राजोवाच-
विश्वास-प्रस्तुतिः
वर्णितं मे त्वया साधो माहात्म्यं बदरीभवम्
यं निशम्य मनो याति मम निर्मलतां मुने ॥ १ ॥
मूलम्
वर्णितं मे त्वया साधो माहात्म्यं बदरीभवम्
यं निशम्य मनो याति मम निर्मलतां मुने ॥ १ ॥
विश्वास-प्रस्तुतिः
एतदद्भुतमाहात्म्यं शक्रप्रस्थाख्यमुत्तमम्
सकलं मुनिशार्दूलचतुवर्गप्रदायकम् ॥ २ ॥
मूलम्
एतदद्भुतमाहात्म्यं शक्रप्रस्थाख्यमुत्तमम्
सकलं मुनिशार्दूलचतुवर्गप्रदायकम् ॥ २ ॥
विश्वास-प्रस्तुतिः
भुवि नातः परं तीर्थं वतिरश्चातमपि मुक्तिदम्
श्रेष्ठं सकलपापघ्नं दर्शनादेव नारद ॥ ३ ॥
मूलम्
भुवि नातः परं तीर्थं वतिरश्चातमपि मुक्तिदम्
श्रेष्ठं सकलपापघ्नं दर्शनादेव नारद ॥ ३ ॥
विश्वास-प्रस्तुतिः
एतदन्तर्गतस्यास्य हरिद्वारस्य नारद
माहात्म्यं श्रोतुमिच्छामि त्वत्तः सन्तोषकारकात् ॥ ४ ॥
मूलम्
एतदन्तर्गतस्यास्य हरिद्वारस्य नारद
माहात्म्यं श्रोतुमिच्छामि त्वत्तः सन्तोषकारकात् ॥ ४ ॥
विश्वास-प्रस्तुतिः
मामुद्धर मुने दीनमविद्याकामकर्मभिः
वर्णनेनास्य तीर्थस्य शक्रप्रस्थगतस्य वै ॥ ५ ॥
मूलम्
मामुद्धर मुने दीनमविद्याकामकर्मभिः
वर्णनेनास्य तीर्थस्य शक्रप्रस्थगतस्य वै ॥ ५ ॥
विश्वास-प्रस्तुतिः
नारद उवाच-
आकर्णय महाभाग वर्णयामि तवाग्रतः
हरिद्वारस्य माहात्म्यमश्वमेधफलप्रदम् ॥ ६ ॥
मूलम्
नारद उवाच-
आकर्णय महाभाग वर्णयामि तवाग्रतः
हरिद्वारस्य माहात्म्यमश्वमेधफलप्रदम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
अत्रैकः श्वपचः पापः यथास्वर्गतिमाप्तवान्
तत्तेऽहं कथयाम्यद्य शृणुष्वैकमनाः प्रभो ॥ ७ ॥
मूलम्
अत्रैकः श्वपचः पापः यथास्वर्गतिमाप्तवान्
तत्तेऽहं कथयाम्यद्य शृणुष्वैकमनाः प्रभो ॥ ७ ॥
विश्वास-प्रस्तुतिः
धर्मक्षेत्रे कुरुक्षेत्रे कालिग इति विश्रुतः
श्वपचः पापकर्मा वै वसति स्म पुराद्बहिः ॥ ८ ॥
मूलम्
धर्मक्षेत्रे कुरुक्षेत्रे कालिग इति विश्रुतः
श्वपचः पापकर्मा वै वसति स्म पुराद्बहिः ॥ ८ ॥
विश्वास-प्रस्तुतिः
पञ्चषड्वर्षदेशीयान्बालान्नगरवासिनाम्
प्रसह्य वञ्चयित्वा च वने नीत्वा जघान सः ॥ ९ ॥
मूलम्
पञ्चषड्वर्षदेशीयान्बालान्नगरवासिनाम्
प्रसह्य वञ्चयित्वा च वने नीत्वा जघान सः ॥ ९ ॥
विश्वास-प्रस्तुतिः
तेषामलङ्कारमयं रजतं हेमवन्नृपः
रत्नादिकं च कायस्थं हत्वा तान्जगृहेऽधमः ॥ १० ॥
मूलम्
तेषामलङ्कारमयं रजतं हेमवन्नृपः
रत्नादिकं च कायस्थं हत्वा तान्जगृहेऽधमः ॥ १० ॥
विश्वास-प्रस्तुतिः
विवेश साधुनिलये रात्रौ धनजिहीर्षया
पथिकान्धनमालक्ष्य स जघ्ने निर्जनं वने ॥ ११ ॥
मूलम्
विवेश साधुनिलये रात्रौ धनजिहीर्षया
पथिकान्धनमालक्ष्य स जघ्ने निर्जनं वने ॥ ११ ॥
विश्वास-प्रस्तुतिः
कुरुक्षेत्रे समायाता एकदा रविपर्वणि
नानादिग्भ्यो जना राजन्नानादान जिहीर्षया ॥ १२ ॥
मूलम्
कुरुक्षेत्रे समायाता एकदा रविपर्वणि
नानादिग्भ्यो जना राजन्नानादान जिहीर्षया ॥ १२ ॥
विश्वास-प्रस्तुतिः
तस्मिन्यथाविधि स्नात्वा रविपर्वणि भूपते
दानं दत्त्वा यथावच्च लोकाः स्वान्स्वान्गृहान्ययुः ॥ १३ ॥
मूलम्
तस्मिन्यथाविधि स्नात्वा रविपर्वणि भूपते
दानं दत्त्वा यथावच्च लोकाः स्वान्स्वान्गृहान्ययुः ॥ १३ ॥
विश्वास-प्रस्तुतिः
एकः कश्चिद्विशां श्रेष्ठो धनेन महता यतः
पश्चात्सर्वजनेभ्यस्तु चचाल स्वगृहम्प्रति ॥ १४ ॥
मूलम्
एकः कश्चिद्विशां श्रेष्ठो धनेन महता यतः
पश्चात्सर्वजनेभ्यस्तु चचाल स्वगृहम्प्रति ॥ १४ ॥
विश्वास-प्रस्तुतिः
अश्ववारः पदातीनां विंशतिं पुरतो दधत्
कालिगः स महापापस्तमनुप्रस्थितः श्रियै ॥ १५ ॥
मूलम्
अश्ववारः पदातीनां विंशतिं पुरतो दधत्
कालिगः स महापापस्तमनुप्रस्थितः श्रियै ॥ १५ ॥
विश्वास-प्रस्तुतिः
कतिचिद्वसतीर्गत्वा सह तेन विशाधमः
सॐऽत्यजस्तद्धनं हर्तुं न लेभे समयं नृप ॥ १६ ॥
मूलम्
कतिचिद्वसतीर्गत्वा सह तेन विशाधमः
सॐऽत्यजस्तद्धनं हर्तुं न लेभे समयं नृप ॥ १६ ॥
विश्वास-प्रस्तुतिः
बलेनापि गृहीतुं न क्षमोऽभूत्तस्य सश्रियम्
वैश्यस्तु जनविंशत्या संयुक्तस्तु स एकलः ॥ १७ ॥
मूलम्
बलेनापि गृहीतुं न क्षमोऽभूत्तस्य सश्रियम्
वैश्यस्तु जनविंशत्या संयुक्तस्तु स एकलः ॥ १७ ॥
विश्वास-प्रस्तुतिः
अत्रागतः स पापात्मा वैश्यस्यार्थेन पार्थिव
निशीथे शिबिरं तस्य धनं हर्त्तुं समाविशत् ॥ १८ ॥
मूलम्
अत्रागतः स पापात्मा वैश्यस्यार्थेन पार्थिव
निशीथे शिबिरं तस्य धनं हर्त्तुं समाविशत् ॥ १८ ॥
विश्वास-प्रस्तुतिः
एकेन तस्य वैश्यस्य जनेन स तु लक्षितः
प्रविशन्नेव पापात्मा ददता प्रहरं स्वकम् ॥ १९ ॥
मूलम्
एकेन तस्य वैश्यस्य जनेन स तु लक्षितः
प्रविशन्नेव पापात्मा ददता प्रहरं स्वकम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
तमालक्ष्य समीपस्थं स जनः प्रहरप्रदः
उभयोः पादयोराजन्स्वपन्नेव गृहीतवान् ॥ २० ॥
मूलम्
तमालक्ष्य समीपस्थं स जनः प्रहरप्रदः
उभयोः पादयोराजन्स्वपन्नेव गृहीतवान् ॥ २० ॥
विश्वास-प्रस्तुतिः
तौ गृहीत्वा जनानन्यान्बोधयन्प्रहरप्रदः
हस्तेनैव तु पापेन चौरेणाघातितो हि सः ॥ २१ ॥
मूलम्
तौ गृहीत्वा जनानन्यान्बोधयन्प्रहरप्रदः
हस्तेनैव तु पापेन चौरेणाघातितो हि सः ॥ २१ ॥
विश्वास-प्रस्तुतिः
श्रुत्वा पलायमानस्तु गृहीतोऽन्यैर्जनैस्तदा
गृहीतारं पुनर्हत्वा सहसा स पलायितः ॥ २२ ॥
मूलम्
श्रुत्वा पलायमानस्तु गृहीतोऽन्यैर्जनैस्तदा
गृहीतारं पुनर्हत्वा सहसा स पलायितः ॥ २२ ॥
विश्वास-प्रस्तुतिः
एकेन केनचिद्राजन्सेवकेन धनुर्भृता
दूरादेव शरेणाशु धावन्स निहतोऽधमः ॥ २३ ॥
मूलम्
एकेन केनचिद्राजन्सेवकेन धनुर्भृता
दूरादेव शरेणाशु धावन्स निहतोऽधमः ॥ २३ ॥
विश्वास-प्रस्तुतिः
हतमात्रः शरेणाशु तत्याज स च जीवितम्
चौरेण निहतौ राजन्वैश्यस्यानुचरावुभौ ॥ २४ ॥
मूलम्
हतमात्रः शरेणाशु तत्याज स च जीवितम्
चौरेण निहतौ राजन्वैश्यस्यानुचरावुभौ ॥ २४ ॥
विश्वास-प्रस्तुतिः
ते त्रयो वरयानानि गणानीतानि भूपते
समारुह्य दिविस्थित्वा वैश्यमेतद्बभाषिरे ॥ २५ ॥
मूलम्
ते त्रयो वरयानानि गणानीतानि भूपते
समारुह्य दिविस्थित्वा वैश्यमेतद्बभाषिरे ॥ २५ ॥
विश्वास-प्रस्तुतिः
कालिगवैश्यानुचरा ऊचुः
भो भो वैश्यपते साधो तीर्थमेतदनुत्तमम्
इन्द्रप्रस्थे हरिद्वारं शिवकृत्पापिनामपि ॥ २६ ॥
मूलम्
कालिगवैश्यानुचरा ऊचुः
भो भो वैश्यपते साधो तीर्थमेतदनुत्तमम्
इन्द्रप्रस्थे हरिद्वारं शिवकृत्पापिनामपि ॥ २६ ॥
विश्वास-प्रस्तुतिः
वयं त्रयः सुतीर्थेऽस्मिन्नपमृत्युगता अपि
गच्छामस्त्रिदिवं वैश्य साम्प्रतं शिवमस्तु ते ॥ २७ ॥
मूलम्
वयं त्रयः सुतीर्थेऽस्मिन्नपमृत्युगता अपि
गच्छामस्त्रिदिवं वैश्य साम्प्रतं शिवमस्तु ते ॥ २७ ॥
विश्वास-प्रस्तुतिः
श्रीनारद उवाच-
इत्युक्त्वा ते ययुः स्वर्गं शिवे शिवकृतां पदम्
यत्रेच्छया हि लभ्यन्ते भोग्यवस्तून्यनेकशः ॥ २८ ॥
मूलम्
श्रीनारद उवाच-
इत्युक्त्वा ते ययुः स्वर्गं शिवे शिवकृतां पदम्
यत्रेच्छया हि लभ्यन्ते भोग्यवस्तून्यनेकशः ॥ २८ ॥
विश्वास-प्रस्तुतिः
अथ रात्रौ व्यतीतायां प्रातरत्र विशांवरः
स्वभृत्यदेहयोः कृत्वा दाहमस्थीन्यपातयत् ॥ २९ ॥
मूलम्
अथ रात्रौ व्यतीतायां प्रातरत्र विशांवरः
स्वभृत्यदेहयोः कृत्वा दाहमस्थीन्यपातयत् ॥ २९ ॥
विश्वास-प्रस्तुतिः
तीर्थेऽत्र पात्यमानेषु भृत्यौ तावस्थिषु प्रभो
स्वर्गात्पुनरिहायातौ तं वैश्यमिदमूचतुः ॥ ३० ॥
मूलम्
तीर्थेऽत्र पात्यमानेषु भृत्यौ तावस्थिषु प्रभो
स्वर्गात्पुनरिहायातौ तं वैश्यमिदमूचतुः ॥ ३० ॥
विश्वास-प्रस्तुतिः
भृत्या ऊचतुः
भो भो वैश्यपते साधो तीर्थेऽत्र मरणाद्भुवि
पापानामपि जन्तूनां स्वर्गप्राप्तिर्न संशयः ॥ ३१ ॥
मूलम्
भृत्या ऊचतुः
भो भो वैश्यपते साधो तीर्थेऽत्र मरणाद्भुवि
पापानामपि जन्तूनां स्वर्गप्राप्तिर्न संशयः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
स्थले मृतस्य जन्तोश्चेत्पतन्त्यस्थीनि वारिणि
तीर्थस्यास्य तदा वैश्य सत्यलोके स्थितिर्भवेत् ॥ ३२ ॥
मूलम्
स्थले मृतस्य जन्तोश्चेत्पतन्त्यस्थीनि वारिणि
तीर्थस्यास्य तदा वैश्य सत्यलोके स्थितिर्भवेत् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
स्थले मृताभ्यामावाभ्यामस्थिपातेन वारिणि
सम्प्राप्ता ब्रह्मणो लोके स्थितिराब्रह्मसंस्थिते ॥ ३३ ॥
मूलम्
स्थले मृताभ्यामावाभ्यामस्थिपातेन वारिणि
सम्प्राप्ता ब्रह्मणो लोके स्थितिराब्रह्मसंस्थिते ॥ ३३ ॥
विश्वास-प्रस्तुतिः
स्थले मृतस्य चौरस्यापेतुरस्थीनिनाम्बुनि
यतोऽत स विशान्नाथ तस्थौ वृन्दारकालये ॥ ३४ ॥
मूलम्
स्थले मृतस्य चौरस्यापेतुरस्थीनिनाम्बुनि
यतोऽत स विशान्नाथ तस्थौ वृन्दारकालये ॥ ३४ ॥
विश्वास-प्रस्तुतिः
तस्यापि देहमन्विष्य तीर्थेस्मिन्नाशु पातय
यथासोऽपि सुरश्रेष्ठ प्राप्नुयान्नौ गतिं पराम् ॥ ३५ ॥
मूलम्
तस्यापि देहमन्विष्य तीर्थेस्मिन्नाशु पातय
यथासोऽपि सुरश्रेष्ठ प्राप्नुयान्नौ गतिं पराम् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
उपकारः सदाकार्यः परेषामपि साधुभिः
अपकारो न मन्तव्यः कृतो भृशमसज्जनैः ॥ ३६ ॥
मूलम्
उपकारः सदाकार्यः परेषामपि साधुभिः
अपकारो न मन्तव्यः कृतो भृशमसज्जनैः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
नारद उवाच-
इत्युक्त्वा तौ महाभागौ गतौ हरिपुरं प्रति
हरिद्वारस्य तीर्थस्य सलिलेनास्थिपातनात् ॥ ३७ ॥
मूलम्
नारद उवाच-
इत्युक्त्वा तौ महाभागौ गतौ हरिपुरं प्रति
हरिद्वारस्य तीर्थस्य सलिलेनास्थिपातनात् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
स वैश्यस्तु महाभागस्तस्य चौरस्य विग्रहम्
दग्धुमन्वेषयामास न लब्धं तत्तु भूपते ॥ ३८ ॥
मूलम्
स वैश्यस्तु महाभागस्तस्य चौरस्य विग्रहम्
दग्धुमन्वेषयामास न लब्धं तत्तु भूपते ॥ ३८ ॥
विश्वास-प्रस्तुतिः
पुनरावृत्य तत्रैव सर्वतीर्थशिरोमणौ
हरिद्वारे महाराज स सस्नाविति वाञ्च्छया ॥ ३९ ॥
मूलम्
पुनरावृत्य तत्रैव सर्वतीर्थशिरोमणौ
हरिद्वारे महाराज स सस्नाविति वाञ्च्छया ॥ ३९ ॥
विश्वास-प्रस्तुतिः
अहमुत्पाद्य सत्पुत्रान्धर्मार्जितधनेन च
सन्तोष्य विप्रान्बन्धूंश्च विष्णुमाराध्य सेवया ॥ ४० ॥
मूलम्
अहमुत्पाद्य सत्पुत्रान्धर्मार्जितधनेन च
सन्तोष्य विप्रान्बन्धूंश्च विष्णुमाराध्य सेवया ॥ ४० ॥
विश्वास-प्रस्तुतिः
त्वय्येव मरणं प्राप्य गच्छामि हरिमन्दिरम्
तीर्थराज नमस्तुभ्यमेतत्कर्तव्यमस्ति ते ॥ ४१ ॥
मूलम्
त्वय्येव मरणं प्राप्य गच्छामि हरिमन्दिरम्
तीर्थराज नमस्तुभ्यमेतत्कर्तव्यमस्ति ते ॥ ४१ ॥
विश्वास-प्रस्तुतिः
इति कामनया राजन्स वैश्यस्तत्र कामदे
तीर्थे स्नात्वा गतः सर्वैर्भृत्य्स्वं समगाद्गृहम् ॥ ४२ ॥
मूलम्
इति कामनया राजन्स वैश्यस्तत्र कामदे
तीर्थे स्नात्वा गतः सर्वैर्भृत्य्स्वं समगाद्गृहम् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
तत्र गत्वा सपत्न्यां तु पुत्रानुत्पाद्य बुद्धिमान्
धर्मोपार्जितवित्तेन तोषयामास बान्धवान् ॥ ४३ ॥
मूलम्
तत्र गत्वा सपत्न्यां तु पुत्रानुत्पाद्य बुद्धिमान्
धर्मोपार्जितवित्तेन तोषयामास बान्धवान् ॥ ४३ ॥
विश्वास-प्रस्तुतिः
भक्त्या परमया राजन्नाराध्य कमलापतिम्
तीर्थेऽस्मिन्मरणं प्राप्तो यतो वैकुण्ठमाप्नुयात् ॥ ४४ ॥
मूलम्
भक्त्या परमया राजन्नाराध्य कमलापतिम्
तीर्थेऽस्मिन्मरणं प्राप्तो यतो वैकुण्ठमाप्नुयात् ॥ ४४ ॥
विश्वास-प्रस्तुतिः
इति वै वर्णितो राजंस्तीर्थस्य महिमा तव
हरिद्वारस्य पुण्यस्य श्रवणेऽस्य फलं शृणु ॥ ४५ ॥
मूलम्
इति वै वर्णितो राजंस्तीर्थस्य महिमा तव
हरिद्वारस्य पुण्यस्य श्रवणेऽस्य फलं शृणु ॥ ४५ ॥
विश्वास-प्रस्तुतिः
तिलद्रोणस्य दानेन माघे यत्फलमाप्नुयात्
जनस्तत्फलमाप्नोति शृण्वन्माहात्म्यमस्य तु ॥ ४६ ॥
मूलम्
तिलद्रोणस्य दानेन माघे यत्फलमाप्नुयात्
जनस्तत्फलमाप्नोति शृण्वन्माहात्म्यमस्य तु ॥ ४६ ॥
विश्वास-प्रस्तुतिः
गोपीचन्दन दानेन ब्रह्मपत्रेषु भोजनात्
यत्फलं तन्महिम्नोऽस्य श्रवणादेव कार्तिके ॥ ४७ ॥
मूलम्
गोपीचन्दन दानेन ब्रह्मपत्रेषु भोजनात्
यत्फलं तन्महिम्नोऽस्य श्रवणादेव कार्तिके ॥ ४७ ॥
विश्वास-प्रस्तुतिः
जागरे च प्रबोधिन्यां प्रहरे पश्चिमे नृप
यत्फलन्न्तन्महिम्नोऽस्य तीर्थस्याकर्णनाद्भवेत् ॥ ४८ ॥
मूलम्
जागरे च प्रबोधिन्यां प्रहरे पश्चिमे नृप
यत्फलन्न्तन्महिम्नोऽस्य तीर्थस्याकर्णनाद्भवेत् ॥ ४८ ॥
विश्वास-प्रस्तुतिः
हरिद्वारस्य सदृशं शक्रप्रस्थगतस्य वै
न तीर्थं पृथिवीलोके चतुर्वर्गफलप्रदम् ॥ ४९ ॥
मूलम्
हरिद्वारस्य सदृशं शक्रप्रस्थगतस्य वै
न तीर्थं पृथिवीलोके चतुर्वर्गफलप्रदम् ॥ ४९ ॥
इतिं श्रीपाद्मेमहापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे इन्द्रप्रस्थमाहान्त्ये हरिद्वारवर्णनन्नाम सप्ताधिकद्विशततमोऽध्यायः २१७