नारद उवाच-
विश्वास-प्रस्तुतिः
एतन्मधुवनं तात शिवे परमपावनम्
देवराजाय तुष्टेन स्थापिता विष्णुना पुरी ॥ १ ॥
मूलम्

अत्र विश्रान्तिनामेदं तीर्थं त्रिभुवनोत्तमम्
विविदां मुक्तिदं पुंसां पवनं साधुसेवितम् ॥ २ ॥

नित्यं वसति विश्वात्मा विष्णुः श्रीकोलरूपधृक्
अत्र तीर्थोत्तमे पुण्ये नृपविश्रान्तिसञ्ज्ञके ॥ ३ ॥

बहुभिर्जन्मभिर्येन विष्णुराराधितः सदा
मरणं तस्य तीर्थेऽस्मिन्जायते किल भूपते ॥ ४ ॥

कालिन्द्या एव कूले तु द्वितीयं हरिणा कृतम्
तीर्थे विश्रान्तिसञ्ज्ञं तु यत्र कंसो निपातितः ॥ ५ ॥

एतद्द्वयं समं राजन्गुणैर्वैकुण्ठदातृभिः
भाग्योदयेन केनापि लभ्यते सकलार्थदम् ॥ ६ ॥

अथ तीर्थस्य माहात्म्यं कथयामि तवाग्रतः
यच्छ्रुत्वा सर्वतीर्थेषु मज्जनाल्लप्स्यसे फलम् ॥ ७ ॥

हिमाचलोपत्यकायां किरातनगरे शुभे
ब्राह्मणो नाम कुशलो राजन्नासीद्दरिद्रतः ॥ ८ ॥

तस्य पत्नी दुराचारा दुराचारनरे रता
कर्मणा मोहयामास पतिं सा बन्धकी वरा ॥ ९ ॥

पतिस्तया मोहितस्तु न निवारयितुं क्षमः
तदाज्ञा तत्परो दीनः क्रयक्रीतइवाभवत् ॥ १० ॥

लोका उपहरन्ति स्म तं द्विजं कुलटापतिम्
उपहासभयात्सोऽपि निर्ययौ न गृहात् कुधीः ॥ ११ ॥

महार्हाणि दुकूलानि भूषणानि च सा दधौ
जारैर्दत्तानि दुष्टात्मा हसितापि न लज्जते ॥ १२ ॥

वस्त्रं पुरातनं दास्यादुत्तीर्णं यच्छरीरतः
अवज्ञापूर्वकं दुष्टा स्वभर्त्रे सम्प्रयच्छति ॥ १३ ॥

एवं तया कुलटया सोऽवज्ञातं स्वकः पतिः
नितान्तं दुःखमापन्नो विषमत्त्वामृतो निशि ॥ १४ ॥

सा भीता राजतः पापा ह्यनयात्स्वैरिणी तदा
अनुयास्यामि भर्त्तारमित्युवाच मृषा वचः ॥ १५ ॥

तयैवं शिक्षिता सख्यः स्वकीयस्तां समीपगाः
निवारयामासुरिति कथयित्वा महीपतेः ॥ १६ ॥

सख्य ऊचुः -
भो मृगाक्षि किमर्थं ते क्रियतेऽनर्थ ईदृश
यत्सुवर्णनिभं कायं त्वं नाशयितुमुद्यता ॥ १७ ॥

भवत्या किं सुखं दृष्टममुष्या व्यवसायिनः
दरिद्रस्यासमर्थस्य सखि स्वोदरपूरिणः ॥ १८ ॥

पालयैनं सुतं बालं त्वदृते कोऽस्य पालकः
मरिष्यामो वयं सर्वा मृतायां त्वयि सुन्दरि ॥ १९ ॥

गृहमेतदवेक्षस्व समुत्तिष्ठवरानने
जीयादयं तव सुतोयस्त्रीभाविसुखप्रदः ॥ २० ॥

वाञ्छन्ति बान्धवाः सर्वे त्वदीयास्तव जीवितम्
उत्तिष्ठ निजबन्धूनां कुरु चित्तं समीहितम् ॥ २१ ॥

रुदन्ति तव रागेण वयस्याः सकलाः सति
निजवाक्यप्रदानेन वारयैताः सुदुःखिताः ॥ २२ ॥

इत्याकर्ण्य वचस्तासां दुष्टा सा धर्मविश्रुतम्
उन्नमय्य मुखं प्राह श्रावयन्ती स्वबान्धवान् ॥ २३ ॥

सख्युवाच-
युष्माभिर्यद्वचो धर्मं प्रोक्तं जाने ऋतं ननु
तथापि स्वपतिः स्त्रीभिर्मान्यो लोकद्वयप्रदः ॥ २४ ॥

यदुच्यते मया वाक्यं धर्मशास्त्रसमन्वितम्
तद्वचः श्रूयतां सख्यो युक्तं चेदनुमोदत ॥ २५ ॥

या स्त्री निधनमापन्नं पतिमन्वेति तत्परा
पापापि सह तेनैव स्वर्गे वसति सा चिरम् ॥ २६ ॥

स्त्रीभिः पतिर्न हातव्यो निर्धनो रोगवानपि
जीवन्मृतोऽनुगन्तव्यः श्रुतिरेषा सनातनी ॥ २७ ॥

विचिन्त्येति स्वमनसि सख्योन्वेमि स्वकं पतिम्
वर्तिष्यते स्वभाग्येन करिष्येऽहं किमस्य वै ॥ २८ ॥

इत्युक्तास्तास्तया सख्यो दुष्टा दुष्टमतिप्रदाः
ऊचुस्तां धर्मवाक्येन समस्तजनमोहिनीम् ॥ २९ ॥

जहि पूर्वं हि नः सुभ्रु पश्चादन्वेहि वल्लभे
समस्तास्त्वद्वियोगं न वयं सोढुं क्षमामहे ॥ ३० ॥

अस्मांस्तव विनिघ्नन्त्या अनुयान्त्याः स्वकं पतिम्
धर्मोऽल्पपापबाहुल्यं स्वर्गप्राप्तिस्तु कीदृशी ॥ ३१ ॥

जीवन्नयं पतिः स्वीयः साध्वयं प्रतिपालितः
यदुक्तं पतिपत्नीभ्यां तत्त्वया विहितं सखी ॥ ३२ ॥

यावत्स्वजीवनोपायं विधातुमयमक्षमः
तावत्त्वदीयभाग्येन जीविष्यति सुतस्तव ॥ ३३ ॥

इत्युक्ता सा निववृते स्वभर्त्तुरनुयानतः
सुतेन कारयामास तदा तद्विरतिक्रियाम् ॥ ३४ ॥

अथ कालेन कियता सुतोपनयने मतिम्
कारयामास सा विप्रैर्दत्त्वा जारार्पितं धनम् ॥ ३५ ॥

कृतोपनयनः कुण्डः स तत्त्वज्ञानवान्शिशुः
गृहान्निर्गम्य सपदि नारायणपरोऽभवत् ॥ ३६ ॥

सतां सङ्गतिमासाद्य त्यक्त्वा स्वं प्राकृतं वपुः
आरुरोह निजं लोकमप्राप्यं योगिभिश्च तत् ॥ ३७ ॥

अथ सा निर्गते पुत्रे मनो दुःखं चकार वै
तस्मिन्नेव दिने राजन्भूयो जारैः सहारमत् ॥ ३८ ॥

इति तै रममाणायां तस्यां जारैः समं नृप
समागता जरा काले लावण्यमदनाशिनी ॥ ३९ ॥
मूलम्
इति तै रममाणायां तस्यां जारैः समं नृप
समागता जरा काले लावण्यमदनाशिनी ॥ ३९ ॥
विश्वास-प्रस्तुतिः
त्यक्तोपपतिभिर्दृष्टा सा जराग्रस्तविग्रहा
बभूव दूतिकान्यासं कुलशीलविनाशिनी ॥ ४० ॥

तदा ह्येकस्य विप्रस्य सवत्सां गामपाहरत्
विक्रीता कियता राजन्द्रव्येण ननु सा तया ॥ ४१ ॥

तयेति गमितः कालो दूतित्वेन कियान्नृप
पश्चाच्छुष्करशरीरोऽस्या विगुणः समजायत ॥ ४२ ॥

तस्याः कुष्ठे समुत्पन्ने गलितं ह्यङ्गपञ्चकम्
हस्तौ पादौ च नृपते पञ्चमा नासिका तदा ॥ ४३ ॥

एवम्भूता यदाहारं न लभेत कुतश्चन
तदा तु तत्रोदितया दास्या सा नीयता पणम् ॥ ४४ ॥

तत्र सा पतिता पापा लोकान्सम्प्रार्थ्य दीनया
गिरा धिगिति कुर्वाणा चक्रे स्वोदरपूरणम् ॥ ४५ ॥

तदिहाभ्यासवर्त्त्ये को द्विजः सर्वागमार्थवित्
तां विलोक्य महावाग्मी प्रोवाचेदं वचो नृप ॥ ४६ ॥

जनानां दुःखदं पापमिहलोके परत्र च
तस्मात्पापं न कर्त्तव्यं मानवैर्दुःखभीरुभिः ॥ ४७ ॥

पापं कृत्वा जनो यस्तु प्रायश्चित्तं करोति वै
न तदाचरिते भूयो न तत्फलमवाप्नुयात् ॥ ४८ ॥

यः कृत्वा मुहुरेनांसि प्रायश्चित्तं करोति न
तस्यास्या इव पापाया गतिरत्र परत्र च ॥ ४९ ॥

अनया पापसङ्घातो लोकेऽत्र समुपार्जितः
इहैव तत्फलं भुङ्क्ते भोक्ष्यते नरकेऽप्यसौ ॥ ५० ॥

सर्वशास्त्रेषु दृष्टं वै सर्वेषां पापकर्मणाम्
प्रायश्चित्तं न च स्त्रीणां विन्मुखानां तु कर्मणः ॥ ५१ ॥

इत्युक्त्वा स द्विजश्रेष्ठो नमस्कृत्य रविं ययौ
विष्णुं संस्मृत्य संस्मृत्य भीतस्तदवलोकनात् ॥ ५२ ॥

एवं सा दुःखमापन्ना भुञ्जाना कर्मणः फलम्
अर्जितस्य स्वयं राजन्मृता कतिपयैर्दिनैः ॥ ५३ ॥

न तस्या अग्निसंस्कारः सञ्जातः पापकर्मणः
आकृष्य केशे सा नीता श्वपचैर्नगराद्बहिः ॥ ५४ ॥

मरणावसरे तस्या यमभृत्याः समागताः
प्रापप्य यातनादेहं तां निन्युर्भास्करेः पुरीम् ॥ ५५ ॥

सौम्यः सधर्मिणां देवः साक्षाद्गुह्यस्तु पापिनाम्
तस्या विलोकनाद्भूयः सोप्यभूद्वै पराङ्मुखः ॥ ५६ ॥

भृत्यानाज्ञापयामास यम एव पराङ्मुखः
रौरवे नरके घोरे पात्यतां सा मयेरिता ॥ ५७ ॥

इत्युक्तास्ते तदा भृत्या नीत्वा तां घोररौरवे
न्यपातयन्नधोववक्त्रां स्मरन्तीं कर्म यत्कृतम् ॥ ५८ ॥

एकमन्वन्तरं यावत्सा स्थित्वा तत्र रौरवे
पश्चाद्गोधा समुत्पन्ना श्मशाने मृतमांसभुक् ॥ ५९ ॥

तत्रापि सा वर्षशतं लेभे दुःखं स्वकर्मणः
फलं मृतकमांसे कुर्वत्याहारमुत्कटम् ॥ ६० ॥

एकदा स मुनेः पुत्रो योऽस्या कुक्षौ व्यजायत
विप्रयोनौ समायातः श्मशाने तत्र पर्यटन् ॥ ६१ ॥

मुनिपुत्रस्तु तां वीक्ष्य मृतानां क्रव्यमश्नतीम्
ध्यात्वा क्षणं स्वमनसि बुबुधे तां स्वमातरम् ॥ ६२ ॥

स उवाचात्मनात्मानं बुद्ध्वा तां निजमातरम्
मुनिपुत्र उवाच-
एतां तु तारयाम्यद्य दुस्तराद्दुःखवारिधेः ॥ ६३ ॥

अहो न मुच्यते जन्तुर्जातपापेन कर्मणा
आत्मनोपार्जितेनैव भोगकालावधिं विना ॥ ६४ ॥

अस्याः कालो व्यतीयाय निरये मानवाभिधः
साम्प्रतं च जनैस्त्वत्र वत्सराणां शतं गतम् ॥ ६५ ॥

कियदग्रे च भोक्तव्यमेतया पापमुल्बणम्
नारद उवाच
इत्यालोच्य पुनर्दध्यौ ज्ञानेनामील्य चक्षुषी ॥ ६६ ॥

दृष्ट्वा तस्या गतिं घोरां पापाया दिव्यचक्षुषा
पुनरात्मानमादेहं स द्विजप्रवरो नृप ॥ ६७ ॥
मूलम्
दृष्ट्वा तस्या गतिं घोरां पापाया दिव्यचक्षुषा
पुनरात्मानमादेहं स द्विजप्रवरो नृप ॥ ६७ ॥
विश्वास-प्रस्तुतिः
मुनिपुत्र उवाच-
अहो कल्पशतेनापि निस्तारोऽस्या न दृश्यते
विना सत्तीर्थमरणं शरणं वा रमापतेः ॥ ६८ ॥

अथवा पिण्डदानेन गयायां मत्कृतेन च
विनास्याः सद्गतिं नैव कल्पकोटिशतैरपि ॥ ६९ ॥

न घटेत द्वयं चास्या अस्यां योनौ कदाचन
तत्तीर्थविषये मृत्युः सेवायां श्रीपते रतिः ॥ ७० ॥

अस्या उद्धारहेतुर्वै मग्नायाः पापसागरे
भविता मत्कृतं श्राद्धं गयाया च हित्रकम् ॥ ७१ ॥

इत्यालोच्य स धर्मात्मा ययौ स्वपितुराश्रमम्
आचख्यौ पितरं सर्वं स्वमातुर्दुःखकारणम् ॥ ७२ ॥

निशम्य पुत्रवचनं मातृदुःखनिवेदकम्
उवाच स मुनिश्रेष्ठः पुत्रं प्रणतकन्धरम् ॥ ७३ ॥

मुनिरुवाच-
हे तात मातरं स्वीयां शीघ्रमुद्धर दुर्गतेः
नयविद्भूपतिः शत्रोर्जयलक्ष्मीमिवाहवे ॥ ७४ ॥

न तारयति यः पुत्रो मातरं पितरं स्वकम्
दुःखात्स याति नरकं यदि तारयितुं क्षमः ॥ ७५ ॥

स्वपुत्रात्प्राप्य पानीयं पिण्डाश्च वरतीर्थके
पितरो नरकात्स्वर्गं स्वर्गाद्यान्ति हरेः पदम् ॥ ७६ ॥

तस्मादाशु समुत्तिष्ठ गच्छ खाण्डवकानने
तत्रास्ति यमुना पुण्या मुनिवर्यनिषेविता ॥ ७७ ॥

तत्तीरेऽस्ति हरिप्रस्थं सर्वतीर्थमयं ततः
पुण्यं मधुवनं तत्र विष्णुना स्थापितं स्वयम् ॥ ७८ ॥

तत्र स्नात्वा तु विधिवत्कृत्वा नित्यक्रियां निजाम्
तामुद्दिश्य कुरु श्राद्धं स्वप्रसूं च कुरु क्रियाम् ॥ ७९ ॥

त्वया तत्र कृते श्राद्धे तस्याः सद्गतिमिच्छता
सा प्राप्स्यति हरेर्लोकं हित्वा गोधाङ्गमुल्बणम् ॥ ८० ॥

गयायां पिण्डदानेन यत्फलं तात जायते
ततः शतगुणं पुण्यं सद्भिर्मधुवने स्मृतम् ॥ ८१ ॥

इदानीं वर्तते तात कन्याराशिगतो रविः
पुत्र गत्वा कुरु श्राद्धं पूर्वानुद्दिश्य बान्धवान् ॥ ८२ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे कालिन्दीमाहात्म्ये त्रयोदशाधिकद्विशततमोऽध्यायः २१३