२१६

नारद उवाच-

विश्वास-प्रस्तुतिः

अतो मधुवनाद्राजन्नयं बदरिकाश्रमः
एकादशधनुर्मात्रे भूभागे व्यवतिष्ठति ॥ १ ॥

मूलम्

अतो मधुवनाद्राजन्नयं बदरिकाश्रमः
एकादशधनुर्मात्रे भूभागे व्यवतिष्ठति ॥ १ ॥

विश्वास-प्रस्तुतिः

अस्य तीर्थवरस्याहं महिमानं महद्भुतम्
वर्णयामि पुरस्तात्ते यं श्रुत्वा मुच्यते भयात् ॥ २ ॥

मूलम्

अस्य तीर्थवरस्याहं महिमानं महद्भुतम्
वर्णयामि पुरस्तात्ते यं श्रुत्वा मुच्यते भयात् ॥ २ ॥

विश्वास-प्रस्तुतिः

एकस्तु मगधे राजन्देवदासो हि नामतः
ब्राह्मणः सत्यवान्दान्तः साक्षाद्धर्म इवापरः ॥ ३ ॥

मूलम्

एकस्तु मगधे राजन्देवदासो हि नामतः
ब्राह्मणः सत्यवान्दान्तः साक्षाद्धर्म इवापरः ॥ ३ ॥

विश्वास-प्रस्तुतिः

निष्णातः सर्वविद्यासु बृहस्पतिरिवापरः
हरिसन्तोषको भक्त्या प्रह्लाद इव दैत्यराट् ॥ ४ ॥

मूलम्

निष्णातः सर्वविद्यासु बृहस्पतिरिवापरः
हरिसन्तोषको भक्त्या प्रह्लाद इव दैत्यराट् ॥ ४ ॥

विश्वास-प्रस्तुतिः

सस्त्रीकोऽपि स्मरं जेता पार्वत्याइव वल्लभः
सदाचारपरो नित्यं विश्वामित्रो मुनिर्यथा ॥ ५ ॥

मूलम्

सस्त्रीकोऽपि स्मरं जेता पार्वत्याइव वल्लभः
सदाचारपरो नित्यं विश्वामित्रो मुनिर्यथा ॥ ५ ॥

विश्वास-प्रस्तुतिः

मगधेशगृहे मान्यो द्रोणतत्कुरुवेश्मनि
दानशीलः सुपात्रेषु बलिर्दैत्याधिपो यथा ॥ ६ ॥

मूलम्

मगधेशगृहे मान्यो द्रोणतत्कुरुवेश्मनि
दानशीलः सुपात्रेषु बलिर्दैत्याधिपो यथा ॥ ६ ॥

विश्वास-प्रस्तुतिः

तस्यभार्योत्तमा नाम लक्ष्मीरिव गुणोत्तमा
पतिशुश्रूषणपरा यथाजनकनन्दिनी ॥ ७ ॥

मूलम्

तस्यभार्योत्तमा नाम लक्ष्मीरिव गुणोत्तमा
पतिशुश्रूषणपरा यथाजनकनन्दिनी ॥ ७ ॥

विश्वास-प्रस्तुतिः

तस्यैकश्च सुतो राजन्नङ्गदो नाम बुद्धिमान्
एका पुत्री तु वलया नाम सल्लक्षमणान्विता ॥ ८ ॥

मूलम्

तस्यैकश्च सुतो राजन्नङ्गदो नाम बुद्धिमान्
एका पुत्री तु वलया नाम सल्लक्षमणान्विता ॥ ८ ॥

विश्वास-प्रस्तुतिः

तयोर्ज्यायान्सुतः कन्या तस्माद्भूपकनीयसी
तयोर्यथाक्रमं चक्रे विवाहं स द्विजोत्तमः ॥ ९ ॥

मूलम्

तयोर्ज्यायान्सुतः कन्या तस्माद्भूपकनीयसी
तयोर्यथाक्रमं चक्रे विवाहं स द्विजोत्तमः ॥ ९ ॥

विश्वास-प्रस्तुतिः

विवाहिता तु सा कन्या ययौ श्वशुरवेश्मनि
शुभलक्षणसम्पन्ना कालेन कियता नृप ॥ १० ॥

मूलम्

विवाहिता तु सा कन्या ययौ श्वशुरवेश्मनि
शुभलक्षणसम्पन्ना कालेन कियता नृप ॥ १० ॥

विश्वास-प्रस्तुतिः

अङ्गदस्तु महाबुद्धिर्गृहभारं बभार ह
पितृवत्सर्वशास्त्रज्ञो यौवनश्रीविभूषितः ॥ ११ ॥

मूलम्

अङ्गदस्तु महाबुद्धिर्गृहभारं बभार ह
पितृवत्सर्वशास्त्रज्ञो यौवनश्रीविभूषितः ॥ ११ ॥

विश्वास-प्रस्तुतिः

एकदा स तु विप्रेन्द्रः पुत्रं तं गृहकर्मणि
क्षमं विज्ञाय राजेन्द्र निजभार्यामुवाच ह ॥ १२ ॥

मूलम्

एकदा स तु विप्रेन्द्रः पुत्रं तं गृहकर्मणि
क्षमं विज्ञाय राजेन्द्र निजभार्यामुवाच ह ॥ १२ ॥

विश्वास-प्रस्तुतिः

देवदास उवाच
समाकर्णय मे साध्वि कालेऽस्मिन्नुचितं वचः
ततो यदुचितं भद्रे तदह्नाय विधीयताम् ॥ १३ ॥

मूलम्

देवदास उवाच
समाकर्णय मे साध्वि कालेऽस्मिन्नुचितं वचः
ततो यदुचितं भद्रे तदह्नाय विधीयताम् ॥ १३ ॥

विश्वास-प्रस्तुतिः

एषा जरा समायाता शरीरं पातयिष्यति
अङ्गान्याकम्पयन्तीव वात्या पक्वफलं यथा ॥ १४ ॥

मूलम्

एषा जरा समायाता शरीरं पातयिष्यति
अङ्गान्याकम्पयन्तीव वात्या पक्वफलं यथा ॥ १४ ॥

विश्वास-प्रस्तुतिः

अक्ष्णामपि द्युतिं मन्दां नूनमेषा करिष्यति
नक्षत्राणां सचन्द्राणां प्रातर्वेलेव सुव्रते ॥ १५ ॥

मूलम्

अक्ष्णामपि द्युतिं मन्दां नूनमेषा करिष्यति
नक्षत्राणां सचन्द्राणां प्रातर्वेलेव सुव्रते ॥ १५ ॥

विश्वास-प्रस्तुतिः

स्खलितो पादयोर्मन्दां गतिं प्रतिपदक्रमम्
करिष्यति जरा ह्येषा यथानिगडशृङ्खला ॥ १६ ॥

मूलम्

स्खलितो पादयोर्मन्दां गतिं प्रतिपदक्रमम्
करिष्यति जरा ह्येषा यथानिगडशृङ्खला ॥ १६ ॥

विश्वास-प्रस्तुतिः

तस्मादेषा जरा यावन्न प्रौढा जायते शुभे
आत्मनस्तावदावाभ्यां करणीयं हि तं द्रुतम् ॥ १७ ॥

मूलम्

तस्मादेषा जरा यावन्न प्रौढा जायते शुभे
आत्मनस्तावदावाभ्यां करणीयं हि तं द्रुतम् ॥ १७ ॥

विश्वास-प्रस्तुतिः

गृहपुत्रसुहृद्भ्रातृपितरो हि विनश्वराः
द्रव्यादिकं च सुभगे तेषु सज्जेत नो बुधः ॥ १८ ॥

मूलम्

गृहपुत्रसुहृद्भ्रातृपितरो हि विनश्वराः
द्रव्यादिकं च सुभगे तेषु सज्जेत नो बुधः ॥ १८ ॥

विश्वास-प्रस्तुतिः

अतोऽहं सर्वतीर्थेषु पयर्यटन्विजितेन्द्रियः
वानप्रस्थेन विधिना वीक्षिष्ये हरिमीश्वरम् ॥ १९ ॥

मूलम्

अतोऽहं सर्वतीर्थेषु पयर्यटन्विजितेन्द्रियः
वानप्रस्थेन विधिना वीक्षिष्ये हरिमीश्वरम् ॥ १९ ॥

विश्वास-प्रस्तुतिः

ततः सन्न्यासमादाय क्वचित्तीर्थोत्तमे शुभे
प्रारब्धकर्मणामन्ते त्यक्ष्यामि स्वं कलेवरम् ॥ २० ॥

मूलम्

ततः सन्न्यासमादाय क्वचित्तीर्थोत्तमे शुभे
प्रारब्धकर्मणामन्ते त्यक्ष्यामि स्वं कलेवरम् ॥ २० ॥

विश्वास-प्रस्तुतिः

एवं चेत्प्राणमुक्तः स्यान्मुक्तिः स्यान्नात्र संशयः
मम श्रीपतिपादाब्जसम्यक्स्थापितचेतसः ॥ २१ ॥

मूलम्

एवं चेत्प्राणमुक्तः स्यान्मुक्तिः स्यान्नात्र संशयः
मम श्रीपतिपादाब्जसम्यक्स्थापितचेतसः ॥ २१ ॥

विश्वास-प्रस्तुतिः

उत्तमोवाच-
पुमान्वा स्त्रीजनो वापि को रमेत विनश्वरे
संसारे माधवं मुक्त्वा नित्याश्रममचेतनः ॥ २२ ॥

मूलम्

उत्तमोवाच-
पुमान्वा स्त्रीजनो वापि को रमेत विनश्वरे
संसारे माधवं मुक्त्वा नित्याश्रममचेतनः ॥ २२ ॥

विश्वास-प्रस्तुतिः

तस्मान्मामपि जीवेश त्वत्पादाम्बुजसेविनीम्
नीत्वा स्वसङ्गमे तावद्विश्वाब्धेराशु तारय ॥ २३ ॥

मूलम्

तस्मान्मामपि जीवेश त्वत्पादाम्बुजसेविनीम्
नीत्वा स्वसङ्गमे तावद्विश्वाब्धेराशु तारय ॥ २३ ॥

विश्वास-प्रस्तुतिः

पुत्रोऽयमङ्गदः श्रीमान्गृहभारस्य धारणे
समर्थोऽभूत्स्नुषा चेयं कल्याणी तत्सहायिनी ॥ २४ ॥

मूलम्

पुत्रोऽयमङ्गदः श्रीमान्गृहभारस्य धारणे
समर्थोऽभूत्स्नुषा चेयं कल्याणी तत्सहायिनी ॥ २४ ॥

विश्वास-प्रस्तुतिः

पुत्रे समर्थे यो मूढः पुरुषः स्त्रीजनोऽथवा
न विरज्येत यो मूढो वञ्चितः श्रेयसा हि सः ॥ २५ ॥

मूलम्

पुत्रे समर्थे यो मूढः पुरुषः स्त्रीजनोऽथवा
न विरज्येत यो मूढो वञ्चितः श्रेयसा हि सः ॥ २५ ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
एवमन्योन्यमामन्त्र्य दम्पती तौ रहस्तदा
पुत्रमाहूय कथयाञ्चक्रतुस्त्विदमङ्गदम् ॥ २६ ॥

मूलम्

नारद उवाच-
एवमन्योन्यमामन्त्र्य दम्पती तौ रहस्तदा
पुत्रमाहूय कथयाञ्चक्रतुस्त्विदमङ्गदम् ॥ २६ ॥

विश्वास-प्रस्तुतिः

दम्पत्यूचतुः-
जरागमश्लथद्गात्रावावां विद्धि त्वमङ्गद
स्वश्रेयसे यतिष्यावः कुत्रचित्पुण्यभूतले ॥ २७ ॥

मूलम्

दम्पत्यूचतुः-
जरागमश्लथद्गात्रावावां विद्धि त्वमङ्गद
स्वश्रेयसे यतिष्यावः कुत्रचित्पुण्यभूतले ॥ २७ ॥

विश्वास-प्रस्तुतिः

हरेराराधनं भक्त्या श्रेयः परममुच्यते
तदर्थमेव निष्कामा यतन्ते साधवो भुवि ॥ २८ ॥

मूलम्

हरेराराधनं भक्त्या श्रेयः परममुच्यते
तदर्थमेव निष्कामा यतन्ते साधवो भुवि ॥ २८ ॥

विश्वास-प्रस्तुतिः

विषयेषु न संसक्तिः समत्वं सर्वजन्तुषु
येषां हर्षविवादौ च न जातु सुखदुःखयो ॥ २९ ॥

मूलम्

विषयेषु न संसक्तिः समत्वं सर्वजन्तुषु
येषां हर्षविवादौ च न जातु सुखदुःखयो ॥ २९ ॥

विश्वास-प्रस्तुतिः

त एव साधवो लोके गोविन्दपदसेविनः
तेषां दर्शनमात्रेण कृतार्थो जायते नरः ॥ ३० ॥

मूलम्

त एव साधवो लोके गोविन्दपदसेविनः
तेषां दर्शनमात्रेण कृतार्थो जायते नरः ॥ ३० ॥

विश्वास-प्रस्तुतिः

तीर्थानि पर्यटन्धीरस्तद्दर्शनसमुत्सुकः
भाग्योदयेन केनापि तद्दर्शनमवाप्नुयात् ॥ ३१ ॥

मूलम्

तीर्थानि पर्यटन्धीरस्तद्दर्शनसमुत्सुकः
भाग्योदयेन केनापि तद्दर्शनमवाप्नुयात् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

तस्माद्भारं कुटुम्बस्य भुजयोर्युगदीर्घयोः
आरोप्य नौ विसर्जस्व तीर्थयात्रार्थमङ्गद ॥ ३२ ॥

मूलम्

तस्माद्भारं कुटुम्बस्य भुजयोर्युगदीर्घयोः
आरोप्य नौ विसर्जस्व तीर्थयात्रार्थमङ्गद ॥ ३२ ॥

विश्वास-प्रस्तुतिः

तीर्थयात्राप्रसङ्गेन कदाचित्साधुदर्शनम्
भवेद्यदि तदा पुत्र द्वयोर्नौ स्यात्कृतार्थता ॥ ३३ ॥

मूलम्

तीर्थयात्राप्रसङ्गेन कदाचित्साधुदर्शनम्
भवेद्यदि तदा पुत्र द्वयोर्नौ स्यात्कृतार्थता ॥ ३३ ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
इत्युक्तः पितृभ्यां पुत्रः साधुवादमवादयत्
नारद उवाच-
समस्तकुलनिस्तारो भवद्भ्यामयमीरितः ॥ ३४ ॥

मूलम्

नारद उवाच-
इत्युक्तः पितृभ्यां पुत्रः साधुवादमवादयत्
नारद उवाच-
समस्तकुलनिस्तारो भवद्भ्यामयमीरितः ॥ ३४ ॥

विश्वास-प्रस्तुतिः

आशु मामवजानीतं किं करोमि भवद्धितम्
अहमाज्ञाकरो नित्यं युवयोः पूज्यपादयोः ॥ ३५ ॥

मूलम्

आशु मामवजानीतं किं करोमि भवद्धितम्
अहमाज्ञाकरो नित्यं युवयोः पूज्यपादयोः ॥ ३५ ॥

विश्वास-प्रस्तुतिः

पुण्यतीर्थेषु दानार्थं गृहीतं धनमुत्तमम्
नयतं मामपि प्रेष्यं सेवायै निजसङ्गमम् ॥ ३६ ॥

मूलम्

पुण्यतीर्थेषु दानार्थं गृहीतं धनमुत्तमम्
नयतं मामपि प्रेष्यं सेवायै निजसङ्गमम् ॥ ३६ ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
इत्युक्त्वा धनमादाय गत्वा क्रोशद्वयं तयोः
सङ्गे गृहमगात्ताभ्यां कथञ्चित्सन्निवर्तितः ॥ ३७ ॥

मूलम्

नारद उवाच-
इत्युक्त्वा धनमादाय गत्वा क्रोशद्वयं तयोः
सङ्गे गृहमगात्ताभ्यां कथञ्चित्सन्निवर्तितः ॥ ३७ ॥

विश्वास-प्रस्तुतिः

तौ गृहीत्वा धनं किचिद्विष्णुर्नौ संयतामिति
कन्दमूलफलाहारौ तत्रोषित्वा दिनत्रयम् ॥ ३८ ॥

मूलम्

तौ गृहीत्वा धनं किचिद्विष्णुर्नौ संयतामिति
कन्दमूलफलाहारौ तत्रोषित्वा दिनत्रयम् ॥ ३८ ॥

विश्वास-प्रस्तुतिः

यदा तस्मात्प्रचलितौ दम्पती जगतीपते
तदा मार्गे महान्कश्चित्सिद्धः सम्मीलितस्तयोः ॥ ३९ ॥

मूलम्

यदा तस्मात्प्रचलितौ दम्पती जगतीपते
तदा मार्गे महान्कश्चित्सिद्धः सम्मीलितस्तयोः ॥ ३९ ॥

विश्वास-प्रस्तुतिः

ताभ्यामुभाभ्यां शिरसा वन्दितः स उपाविशत्
उपविष्टस्तदा ताभ्यामिति पृष्टः स सिद्धराट् ॥ ४० ॥

मूलम्

ताभ्यामुभाभ्यां शिरसा वन्दितः स उपाविशत्
उपविष्टस्तदा ताभ्यामिति पृष्टः स सिद्धराट् ॥ ४० ॥

विश्वास-प्रस्तुतिः

को भवान्कुत आयातो किं चिकीर्षति तद्वद
सिद्ध उवाच-
सिद्धोऽहं तापसश्रेष्ठ कल्पग्रामे गृहं मम ॥ ४१ ॥

मूलम्

को भवान्कुत आयातो किं चिकीर्षति तद्वद
सिद्ध उवाच-
सिद्धोऽहं तापसश्रेष्ठ कल्पग्रामे गृहं मम ॥ ४१ ॥

विश्वास-प्रस्तुतिः

इन्द्रप्रस्थात्समायातो दृष्टं तत्र महाद्भुतम्
तत्रास्ति कपिलः सिद्धो नारायणसमो गुणैः ॥ ४२ ॥

मूलम्

इन्द्रप्रस्थात्समायातो दृष्टं तत्र महाद्भुतम्
तत्रास्ति कपिलः सिद्धो नारायणसमो गुणैः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

तस्मादहं पठन्साङ्ख्यं निवसामि तदाश्रमे
एकदा मद्गुरुः श्रीमान्स्वाश्रमात्कपिलो ययौ ॥ ४३ ॥

मूलम्

तस्मादहं पठन्साङ्ख्यं निवसामि तदाश्रमे
एकदा मद्गुरुः श्रीमान्स्वाश्रमात्कपिलो ययौ ॥ ४३ ॥

विश्वास-प्रस्तुतिः

बदर्याख्यं महापुण्यं स्नातुं स यमुनाजले
तत्रैकोरण्यमहिषस्तृषार्तो यमुनाजले ॥ ४४ ॥

मूलम्

बदर्याख्यं महापुण्यं स्नातुं स यमुनाजले
तत्रैकोरण्यमहिषस्तृषार्तो यमुनाजले ॥ ४४ ॥

विश्वास-प्रस्तुतिः

प्रविष्टो जलमापीय पूर्वजन्मस्वमस्मरत्
स्मृत्वा स पूर्वकर्माणि महिषोऽरण्यसम्भवः ॥ ४५ ॥

मूलम्

प्रविष्टो जलमापीय पूर्वजन्मस्वमस्मरत्
स्मृत्वा स पूर्वकर्माणि महिषोऽरण्यसम्भवः ॥ ४५ ॥

विश्वास-प्रस्तुतिः

जलान्निसृत्य तरसा ववन्दे कपिलं गुरुम्
उवाच नरवाचा च मयि शृण्वति तापसः
यत्तत्ते कथयाम्यद्य शृणु त्वं परमाद्भुतम् ॥ ४६ ॥

मूलम्

जलान्निसृत्य तरसा ववन्दे कपिलं गुरुम्
उवाच नरवाचा च मयि शृण्वति तापसः
यत्तत्ते कथयाम्यद्य शृणु त्वं परमाद्भुतम् ॥ ४६ ॥

विश्वास-प्रस्तुतिः

महिष उवाच-
भोभो विष्णुकलाभूत सिद्धानां कपिलेश्वर
किं नामेदं महातीर्थं नताय कथयस्व मे ॥ ४७ ॥

मूलम्

महिष उवाच-
भोभो विष्णुकलाभूत सिद्धानां कपिलेश्वर
किं नामेदं महातीर्थं नताय कथयस्व मे ॥ ४७ ॥

विश्वास-प्रस्तुतिः

अस्य तीर्थवरस्याम्बुस्पर्शाद्वै पूर्वजन्मनि
जाता मम महाभाग पापस्यापि च कर्मणः ॥ ४८ ॥

मूलम्

अस्य तीर्थवरस्याम्बुस्पर्शाद्वै पूर्वजन्मनि
जाता मम महाभाग पापस्यापि च कर्मणः ॥ ४८ ॥

विश्वास-प्रस्तुतिः

सिद्ध उवाच-
एवमाकर्ण्य तद्वाक्यं महिषस्य महामुनिः
जानन्नपि च तद्वृत्तं विहस्येदमुवाच ह ॥ ४९ ॥

मूलम्

सिद्ध उवाच-
एवमाकर्ण्य तद्वाक्यं महिषस्य महामुनिः
जानन्नपि च तद्वृत्तं विहस्येदमुवाच ह ॥ ४९ ॥

विश्वास-प्रस्तुतिः

कपिल उवाच-
भवान्महिषशार्दूल क आसीत्पूर्वजन्मनि
तत्र किं कृतवान्कर्म योनिं येनाप माहिषीम् ॥ ५० ॥

मूलम्

कपिल उवाच-
भवान्महिषशार्दूल क आसीत्पूर्वजन्मनि
तत्र किं कृतवान्कर्म योनिं येनाप माहिषीम् ॥ ५० ॥

विश्वास-प्रस्तुतिः

महिष उवाच-
शृणुष्व मुनिशार्दूल वृत्तं वै पूर्वजन्मनः
अहमासं पुरा राजा कलिङ्गाधिपतिर्बली ॥ ५१ ॥

मूलम्

महिष उवाच-
शृणुष्व मुनिशार्दूल वृत्तं वै पूर्वजन्मनः
अहमासं पुरा राजा कलिङ्गाधिपतिर्बली ॥ ५१ ॥

विश्वास-प्रस्तुतिः

स्वां परां नैव जानामि योषितं काममोहितः
वणिजां साधुवृत्तीनां धनहर्ता निरेनसाम् ॥ ५२ ॥

मूलम्

स्वां परां नैव जानामि योषितं काममोहितः
वणिजां साधुवृत्तीनां धनहर्ता निरेनसाम् ॥ ५२ ॥

विश्वास-प्रस्तुतिः

निशीथे नगरे राजन् गतभीः पर्यटाम्यहम्
सुन्दरीभिः परस्त्रीभिः क्रीडितुं रतिलीलया ॥ ५३ ॥

मूलम्

निशीथे नगरे राजन् गतभीः पर्यटाम्यहम्
सुन्दरीभिः परस्त्रीभिः क्रीडितुं रतिलीलया ॥ ५३ ॥

विश्वास-प्रस्तुतिः

यद्गृहे सुन्दरीं नारीं पश्यामि स्मरमोहितः
वसामि निशि तत्राहं क्षेत्रे मध्ये गजो यथा ॥ ५४ ॥

मूलम्

यद्गृहे सुन्दरीं नारीं पश्यामि स्मरमोहितः
वसामि निशि तत्राहं क्षेत्रे मध्ये गजो यथा ॥ ५४ ॥

विश्वास-प्रस्तुतिः

क्रीडित्वा तत्र निःशङ्कं धनं हृत्वा च तद्गृहात्
स्वगृहं पुनरायामि कियद्भिर्वासरैरहम् ॥ ५५ ॥

मूलम्

क्रीडित्वा तत्र निःशङ्कं धनं हृत्वा च तद्गृहात्
स्वगृहं पुनरायामि कियद्भिर्वासरैरहम् ॥ ५५ ॥

विश्वास-प्रस्तुतिः

उपविष्टः सभामध्ये दिवा द्वौ पुरबालकौ
अनार्यबाहुयुद्धेन योधयामि निजाग्रतः ॥ ५६ ॥

मूलम्

उपविष्टः सभामध्ये दिवा द्वौ पुरबालकौ
अनार्यबाहुयुद्धेन योधयामि निजाग्रतः ॥ ५६ ॥

विश्वास-प्रस्तुतिः

नियोधयति यो बालस्तं मत्वा धनिनं बलात्
गृह्णामि तत्पितुर्वित्तं स्वल्पं वा भूरि वा मुने ॥ ५७ ॥

मूलम्

नियोधयति यो बालस्तं मत्वा धनिनं बलात्
गृह्णामि तत्पितुर्वित्तं स्वल्पं वा भूरि वा मुने ॥ ५७ ॥

विश्वास-प्रस्तुतिः

यः पराजयते तत्र कातरत्वान्महामुने
नायमर्हः पुरे स्थातुं ममेति विनिहन्मि तम् ॥ ५८ ॥

मूलम्

यः पराजयते तत्र कातरत्वान्महामुने
नायमर्हः पुरे स्थातुं ममेति विनिहन्मि तम् ॥ ५८ ॥

विश्वास-प्रस्तुतिः

एवमप्यद्यमारेभे वर्त्तमाने महीपतौ
पौरा नगरमुत्सृज्य प्रययुर्विषयान्तरम् ॥ ५९ ॥

मूलम्

एवमप्यद्यमारेभे वर्त्तमाने महीपतौ
पौरा नगरमुत्सृज्य प्रययुर्विषयान्तरम् ॥ ५९ ॥

विश्वास-प्रस्तुतिः

एकदा मुनिशार्दूलो दुर्वासा पर्यटन्महीम्
पुरे मम समायातो दुर्वासा रुद्रसम्भवः ॥ ६० ॥

मूलम्

एकदा मुनिशार्दूलो दुर्वासा पर्यटन्महीम्
पुरे मम समायातो दुर्वासा रुद्रसम्भवः ॥ ६० ॥

विश्वास-प्रस्तुतिः

मिलित्वा नागराः सर्वे तदाजग्मुस्तदन्तिके
प्रणिपत्येदमाहुस्तं स्वदुःखज्ञापकं वचः ॥ ६१ ॥

मूलम्

मिलित्वा नागराः सर्वे तदाजग्मुस्तदन्तिके
प्रणिपत्येदमाहुस्तं स्वदुःखज्ञापकं वचः ॥ ६१ ॥

विश्वास-प्रस्तुतिः

पौरा ऊचुः
आत्रेय मुनिशार्दूल कृपां कुरु कृपानिधे
अधर्मनिरतं भूपमेनं धर्मेण योजय ॥ ६२ ॥

मूलम्

पौरा ऊचुः
आत्रेय मुनिशार्दूल कृपां कुरु कृपानिधे
अधर्मनिरतं भूपमेनं धर्मेण योजय ॥ ६२ ॥

विश्वास-प्रस्तुतिः

भाग्योदयेन केनापि भवानस्माकमागतः
उद्वेलाद्भूपदुःखाब्धेरस्मांस्तारय पोतवत् ॥ ६३ ॥

मूलम्

भाग्योदयेन केनापि भवानस्माकमागतः
उद्वेलाद्भूपदुःखाब्धेरस्मांस्तारय पोतवत् ॥ ६३ ॥

विश्वास-प्रस्तुतिः

धनं लोभयतातेन हृतं नो मुनिपुङ्गव
दूषिताश्च स्त्रियः साध्व्यः सकामेन निरेनसा ॥ ६४ ॥

मूलम्

धनं लोभयतातेन हृतं नो मुनिपुङ्गव
दूषिताश्च स्त्रियः साध्व्यः सकामेन निरेनसा ॥ ६४ ॥

विश्वास-प्रस्तुतिः

दशवत्सरदेशीया बहवः शिशवो हताः
अगण्य वैगुण्यनिधिरेष भूपो महामुने ॥ ६५ ॥

मूलम्

दशवत्सरदेशीया बहवः शिशवो हताः
अगण्य वैगुण्यनिधिरेष भूपो महामुने ॥ ६५ ॥

विश्वास-प्रस्तुतिः

महिष उवाच-
एवमाकर्ण्य पौराणां वचः स मुनिरत्रिजः
दण्ड्योयमिति सञ्चित्य सभास्थं मामथा ययौ ॥ ६६ ॥

मूलम्

महिष उवाच-
एवमाकर्ण्य पौराणां वचः स मुनिरत्रिजः
दण्ड्योयमिति सञ्चित्य सभास्थं मामथा ययौ ॥ ६६ ॥

विश्वास-प्रस्तुतिः

दृष्ट्वा हि तं समायान्तमवधूतं दिगम्बरम्
आवारयमहं भृत्यैर्नेत्ययं दर्शनोचितः ॥ ६७ ॥

मूलम्

दृष्ट्वा हि तं समायान्तमवधूतं दिगम्बरम्
आवारयमहं भृत्यैर्नेत्ययं दर्शनोचितः ॥ ६७ ॥

विश्वास-प्रस्तुतिः

रेणुना सर्वलिप्ताङ्गो महिषाकृतिरेव वै
वार्यतामिति पार्श्वस्थान्बहुशोऽहं समादिशम् ॥ ६८ ॥

मूलम्

रेणुना सर्वलिप्ताङ्गो महिषाकृतिरेव वै
वार्यतामिति पार्श्वस्थान्बहुशोऽहं समादिशम् ॥ ६८ ॥

विश्वास-प्रस्तुतिः

ततस्ते तरसा भृत्यास्तं वारयितुमभ्यगुः
हुङ्कारेणैव तान्सर्वान्स चक्रे भस्मसान्मुनिः ॥ ६९ ॥

मूलम्

ततस्ते तरसा भृत्यास्तं वारयितुमभ्यगुः
हुङ्कारेणैव तान्सर्वान्स चक्रे भस्मसान्मुनिः ॥ ६९ ॥

विश्वास-प्रस्तुतिः

यज्ञाश्वं रक्षतः स्वस्य पितुस्त्वमिव सागरात्
सर्वशस्तानहं भृत्यान्भस्मीभूतांस्तु तेजसा ॥ ७० ॥

मूलम्

यज्ञाश्वं रक्षतः स्वस्य पितुस्त्वमिव सागरात्
सर्वशस्तानहं भृत्यान्भस्मीभूतांस्तु तेजसा ॥ ७० ॥

विश्वास-प्रस्तुतिः

आलक्ष्य सहसोत्थाय गृहमावेष्टुमुद्यतः
रेरे पापेति सम्बोध्य ततो मां मुनिसत्तमः ॥ ७१ ॥

मूलम्

आलक्ष्य सहसोत्थाय गृहमावेष्टुमुद्यतः
रेरे पापेति सम्बोध्य ततो मां मुनिसत्तमः ॥ ७१ ॥

विश्वास-प्रस्तुतिः

शशापेति महारण्ये महिषो भव साम्प्रतम्
तेनाहमिति शप्तो वै मुक्त्वा राजतनुं तदा ॥ ७२ ॥

मूलम्

शशापेति महारण्ये महिषो भव साम्प्रतम्
तेनाहमिति शप्तो वै मुक्त्वा राजतनुं तदा ॥ ७२ ॥

विश्वास-प्रस्तुतिः

मरुदेशे महारण्ये जातोऽहं महिषो मुने
चिरकालमहं तत्र न्यवसं मुनिपुङ्गवः ॥ ७३ ॥

मूलम्

मरुदेशे महारण्ये जातोऽहं महिषो मुने
चिरकालमहं तत्र न्यवसं मुनिपुङ्गवः ॥ ७३ ॥

विश्वास-प्रस्तुतिः

अत्रागतस्तु केनाहं पुण्येन तदपि शृणु
वापीकूपसरस्यस्तु बहबः कारिता मया ॥ ७४ ॥

मूलम्

अत्रागतस्तु केनाहं पुण्येन तदपि शृणु
वापीकूपसरस्यस्तु बहबः कारिता मया ॥ ७४ ॥

विश्वास-प्रस्तुतिः

सहकारादिवृक्षाणामारोपो विहितः पथि
पुण्येनानेन मे देव पातो न नरकेऽभवत् ॥ ७५ ॥

मूलम्

सहकारादिवृक्षाणामारोपो विहितः पथि
पुण्येनानेन मे देव पातो न नरकेऽभवत् ॥ ७५ ॥

विश्वास-प्रस्तुतिः

तीर्थस्य च मया प्राप्तो ह्यमुष्यजलसङ्गमः
एतत्ते कथितं सर्वं पूर्वजन्मशुभाशुभम् ॥ ७६ ॥

मूलम्

तीर्थस्य च मया प्राप्तो ह्यमुष्यजलसङ्गमः
एतत्ते कथितं सर्वं पूर्वजन्मशुभाशुभम् ॥ ७६ ॥

विश्वास-प्रस्तुतिः

येन तीर्थं मया प्राप्तमेतद्योनिश्च माहिषी
अस्यतीर्थवरस्याम्बुस्पर्शाज्जातिस्मरोभवम्
कथमस्या असद्योनेर्मुक्तिः स्यात्तन्मुने वद ॥ ७७ ॥

मूलम्

येन तीर्थं मया प्राप्तमेतद्योनिश्च माहिषी
अस्यतीर्थवरस्याम्बुस्पर्शाज्जातिस्मरोभवम्
कथमस्या असद्योनेर्मुक्तिः स्यात्तन्मुने वद ॥ ७७ ॥

विश्वास-प्रस्तुतिः

कपिल उवाच-
एतत्तीर्थं महापुण्यं बदर्याख्यं रमापतेः
अत्र स्नाहि द्रुतं कामं स्वचित्तस्थं हि लप्स्यसे ॥ ७८ ॥

मूलम्

कपिल उवाच-
एतत्तीर्थं महापुण्यं बदर्याख्यं रमापतेः
अत्र स्नाहि द्रुतं कामं स्वचित्तस्थं हि लप्स्यसे ॥ ७८ ॥

विश्वास-प्रस्तुतिः

सिद्ध उवाच-
एतच्छ्रुत्वा वचस्तस्य महिषस्य महामुने
तत्र तीर्थे वरे स्नातुं प्राविशत्स्वर्गवाञ्छया ॥ ७९ ॥

मूलम्

सिद्ध उवाच-
एतच्छ्रुत्वा वचस्तस्य महिषस्य महामुने
तत्र तीर्थे वरे स्नातुं प्राविशत्स्वर्गवाञ्छया ॥ ७९ ॥

विश्वास-प्रस्तुतिः

स्नात्वा स्वर्गेच्छया तस्मिन्जलात्तटमुपागते
तत्क्षणं गजमारूह्य शक्रः स्वर्गात्समाययौ ॥ ८० ॥

मूलम्

स्नात्वा स्वर्गेच्छया तस्मिन्जलात्तटमुपागते
तत्क्षणं गजमारूह्य शक्रः स्वर्गात्समाययौ ॥ ८० ॥

विश्वास-प्रस्तुतिः

इन्द्र उवाच-
हे कलिङ्गपते नैजं देहं जहि हि माहिषम्
प्रतिलभ्य वपुर्दिव्यं सममायाहि मे दिवम्
त्वया स्वर्गेच्छया स्नातं प्राप्तं तत्ते सुरास्पदम् ॥ ८१ ॥

मूलम्

इन्द्र उवाच-
हे कलिङ्गपते नैजं देहं जहि हि माहिषम्
प्रतिलभ्य वपुर्दिव्यं सममायाहि मे दिवम्
त्वया स्वर्गेच्छया स्नातं प्राप्तं तत्ते सुरास्पदम् ॥ ८१ ॥

विश्वास-प्रस्तुतिः

सिद्ध उवाच-
इत्युक्तः स तदा तेन त्यक्त्वा देहं तु माहिषम्
दिव्यं वपुः समासाद्य गजराजं समारुहत् ॥ ८२ ॥

मूलम्

सिद्ध उवाच-
इत्युक्तः स तदा तेन त्यक्त्वा देहं तु माहिषम्
दिव्यं वपुः समासाद्य गजराजं समारुहत् ॥ ८२ ॥

विश्वास-प्रस्तुतिः

गजराजं समारुह्य स्थित्वा च गगने क्षणम्
प्रणम्य शिरसा देवं तुष्टाव कपिलं मुनिम् ॥ ८३ ॥

मूलम्

गजराजं समारुह्य स्थित्वा च गगने क्षणम्
प्रणम्य शिरसा देवं तुष्टाव कपिलं मुनिम् ॥ ८३ ॥

विश्वास-प्रस्तुतिः

कलिङ्ग उवाच
नमस्ते परमेशान केवलज्ञानहेतवे
सेतवे वेदविद्यानां रिपवे तद्विरोधिनाम् ॥ ८४ ॥

मूलम्

कलिङ्ग उवाच
नमस्ते परमेशान केवलज्ञानहेतवे
सेतवे वेदविद्यानां रिपवे तद्विरोधिनाम् ॥ ८४ ॥

विश्वास-प्रस्तुतिः

त्वत्तः प्रवृत्तिः साङ्ख्यस्य जाता तत्वावबोधिनी
देहिनां मायया ग्रस्त चेतसामपि ते विभो ॥ ८५ ॥

मूलम्

त्वत्तः प्रवृत्तिः साङ्ख्यस्य जाता तत्वावबोधिनी
देहिनां मायया ग्रस्त चेतसामपि ते विभो ॥ ८५ ॥

विश्वास-प्रस्तुतिः

ये वेदविहितं त्यक्त्वा वर्तन्ते स्वेच्छया मुने
तान्दण्डयसि दण्ड्यांस्त्वं मज्जयंस्तिर्यगादिषु ॥ ८६ ॥

मूलम्

ये वेदविहितं त्यक्त्वा वर्तन्ते स्वेच्छया मुने
तान्दण्डयसि दण्ड्यांस्त्वं मज्जयंस्तिर्यगादिषु ॥ ८६ ॥

विश्वास-प्रस्तुतिः

इन्द्रादयो लोकपालाः सर्वे त्वदधिकारिणः
त्वदिच्छामनुवर्तन्ते भीता दण्डकृतो हि ते ॥ ८७ ॥

मूलम्

इन्द्रादयो लोकपालाः सर्वे त्वदधिकारिणः
त्वदिच्छामनुवर्तन्ते भीता दण्डकृतो हि ते ॥ ८७ ॥

विश्वास-प्रस्तुतिः

त्रयीधर्मविरोद्धारः पूर्वदेवा युगे युगे
अवतीर्य विनाशाय कृता सर्वात्मना त्वया ॥ ८८ ॥

मूलम्

त्रयीधर्मविरोद्धारः पूर्वदेवा युगे युगे
अवतीर्य विनाशाय कृता सर्वात्मना त्वया ॥ ८८ ॥

विश्वास-प्रस्तुतिः

ये ये त्वया हता नाथ चक्रिणा त्रिदशारयः
ते ते तमोमयीं हित्वा तनुं वैकुण्ठमभ्यगुः ॥ ८९ ॥

मूलम्

ये ये त्वया हता नाथ चक्रिणा त्रिदशारयः
ते ते तमोमयीं हित्वा तनुं वैकुण्ठमभ्यगुः ॥ ८९ ॥

विश्वास-प्रस्तुतिः

आज्ञापय जगन्नाथ गन्तु मां त्रिदशालयम्
अनुगृह्णीष्व शक्रं च नमन्तं वीक्षणामृतैः ॥ ९० ॥

मूलम्

आज्ञापय जगन्नाथ गन्तु मां त्रिदशालयम्
अनुगृह्णीष्व शक्रं च नमन्तं वीक्षणामृतैः ॥ ९० ॥

विश्वास-प्रस्तुतिः

प्रसादात्तव देवेश बदर्याख्यस्य च प्रभो
तीर्थस्य स्वतनुं हित्वा तामसीं सात्विकीं गतः ॥ ९१ ॥

मूलम्

प्रसादात्तव देवेश बदर्याख्यस्य च प्रभो
तीर्थस्य स्वतनुं हित्वा तामसीं सात्विकीं गतः ॥ ९१ ॥

विश्वास-प्रस्तुतिः

इन्द्रेण सह नागेन्द्रमारुह्य त्रिदशालयम्
गच्छामि स्वेच्छया नाथ कृपातस्ते कृपानिधेः ॥ ९२ ॥

मूलम्

इन्द्रेण सह नागेन्द्रमारुह्य त्रिदशालयम्
गच्छामि स्वेच्छया नाथ कृपातस्ते कृपानिधेः ॥ ९२ ॥

विश्वास-प्रस्तुतिः

सिद्ध उवाच-
इत्यभिष्टूय देवेशं कपिलं स कलिङ्गपः
नमस्कृत्य च तत्पादौ जगाम त्रिदशालयम् ॥ ९३ ॥

मूलम्

सिद्ध उवाच-
इत्यभिष्टूय देवेशं कपिलं स कलिङ्गपः
नमस्कृत्य च तत्पादौ जगाम त्रिदशालयम् ॥ ९३ ॥

विश्वास-प्रस्तुतिः

एतन्मयाद्भुतं विप्र दृष्टं बदरिकाश्रमे
गुरुं शुश्रूषमाणेन पापस्यापि विमोक्षणम् ॥ ९४ ॥

मूलम्

एतन्मयाद्भुतं विप्र दृष्टं बदरिकाश्रमे
गुरुं शुश्रूषमाणेन पापस्यापि विमोक्षणम् ॥ ९४ ॥

विश्वास-प्रस्तुतिः

नातः परं त्रिलोक्यां तु तीर्थं सर्वार्थदायकम्
याहि तत्रैव सस्त्रीकः परं श्रेयो यदीच्छसि ॥ ९५ ॥

मूलम्

नातः परं त्रिलोक्यां तु तीर्थं सर्वार्थदायकम्
याहि तत्रैव सस्त्रीकः परं श्रेयो यदीच्छसि ॥ ९५ ॥

विश्वास-प्रस्तुतिः

अहं यामि समानेतुं बदर्याख्यं गृहान्द्विज
वृद्धं स्वकीय पितरं निस्पृहं मोक्षकामुकम् ॥ ९६ ॥

मूलम्

अहं यामि समानेतुं बदर्याख्यं गृहान्द्विज
वृद्धं स्वकीय पितरं निस्पृहं मोक्षकामुकम् ॥ ९६ ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
इति तीर्थवरस्यास्य बदर्याख्यस्य भूपते
महिमानं समुत्कीर्त्य स सिद्धः स्वगृहं ययौ ॥ ९७ ॥

मूलम्

नारद उवाच-
इति तीर्थवरस्यास्य बदर्याख्यस्य भूपते
महिमानं समुत्कीर्त्य स सिद्धः स्वगृहं ययौ ॥ ९७ ॥

विश्वास-प्रस्तुतिः

अथ कालेन कियता स द्विजः सह भार्यया
तीर्थानपर्यटन्धीरः इन्द्रप्रस्थेभ्यगादहम् ॥ ९८ ॥

मूलम्

अथ कालेन कियता स द्विजः सह भार्यया
तीर्थानपर्यटन्धीरः इन्द्रप्रस्थेभ्यगादहम् ॥ ९८ ॥

विश्वास-प्रस्तुतिः

तेनैव वपुषा राजन्नीतवांस्तौ निजालयम्
ससिद्धोऽपि स्वपितरं गृहादानीय सत्वरः ॥ ९९ ॥

मूलम्

तेनैव वपुषा राजन्नीतवांस्तौ निजालयम्
ससिद्धोऽपि स्वपितरं गृहादानीय सत्वरः ॥ ९९ ॥

तत्रैव स्नापयामास तत्तीर्थे मोक्षकामुकम्
सोऽपि श्रीवासुदेवेन वृद्धः सिद्धपिता तदा १००
ततो नीतो निजगृहं वृन्दारकविवन्दितः
इन्द्रप्रस्थान्तरगतमिदं सद्बदर्याख्यमीशः स्नानाद्दद्यादखिलजनिता मानसेष्टं पदार्थम्
माहात्म्यं ते नृपनतिमते वर्णितं तस्य पूतं यच्छ्रुत्वा वै पतति न जनो मातृगर्भे कदाचित् १०१
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे कालिन्दीमाहात्म्ये बदरिकाश्रमवर्णनन्नाम षोडशाधिकद्विशततमोऽध्यायः२१६