नारद उवाच-
विश्वास-प्रस्तुतिः
इत्युक्त्वा तस्य विप्रस्य पितरौ दिव्यरूपिणौ
विमानवरमारुह्य गतौ हरिपुरं प्रति ॥ १ ॥
मूलम्

तयोः पुत्रस्तु तत्रैव कोशलायां दिनत्रयम्
उषित्वा स्वगृहं प्रायात्चिन्तयंस्तीर्थवैभवम् ॥ २ ॥

इयमेव तु कथ्यन्ते विबुधैः कोशला नृप
कथयिष्यामि तत्तेऽहं श्रवणोत्सुकचेतसे ॥ ३ ॥

ते दाक्षिणात्या बटवस्तस्यामूषु मुमूर्षवः
समर्थार्थप्रदायिन्यां कोशलायां विपद्यताम् ॥ ४ ॥

कश्चिदेकस्तदा तेषु तामनादृत्य कोशलाम्
गच्छन्नारायणस्थानं विष्णुना वारितः पथि ॥ ५ ॥

वृद्धब्राह्मणरूपेण प्रोक्तं चेति द्विजं प्रति
वृद्धब्राह्मण उवाच-
क्व यासि ब्राह्मणश्रेष्ठ त्यक्त्वेमां कोशलां शुभाम् ॥ ६ ॥

इन्द्रप्रस्थमिदं तीर्थं सर्वतीर्थोत्तमं द्विज
कोशला ह्यत्र पुत्रेयं मुक्तिदा विष्णुवल्लभा ॥ ७ ॥

यत्र यासि विहायैनां निष्कामपददायिनीम्
न सिद्धिर्भविता तत्र विष्णुस्ते च पराङ्मुखः ॥ ८ ॥

मुक्तिं चेदिच्छसे विप्र तीर्थेन्या सम्प्रगृह्य च
यस्य यस्येच्छया स्नासि तं तं वर्गं प्रदास्यति ॥ ९ ॥

तव दृष्टिपथे विप्र सर्पोऽपि सुरतामियात्
अस्याः प्रसादतो मुक्तौ स्वर्गस्थौ विप्रदम्पती ॥ १० ॥

सञ्जातप्रत्ययोऽपि त्वमेतन्माहात्म्यदर्शनात्
लब्ध्वा भाग्योदयेनापि कथमेनां विमुञ्चसि ॥ ११ ॥

यथा कश्चित्तृषार्तोऽपि लब्ध्वाप्यमृतवारिधिम्
तं त्यक्त्वा याति पङ्काम्भस्तद्वत्त्वं मूढ दृश्यसे ॥ १२ ॥

यथा चिन्तामणिं कश्चित्कूपे क्षिपति मोहितः
हस्तस्थं या गतिस्तस्य दृश्यते सा गतिस्तव ॥ १३ ॥

आराध्य विष्णुं विश्वेशं यथा कश्चित्पुमान्कुधीः
सुखमैन्द्रियकं तुच्छं याचते सा गतिस्तव ॥ १४ ॥

न याति कोशलामेनां त्यक्त्वा सर्वार्थदायिनीम्
स्नातस्यात्र दिव प्राप्तिर्मृतस्यामृतसंस्थितिः ॥ १५ ॥

राजन्नाकर्ण्य विप्रोऽसौ द्विजश्रेयभृतो हरेः
वाक्यं प्रोवाच विप्राय श्रेष्ठं बदरिकाश्रमम् ॥ १६ ॥

विप्र उवाच-
भो भो विप्रवर श्रद्धा तव वाक्येन जायते
मम श्रुतवतः पूर्वमल्पग्रामस्य वैभवम् ॥ १७ ॥

इन्द्रप्रस्थमिदं तीर्थं न कदाचिन्मया श्रुतम्
कुतस्तु कोशलावृद्ध एतदन्तरवर्तिनी ॥ १८ ॥

यत्र नारायणः साक्षान्मुक्ता यत्र च योगिनः
मुक्त्वा तमाश्रमं पुण्यं तिष्ठाम्यत्र कथं द्विज ॥ १९ ॥

यथागत्य स्वयं विष्णुरित्युक्त्वा मां निवारयेत्
बदर्याश्चाधिकं क्षेत्रमिन्द्रप्रस्थमिदं द्विज ॥ २० ॥

तदाहं न प्रतिष्ठामि चालितोऽपि तमाश्रमम्
मुक्तिकामः स्वसदनान्नान्यथा स्थितिरत्र मे ॥ २१ ॥

इत्युक्ते तेन विप्रेण प्रादुरासीच्चतुर्भुजः
विहाय प्राकृतं रूपं दिव्यरूपधरो हरिः ॥ २२ ॥

उवाच च महाभागं तं द्विजं मोक्षकामुकम्
विष्णुरुवाच-
इन्द्रप्रस्थमिदं विप्र सर्वतीर्थोत्तमोत्तमम्
ब्रह्मज्ञेष्विव सर्वेषु शम्भुर्गङ्गानदीष्विव ॥ २३ ॥

हिमवानिव शैलेषु पक्षिराडिव पक्षिषु
त्रिदशेषु यथा शक्रो वैष्णवेष्विव नारदः ॥ २४ ॥

तेजस्विषु यथा सूर्यः क्षीराब्धिरिव चाब्धिषु
यथा वर्णेषु भूदेवः सृष्टिष्विव पितामहः ॥ २५ ॥

विष्णोर्यथावतारेषु कौशल्या जनितो वरः
तथा समस्ततीर्थेषु शक्रप्रस्थमिदं वरम् ॥ २६ ॥

निष्कामो वा सकामो वा याति तीर्थे क्वचिन्नरः
तत्र तत्र समस्तात्मा फलदाताहमेव वै ॥ २७ ॥

इन्द्रप्रस्थान्तरगतां त्यक्त्वा यो याति कोशलाम्
स नो फलमवाप्नोति भक्तो वरदवृन्दपात् ॥ २८ ॥

एवं निशम्य तद्वाक्यं दृष्ट्वा तद्रूपमुत्तमम्
प्रणिपत्य रमाकान्तं तस्यामेवागमद्द्विजः ॥ २९ ॥

भगवानपि विश्वात्मा सपद्यन्तर्दधे विभुः
तत्त्वमुद्दिश्य तं विप्रं तेन भावेन पूजितः ॥ ३० ॥

तत्रागत्य स विप्रोऽसौ कोशलायां नराधिप
कथयामास तद्वृत्तं सर्वं सर्वान्स्वसङ्गिनः ॥ ३१ ॥

तेपि श्रुत्वा महाभागा दाक्षिणात्या द्विजातयः
तस्यामनशनं कृत्वा तत्यजुः प्राकृतं वपुः ॥ ३२ ॥

तदेव गरुडारूढः श्रीविष्णुं समुपागतः
विमानैः स्वगणैः सार्द्धं तावद्भिर्दीप्तिभास्वरैः ॥ ३३ ॥

ते तं दृष्ट्वा समायान्तं विमानं गणसंयुतम्
वपुषा दिव्यरूपेण दण्डवत्पतिता भुवि ॥ ३४ ॥

तुष्टवुश्च द्विजाः सर्वे दिव्यज्ञानवपुर्द्धराः
तं दिव्यरूपिणं देवदेववन्द्यपदाम्बुजम् ॥ ३५ ॥

ब्राह्मणा ऊचुः -
नमस्तेऽतसीपुष्पसङ्काशभासं तनुं बिभ्रते पीतवासो वृताय
लसत्कुण्डलप्रोतनानोपलाय श्रुतौ चञ्चला व्यापिनीलाम्बुदाय ॥ ३६ ॥

भक्तिस्त्वदीया किल कल्पवल्ली समाश्रिता यच्छति चित्तवाञ्च्छितम्
यथा तथैषा तव कोशला विभो जनैरुभे ते कृपया तवाप्यते ॥ ३७ ॥

वन्दामहे ते चरणारविन्दं वृदांरकैर्वृन्दितमीश्वराद्यैः
विचिन्त्यमानं हृदि योगिवृन्दैः कन्दं परानन्दभुवो विमुक्तेः ॥ ३८ ॥

प्राप्ताः कामं श्रीपतेत्वत्स्वरूपं श्रीवत्साद्यैर्लक्षितं चारुचिह्नैः
वाञ्च्छामस्ते दासभावं तथापि प्राप्तं सर्वैरादृतं नारदाद्यैः ॥ ३९ ॥

यत्सौख्यं ते दासभावं गतानां तन्नो लक्ष्म्या वक्षसोन्तर्वसन्त्याः
तज्जानाति श्रीपते श्रीमहेशो नान्यो लोके येन तच्चानुभूतम् ॥ ४० ॥

मध्येऽस्माकं श्रीपते सेवकानां नीरागाणामप्यसौ माननीयः
अस्मात्तं ते नारदाद्या मुनीशास्त्वद्भक्ताप्तैर्लोकनाथं भजन्ते ॥ ४१ ॥

कामं ब्रह्मानन्दमासोन्तरात्मा त्वद्दास्ये नो तृप्तिमायाति शम्भुः
वारंवारं त्वद्गुणानाग्रहीतुं नृत्यत्युच्चैस्त्वत्परो भावयुक्तः ॥ ४२ ॥

हेतोरस्माद्देहिनः स्वस्य दास्यं यत्प्राप्तानां नोर्मयः सम्भवन्ति
त्वच्चिह्नाङ्गौ द्वारपालौ तदीयौ मोहाद्धामप्राप्य तौ तत्स्वकीयम् ॥ ४३ ॥

लोकादस्मादन्तरेण त्वदिच्छा त्वल्लोकानां नोद्यते चाशुपातः
को जानीयात्तावकीमत्र मायां दुर्विज्ञेयां ब्रह्म शर्वादिदेवैः ॥ ४४ ॥

एवं तैः स्तूयमानः स प्रभुर्निजपदोन्मुखः
उवाच तान्दाक्षिणात्यान्मेघगम्भीरया गिरा ॥ ४५ ॥

श्रीभगवानुवाच-
भोभो द्विजा भवन्तोऽस्या कोशलायाः प्रसादतः
सारूप्यमपि मे प्राप्ता दासभावं च यास्यथ ॥ ४६ ॥

अद्यप्रभृति मे विप्रास्तीर्थमेतदनुत्तमम्
दक्षिणकोशलेत्युच्चैर्नाम्ना ख्यातं भविष्यति ॥ ४७ ॥

यत्र दाशरथी भूत्वा निहनिष्यद्दशाननम्
सा कथ्यते मुनिवरैः सर्वैरुत्तरकोशला ॥ ४८ ॥

विपन्नो ज्ञानवान्यस्या वैकुण्ठमधिरोहति
विनापि तद्वसेद्योऽस्यां सोऽपि स्वर्गं च गच्छति ॥ ४९ ॥

इमां ततो दशगुणामाहुर्दक्षिणकोशलाम्
एकादशगुणामेके सम्यगाहुर्मुनीश्वराः ॥ ५० ॥

इयानेव विशेषोऽस्ति तस्या अस्या मतिर्मम
तस्यां मृतं नयन्त्येते वैकुण्ठं मामका गणाः ॥ ५१ ॥

अस्यां मृतं स्वयमहमनन्यवदमानसम्
आरोप्य गरुडं दत्त्वा सारूप्यं प्रापयामि तत् ॥ ५२ ॥

इत्युक्त्वा तान्द्विजान्विष्णुर्नीत्वा वैकुण्ठमभ्यगात्
महिमानं स्तुवन्नस्य स्वयं तीर्थस्य भूपते ॥ ५३ ॥

एतत्ते सर्वमाख्यातं कारणं जगतीपते
येनेयं कथ्यते विज्ञैरिह दक्षिणकोशला ॥ ५४ ॥

कलिमलकुलहन्ता शृण्वतां मानवानां कमलनयनपादप्राप्तये वाञ्च्छितश्च
नृपवर महिमा ते वर्णितः कोशलाया मधुवनभववृत्तं शृण्वतस्ते वदामि ॥ ५५ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे कालिन्दीमाहात्म्ये कोशलामहिमावर्णनन्नाम द्वादशाधिकद्विशततमोऽध्यायः २१२