रसन्नं पुण्डरीकस्य मासमेकं गृहे वसेत्
अत्र मुक्तिं तदनुजो लेभे पापरतोऽपि हि ॥ २ ॥

शिबिरुवाच-
कः पुण्डरीको धर्मात्मा कृतं तेन च कर्म किम्
येन प्रसन्नो भगवांस्तद्गृहे मासमावसत् ॥ ३ ॥

कथं तदनुजः प्राप पापात्मा श्रीहरेः पदम्
तीर्थस्यास्य प्रसादेन सर्वमाख्याहि मे मुने ॥ ४ ॥

शृण्वतोऽस्य न सन्तोषो माहात्म्यं मम जायते ॥ ५ ॥
मूलम्
शृण्वतोऽस्य न सन्तोषो माहात्म्यं मम जायते ॥ ५ ॥
विश्वास-प्रस्तुतिः
नारद उवाच-
विदर्भनगरे राजन्मालवाख्ये महायशाः
ब्राह्मणो ब्रह्मविच्छान्तो विद्वान्विष्णुपरायणः ॥ ६ ॥

देवर्षिपितृभूतानां मानुषाणां च पोषकः
विषयेषु न संसक्तो लोभमोहादिवर्जितः ॥ ७ ॥

स एकदा महाभाग सिंहं प्राप्ते बृहस्पतौ
गोदावरीं महापुण्यां स्नातुं प्रतिजगाम ह ॥ ८ ॥

दातुं तत्र सुवर्णस्य गृहान्निन्ये पलायुतम्
गच्छन्पथि स धर्मात्मा मनसैतदचिन्तयत् ॥ ९ ॥

मालव उवाच-
गृहाद्दानार्थमानीतं मया हेमपलायुतम्
यस्मै कस्मै न दातव्यं दातव्यं पूज्य साधवे ॥ १० ॥

निष्किञ्चनाय विप्राय पात्रायानुपकारिणे
पूज्याय देशे काले च दत्तमक्षयतां व्रजेत् ॥ ११ ॥

उञ्छवृत्त्या समानीतं दत्त्वा दुर्वाससे मुनिः
शिलोञ्च्छवृत्तिर्धर्मात्मा स्वं त्यक्त्वा गात्परं पदम् ॥ १२ ॥

दानवेन्द्रो बली राजा पात्रं विज्ञाय वामनम्
विपक्षायाप्यदात्तस्मै त्रिलोकीं स्वभुजार्जिताम् ॥ १३ ॥

तस्मात्पात्राय दातव्यं धनं धर्माजितं मया
गोविन्दतुष्टये सम्यक्वाञ्च्छनीयं न तत्फलम् ॥ १४ ॥

पुण्डरीकस्तु धर्मात्मा भागिनेयो गजाह्वयात्
आयास्यति मयाहूतः सर्वपात्रशिरोमणिः ॥ १५ ॥

आनीतस्य धनस्यार्द्धं तस्मै पात्राय सूनवे
स्वसुर्द्दास्यामि शेषं तु श्रोत्रियेभ्यो यथाविधि ॥ १६ ॥

एवं विचिन्त्य धर्मात्मा मालवं स द्विजोत्तमः
कतिचिद्वासरैः प्राप्तः पुण्यां गोदावरीं नृप ॥ १७ ॥

मिलितस्तस्य धर्मात्मा पुण्डरीकः स्वसुः सुतः
तस्य वै पूर्वमायातो मालवस्य महीपते ॥ १८ ॥

स तत्र विधिना स्नात्वा सिंहसङ्क्रमवासरे
पुण्डरीकाय वित्तार्द्धं ददौ मे प्रीयतां हरिः ॥ १९ ॥

पुण्डरीकोऽपि धर्मात्मा स्नात्वा गोदावरीजले
स्ववित्तस्य चतुर्थांशं श्रोत्रियेभ्यो ददौ मुदा ॥ २० ॥

स तत्र विधिवत्स्नात्त्वा दत्वा दानं च शक्तितः
गच्छन्तं स्वगृहान्राजन्नित्युवाच स्वसुः सुतम् ॥ २१ ॥

गुरून्प्रति नमस्कारो वाच्यो आशीर्लघून्प्रति
यथावयोर्हि संयोगः क्षणिकोऽयं बभूव ह ॥ २२ ॥

एवं हि सर्वजन्तूनां पुत्रदारादिभिः सह
तस्मात्क्षणिकसंयोगात्संसाराद्यः सुधीर्नरः ॥ २३ ॥

विरज्येत कृपापात्रं स हरे स्याद्विनिश्चितम्
कृपातः श्रीहरेः प्राणी सत्सङ्गमरतो भवेत् ॥ २४ ॥

तस्तस्य हरेर्लीलाश्रवणेच्छा हि जायते
श्रुत्वा च कीर्तिता सद्भिर्हरिलीला अपि स्वयम् ॥ २५ ॥

सुस्पृहं कीर्त्तयत्येव ततः स्मरति केवलम्
ततस्तस्य भवेत्प्रेमगोविन्दपदसेवने ॥ २६ ॥

नरस्ततस्तरत्याशु पोतेनेव महार्णवम्
एतदर्थं हि साधूनां ज्ञानिनां कर्मणां तथा
यत्नो भवति धर्मात्मन्नपि त्वं यत्नवान्भव ॥ २७ ॥

एवमुक्त्वा स वैदर्भः सुतं कथमपि स्वसुः
विसृज्याश्रुमुखो वाष्पपर्याकुलदृशं ययौ ॥ २८ ॥

पुण्डरीकोऽपि धर्मात्मा चचाल स्वगृहं प्रति
कतिभिर्वासरै राजन्नागतोऽत्र शुभास्पदे ॥ २९ ॥

भरताख्यं कनीयांसं भ्रातरं पतितं भुवि
श्वसन्तं क्षतनिर्गच्छद्रुधिराक्तमवैक्षत ॥ ३० ॥

पप्रच्छ च रुदन्नुर्च्च्भ्रातः केनेदृशीं दशाम्
गमितोसि किमर्थं वा गृहादिह समागतः ॥ ३१ ॥

इति पृच्छति राजेन्द्र पुण्डरीके सपीडया
महत्या भरतः सद्यः पीडितोसूनमुञ्चत ॥ ३२ ॥

अवातरत्तदा यानमेकं सगणमद्भुतम्
आकाशात्पश्यतां भूप जनानां तद्गुरोरपि ॥ ३३ ॥

तदारुह्य स दिव्याङ्गो भरतः पापकार्यपि
उवाच वचनं ज्येष्ठं भ्रातरं विनमन्निदम् ॥ ३४ ॥

भरतोवाच-
पुण्डरीक महाबुद्धे तीर्थस्यास्य प्रसादतः
पुष्करस्य मया प्राप्ता पापिनापि दिवि स्थितिः ॥ ३५ ॥

मदीयं दारुणं कर्म भ्रातर्जानासि यद्यपि
तथापि कथयाम्यद्य किञ्चिदज्ञातमस्ति ते ॥ ३६ ॥

यथा मया प्रभावत्या वेश्यया रमितं सह
तद्गृहं व्ययितं भूरि धनं च मदिराकृते ॥ ३७ ॥

द्यूतेन हारितं यच्च चौरकर्मसमार्जितम्
शिवरात्र्यां मया शम्भुनिर्माल्यं यच्च भक्षितम् ॥ ३८ ॥

यत्कृते भवता विप्रो जेबुको नाम दूषितः
एतन्मया कृतं कर्म विदितं पुण्डरीक ते ॥ ३९ ॥

गोदावरीं गते भ्रातस्त्वयि यत्कृतवानहं
न तत्ते विदितं कर्म कथयामि तदप्यहो ॥ ४० ॥

चलितेत्वय्यतिक्रान्तोयदापक्षस्तदाह्यहम्
श्रुतवानिति लोकेभ्यो वचनं हरिदुःसहम् ॥ ४१ ॥

पुण्डरीको धनं दातुमाहूतो मातुलेन हि
निजसोदरमाहत्य पुण्डरीकं तदा हृतम् ॥ ४२ ॥

गृहीष्यामि धनं भूरि मालवेन समर्पितम्
महता वसुना तेन तोषयामि प्रभावतीम् ॥ ४३ ॥

दुरोदरेण क्रीडामि स्वेच्छया तद्विदैः सह
इत्यालोच्य त्वदध्वानं निरुध्याहमिह स्थितः ॥ ४४ ॥

हत्वा त्वां च धनं भूरि गृहीतुं च महामते
अतिक्रान्ते धने भ्रातः कुतश्चित्सार्थमागतः ॥ ४५ ॥

वणिजामत्र सुप्तोऽहं रात्रौ तत्र महामते
अथ कश्चिन्निशीथे तु तस्करो वणिजां धनम् ॥ ४६ ॥

हर्तुं तत्र समाविष्टः सार्थे जनसमाकुले
नीत्वा यदा धनं किञ्चित्स चौरस्तु पलायितः
तमन्वधावन्सहसा क्रोशन्त इव सेवकाः ॥ ४७ ॥

सेवका ऊचुः
गृह्यतां गृह्यतामेष चौरोऽयं याति सत्वरम्
मध्याद्बहूनामस्माकमपहृत्य धनं बहु ॥ ४८ ॥

भरत उवाच-
इत्याकर्ण्य वचस्तेषां पुरतस्तु तमन्वहम्
अधावं सहसा भ्रातस्तद्गृहीतुं जिहीर्षया ॥ ४९ ॥

ततस्ते वणिजां भृत्या ज्ञात्वा मां तस्य रक्षकम्
प्रजहुस्तरसा सर्वे सखड्गं खड्गपाणयः ॥ ५० ॥

तेषु कश्चिद्द्विजश्रेष्ठो ब्राह्मणोऽहमिति ब्रुवन्
खड्गेन शितधारेण मया पापीयसा हतः ॥ ५१ ॥

वणिजां सेवकैस्तैस्तु खड्गधारैरहं हतः
गतास्ते वणिजः प्रातर्निजगन्तव्यनीवृतम् ॥ ५२ ॥

ततो भवानिह प्राप्तः श्वसन्तं मां ददर्श ह
चलद्रुधिरलिप्ताङ्गं पीडामोहविचेतनम् ॥ ५३ ॥

इत्येतत्कथितं भ्रातर्यदर्थमहमागतः
अपमृत्युं यथा प्राप्तस्तच्चापि कथितं मया ॥ ५४ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे कालिन्दीमाहात्म्येऽष्टादशाधिकद्विशततमोऽध्यायः २१८