२१५

सौभरिरुवाच-

विश्वास-प्रस्तुतिः

युधिष्ठिरेदमाकर्ण्य नारदस्य वचः शुभम्
शिबिरौशीनरो राजा विनीतस्तमुवाच ह ॥ १ ॥

मूलम्

युधिष्ठिरेदमाकर्ण्य नारदस्य वचः शुभम्
शिबिरौशीनरो राजा विनीतस्तमुवाच ह ॥ १ ॥

विश्वास-प्रस्तुतिः

शिबिरुवाच-
मुने मया तु माहात्म्यं श्रुतं मधुवनस्य वै
त्वन्मुखात्किन्तु सन्देहो ह्येकोस्ति मम मानसे ॥ २ ॥

मूलम्

शिबिरुवाच-
मुने मया तु माहात्म्यं श्रुतं मधुवनस्य वै
त्वन्मुखात्किन्तु सन्देहो ह्येकोस्ति मम मानसे ॥ २ ॥

विश्वास-प्रस्तुतिः

येन धर्मात्मना सर्वे तारिता निजबान्धवाः
जन्मद्वयकृता ह्यासीत्स कथं स्वैरिणीसुतः ॥ ३ ॥

मूलम्

येन धर्मात्मना सर्वे तारिता निजबान्धवाः
जन्मद्वयकृता ह्यासीत्स कथं स्वैरिणीसुतः ॥ ३ ॥

विश्वास-प्रस्तुतिः

एतदाचक्ष्व भगवन्सर्वस्वं वेत्सि तत्त्वतः
अतीतं वर्त्तमानं च भविष्यमपि नारद ॥ ४ ॥

मूलम्

एतदाचक्ष्व भगवन्सर्वस्वं वेत्सि तत्त्वतः
अतीतं वर्त्तमानं च भविष्यमपि नारद ॥ ४ ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
एकदा मुनयः सर्वे हरिद्वारे समागताः
दशम्यां ज्येष्ठशुक्लस्य युक्तायां सर्वपर्वभिः ॥ ५ ॥

मूलम्

नारद उवाच-
एकदा मुनयः सर्वे हरिद्वारे समागताः
दशम्यां ज्येष्ठशुक्लस्य युक्तायां सर्वपर्वभिः ॥ ५ ॥

विश्वास-प्रस्तुतिः

तत्र ते विधिवत्स्नात्वा कृत्वा च स्वक्रियां शुभाम्
हिमाचलस्य पृष्ठे तु स्वस्थचित्ता उपाविशन् ॥ ६ ॥

मूलम्

तत्र ते विधिवत्स्नात्वा कृत्वा च स्वक्रियां शुभाम्
हिमाचलस्य पृष्ठे तु स्वस्थचित्ता उपाविशन् ॥ ६ ॥

विश्वास-प्रस्तुतिः

तारात्मजो बुधस्तत्र मुनिसङ्गे समागतः
र्सौदर्यभरसंयुक्तः स्मरो मूर्त्त इवापरः ॥ ७ ॥

मूलम्

तारात्मजो बुधस्तत्र मुनिसङ्गे समागतः
र्सौदर्यभरसंयुक्तः स्मरो मूर्त्त इवापरः ॥ ७ ॥

विश्वास-प्रस्तुतिः

तं समागतमालोक्य समुत्तस्थुर्मुनीश्वराः
तेनाभिवन्दिता मूर्ध्ना पुनस्ते समुपाविशन् ॥ ८ ॥

मूलम्

तं समागतमालोक्य समुत्तस्थुर्मुनीश्वराः
तेनाभिवन्दिता मूर्ध्ना पुनस्ते समुपाविशन् ॥ ८ ॥

विश्वास-प्रस्तुतिः

बुधस्यादरमालोक्य विहितं मुनिपुङ्गवैः
मुनिपुत्रः स पप्रच्छ पितरं स्वमिति प्रभो ॥ ९ ॥

मूलम्

बुधस्यादरमालोक्य विहितं मुनिपुङ्गवैः
मुनिपुत्रः स पप्रच्छ पितरं स्वमिति प्रभो ॥ ९ ॥

विश्वास-प्रस्तुतिः

मुनिपुत्र उवाच-
कोऽयं तात समायातः सौन्दर्येणापरः स्मरः
व्यासादिभिर्मुनिवरैर्भृशं तस्यादरः कृतः ॥ १० ॥

मूलम्

मुनिपुत्र उवाच-
कोऽयं तात समायातः सौन्दर्येणापरः स्मरः
व्यासादिभिर्मुनिवरैर्भृशं तस्यादरः कृतः ॥ १० ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
इत्याकर्ण्य स धर्मात्मा स्वस्य पुत्रस्य भाषितम्
बभाषे मुनिशार्दूलः पुत्रं निर्बन्धसंयुतम् ॥ ११ ॥

मूलम्

नारद उवाच-
इत्याकर्ण्य स धर्मात्मा स्वस्य पुत्रस्य भाषितम्
बभाषे मुनिशार्दूलः पुत्रं निर्बन्धसंयुतम् ॥ ११ ॥

विश्वास-प्रस्तुतिः

पितोवाच-
बृहस्पतेः सुरगुरोः सुतस्तारोदरोदोद्भवः
बुद्धिमान्बुधनामायं शशिवंशकरः परः ॥ १२ ॥

मूलम्

पितोवाच-
बृहस्पतेः सुरगुरोः सुतस्तारोदरोदोद्भवः
बुद्धिमान्बुधनामायं शशिवंशकरः परः ॥ १२ ॥

विश्वास-प्रस्तुतिः

पुत्र उवाच-
किं त्वया कथितं तात निःसम्बन्धपरं वचः
बृहस्पतेः सुतो यस्तु स कथं शशिवंशकृत् ॥ १३ ॥

मूलम्

पुत्र उवाच-
किं त्वया कथितं तात निःसम्बन्धपरं वचः
बृहस्पतेः सुतो यस्तु स कथं शशिवंशकृत् ॥ १३ ॥

विश्वास-प्रस्तुतिः

जज्ञे न सूयया तात विधुरत्रेर्मुनीश्वरात्
तस्यवंशस्य कर्त्तायं कथं सुरगुरोः सुतः ॥ १४ ॥

मूलम्

जज्ञे न सूयया तात विधुरत्रेर्मुनीश्वरात्
तस्यवंशस्य कर्त्तायं कथं सुरगुरोः सुतः ॥ १४ ॥

विश्वास-प्रस्तुतिः

एष मे मानसे तात संशयो वर्तते महान्
तमपाकुरु विप्रेन्द्र सन्दिहानस्य मे शिशोः ॥ १५ ॥

मूलम्

एष मे मानसे तात संशयो वर्तते महान्
तमपाकुरु विप्रेन्द्र सन्दिहानस्य मे शिशोः ॥ १५ ॥

विश्वास-प्रस्तुतिः

पितोवाच-
पुरा बृहस्पतेर्भार्या तारानाम यशस्विनी
चन्द्रेणापहृता तात बलाद्बलवता तदा ॥ १६ ॥

मूलम्

पितोवाच-
पुरा बृहस्पतेर्भार्या तारानाम यशस्विनी
चन्द्रेणापहृता तात बलाद्बलवता तदा ॥ १६ ॥

विश्वास-प्रस्तुतिः

अपहृत्य तदा नीता स्वगृहं विधिना गुरोः
भार्या सा तु तया सार्द्धं रमितं तेन वै चिरम् ॥ १७ ॥

मूलम्

अपहृत्य तदा नीता स्वगृहं विधिना गुरोः
भार्या सा तु तया सार्द्धं रमितं तेन वै चिरम् ॥ १७ ॥

विश्वास-प्रस्तुतिः

तस्मागर्भोऽभवत्तात कालेन कियता तदा
ततो बृहस्पतिर्भार्या निजां तां समयाचत ॥ १८ ॥

मूलम्

तस्मागर्भोऽभवत्तात कालेन कियता तदा
ततो बृहस्पतिर्भार्या निजां तां समयाचत ॥ १८ ॥

विश्वास-प्रस्तुतिः

चन्द्रमापि मदाविष्टो न ददौ बलदर्पितः
ततो बृहस्पतिस्तात देवैः शक्रादिभिः सह ॥ १९ ॥

मूलम्

चन्द्रमापि मदाविष्टो न ददौ बलदर्पितः
ततो बृहस्पतिस्तात देवैः शक्रादिभिः सह ॥ १९ ॥

विश्वास-प्रस्तुतिः

सन्नद्धो योद्धुमारेभे समं बलवदिन्दुना
सहायार्थं विधोः शुक्रः समं दितिजदानवैः ॥ २० ॥

मूलम्

सन्नद्धो योद्धुमारेभे समं बलवदिन्दुना
सहायार्थं विधोः शुक्रः समं दितिजदानवैः ॥ २० ॥

विश्वास-प्रस्तुतिः

समागतस्तदा तात तस्मिन्रणसमुद्यमे
ततस्तारानिमित्तं वै युद्धं प्रावर्त्ततोल्बणम् ॥ २१ ॥

मूलम्

समागतस्तदा तात तस्मिन्रणसमुद्यमे
ततस्तारानिमित्तं वै युद्धं प्रावर्त्ततोल्बणम् ॥ २१ ॥

विश्वास-प्रस्तुतिः

करिष्यते सर्वजनैः प्रधानं तारकामयम्
तस्मिन्युद्धे महाभीमे हता देवाश्च दानवाः ॥ २२ ॥

मूलम्

करिष्यते सर्वजनैः प्रधानं तारकामयम्
तस्मिन्युद्धे महाभीमे हता देवाश्च दानवाः ॥ २२ ॥

विश्वास-प्रस्तुतिः

न कस्यचिज्जयस्तात बभूव न पराजयः
ततः समागतो ब्रह्मा सन्निवार्योल्बणं रणम् ॥ २३ ॥

मूलम्

न कस्यचिज्जयस्तात बभूव न पराजयः
ततः समागतो ब्रह्मा सन्निवार्योल्बणं रणम् ॥ २३ ॥

विश्वास-प्रस्तुतिः

ददौ बृहस्पतेस्तारां बोधयित्वा निशापतिम्
बृहस्पतिस्तु तां वीक्ष्य तारां गर्भवतीं तदा
क्रुद्धो विरिञ्चेः प्रत्यक्षं समाजे देवदैत्ययोः ॥ २४ ॥

मूलम्

ददौ बृहस्पतेस्तारां बोधयित्वा निशापतिम्
बृहस्पतिस्तु तां वीक्ष्य तारां गर्भवतीं तदा
क्रुद्धो विरिञ्चेः प्रत्यक्षं समाजे देवदैत्ययोः ॥ २४ ॥

विश्वास-प्रस्तुतिः

बृहस्पतिरुवाच-
शृणुष्व मामकं वाक्यं तारे तरललोचने
कस्यायं ध्रियते गर्भो भवतेन्दोर्ममाथवा ॥ २५ ॥

मूलम्

बृहस्पतिरुवाच-
शृणुष्व मामकं वाक्यं तारे तरललोचने
कस्यायं ध्रियते गर्भो भवतेन्दोर्ममाथवा ॥ २५ ॥

विश्वास-प्रस्तुतिः

पितोवाच-
एवं मुहुर्मुहुः पृष्टा सा च लज्जावती शुभा
यदा न कथयामास किञ्चित्तात तदग्रतः ॥ २६ ॥

मूलम्

पितोवाच-
एवं मुहुर्मुहुः पृष्टा सा च लज्जावती शुभा
यदा न कथयामास किञ्चित्तात तदग्रतः ॥ २६ ॥

विश्वास-प्रस्तुतिः

तदायं पश्यतां तेषां देवानां च सुरद्विषाम्
उत्पन्नस्तामुवाचेदं जननीं च रुषान्वितः ॥ २७ ॥

मूलम्

तदायं पश्यतां तेषां देवानां च सुरद्विषाम्
उत्पन्नस्तामुवाचेदं जननीं च रुषान्वितः ॥ २७ ॥

विश्वास-प्रस्तुतिः

बुध उवाच-
कस्मान्न कथ्यते दुष्टे मदीयो जनकस्त्वया
लज्जां विहाय सम्पश्य शापस्य मम वैभवम् ॥ २८ ॥

मूलम्

बुध उवाच-
कस्मान्न कथ्यते दुष्टे मदीयो जनकस्त्वया
लज्जां विहाय सम्पश्य शापस्य मम वैभवम् ॥ २८ ॥

विश्वास-प्रस्तुतिः

पितोवाच-
इत्युक्त्वा जलमादाय यदा शप्तुं समुद्यतः
तदा सा मन्दमाहेदं पिता तव सुधाकरः ॥ २९ ॥

मूलम्

पितोवाच-
इत्युक्त्वा जलमादाय यदा शप्तुं समुद्यतः
तदा सा मन्दमाहेदं पिता तव सुधाकरः ॥ २९ ॥

विश्वास-प्रस्तुतिः

इत्युक्ते च तया साध्व्या चन्द्र स्वःतनयं बुधम्
अमुं गृहीत्वा सानन्दं जगाम निजमन्दिरम् ॥ ३० ॥

मूलम्

इत्युक्ते च तया साध्व्या चन्द्र स्वःतनयं बुधम्
अमुं गृहीत्वा सानन्दं जगाम निजमन्दिरम् ॥ ३० ॥

विश्वास-प्रस्तुतिः

बृहस्पतिस्तु तां तारां गृहीत्वा स्वगृहं ययौ
ब्रह्मा देवाश्च दैत्याश्च तेपि स्वं स्वं गृहं ययुः ॥ ३१ ॥

मूलम्

बृहस्पतिस्तु तां तारां गृहीत्वा स्वगृहं ययौ
ब्रह्मा देवाश्च दैत्याश्च तेपि स्वं स्वं गृहं ययुः ॥ ३१ ॥

विश्वास-प्रस्तुतिः

एतत्ते सर्वमाख्यातं यस्त्वं मां परिपृष्टवान्
बृहस्पतिस्त्रियां जातो यथायं चन्द्रवंशकृत् ॥ ३२ ॥

मूलम्

एतत्ते सर्वमाख्यातं यस्त्वं मां परिपृष्टवान्
बृहस्पतिस्त्रियां जातो यथायं चन्द्रवंशकृत् ॥ ३२ ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
इत्याकर्ण्य पितुर्वाक्यं जहासोच्चैर्मुनेः सुतः
उवाच च स्वपितरं कुण्डोऽयं स्वैरिणीसुतः ॥ ३३ ॥

मूलम्

नारद उवाच-
इत्याकर्ण्य पितुर्वाक्यं जहासोच्चैर्मुनेः सुतः
उवाच च स्वपितरं कुण्डोऽयं स्वैरिणीसुतः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

उवाच च पिता पुत्रं हा पुत्रेदं न भण्यताम्
सर्वसत्वान्तरज्ञोऽयं शप्स्यते त्वां त्वदुक्तवित् ॥ ३४ ॥

मूलम्

उवाच च पिता पुत्रं हा पुत्रेदं न भण्यताम्
सर्वसत्वान्तरज्ञोऽयं शप्स्यते त्वां त्वदुक्तवित् ॥ ३४ ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
इत्युक्ते तेन मुनिना चान्द्रिर्ज्ञात्वा तदीरितम्
सर्वेषां शृण्वतां प्राह मुनीनामिति भूपते ॥ ३५ ॥

मूलम्

नारद उवाच-
इत्युक्ते तेन मुनिना चान्द्रिर्ज्ञात्वा तदीरितम्
सर्वेषां शृण्वतां प्राह मुनीनामिति भूपते ॥ ३५ ॥

विश्वास-प्रस्तुतिः

बुध उवाच-
शृण्वन्तु मुनिशार्दूला भवन्तो मम भाषितम्
यदि साध्वथवा साधु विचारयत मा चिरम् ॥ ३६ ॥

मूलम्

बुध उवाच-
शृण्वन्तु मुनिशार्दूला भवन्तो मम भाषितम्
यदि साध्वथवा साधु विचारयत मा चिरम् ॥ ३६ ॥

विश्वास-प्रस्तुतिः

भवतां तत्वबुद्धीनां दर्शनार्थमिहागतः
कृतवान्कस्यचिन्नाहमपराधं मनागपि ॥ ३७ ॥

मूलम्

भवतां तत्वबुद्धीनां दर्शनार्थमिहागतः
कृतवान्कस्यचिन्नाहमपराधं मनागपि ॥ ३७ ॥

विश्वास-प्रस्तुतिः

असूयया किमर्थं मामवजानन्ति दुर्मदाः
स्वजन्मसफलत्वाय भवद्दर्शनलालसः ॥ ३८ ॥

मूलम्

असूयया किमर्थं मामवजानन्ति दुर्मदाः
स्वजन्मसफलत्वाय भवद्दर्शनलालसः ॥ ३८ ॥

विश्वास-प्रस्तुतिः

स्वभाव एव दुष्टानां साधूनपि निरेनसः
उद्वेजयन्ति यत्क्वापि मिष्टवाचः पिका इव ॥ ३९ ॥

मूलम्

स्वभाव एव दुष्टानां साधूनपि निरेनसः
उद्वेजयन्ति यत्क्वापि मिष्टवाचः पिका इव ॥ ३९ ॥

विश्वास-प्रस्तुतिः

दुःस्वभावं न मुञ्चन्ति दुष्टाः सत्सङ्गमादपि
गङ्गाबुसङ्गमेनापि क्षारतामिव नीरधिः ॥ ४० ॥

मूलम्

दुःस्वभावं न मुञ्चन्ति दुष्टाः सत्सङ्गमादपि
गङ्गाबुसङ्गमेनापि क्षारतामिव नीरधिः ॥ ४० ॥

विश्वास-प्रस्तुतिः

अहो व्याधस्य दुष्टत्वं मुनिवृत्तीन्यतो मृगान्
वने मृगचरान्हन्ति निजगानविदोऽपि सः ॥ ४१ ॥

मूलम्

अहो व्याधस्य दुष्टत्वं मुनिवृत्तीन्यतो मृगान्
वने मृगचरान्हन्ति निजगानविदोऽपि सः ॥ ४१ ॥

विश्वास-प्रस्तुतिः

मत्स्यैः किमपराद्धं हि धीवराणां दुरात्मनाम्
यज्जले चरतस्तीर्थे घ्नन्ति तत्प्रकृतिर्हि सा ॥ ४२ ॥

मूलम्

मत्स्यैः किमपराद्धं हि धीवराणां दुरात्मनाम्
यज्जले चरतस्तीर्थे घ्नन्ति तत्प्रकृतिर्हि सा ॥ ४२ ॥

विश्वास-प्रस्तुतिः

साधवोऽपि न मुञ्चन्ति स्वभावं दुष्टसङ्गताः
वृता विषाग्नियुक्सर्पैः श्रीखण्डा इव शीतताम् ॥ ४३ ॥

मूलम्

साधवोऽपि न मुञ्चन्ति स्वभावं दुष्टसङ्गताः
वृता विषाग्नियुक्सर्पैः श्रीखण्डा इव शीतताम् ॥ ४३ ॥

विश्वास-प्रस्तुतिः

परोदयेपि नृत्यन्ति किं स्वपक्षस्य साधवः
यथोन्मना मुनिवरा वारिवाहस्य बर्हिणः ॥ ४४ ॥

मूलम्

परोदयेपि नृत्यन्ति किं स्वपक्षस्य साधवः
यथोन्मना मुनिवरा वारिवाहस्य बर्हिणः ॥ ४४ ॥

विश्वास-प्रस्तुतिः

धारयन्ति परार्थे हि निजाङ्गमपि साधवः
पितृदेवमनुष्याणामर्थे मत्पितृवत्कलाः ॥ ४५ ॥

मूलम्

धारयन्ति परार्थे हि निजाङ्गमपि साधवः
पितृदेवमनुष्याणामर्थे मत्पितृवत्कलाः ॥ ४५ ॥

विश्वास-प्रस्तुतिः

निजोदयस्तु साधूनां स्वच्छस्यानन्दहेतवः
यथा कुमुदपुष्पाणां मत्पितुः शीतलत्विषः ॥ ४६ ॥

मूलम्

निजोदयस्तु साधूनां स्वच्छस्यानन्दहेतवः
यथा कुमुदपुष्पाणां मत्पितुः शीतलत्विषः ॥ ४६ ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
इत्युदीर्य वचः क्रोधाद्बुधस्तं मुनिबालकम्
शशापेति त्वमप्याशु कुण्डो भव महीतले ॥ ४७ ॥

मूलम्

नारद उवाच-
इत्युदीर्य वचः क्रोधाद्बुधस्तं मुनिबालकम्
शशापेति त्वमप्याशु कुण्डो भव महीतले ॥ ४७ ॥

विश्वास-प्रस्तुतिः

एवमाकर्ण्य तं शापं पिता बुधविसर्जितम्
स्वपुत्रं पातयामास तदङ्घ्र्योः क्षम्यतामिति ॥ ४८ ॥

मूलम्

एवमाकर्ण्य तं शापं पिता बुधविसर्जितम्
स्वपुत्रं पातयामास तदङ्घ्र्योः क्षम्यतामिति ॥ ४८ ॥

विश्वास-प्रस्तुतिः

उवाच च न जानाति बालोऽयं तव वैभवम्
नोचितं क्रोधकरणमस्मिन्बाले भवादृशैः ॥ ४९ ॥

मूलम्

उवाच च न जानाति बालोऽयं तव वैभवम्
नोचितं क्रोधकरणमस्मिन्बाले भवादृशैः ॥ ४९ ॥

विश्वास-प्रस्तुतिः

कुतश्चित्कारणात्साधोः क्रुद्धस्य प्रकृतिक्षमा
हुताशनप्रतप्तस्य शीतत्वमिव चाम्बुनः ॥ ५० ॥

मूलम्

कुतश्चित्कारणात्साधोः क्रुद्धस्य प्रकृतिक्षमा
हुताशनप्रतप्तस्य शीतत्वमिव चाम्बुनः ॥ ५० ॥

विश्वास-प्रस्तुतिः

अतः क्षमां विधायाशु विधेह्यस्मिन्ननुग्रहम्
बाले विवेकरहिते क्षमासारा हि साधवः ॥ ५१ ॥

मूलम्

अतः क्षमां विधायाशु विधेह्यस्मिन्ननुग्रहम्
बाले विवेकरहिते क्षमासारा हि साधवः ॥ ५१ ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
इत्युक्तस्तेन मुनिना शीतांशुतनयस्तदा
क्रोधं तत्याज शान्तात्मा चक्रे तस्मिन्ननुग्रहम् ॥ ५२ ॥

मूलम्

नारद उवाच-
इत्युक्तस्तेन मुनिना शीतांशुतनयस्तदा
क्रोधं तत्याज शान्तात्मा चक्रे तस्मिन्ननुग्रहम् ॥ ५२ ॥

विश्वास-प्रस्तुतिः

बुध उवाच-
अयं तव मुने बालः कुण्डत्वं प्राप्य भूतले
दत्तयज्ञोपवीतः सँल्लप्स्यसे हि निजास्पदम् ॥ ५३ ॥

मूलम्

बुध उवाच-
अयं तव मुने बालः कुण्डत्वं प्राप्य भूतले
दत्तयज्ञोपवीतः सँल्लप्स्यसे हि निजास्पदम् ॥ ५३ ॥

विश्वास-प्रस्तुतिः

एवं स मुनिपुत्रो वै बुधशापान्नृपोत्तम
कुण्डत्वं प्राप्तवान्भूमौ पितरो येन तारिताः ॥ ५४ ॥

मूलम्

एवं स मुनिपुत्रो वै बुधशापान्नृपोत्तम
कुण्डत्वं प्राप्तवान्भूमौ पितरो येन तारिताः ॥ ५४ ॥

विश्वास-प्रस्तुतिः

इदं पवित्रं माहात्म्यं श्रुत्वा मधुवनस्य वै
समस्तमश्वमेधस्य फलं प्राप्नोति मानवः ॥ ५५ ॥

मूलम्

इदं पवित्रं माहात्म्यं श्रुत्वा मधुवनस्य वै
समस्तमश्वमेधस्य फलं प्राप्नोति मानवः ॥ ५५ ॥

विश्वास-प्रस्तुतिः

ये नरा धारयन्त्यस्य माहात्म्यस्यार्थमुत्तमम्
हृदये यत्र तत्तेषां विषयैर्नाभिभूयते ॥ ५६ ॥

मूलम्

ये नरा धारयन्त्यस्य माहात्म्यस्यार्थमुत्तमम्
हृदये यत्र तत्तेषां विषयैर्नाभिभूयते ॥ ५६ ॥

विश्वास-प्रस्तुतिः

ये पठिष्यन्ति माहात्म्यं श्रोष्यन्ति च महाधियः
देहान्ते विष्णुसालोक्यं गमिष्यन्ति न संशयः ॥ ५७ ॥

मूलम्

ये पठिष्यन्ति माहात्म्यं श्रोष्यन्ति च महाधियः
देहान्ते विष्णुसालोक्यं गमिष्यन्ति न संशयः ॥ ५७ ॥

विश्वास-प्रस्तुतिः

इदमनिशपवित्रं तुभ्यमावर्णितं मे मधुवनसुचरित्रं श्रीपतेः प्रीतिकारि
कलिकलुषकलापच्छेदने दक्षमक्षोत्पथगमननिरासे कारणं पुण्यमूर्तौ ॥ ५८ ॥

मूलम्

इदमनिशपवित्रं तुभ्यमावर्णितं मे मधुवनसुचरित्रं श्रीपतेः प्रीतिकारि
कलिकलुषकलापच्छेदने दक्षमक्षोत्पथगमननिरासे कारणं पुण्यमूर्तौ ॥ ५८ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे कालिन्दीमाहात्म्ये मधुवनवर्णनोनाम पञ्चदशाधिकद्विशततमोऽध्यायः २१५