२१४

नारद उवाच-

विश्वास-प्रस्तुतिः

इत्याकर्ण्य पितुर्वाक्यं स जगाम त्वरान्वितः
पुण्यं मधुवनं राजन्गयाशतगुणाधिकम् ॥ १ ॥

मूलम्

इत्याकर्ण्य पितुर्वाक्यं स जगाम त्वरान्वितः
पुण्यं मधुवनं राजन्गयाशतगुणाधिकम् ॥ १ ॥

विश्वास-प्रस्तुतिः

तत्तीर्थवासिनो विप्रान्सायमामन्त्र्य मन्त्रवित्
काले पुनः समाहूय बभाषे स्वागतं वचः ॥ २ ॥

मूलम्

तत्तीर्थवासिनो विप्रान्सायमामन्त्र्य मन्त्रवित्
काले पुनः समाहूय बभाषे स्वागतं वचः ॥ २ ॥

विश्वास-प्रस्तुतिः

ततः प्रक्षाल्य तत्पादौ गन्धाद्यैरभिपूज्य च
पादार्घ्यमददात्प्रीत्या समेन स्वयमाचमत् ॥ ३ ॥

मूलम्

ततः प्रक्षाल्य तत्पादौ गन्धाद्यैरभिपूज्य च
पादार्घ्यमददात्प्रीत्या समेन स्वयमाचमत् ॥ ३ ॥

विश्वास-प्रस्तुतिः

ततस्तान्ब्राह्मणान्नीत्वा श्राद्धदेशे न्यवेशयत्
कुशाम्बु तुलसीपुष्प गन्धाक्षत तिलैः सह ॥ ४ ॥

मूलम्

ततस्तान्ब्राह्मणान्नीत्वा श्राद्धदेशे न्यवेशयत्
कुशाम्बु तुलसीपुष्प गन्धाक्षत तिलैः सह ॥ ४ ॥

विश्वास-प्रस्तुतिः

पूरयित्वा कर्मपात्रं पुण्डरीकाक्षमस्मरत्
देवताभ्य इति श्लोकं त्रिःकृत्वा सोऽपठद्द्विजः ॥ ५ ॥

मूलम्

पूरयित्वा कर्मपात्रं पुण्डरीकाक्षमस्मरत्
देवताभ्य इति श्लोकं त्रिःकृत्वा सोऽपठद्द्विजः ॥ ५ ॥

विश्वास-प्रस्तुतिः

सतिलं शोधितकुशैर्विदधे बन्धनं ततः
अग्निष्वात्तेति मन्त्रेण पूर्वादीनां दिशां क्रमात् ॥ ६ ॥

मूलम्

सतिलं शोधितकुशैर्विदधे बन्धनं ततः
अग्निष्वात्तेति मन्त्रेण पूर्वादीनां दिशां क्रमात् ॥ ६ ॥

विश्वास-प्रस्तुतिः

रक्षोभूतेति मन्त्रेण नीवीबन्धं व्यधाच्च सः
ततः प्रतिज्ञामाधाय ददौ द्विजकुशासनम् ॥ ७ ॥

मूलम्

रक्षोभूतेति मन्त्रेण नीवीबन्धं व्यधाच्च सः
ततः प्रतिज्ञामाधाय ददौ द्विजकुशासनम् ॥ ७ ॥

विश्वास-प्रस्तुतिः

पितॄन्समाह्वयामास स तदा ब्राह्मणोत्तमः
दत्त्वा ततस्तु हस्तार्घ्यं पात्रं न्युब्जीचकार वै ॥ ८ ॥

मूलम्

पितॄन्समाह्वयामास स तदा ब्राह्मणोत्तमः
दत्त्वा ततस्तु हस्तार्घ्यं पात्रं न्युब्जीचकार वै ॥ ८ ॥

विश्वास-प्रस्तुतिः

कृत्वा गन्धादिदानं च पुनः सव्येन चाचमत्
सव्यापसव्येन तदा दत्वा पात्राणि स द्विजः ॥ ९ ॥

मूलम्

कृत्वा गन्धादिदानं च पुनः सव्येन चाचमत्
सव्यापसव्येन तदा दत्वा पात्राणि स द्विजः ॥ ९ ॥

विश्वास-प्रस्तुतिः

तैर्ब्राह्मणैरनुज्ञातश्चक्रेऽग्नौकरणं ततः
आज्यादिहविषा राजंस्तान्यमत्राण्यपूरयत् ॥ १० ॥

मूलम्

तैर्ब्राह्मणैरनुज्ञातश्चक्रेऽग्नौकरणं ततः
आज्यादिहविषा राजंस्तान्यमत्राण्यपूरयत् ॥ १० ॥

विश्वास-प्रस्तुतिः

अनुत्तानोत्तानपाणिः कुर्वन्पात्रावलम्बनम्
पपाठ पाठितो विप्रैः पृथ्वी त्वेति द्विजन्मनाम् ॥ ११ ॥

मूलम्

अनुत्तानोत्तानपाणिः कुर्वन्पात्रावलम्बनम्
पपाठ पाठितो विप्रैः पृथ्वी त्वेति द्विजन्मनाम् ॥ ११ ॥

विश्वास-प्रस्तुतिः

असंस्कृतप्रणीतानामिति मन्त्रेण स द्विजः
दर्भेषु दक्षिणाग्रेषु ददौ च विकिरासनम् ॥ १२ ॥

मूलम्

असंस्कृतप्रणीतानामिति मन्त्रेण स द्विजः
दर्भेषु दक्षिणाग्रेषु ददौ च विकिरासनम् ॥ १२ ॥

विश्वास-प्रस्तुतिः

अग्निदग्धेति मन्त्रेण घृतमिश्रान्नमक्षिपत्
जलेन सह राजेन्द्र विष्टरे कुशकल्पिते ॥ १३ ॥

मूलम्

अग्निदग्धेति मन्त्रेण घृतमिश्रान्नमक्षिपत्
जलेन सह राजेन्द्र विष्टरे कुशकल्पिते ॥ १३ ॥

विश्वास-प्रस्तुतिः

सव्येन पुनराचम्य ददौ चुलकजीवनम्
तृप्ताः स्थेति च सम्पृच्छ्यातृप्तास्म प्रतिभाषिताः ॥ १४ ॥

मूलम्

सव्येन पुनराचम्य ददौ चुलकजीवनम्
तृप्ताः स्थेति च सम्पृच्छ्यातृप्तास्म प्रतिभाषिताः ॥ १४ ॥

विश्वास-प्रस्तुतिः

शेषान्नभोजने तेषां जग्राहाज्ञां द्विजन्मनाम्
पिण्डार्थं वेदिकां कृत्वा वितस्तिप्रमितां द्विजः ॥ १५ ॥

मूलम्

शेषान्नभोजने तेषां जग्राहाज्ञां द्विजन्मनाम्
पिण्डार्थं वेदिकां कृत्वा वितस्तिप्रमितां द्विजः ॥ १५ ॥

विश्वास-प्रस्तुतिः

रेखां चकार दर्भेण दक्षिणाभिमुखीं नृप
ये रूपाणीति मन्त्रेण दधेऽग्निदिशि चोल्मुकम् ॥ १६ ॥

मूलम्

रेखां चकार दर्भेण दक्षिणाभिमुखीं नृप
ये रूपाणीति मन्त्रेण दधेऽग्निदिशि चोल्मुकम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

पूर्वजन्मनि या माता पिता यश्च महीपते
तयोश्च पितरौ यौ हि यौ च राजन् पितामहौ ॥ १७ ॥

मूलम्

पूर्वजन्मनि या माता पिता यश्च महीपते
तयोश्च पितरौ यौ हि यौ च राजन् पितामहौ ॥ १७ ॥

विश्वास-प्रस्तुतिः

यः प्रमातामहश्चापि पितरौ राजसत्तम
पित्रादीन्षट्सपत्नीकांस्तानुद्दिश्य यथाविधि ॥ १८ ॥

मूलम्

यः प्रमातामहश्चापि पितरौ राजसत्तम
पित्रादीन्षट्सपत्नीकांस्तानुद्दिश्य यथाविधि ॥ १८ ॥

विश्वास-प्रस्तुतिः

कुशासनानि दत्त्वा वै ददौ पिण्डान्षडैव हि
गन्धादिभिश्च सम्पूज्य मध्यपिण्डविसर्जनम् ॥ १९ ॥

मूलम्

कुशासनानि दत्त्वा वै ददौ पिण्डान्षडैव हि
गन्धादिभिश्च सम्पूज्य मध्यपिण्डविसर्जनम् ॥ १९ ॥

विश्वास-प्रस्तुतिः

कृत्वाघ्राय च वामांसे पिण्डपात्रं न्यवेशयेत्
जलपात्रं तदादाय वाजेवाजे पठन्निति ॥ २० ॥

मूलम्

कृत्वाघ्राय च वामांसे पिण्डपात्रं न्यवेशयेत्
जलपात्रं तदादाय वाजेवाजे पठन्निति ॥ २० ॥

विश्वास-प्रस्तुतिः

पाद्यार्घं च पुनर्दत्त्वा दक्षिणाद्यैरतूतुषत्
आद्वारं ताननुव्रज्य तेभ्यो लब्ध्वानुशासनम् ॥ २१ ॥

मूलम्

पाद्यार्घं च पुनर्दत्त्वा दक्षिणाद्यैरतूतुषत्
आद्वारं ताननुव्रज्य तेभ्यो लब्ध्वानुशासनम् ॥ २१ ॥

विश्वास-प्रस्तुतिः

बुभुजे च स्वयं राजन्बान्धवैः सह स द्विजः
एवं समाप्य राजेन्द्र श्राद्धं स द्विजसत्तमः ॥ २२ ॥

मूलम्

बुभुजे च स्वयं राजन्बान्धवैः सह स द्विजः
एवं समाप्य राजेन्द्र श्राद्धं स द्विजसत्तमः ॥ २२ ॥

विश्वास-प्रस्तुतिः

पूर्वसबन्धिनां तत्र तीर्थे मधुवने शुभे
यदा चचाल शान्तात्मा पितुराश्रमकं प्रति ॥ २३ ॥

मूलम्

पूर्वसबन्धिनां तत्र तीर्थे मधुवने शुभे
यदा चचाल शान्तात्मा पितुराश्रमकं प्रति ॥ २३ ॥

विश्वास-प्रस्तुतिः

तदा सम्मिलिता मार्गे सर्वे ते श्राद्धभोजिनः
विमानषट्कमारूढा दिव्याभरणभूषिताः
दिव्याम्बरधरा राजन्नित्यूचुस्तं द्विजोत्तमम् ॥ २४ ॥

मूलम्

तदा सम्मिलिता मार्गे सर्वे ते श्राद्धभोजिनः
विमानषट्कमारूढा दिव्याभरणभूषिताः
दिव्याम्बरधरा राजन्नित्यूचुस्तं द्विजोत्तमम् ॥ २४ ॥

विश्वास-प्रस्तुतिः

पितर ऊचुः -
भो वत्स विप्रशार्दूल वृणीष्व वरमुत्तमम्
तीर्थेऽत्र कुर्वता श्राद्धं भवता तारिता वयम् ॥ २५ ॥

मूलम्

पितर ऊचुः -
भो वत्स विप्रशार्दूल वृणीष्व वरमुत्तमम्
तीर्थेऽत्र कुर्वता श्राद्धं भवता तारिता वयम् ॥ २५ ॥

विश्वास-प्रस्तुतिः

वयं गणत्वमापन्नाः श्रीपतेस्त्वत्प्रसादतः
प्रार्थयस्व महाबुद्धे यदिष्टं तव चेतसि ॥ २६ ॥

मूलम्

वयं गणत्वमापन्नाः श्रीपतेस्त्वत्प्रसादतः
प्रार्थयस्व महाबुद्धे यदिष्टं तव चेतसि ॥ २६ ॥

विश्वास-प्रस्तुतिः

मुनिपुत्र उवाच-
के यूयं कुत आयाता गणत्वं हि कुतो गताः
उपकारं विना कस्माद्वरं यन्मे प्रयच्छत ॥ २७ ॥

मूलम्

मुनिपुत्र उवाच-
के यूयं कुत आयाता गणत्वं हि कुतो गताः
उपकारं विना कस्माद्वरं यन्मे प्रयच्छत ॥ २७ ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
इत्याकर्ण्यवचस्तस्य पूर्वजन्मसुतस्य वै
पिता प्रोवाच यो दुःखाद्भक्षयित्वा विषं मृतः ॥ २८ ॥

मूलम्

नारद उवाच-
इत्याकर्ण्यवचस्तस्य पूर्वजन्मसुतस्य वै
पिता प्रोवाच यो दुःखाद्भक्षयित्वा विषं मृतः ॥ २८ ॥

विश्वास-प्रस्तुतिः

पितोवाच -
अहं तव पिता विप्र पूर्वजन्मनि भूसुरः
भार्यया व्यभिचारिण्या मात्रा ते पीडिता भृशम् ॥ २९ ॥

मूलम्

पितोवाच -
अहं तव पिता विप्र पूर्वजन्मनि भूसुरः
भार्यया व्यभिचारिण्या मात्रा ते पीडिता भृशम् ॥ २९ ॥

विश्वास-प्रस्तुतिः

अतीवदुःखमापन्नो भक्षयित्वा विषं निशि
अपमृत्युं गतस्तस्मादभवं रजनीचरः ॥ ३० ॥

मूलम्

अतीवदुःखमापन्नो भक्षयित्वा विषं निशि
अपमृत्युं गतस्तस्मादभवं रजनीचरः ॥ ३० ॥

विश्वास-प्रस्तुतिः

एवं मन्वतरं तात शतं पञ्चदशाधिकम्
वर्षाणां च व्यतीतं तद्राक्षसत्वं गते मयि ॥ ३१ ॥

मूलम्

एवं मन्वतरं तात शतं पञ्चदशाधिकम्
वर्षाणां च व्यतीतं तद्राक्षसत्वं गते मयि ॥ ३१ ॥

विश्वास-प्रस्तुतिः

इदानीं षोडशाब्दे तु त्वया श्राद्धे कृतेऽत्र वै
पुण्ये मधुवने तीर्थे देवत्वं प्राप्तवानहम् ॥ ३२ ॥

मूलम्

इदानीं षोडशाब्दे तु त्वया श्राद्धे कृतेऽत्र वै
पुण्ये मधुवने तीर्थे देवत्वं प्राप्तवानहम् ॥ ३२ ॥

विश्वास-प्रस्तुतिः

एतद्विमानमायान्तं स्वर्गादिन्द्रप्रणोदितम्
सगणं साप्सरोवृन्दं ममारोहणहेतवे ॥ ३३ ॥

मूलम्

एतद्विमानमायान्तं स्वर्गादिन्द्रप्रणोदितम्
सगणं साप्सरोवृन्दं ममारोहणहेतवे ॥ ३३ ॥

विश्वास-प्रस्तुतिः

अत्र तुभ्यं वरं दातुं सगणः साप्सरोगणः
विमानवरमारुह्य गच्छन्स्वर्गेऽहमागमम् ॥ ३४ ॥

मूलम्

अत्र तुभ्यं वरं दातुं सगणः साप्सरोगणः
विमानवरमारुह्य गच्छन्स्वर्गेऽहमागमम् ॥ ३४ ॥

विश्वास-प्रस्तुतिः

वरं वरय भद्रं ते न विलम्बसहा वयम्
ऐरावतगजारूढः सुरेशो मामवेक्षते ॥ ३५ ॥

मूलम्

वरं वरय भद्रं ते न विलम्बसहा वयम्
ऐरावतगजारूढः सुरेशो मामवेक्षते ॥ ३५ ॥

विश्वास-प्रस्तुतिः

नारद उवाच
इत्युक्त्वा निजवृत्तान्तं दत्त्वा च निजसूनवे
तत्प्रार्थितां हरेर्भक्तिं जगाम स दिवं नृप ॥ ३६ ॥

मूलम्

नारद उवाच
इत्युक्त्वा निजवृत्तान्तं दत्त्वा च निजसूनवे
तत्प्रार्थितां हरेर्भक्तिं जगाम स दिवं नृप ॥ ३६ ॥

विश्वास-प्रस्तुतिः

अथ प्रोवाच तन्माता पूर्वजन्मसुतं च तम्
मातोवाच-
त्वत्प्रसादादहं जाता देवी मुक्ता च पापतः ॥ ३७ ॥

मूलम्

अथ प्रोवाच तन्माता पूर्वजन्मसुतं च तम्
मातोवाच-
त्वत्प्रसादादहं जाता देवी मुक्ता च पापतः ॥ ३७ ॥

विश्वास-प्रस्तुतिः

प्राप्तं शच्याः सखीत्वं मे पापयापि द्विजोत्तम
त्वयात्र विहिते श्राद्धे तीर्थे विश्रान्तिसञ्ज्ञके ॥ ३८ ॥

मूलम्

प्राप्तं शच्याः सखीत्वं मे पापयापि द्विजोत्तम
त्वयात्र विहिते श्राद्धे तीर्थे विश्रान्तिसञ्ज्ञके ॥ ३८ ॥

विश्वास-प्रस्तुतिः

प्रार्थयस्व महाभाग निजचित्तसमीहितम्
ददामि ते यतोऽस्माकं देवीनां न वचो मृषा ॥ ३९ ॥

मूलम्

प्रार्थयस्व महाभाग निजचित्तसमीहितम्
ददामि ते यतोऽस्माकं देवीनां न वचो मृषा ॥ ३९ ॥

विश्वास-प्रस्तुतिः

येन पापेन जाताहं गोधा च पितृकानने
नरके चिरमास्थाय तत्त्वं वेत्सि द्विजोत्तम ॥ ४० ॥

मूलम्

येन पापेन जाताहं गोधा च पितृकानने
नरके चिरमास्थाय तत्त्वं वेत्सि द्विजोत्तम ॥ ४० ॥

विश्वास-प्रस्तुतिः

अनुजानीहि मां पुत्र पुलोमतनया दिवि
मामपेक्षितमाकाशे वृता देवाङ्गनागणैः ॥ ४१ ॥

मूलम्

अनुजानीहि मां पुत्र पुलोमतनया दिवि
मामपेक्षितमाकाशे वृता देवाङ्गनागणैः ॥ ४१ ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
इत्युक्त्वा सापि तन्माता निष्कामाय स्वसूनवे
ययौ त्रिविष्टपं राजन्शिरसा तेन वन्दिता ॥ ४२ ॥

मूलम्

नारद उवाच-
इत्युक्त्वा सापि तन्माता निष्कामाय स्वसूनवे
ययौ त्रिविष्टपं राजन्शिरसा तेन वन्दिता ॥ ४२ ॥

विश्वास-प्रस्तुतिः

ततः पितामहस्तस्य स्वपौत्रं तं द्विजोत्तमम्
उवाच वचनं भूयः हरेर्बिभ्रत्स्वरूपताम् ॥ ४३ ॥

मूलम्

ततः पितामहस्तस्य स्वपौत्रं तं द्विजोत्तमम्
उवाच वचनं भूयः हरेर्बिभ्रत्स्वरूपताम् ॥ ४३ ॥

विश्वास-प्रस्तुतिः

पितामह उवाच-
वत्सवत्स चिरञ्जीव लभस्व निजवाञ्च्छितम्
त्वत्प्रसादाद्वयं तीर्णा दुस्तराद्भवसागरात् ॥ ४४ ॥

मूलम्

पितामह उवाच-
वत्सवत्स चिरञ्जीव लभस्व निजवाञ्च्छितम्
त्वत्प्रसादाद्वयं तीर्णा दुस्तराद्भवसागरात् ॥ ४४ ॥

विश्वास-प्रस्तुतिः

पितामहोऽहं ते वत्स तवेयं च पितामही
मृतं मानुगता साध्वी सालोक्यमचिरं गता ॥ ४५ ॥

मूलम्

पितामहोऽहं ते वत्स तवेयं च पितामही
मृतं मानुगता साध्वी सालोक्यमचिरं गता ॥ ४५ ॥

विश्वास-प्रस्तुतिः

अद्य त्वयात्र विश्रान्तौ विहिते श्राद्धकर्मणि
आवयोस्तु हरेर्लोके लब्धा तस्य स्वरूपता ॥ ४६ ॥

मूलम्

अद्य त्वयात्र विश्रान्तौ विहिते श्राद्धकर्मणि
आवयोस्तु हरेर्लोके लब्धा तस्य स्वरूपता ॥ ४६ ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
एवमुक्त्वा तया सार्द्धं स्वस्त्रिया भूपसत्तम
ब्रह्मलोकमतिक्रम्य वैकुण्ठं स ययौ द्विजः ॥ ४७ ॥

मूलम्

नारद उवाच-
एवमुक्त्वा तया सार्द्धं स्वस्त्रिया भूपसत्तम
ब्रह्मलोकमतिक्रम्य वैकुण्ठं स ययौ द्विजः ॥ ४७ ॥

विश्वास-प्रस्तुतिः

अथ प्रोवाच राजेन्द्र वचस्तत्प्रपितामहः
यत्ते तत्कथयाम्यद्य शृणुष्वैकमना द्विज ॥ ४८ ॥

मूलम्

अथ प्रोवाच राजेन्द्र वचस्तत्प्रपितामहः
यत्ते तत्कथयाम्यद्य शृणुष्वैकमना द्विज ॥ ४८ ॥

विश्वास-प्रस्तुतिः

प्रपितामह उवाच-
भोभो वत्स महाभाग तवाहं प्रपितामहः
भ्रूणहत्याफलेनाहं शौकरीं योनिमाप्तवान् ॥ ४९ ॥

मूलम्

प्रपितामह उवाच-
भोभो वत्स महाभाग तवाहं प्रपितामहः
भ्रूणहत्याफलेनाहं शौकरीं योनिमाप्तवान् ॥ ४९ ॥

विश्वास-प्रस्तुतिः

ततो विनिर्गतस्तात श्वाभवं पापपीडितः
ततः स्थावरतां प्राप्तो विन्ध्ये पर्वतसत्तमे ॥ ५० ॥

मूलम्

ततो विनिर्गतस्तात श्वाभवं पापपीडितः
ततः स्थावरतां प्राप्तो विन्ध्ये पर्वतसत्तमे ॥ ५० ॥

विश्वास-प्रस्तुतिः

तत्रापि चिरकालेन स्थितं स्थावरतां दधत्
हस्तिना केनचित्तात मूलादुत्पाटितो बलात् ॥ ५१ ॥

मूलम्

तत्रापि चिरकालेन स्थितं स्थावरतां दधत्
हस्तिना केनचित्तात मूलादुत्पाटितो बलात् ॥ ५१ ॥

विश्वास-प्रस्तुतिः

तस्मिन्नेव ततः काले त्वया श्राद्धमकारि वै
अस्मिंस्तीर्थोत्तमे तात मुक्तोऽहं स्थावरात्ततः ॥ ५२ ॥

मूलम्

तस्मिन्नेव ततः काले त्वया श्राद्धमकारि वै
अस्मिंस्तीर्थोत्तमे तात मुक्तोऽहं स्थावरात्ततः ॥ ५२ ॥

विश्वास-प्रस्तुतिः

प्राप्तोऽयं यक्षराजस्य नगर्य्यां वास उत्तमः
देह्यनुज्ञां द्विजश्रेष्ठ यामि तां त्वत्प्रसादतः ॥ ५३ ॥

मूलम्

प्राप्तोऽयं यक्षराजस्य नगर्य्यां वास उत्तमः
देह्यनुज्ञां द्विजश्रेष्ठ यामि तां त्वत्प्रसादतः ॥ ५३ ॥

विश्वास-प्रस्तुतिः

त्वां दिदृक्षुरिहायातो दृष्टस्त्वं पुण्यदर्शनः
तीर्थं च सर्वतीर्थेषु श्रेष्ठं मधुवनं मया ॥ ५४ ॥

मूलम्

त्वां दिदृक्षुरिहायातो दृष्टस्त्वं पुण्यदर्शनः
तीर्थं च सर्वतीर्थेषु श्रेष्ठं मधुवनं मया ॥ ५४ ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
इत्युक्तस्तेन राजेन्द्र मुनिपुत्रः स धर्मवित्
पप्रच्छ शिरसा नम्य तं निजं प्रपितामहम् ॥ ५५ ॥

मूलम्

नारद उवाच-
इत्युक्तस्तेन राजेन्द्र मुनिपुत्रः स धर्मवित्
पप्रच्छ शिरसा नम्य तं निजं प्रपितामहम् ॥ ५५ ॥

विश्वास-प्रस्तुतिः

ऋषिरुवाच-
ब्राह्मणानां कुले तात जातोऽसि त्वं गरीयसि
कथं विहितवान्पापं भ्रूणहत्याभिधं गुरो ॥ ५६ ॥

मूलम्

ऋषिरुवाच-
ब्राह्मणानां कुले तात जातोऽसि त्वं गरीयसि
कथं विहितवान्पापं भ्रूणहत्याभिधं गुरो ॥ ५६ ॥

विश्वास-प्रस्तुतिः

येन निन्द्यां समापन्नो भवान्योनिपरं पराम्
समाचक्ष्व महाभाग यदि तत्स्मृतिरस्ति ते ॥ ५७ ॥

मूलम्

येन निन्द्यां समापन्नो भवान्योनिपरं पराम्
समाचक्ष्व महाभाग यदि तत्स्मृतिरस्ति ते ॥ ५७ ॥

विश्वास-प्रस्तुतिः

प्रपितामह उवाच-
पुराहं द्विजशार्दूल ब्राह्मणस्येव जन्मनि
मन्त्रयन्त्रविधानेन कृतवान्वृत्तिमात्मनः ॥ ५८ ॥

मूलम्

प्रपितामह उवाच-
पुराहं द्विजशार्दूल ब्राह्मणस्येव जन्मनि
मन्त्रयन्त्रविधानेन कृतवान्वृत्तिमात्मनः ॥ ५८ ॥

विश्वास-प्रस्तुतिः

धनलोभेन नारीणां गर्भार्थमहमौषधम्
दत्तवांश्चैव नाशाय दैवोपहतचेतनः ॥ ५९ ॥

मूलम्

धनलोभेन नारीणां गर्भार्थमहमौषधम्
दत्तवांश्चैव नाशाय दैवोपहतचेतनः ॥ ५९ ॥

विश्वास-प्रस्तुतिः

लोभो हि धनहीनानां जनानां ज्ञानमाहरेत्
शुचिकाले दिनाधीशः कुल्यानामिव जीवनम् ॥ ६० ॥

मूलम्

लोभो हि धनहीनानां जनानां ज्ञानमाहरेत्
शुचिकाले दिनाधीशः कुल्यानामिव जीवनम् ॥ ६० ॥

विश्वास-प्रस्तुतिः

ज्ञाने नष्टे जनस्तात पापमाचरते ध्रुवम्
पापान्नरकमाप्नोति ततो याति कुयोनिताम् ॥ ६१ ॥

मूलम्

ज्ञाने नष्टे जनस्तात पापमाचरते ध्रुवम्
पापान्नरकमाप्नोति ततो याति कुयोनिताम् ॥ ६१ ॥

विश्वास-प्रस्तुतिः

काचिदेका तदा नारी गुर्विणी मामपृच्छत
किं जनिष्याम्यहं विप्र पुत्रं वेत्यथ वा स्त्रियम् ॥ ६२ ॥

मूलम्

काचिदेका तदा नारी गुर्विणी मामपृच्छत
किं जनिष्याम्यहं विप्र पुत्रं वेत्यथ वा स्त्रियम् ॥ ६२ ॥

विश्वास-प्रस्तुतिः

तदाहमुक्तवांस्तां वै तव कन्या भविष्यति
पुत्रोत्पत्तिकृते तुभ्यं प्रदास्यामि महौषधम् ॥ ६३ ॥

मूलम्

तदाहमुक्तवांस्तां वै तव कन्या भविष्यति
पुत्रोत्पत्तिकृते तुभ्यं प्रदास्यामि महौषधम् ॥ ६३ ॥

विश्वास-प्रस्तुतिः

इत्युक्ता च मया नारी दुर्बुद्धिस्त्रीशिरोमणिः
जग्राह मम पादौ तु दत्तं हेमपलं च मे ॥ ६४ ॥

मूलम्

इत्युक्ता च मया नारी दुर्बुद्धिस्त्रीशिरोमणिः
जग्राह मम पादौ तु दत्तं हेमपलं च मे ॥ ६४ ॥

विश्वास-प्रस्तुतिः

इत्युवाच च सा मह्यं षट्कन्याजनिता मया
सप्तमीयं त्वया चोक्ता जीविष्ये स्या न जन्मनि ॥ ६५ ॥

मूलम्

इत्युवाच च सा मह्यं षट्कन्याजनिता मया
सप्तमीयं त्वया चोक्ता जीविष्ये स्या न जन्मनि ॥ ६५ ॥

विश्वास-प्रस्तुतिः

तथा कुरु महाबुद्धे यथाहं वै न कन्यकाम्
जनयिष्यामि विप्रान्यां निजप्राणविनाशिनीम् ॥ ६६ ॥

मूलम्

तथा कुरु महाबुद्धे यथाहं वै न कन्यकाम्
जनयिष्यामि विप्रान्यां निजप्राणविनाशिनीम् ॥ ६६ ॥

विश्वास-प्रस्तुतिः

इत्याकर्ण्य वचस्तस्यास्तामहं पुनरुक्तवान्
प्रसूतिकाले दास्यामि पुत्रोत्पाद्यहमौषधम् ॥ ६७ ॥

मूलम्

इत्याकर्ण्य वचस्तस्यास्तामहं पुनरुक्तवान्
प्रसूतिकाले दास्यामि पुत्रोत्पाद्यहमौषधम् ॥ ६७ ॥

विश्वास-प्रस्तुतिः

तथेति सा वचो मह्यं प्रतिश्रुत्य गता गृहम्
अपेक्षमाणा तं कालं तस्थौ वाक्यप्रतीतिकृत् ॥ ६८ ॥

मूलम्

तथेति सा वचो मह्यं प्रतिश्रुत्य गता गृहम्
अपेक्षमाणा तं कालं तस्थौ वाक्यप्रतीतिकृत् ॥ ६८ ॥

विश्वास-प्रस्तुतिः

तस्यां गतायां भो तात चिन्तया भवमातुरः
इत्यहं द्विजशार्दूल तच्छृणुष्व वदामि ते ॥ ६९ ॥

मूलम्

तस्यां गतायां भो तात चिन्तया भवमातुरः
इत्यहं द्विजशार्दूल तच्छृणुष्व वदामि ते ॥ ६९ ॥

विश्वास-प्रस्तुतिः

पुत्रोत्पत्तिप्रतीतेयं मह्यं दत्तवती पलम्
सुवर्णस्य न जानामि किमस्याः सम्भविष्यति ॥ ७० ॥

मूलम्

पुत्रोत्पत्तिप्रतीतेयं मह्यं दत्तवती पलम्
सुवर्णस्य न जानामि किमस्याः सम्भविष्यति ॥ ७० ॥

विश्वास-प्रस्तुतिः

किमत्र करणीयं मे कथमेतत्सुवर्णकम्
पलप्रमाणं तिष्ठेद्वै दरिद्रस्य गृहे मम ॥ ७१ ॥

मूलम्

किमत्र करणीयं मे कथमेतत्सुवर्णकम्
पलप्रमाणं तिष्ठेद्वै दरिद्रस्य गृहे मम ॥ ७१ ॥

विश्वास-प्रस्तुतिः

एवं विमृश्य तद्दास्यास्तस्यै हस्तेन दापितम्
गर्भपातकरं तात मया दारुणमौषधम् ॥ ७२ ॥

मूलम्

एवं विमृश्य तद्दास्यास्तस्यै हस्तेन दापितम्
गर्भपातकरं तात मया दारुणमौषधम् ॥ ७२ ॥

विश्वास-प्रस्तुतिः

तेनौषधेन तस्यास्तु गर्भस्रावेऽभवत्तदा
मासे तृतीये न ज्ञातं चिह्नं पुरुषकन्ययोः ॥ ७३ ॥

मूलम्

तेनौषधेन तस्यास्तु गर्भस्रावेऽभवत्तदा
मासे तृतीये न ज्ञातं चिह्नं पुरुषकन्ययोः ॥ ७३ ॥

विश्वास-प्रस्तुतिः

तदा सा मद्गृहं प्राप्ता विषण्णा गर्भस्रावतः
अथार्थयत्सुवर्णं तन्निराशा पुत्रजन्मनि ॥ ७४ ॥

मूलम्

तदा सा मद्गृहं प्राप्ता विषण्णा गर्भस्रावतः
अथार्थयत्सुवर्णं तन्निराशा पुत्रजन्मनि ॥ ७४ ॥

विश्वास-प्रस्तुतिः

तदाहमिष्टकाचूर्णं भस्मना च समन्वितम्
हरिद्राचूर्णसंयुक्तं साम्बु तस्यै अदर्शयम् ॥ ७५ ॥

मूलम्

तदाहमिष्टकाचूर्णं भस्मना च समन्वितम्
हरिद्राचूर्णसंयुक्तं साम्बु तस्यै अदर्शयम् ॥ ७५ ॥

विश्वास-प्रस्तुतिः

एतच्चूर्णं कृतं मातस्त्वत्पुत्रोत्पत्तये मया
त्वद्दानाद्द्विगुणं द्रव्यं लग्नमेतस्य साधने ॥ ७६ ॥

मूलम्

एतच्चूर्णं कृतं मातस्त्वत्पुत्रोत्पत्तये मया
त्वद्दानाद्द्विगुणं द्रव्यं लग्नमेतस्य साधने ॥ ७६ ॥

विश्वास-प्रस्तुतिः

इत्युक्त्वा सा मया तात त्यक्त्वा चूर्णं गृहं ययौ
मामुक्त्वेति गृहीष्यामि काले त्वत्तो द्विजोत्तम ॥ ७७ ॥

मूलम्

इत्युक्त्वा सा मया तात त्यक्त्वा चूर्णं गृहं ययौ
मामुक्त्वेति गृहीष्यामि काले त्वत्तो द्विजोत्तम ॥ ७७ ॥

विश्वास-प्रस्तुतिः

एवं मया कृता तात भ्रूणहत्यातिदारुणा
ययातिकुत्सिते योनित्रितये भ्रमितं मया ॥ ७८ ॥

मूलम्

एवं मया कृता तात भ्रूणहत्यातिदारुणा
ययातिकुत्सिते योनित्रितये भ्रमितं मया ॥ ७८ ॥

विश्वास-प्रस्तुतिः

त्वत्प्रसादादहं मुक्तः साम्प्रतं स्थावरत्वतः
देह्यनुज्ञां मुनिश्रेष्ठ याम्यहं ह्यलकां शुभाम् ॥ ७९ ॥

मूलम्

त्वत्प्रसादादहं मुक्तः साम्प्रतं स्थावरत्वतः
देह्यनुज्ञां मुनिश्रेष्ठ याम्यहं ह्यलकां शुभाम् ॥ ७९ ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
एवमुक्त्वा तु राजेन्द्र तस्य तु प्रपितामहः
तेनाभिवन्दितो मूर्ध्ना प्रययौ दिशमुत्तराम् ॥ ८० ॥

मूलम्

नारद उवाच-
एवमुक्त्वा तु राजेन्द्र तस्य तु प्रपितामहः
तेनाभिवन्दितो मूर्ध्ना प्रययौ दिशमुत्तराम् ॥ ८० ॥

विश्वास-प्रस्तुतिः

विमानेन विचित्रेण किङ्किणीजालमालिना
नृत्यद्गन्धर्वजुष्टेन मणिप्राकारशोभिना ॥ ८१ ॥

मूलम्

विमानेन विचित्रेण किङ्किणीजालमालिना
नृत्यद्गन्धर्वजुष्टेन मणिप्राकारशोभिना ॥ ८१ ॥

विश्वास-प्रस्तुतिः

अथ तस्य महाराज विप्रस्य प्रपितामही
उवाच स्वप्रपौत्रं तं विमानवरमास्थिता ॥ ८२ ॥

मूलम्

अथ तस्य महाराज विप्रस्य प्रपितामही
उवाच स्वप्रपौत्रं तं विमानवरमास्थिता ॥ ८२ ॥

विश्वास-प्रस्तुतिः

प्रपितामह्युवाच
नान्यत्र कुत्र गन्तासि पुण्येनानेन सुव्रत
विना पद्मापतेः पादपद्मचिह्नितमन्दिरम् ॥ ८३ ॥

मूलम्

प्रपितामह्युवाच
नान्यत्र कुत्र गन्तासि पुण्येनानेन सुव्रत
विना पद्मापतेः पादपद्मचिह्नितमन्दिरम् ॥ ८३ ॥

विश्वास-प्रस्तुतिः

अयं मम पतिः पापो मुने त्वत्प्रपितामहः
वारितोऽपि मया पापमाचचार सुदुष्टधीः ॥ ८४ ॥

मूलम्

अयं मम पतिः पापो मुने त्वत्प्रपितामहः
वारितोऽपि मया पापमाचचार सुदुष्टधीः ॥ ८४ ॥

विश्वास-प्रस्तुतिः

सोऽपि त्वयातिपापात्मा तारितो दुःखसागरात्
शक्यते केन वै कर्तुं तावकं गुणवर्णनम् ॥ ८५ ॥

मूलम्

सोऽपि त्वयातिपापात्मा तारितो दुःखसागरात्
शक्यते केन वै कर्तुं तावकं गुणवर्णनम् ॥ ८५ ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
इत्युक्त्वा सापि राजेन्द्र पतिलोकं जगाम ह
अलकायां चिरं पत्या तेनैव मुमुदे सह ॥ ८६ ॥

मूलम्

नारद उवाच-
इत्युक्त्वा सापि राजेन्द्र पतिलोकं जगाम ह
अलकायां चिरं पत्या तेनैव मुमुदे सह ॥ ८६ ॥

विश्वास-प्रस्तुतिः

अथ ते मुनिपुत्रस्य सर्वे मातामहादयः
सपत्नीकाः समारुह्य विमानेषु ययुर्दिवम् ॥ ८७ ॥

मूलम्

अथ ते मुनिपुत्रस्य सर्वे मातामहादयः
सपत्नीकाः समारुह्य विमानेषु ययुर्दिवम् ॥ ८७ ॥

विश्वास-प्रस्तुतिः

सोऽपि द्विजवरस्तस्मात्तीर्थात्स्वपितुराश्रमम्
गत्वा तं सर्ववृत्तान्तं स्वपित्रे समवर्णयत् ॥ ८८ ॥

मूलम्

सोऽपि द्विजवरस्तस्मात्तीर्थात्स्वपितुराश्रमम्
गत्वा तं सर्ववृत्तान्तं स्वपित्रे समवर्णयत् ॥ ८८ ॥

विश्वास-प्रस्तुतिः

सोऽपि तत्र गतः सार्द्धं कुटुम्बेन वने मधोः
चकार पर्णशालां वै विश्रान्तेस्तु समीपतः ॥ ८९ ॥

मूलम्

सोऽपि तत्र गतः सार्द्धं कुटुम्बेन वने मधोः
चकार पर्णशालां वै विश्रान्तेस्तु समीपतः ॥ ८९ ॥

विश्वास-प्रस्तुतिः

तत्र विश्रान्ततीर्थं तु त्रिकालं स्नानमाचरन्
नाकरोद्विष्णुलोकेऽपि स्पृहां स मुनिसत्तमः ॥ ९० ॥

मूलम्

तत्र विश्रान्ततीर्थं तु त्रिकालं स्नानमाचरन्
नाकरोद्विष्णुलोकेऽपि स्पृहां स मुनिसत्तमः ॥ ९० ॥

विश्वास-प्रस्तुतिः

एकदा जलमध्ये स स्नानं कुर्वन्मुनिर्नृप
आचकाङ्क्षे च भवता कदा मे हरिदर्शनम् ॥ ९१ ॥

मूलम्

एकदा जलमध्ये स स्नानं कुर्वन्मुनिर्नृप
आचकाङ्क्षे च भवता कदा मे हरिदर्शनम् ॥ ९१ ॥

विश्वास-प्रस्तुतिः

एवं कामयमानस्य मुनिवर्यस्य भूपते
आजगाम त्वरायुक्तो पक्षिराजासनो हरिः ॥ ९२ ॥

मूलम्

एवं कामयमानस्य मुनिवर्यस्य भूपते
आजगाम त्वरायुक्तो पक्षिराजासनो हरिः ॥ ९२ ॥

विश्वास-प्रस्तुतिः

लक्ष्म्या वक्षःस्थया सार्द्धं चतुर्बाहुधरो हरिः
नवीनघनवर्णाङ्गो विद्युद्वर्णाम्बरावृतः ॥ ९३ ॥

मूलम्

लक्ष्म्या वक्षःस्थया सार्द्धं चतुर्बाहुधरो हरिः
नवीनघनवर्णाङ्गो विद्युद्वर्णाम्बरावृतः ॥ ९३ ॥

विश्वास-प्रस्तुतिः

कौस्तुभोद्भासि सद्वक्षाः शङ्खचक्रगदाब्जभृत्
वनमालालसत्कण्ठो मकराकृतिकुण्डलः ॥ ९४ ॥

मूलम्

कौस्तुभोद्भासि सद्वक्षाः शङ्खचक्रगदाब्जभृत्
वनमालालसत्कण्ठो मकराकृतिकुण्डलः ॥ ९४ ॥

विश्वास-प्रस्तुतिः

फुल्लाम्बुजपलाशाक्षः स्वलकालं कृताननः
विद्रुमाकारकरजोरुणहस्ताङ्घ्रिसत्तलः ॥ ९५ ॥

मूलम्

फुल्लाम्बुजपलाशाक्षः स्वलकालं कृताननः
विद्रुमाकारकरजोरुणहस्ताङ्घ्रिसत्तलः ॥ ९५ ॥

विश्वास-प्रस्तुतिः

उवाच तं द्विजश्रेष्ठं दन्तभासा विभासयन्
शरन्निशापतिस्तोम तिरस्कारकृतादिशः ॥ ९६ ॥

मूलम्

उवाच तं द्विजश्रेष्ठं दन्तभासा विभासयन्
शरन्निशापतिस्तोम तिरस्कारकृतादिशः ॥ ९६ ॥

विश्वास-प्रस्तुतिः

श्रीभगवानुवाच-
भोभो द्विजवरैतन्मे तीर्थं मधुवनं शुभम्
विश्रान्तसञ्ज्ञकं स्नानात्सर्वकामोपपादकम् ॥ ९७ ॥

मूलम्

श्रीभगवानुवाच-
भोभो द्विजवरैतन्मे तीर्थं मधुवनं शुभम्
विश्रान्तसञ्ज्ञकं स्नानात्सर्वकामोपपादकम् ॥ ९७ ॥

विश्वास-प्रस्तुतिः

अत्र त्वया स्नानकाले वाञ्छितं मम दर्शनम्
तुभ्यं हि तन्मया दत्तं ब्रह्मादिसुरदुर्लभम् ॥ ९८ ॥

मूलम्

अत्र त्वया स्नानकाले वाञ्छितं मम दर्शनम्
तुभ्यं हि तन्मया दत्तं ब्रह्मादिसुरदुर्लभम् ॥ ९८ ॥

विश्वास-प्रस्तुतिः

त्यज देहमिमं विप्र मानुषं दिव्यमाप्नुहि
आयाहि मद्गृहं सार्द्धं मयारुह्य खगेश्वरम् ॥ ९९ ॥

मूलम्

त्यज देहमिमं विप्र मानुषं दिव्यमाप्नुहि
आयाहि मद्गृहं सार्द्धं मयारुह्य खगेश्वरम् ॥ ९९ ॥

नारद उवाच-
इत्याकर्ण्यवचस्तस्य श्रीपतेः स मुनीश्वरः
तुष्टाव प्रणतो भूत्वा जल एव विशाम्पते १००
मुनिरुवाच-
श्रीपते श्रीमदम्भोज सम्मर्दितपदाम्बुजम्
भवतो भवतापघ्नं वन्दे त्रिदशवन्दितम् १०१
त्वदीय मायया नाथ मोहिता येऽत्र जन्तवः
तेषां कदाचिन्निस्तारो न कृपामन्तरेण ते १०२
सत्तीर्थसेवनादीश तथा सज्जनसङ्गमात्
पुसां भक्तिस्तु येषां वै जायते कृपया तव १०३
साधुभिर्बहुभिरीरितं हरे यो निशम्य गुणकीर्त्तनं तव
कीर्तयत्यखिलपापनाशनं मातृगर्भकुहरे स नो पतेत् १०४
श्रीपते तव जनस्य मानसं दैवतस्तु पतितं महारणे
गुण्ठितं च रजसा जहाति नो निर्मलत्वमिव रत्नमुत्तमम् १०५
यः पुमान्पतति ते पदाम्बुजे दण्डवत्पुलकमङ्गके दधत्
सोन्वयं नयति तावकं पदं स्वं च वाञ्छितमशेषयोगिभिः १०६
जीव एव तव मायया विभो मोहितो भ्रमति विश्ववर्त्मसु
त्वत्कृपाललितलोचनाञ्चलैस्तत्क्षणं तरति विश्ववारिधिम् १०७
नारद उवाच-
इति संस्तुत्य गोविन्दं दण्डवत्तस्य पादयोः
पपात स मुनिश्रेष्ठो जयेति मुहुरीरयन् १०८
श्रीपतिस्तं मुनिश्रेष्ठं दण्डवत्पतितं भुवि
उत्थाप्य बाहुभिस्तूर्णं सुपर्णे समरोपयत् १०९
तत्कुटुम्बं च विश्वात्मा वैकुण्ठं च जगाम ह
इत्येतत्कथितं राजन्शिवे मधुवनस्य वै ११०
महात्म्यं सर्वपापघ्नं किमन्यच्छ्रोतुमिच्छसि
य इदं शृणुयान्मर्त्यः सर्वपापैः प्रमुच्यते १११
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे कालिन्दीमाहात्म्ये मधुवनमाहात्म्यन्नाम चतुर्दशाधिकद्विशततमोऽध्यायः २१४